०४ गार्हपत्यचयनम्

४,८,१०, १३- १४ अनुष्टुप् , १, ५-७, ९त्रिष्टुप्, अग्निर्ऋषिः ।

चतुर्थकाण्डे द्वितीयप्रपाठके चतुर्थोऽनुवाकः

विश्वास-प्रस्तुतिः

अपे॑त॒, वीत॒, वि च॑ सर्प॒तातो॒
येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अदा॑द् इ॒दय्ँ य॒मो॑ऽव॒सान॑म् पृथि॒व्या
अक्र॑न्नि् इ॒मम् पि॒तरो॑ लो॒कम् अ॑स्मै ।

मानसतरङ्गिणीकृत्

Go away, depart, and creep away from here. You all that are stationed here from old and you that are new, Yama has given him a place of this earth. The manes fashioned this world for him.

मूलम्

अपे॑त॒ वीत॒ वि च॑ सर्प॒तातो॒ येऽत्र॒ स्थ पु॑रा॒णा ये च॒ नूत॑नाः ।
अदा॑दि॒दय्ँय॒मो॑ऽव॒सान॑म्पृथि॒व्या अक्र॑न्नि॒मम्पि॒तरो॑ लो॒कम॑स्मै ।

सायण-टीका

(अथ चतुर्थकाण्डे द्वितीयप्रपाठके चतुर्थोऽनुवाकः) । तृतीयेऽनुवाके वह्नेरुख्यस्य चयनदशं प्रति नयनमुक्तम्। अथ चतुर्थे गा र्हपत्यचयनमुच्यते।
कल्पः—“अपवृत्ते दीक्षापरिमाणेऽपेत वीतोति गार्हपत्यचितेरायतनं *व्याम मात्रं चतुरस्रं परिमण्डलं बोद्धत्य” इति। पाठस्तु— अपेत वीतेति। यमस्य सर्वभूम्यधिपतित्वात्तद्भूत्याः पृथिव्यां सर्वत्र वर्तन्ते।

  • सर्वपुस्तकेषु मामात्रमिति पाठो दृश्यते। स प्रामादिकः।
    १८८५ हे यमभृत्या अत्र देवयजनस्थाने पुरातना ये यूयं स्थ नूतनाश्च ये यूयं स्थ ते सर्वेऽप्यपे-तास्मात्स्थानादपनच्छत। वीतात्यन्तं विदूरं गच्छत। विसर्पत चातोऽस्मात्स्थाना-दपेत्य सानिध्यं परित्यज्य विविधं गच्छत। पृथिव्या इदमवसानं स्थानमस्मभ्यं यमोऽदात्। पितरश्चास्मै यजमानायेमं ल्लोकमक्रन्नेतच्चयनस्थानं कृतवन्तः। तमेतं मन्त्रं विनियुङ्क्ते— “यावती वै पृथिवी तस्यै यम आधिपत्यं परीयाय यो वै यमं देवयजनमस्या अनिर्याच्छाग्निं चिनुते यमायैनँस चिनुतेऽपेतेत्यध्यवसायपति यममेव देवयजनमस्यै निर्याच्याऽऽत्मनेऽग्निं चिनुत” (सं. का. ५ प्र. २ अ. ३) इति।
    सर्वस्याः पृथिव्या आधिपत्ये यमेन प्राप्ते सति यो यजमानो यमं प्रत्यस्याः पृथिव्याः संबन्धि देवयजनमयाचित्वा तत्राग्निं चिनुते, तच्चयनं यमार्थमेव भवति न तु स्वयं तत्फलभाग्भवति। अतो यमं याचितुमपेतेति मन्त्रेणाध्यवसाययति देवयजनं निश्चिनुयात् । अतो याचितत्वात्स्वार्थमेव तच्चयनं भवति। तमिमं मन्त्रं प्रशंसति— “इष्वग्रेण वा अस्या अनामृतमिच्छन्तो नाविन्दन्ते देवा एतद्यजुरपश्यन्नपेतेति यदेतेनाघ्यवसाययत्यनामृत एवाग्निं चिनुते” (सं. का. ५ प्र. २ अ. ३) इति।
    मृतैः प्राणिभिराक्रान्तमामृतंतथा न भवतीत्यनामृतं, तादृशमस्याः पृथिव्याः संबन्धि स्थानमिच्छन्तोऽपेक्षमाणा देवा बाणाग्रेण परिमितमषिदपि नाविन्दन्नालभन्त, सर्वमपि भूमिस्थानं प्रेतैराक्रान्तमेवेत्यर्थः। यद्यत्स्थानमन्विष्यते तत्र तत्र विचा-रणायां बहवः प्रेता अतीता भवन्ति। एतदेवाभिप्रेत्य महाभारते स्मरन्ति— “अत्र भीष्मशतं दग्धं द्रोणानां च शतत्रयम” इति।
    एवं सति देवास्तत्परिहारोपायं विचार्यैतद्यजुर्यजुर्वेदस्थमपेत वीतेत्येतं मन्त्रम- १८८६ पश्यन्। तस्मादनेन मन्त्रेण प्रेतानां निःसारितत्वात्तैरनाक्रान्त एव स्थानेऽग्निं चिनुते। गार्हपत्यचितिस्थानस्योद्धननं विधत्ते— “उद्धन्ति यदेवास्या अमेध्यं तदप हन्ति” [सं. का. ५ प्र. २ अ. ३ ] इति।
    अस्याः पृथिव्या उपरि निष्ठीवनादिना यत्स्थानममेध्यं जातं तदुद्धननेन विनिवार्यते। उद्धते प्रदेशे जलेनावोक्षणं विधत्ते— “अपोऽवोक्षति शान्त्यै” (सं. का. ५ प्र. २ अ. ३ ) इति।
    उद्धननेन निष्पन्ना भूमिर्जलेन शान्ता भवति।
  • 42 गार्हपत्यादीनामायतनमुद्घन्ति - अपेतेति त्रिष्टुभा ॥ इयं चाग्निकाण्डे व्याख्याता । अपेत इतस्स्थानादपगछत वीत विदूरं गच्छत’ विसर्पत च परस्परं विश्लिष्टा गच्छथ । ये यूयं अत्र स्थाने पुराणाः पुरातनाः ये च नूतनाः इदानींतनाः यस्मात् इदमवसानं स्थानं पृथिव्यास्संबन्धि पृथिवीमात्राद्वा विकृष्य अस्मै यजमानाय अदात् दत्तवान् यमः नियन्ता विश्वस्य । पितरः च इमं लोकं अवकाशं अस्मै यजमानाय अग्न्याधारत्वेन अक्रन् कृतवन्त इति ॥
विश्वास-प्रस्तुतिः

अ॒ग्नेर्भस्मा॑सि ।

मूलम्

अ॒ग्नेर्भस्मा॑सि ।

सायण-टीका

कल्पः—“अग्नेर्भस्मासीति सिकता निवपति” इति। पाठस्तु— अग्नेर्भस्मेति। हे सिकतास्वरूप त्वमग्नेर्भस्म भासकमसि। सिकताधारो ह्यग्निरतितीक्ष्णो भवति।

विश्वास-प्रस्तुतिः

अ॒ग्नेᳶ पुरी॑षमसि ।

मूलम्

अ॒ग्नेᳶ पुरी॑षमसि ।

सायण-टीका

तथा त्वमग्नेरवस्थानाय पुरीषमसि पांसुरूपमसि।
एतन्मन्त्रसाध्यं सिकतावापं विधत्ते— “सिकता नि वपत्येतद्वा अग्नेर्कैश्वानरस्य रूपँरूपेणैव वैश्वानरमव रुन्धे” (सं. का. ५ प्र. २ अ. ३) इति।
आधाना प्रकरणे “वैश्वानरस्य रूपम्। पृथिव्यां परिस्त्रसा” इत्याम्नातत्वात्सि-कताशरीरं वैश्वानरस्याग्नेः स्वरूपम्।

  • 43 सिकता निवपति - अग्नेर्भस्मासीति यजुषा ॥ इदमपि तत्रैव व्याख्यातं ‘अपेत वीत'13इत्यत्रैव । अग्नेर्भस्म दीप्तिहेतुस्त्वं असि । तथा अग्नेः पुरीषं पूरणं पालनं वा त्वं असि इति ॥
विश्वास-प्रस्तुतिः

सं॒ज्ञान॑मसि +++(निवपति)+++।

मूलम्

सं॒ज्ञान॑मसि +++(निवपति)+++।

सायण-टीका

कल्पः—“संज्ञाना मित्यूपान्” इति । निवपतीत्यनुवर्तते। पाठस्तु— संज्ञानमसीति। हे ऊषस्वरूप त्वं संज्ञानं पशुसंबन्धि सम्यग्ज्ञानमसि। पशवो ह्याघ्राणेन सम्यग्ज्ञात्वा तमूषप्रदेशं लिहन्ति।

  • अथोषा निवपति - संज्ञानमिति यजुषा ॥ इदमपि तत्रैव व्याख्यातम्13 । संज्ञानं सम्यक् ज्ञानहेतुः कामधरणं कामानां धारकं च असि, ते तव यत् कामधरणं कामधारणसामर्थ्यं तत् मयि अपि भूयात् इति ॥
विश्वास-प्रस्तुतिः

का॒म॒धर॑णम् +++(असि)+++ ।
मयि॑ ते काम॒धर॑णम्भूयात् ।

मूलम्

का॒म॒धर॑णम् +++(असि)+++ ।
मयि॑ ते काम॒धर॑णम्भूयात् ।

सायण-टीका

तथा कामधरणमसि यज्ञियांशत्वेन ब्राह्मणे वक्ष्यमाणत्वाद्यज्ञद्वारा कामाना धारकमसि। अतस्ते यत्कामधरणसामर्थ्यं तन्मयि भूयात्। एतन्मन्त्रसाध्यमूषनिवपनं विधत्ते— “ऊषान्नि वपति पुष्टिर्वा एषा प्रजननं यदूषाः पुष्ट्यामेव प्रजननेऽग्निं चि नुतेऽथो संज्ञान एव संज्ञानँ ह्येतत्पशूनां यदूषाः” [सं. का. ५ प्र. २ अ. ३] इति।
पुष्टिहेतुत्वं प्रजोत्पत्तिहेतुत्वं चोषाणां यज्ञद्वारा द्रष्टव्यम् । तस्मादूषनिवापे सति पुष्टिहेतौ प्रजननहेतौ च देशेऽग्निश्चितो भवति। किंच संज्ञानहेतावेव देशेऽ– १८८७ ग्निश्चितो भवति। ऊषाणां पशुज्ञानहेतुत्वं लोके प्रसिद्धम। पशवो ह्यूषरप्रदेशं ज्ञात्वा तत्रत्यं लवणोदकमेव पातुं गच्छन्ति। पीत्वा च पुष्टिं प्राप्नुवन्ति । अतः संज्ञानत्वं पुष्टिहेतुत्वं च।
यदुक्तं सूत्रकोरण— ‘तान्निवपन्यददश्चन्द्रमसि कृष्णं तदिहास्त्विति मनसा ध्यायति’ इति। तदेतद्विधत्ते— “द्यावापृथिवी सहाऽस्तां ते वियती अब्रूतामस्त्वेव नौ सह यज्ञियमिति यदमुष्या यज्ञियमासीत्तदस्यामदधात्त ऊषा अभवन्यदस्या यज्ञियमासीत्तदमुष्याम दधात्तददश्चन्द्रमसि कृष्णमूषान्निवपन्नदो ध्यादेद्द्यावापृथिव्योरेव यज्ञियेऽग्निं चिनुते” [सं. का. ५ प्र. २ अ. ३] इति।
पुरा सृष्टिकाले प्रजापतिना सृष्टे द्यावापृथिव्यौ जतुकाष्ठवत्संश्लिष्टे तिष्ठतः। ते यदा प्रजापत्यनुज्ञया वियुज्येते तदानीं परस्परानुरागेणैवं भागं कृतवत्यौ नावावयोर्यद्यज्ञयोग्यं सारं तत्सहैवास्त्विति। ततोऽमुष्या दिवो यद्यज्ञयोग्यं सारमासीत्तदस्यां पृथिव्यां सा द्यौः स्थापितवती। तच्च सारं भूमाविदानीं दृश्यमानास्ते प्रसिद्धा ऊषा आसन्। यच्चास्याः पृथिव्या यज्ञयोग्यं सारमासीत्तत्सारममुष्यां दिवि सा पृथिवी स्थापितवती। तत्स्थापितं चन्द्रमसि दृश्यमानं कृष्णरूपमभूत् । अत उभयोः सारयोरेकीभावायोषान्निवपन्नदश्चन्द्रमसि कृष्णरूपं ध्यायेत् । तेन ध्यानेन द्यावापृथिव्योः संबन्धिनि यज्ञयोग्ये सारेऽग्निं चितवान्भवति ।

विश्वास-प्रस्तुतिः

सय्ँया वᳶ॑ प्रि॒यास्त॒नुव॒स्सम्प्रि॒या हृ॑दयानि वः ।

आ॒त्मा वो॑ अस्तु [14] सम्प्रि॑य॒स्सम्प्रि॑यास्त॒नुवो॒ मम॑ ।

मूलम्

सय्ँया वᳶ॑ प्रि॒यास्त॒नुव॒स्सम्प्रि॒या हृ॑दयानि वः ।

आ॒त्मा वो॑ अस्तु [14] सम्प्रि॑य॒स्सम्प्रि॑यास्त॒नुवो॒ मम॑ ।

सायण-टीका

कल्पः—“सं या वः प्रियास्तनुव इत्यूषान्सिकताश्चसँ सृज्य” इति। पाठस्तु — सं या व इति। हे सिकतोषा वो युष्माकं याः प्रियास्तनुवः स्युस्ताः परस्परं संसृ-ज्यन्ताम्। वो युष्मांकं प्रिया प्रियाणि हृदयान्यपि संसृज्यन्ताम् । तथा वो युष्माकमा-त्माऽपि संप्रियोऽस्तु। अपि च ममापि तनुवः संप्रियाः सन्तु।

  • अथ वानस्पत्यान् संसृजति - सं व इति द्वाभ्यां गायत्र्यनुष्टुब्भ्याम् । तत्र प्रथमा - वः युष्माकं हृदयानि संसृजामि परस्परमुपरक्तानि करोमि । मनः च वः युष्माकं संसृष्टमस्तु । प्राणः च वः युष्माकं संसृष्टोऽस्तु परस्परोपकारस्वभावोऽस्तु ॥
विश्वास-प्रस्तुतिः

अ॒यँ सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑स्सु॒तन्द॒धे ज॒ठरे॑ वावशा॒नः ।
स॒ह॒स्रियव्ँ॒वाज॒मत्य॒न्न सप्तिँ॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ।

मूलम्

अ॒यँ सो अ॒ग्निर्यस्मि॒न्त्सोम॒मिन्द्र॑स्सु॒तन्द॒धे ज॒ठरे॑ वावशा॒नः ।
स॒ह॒स्रियव्ँ॒वाज॒मत्य॒न्न सप्तिँ॑ सस॒वान्त्सन्त्स्तू॑यसे जातवेदः ।

सायण-टीका

कल्पः — “अयँ सो अग्निरिति चतस्रो मध्ये प्राचीरिष्टका गार्हपत्यचितावुप-दधाति” इति।
अयँ सो अग्निरित्येतस्मिन्सूक्ते प्रथमामाह— १८८८ अयँ सो अग्निरिति। यस्मिन्गार्हपत्यचितिरूपेऽऽनौ वावशानः कामयमान इन्द्रः सुतमभिषुतं सोमं जठरे दधे स्वोदरे धारयति स तादृशोऽयमग्निरिदानी मिष्टकाभिश्चीयत इति शेषः । हे जातवेदोऽत्यं सप्तिं न सत्वरगमनकुशलमश्वमिव सहस्रियं सहस्रसंख्या-केन धनेन संमितं वाजमन्नं ससवान्दत्तवान्सन्यजमानैः स्तूयसे।

विश्वास-प्रस्तुतिः

अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्णि॑या॒ ये ।
याᳶ प॒रस्ता॑द्रोच॒ने सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ।

मूलम्

अग्ने॑ दि॒वो अर्ण॒मच्छा॑ जिगा॒स्यच्छा॑ दे॒वाँ ऊ॑चिषे॒ धिष्णि॑या॒ ये ।
याᳶ प॒रस्ता॑द्रोच॒ने सूर्य॑स्य॒ याश्चा॒वस्ता॑दुप॒तिष्ठ॑न्त॒ आपः॑ ।

सायण-टीका

अथ द्वितीयामाह— अग्ने दिवो अर्णमिंति। हे इष्टकारूपाग्ने दिवः सकाशादर्णमुदकमच्छाऽऽभिमुख्येन जिगासि प्राप्नोषि । यागद्वारेण पुष्टिं संपादयसीत्यर्थः। ये देवाधिष्णिया धिष्णियाधारस्तदिवानच्छाऽऽभिमुख्येनोचिषे हविः स्वी कुरुतेति ब्रूपे । त्वय्यत्रोपहिते त्वया समाहूता इव देवा आगत्य हविः स्वी करिष्यन्तीत्यर्थः। सूर्यस्य रोचने दीप्तिरूपे मण्डले सन्ति या आपः परस्तादूर्ध्वप्रदेश उपतिष्ठन्ते, याश्चावस्तादधोभागे वर्तन्ते ताः सर्वास्त्वय्युपहित इहाऽऽगमिष्यन्तीति शेषः ।

विश्वास-प्रस्तुतिः

अग्ने॒ यत्ते॑ दि॒वि वर्चᳶ॑ पृथि॒व्याय्ँयदोष॑धीषु [15] अ॒प्सु वा॑ यजत्र ।
येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षस्स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ।

मूलम्

अग्ने॒ यत्ते॑ दि॒वि वर्चᳶ॑ पृथि॒व्याय्ँयदोष॑धीषु [15] अ॒प्सु वा॑ यजत्र ।
येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑ त्वे॒षस्स भा॒नुर॑र्ण॒वो नृ॒चक्षाः॑ ।

सायण-टीका

अथ तृतीयामाह— अग्न इति। हे यजत्र यागा निष्पादकाग्ने ते तव यद्वर्चो दिवि सूर्यरूपेण वर्तते, पृथिव्यां वह्नीज्वालारूपेण वर्तते। तथा यत्तेज ओषधीषु तत्फलपरिपाककाला कारेण वर्तते, अप्सु वडवानलरूपेण वर्तते, येन त्वदीयेन वर्चसा विद्युद्रूपेणोरु विस्तीर्णमन्तरि-क्षमाततन्थ सर्वतो विरजारितवानसि। प्रकाशितवा नित्यर्थः। त्वेषो दीप्तिमान्स त्वदी-यवर्च समूहा भानुर्भासकोऽर्णवः समुद्ररूपविस्तीर्णो नृचक्षा मनुष्यान्प्रख्यापयिता। तथाविधतेजोरूपामिष्टकामुपदधामीति शेषः ।

विश्वास-प्रस्तुतिः

पु॒री॒ष्या॑सो अ॒ग्नयᳶ॑ प्राव॒णेभि॑स्स॒जोष॑सः ।
जु॒षन्ताँ॑ ह॒व्यमाहु॑तमनमी॒वा इषो॑ म॒हीः ।

मूलम्

पु॒री॒ष्या॑सो अ॒ग्नयᳶ॑ प्राव॒णेभि॑स्स॒जोष॑सः ।
जु॒षन्ताँ॑ ह॒व्यमाहु॑तमनमी॒वा इषो॑ म॒हीः ।

सायण-टीका

अथ चतुर्थीमाह— पुरीष्यास इति । अग्नय इष्टकारूपा आहुतं हव्यं जुषन्ताम् । कीद्दशा अग्नयः। पुरीषे पांसुरूपे भवाः पुरीष्यासः। प्रावणेभिः प्रकर्षेणं संभजनशी लैर्मनोभिः सजोषसः परस्परं समानप्रीतयः। अनमीवा रोगरहिताः। इषोऽभीष्टप्राप्तिहेतवः। मही प्रौढा। तथाविधाग्निरूपामिष्टकामुपदधामीति शेषः।

विश्वास-प्रस्तुतिः

इडा॑मग्ने पुरु॒दँसँ॑ स॒निङ्गोश्श॑श्वत्त॒मँ हव॑मानाय साध ।
स्यान्न॑स्सु॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।

मूलम्

इडा॑मग्ने पुरु॒दँसँ॑ स॒निङ्गोश्श॑श्वत्त॒मँ हव॑मानाय साध ।
स्यान्न॑स्सु॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ।

सायण-टीका

कल्पः — “इडामग्नेऽयं ते योनिर्ऋत्विय इति द्वे पुरस्तात्समीची” इति। उपदधातीत्यनुवर्तते तत्र प्रथमामाह— १८८९ इडामग्ने पुरुदँसमिति। हेऽग्ने हवमानाय होतुं प्रवृत्ताय यजमानाय गोः सनिं गवादिपशूनां दातारं साध संपादय। कीदृशं सनिम्। इडां सर्वैरीड्यं प्रशंसनीयम्। पुरुदंसं बहुधा दर्शनीयम्। शश्वत्तममत्यन्तमविच्छेदेन वर्तमानम। किंच त्वत्प्रसादान्ने-ऽस्माकं सूनुः स्यात्पुत्रोऽस्तु । कीदृशः, तनयः, औरस इत्यर्थः। पुत्रसामान्यस्य सुनुशब्देनोक्तत्वाद्दत्तपुत्रादिन्यावृत्तये विशेषविवक्षया तनयशब्दः प्रयुज्यते । विजावा विविधानां जनयिता। हेऽग्ने ते तव सा सुमतिः तथाविधाऽनुग्रहबुद्धिरस्मे भूत्वस्मासु भवतु ।

विश्वास-प्रस्तुतिः

अ॒यन्ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तञ्जा॒नन्न् [16] अ॒ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ।

मूलम्

अ॒यन्ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
तञ्जा॒नन्न् [16] अ॒ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ।

सायण-टीका

अथ द्वितीयामाह— अयं ते योनिरिति। हेऽग्नेऽयमिष्टाकारूपः पदार्थस्ते तव योनिरुत्पत्तिहेतुः, ऋत्विय ऋतुकालीनस्त्रीपुरुषसंगमतुल्य इति। यतो योनेरिष्टकारूपाज्जात उत्पन्नसत्व-मरोचथा दीप्तिमानसि, तं तथाविधं योनिमिष्टकारूपं जानन्नवगच्छन्सन्नारोह प्राप्नुहि । अथानन्तरं नोऽस्माकं रयिं धनं वर्धय।

  • 41 अथ द्वितीया - अयं ते योनिरिति ॥ एषा च ‘उप प्रयन्तः’ इत्यत्र व्याख्याता । हे अग्ने! अयं ते तव ऋत्वियः ऋतुप्रायप्राप्तो योनिः कारणं यतो जातः त्वं अरोचथाः तं जानन् आत्माधिकारं विद्वान् आरोह अथ आरुह्य च नः अस्माकं रयिं वर्धय इति ॥

  • 6अथ षष्ठी - अयं त इत्यनुष्टुप् ॥ हे अग्ने अयं ते तव योनिः कारणं गार्हपत्य उच्यते नात्रारणिः । ऋत्वियः ऋतुः प्राप्तोस्येति । ‘छन्दसि घस्’ इति घस् । ऋतावृताविज्यत इत्यर्थः । यतस्त्वं जातोऽरोचथाः दीप्यसे । छान्दसो लङ् । तं योनिं जानन् त्वं ममायं योनिरित्यवगच्छन् आरोह । आश्रय मा कदाचिदपि मुचः । अथ नोस्माकं रयिं धनं वर्धय । सांहितिकं दीर्घत्वं छान्दसं । ‘निपातस्य च’ इत्यथशब्दस्य ॥

    • अथाष्टमीमाह– अयं ते योनिरिति। हेऽग्ने योऽयमिष्टकाचितिरूपप्रदेशस्ते तव योनिः स्थानं, यतो यस्या इष्टकाचितेर्जात उत्पन्नस्त्वमरोचथा दीप्तो भवति, तं योनिं जानन्स्वकीयत्वेनावगच्छन्नारोह। अथानन्तरं नोऽस्माकं रयिं धनं वर्धय।
विश्वास-प्रस्तुतिः

चिद॑सि॒ , तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द ।

मूलम्

चिद॑सि॒ , तया॑ दे॒वत॑याङ्गिर॒स्वद्ध्रु॒वा सी॑द ।

सायण-टीका

कल्पः—“एवं पश्चाच्चिदसि परिचिदसीति समीची तिरश्ची वा द्वे” इति। उपदधातीत्यनुवर्तते। प्रथममन्त्रपाठस्तु— चिदसि तयेति। भोगांश्चिनोति संपादयतीति चित् । हे इष्टके त्वं चिदसि । यया देवतया त्वमभिमन्यसे तया देवतयाऽनुगृहीता त्वं ध्रुवा स्थिरा भूत्वा सीदावतिष्ठ। तव दृष्टान्तः—अङ्गिरस्वत् अङ्गिरोभिरुपहितेष्टका यथा ध्रुवा भवति तद्वत्।

विश्वास-प्रस्तुतिः

परि॒चिद॑सि॒ , तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ।

मूलम्

परि॒चिद॑सि॒ , तया॑ दे॒वत॑याऽङ्गिर॒स्वद्ध्रु॒वा सी॑द ।

सायण-टीका

द्वितीयमन्त्रपाठस्तु— परिचिदसि तयेति। परितो भोगांश्चिनोति संपादयतीति परिचित् । शेषं पूर्ववत्। तया देवतयेत्यादिवाक्यं पूर्वेष्वप्युपधानमन्त्रेषु प्रयोक्तव्यम्। तथा च सूत्रकारेणोक्तम्—“तथा देवतयाऽन्ततो दधाति” इति।
उक्तेषूपधानमन्त्रेष्वयँ सो अग्निरित्यारभ्याथा नो वर्घया रयिमित्येतदन्तं षडृचमेकं सूक्तं, तदिदं प्रशंसति— “अयंँ सो अग्निरिति विश्वामित्रस्य सूक्तं भवत्येतेन वै विश्वामित्रोऽग्नेः प्रियं धामावारुन्धाग्नेरवैतेन प्रियं धामाव रुन्धे” (सं. का. ५ प्र. २ अ. ३) इति।
१८९० तस्मिन्सूक्ते चतसृभिराद्याभिर्ऋग्भिः साध्यमिष्टकोपघानं विधत्ते— “छन्दोभिर्वै देवाः सुवर्गं लोकवायन् चतस्रः प्राचीरूप दधाति चत्वारि छन्दाँसि छन्दोभिरेव तद्यजमानः सुवर्गं लोकमेति” (सं. का. ५ प्र. २ अ. ३) इति।
छन्दोयुक्ताभिश्चतसृभिर्ऋग्भिरुपधायेत्यध्याहारः। देववद्यजमानोऽपि छन्दोयुक्ता-भिर्ऋग्भिश्चतस्र इष्टकाः प्रागग्रा उपदध्यात्।

अथ सूक्तगताभ्यां पञ्चमषष्ठमन्त्राभ्यामुपरितनयजुर्भ्यां च साध्यमिष्टकोपधानं विधत्ते— “तेषाँ सुवर्ग लोकं यतां दिशः समव्लीयन्त ते द्वे पुरस्तात्समीची उपादधत द्वे पश्चात्समीची ताभिर्वै ते दिशोऽदृँहन्यदद्वे पुरस्तात्समीची उपदधाति द्वे पश्चात्समीची दिशां विधृत्यै” (सं. का. ५ प्र. २ अ. ३) इति।
यदा चतस्र इष्टका उपधाय ते देवाः स्वर्गं लोकं गच्छन्ति तदा तेषां संबन्धिन्यो दिशः पालकाभावात्समव्लीयन्त सम्यग्विशीर्णा अभवन्, दिग्वर्तिन्यः प्रजा विह्वाला अभवन्नित्यर्थः। तन्मा भूदिति देवाः पुरस्ताद्दिशि ऋग्भ्यां द्वे इष्टके पश्चाच्च यजुर्भ्यां द्वे इष्टके उपादधत। ताभिश्चतसृभिरिष्टकाभिस्ते देवा दिशोऽदृंहन्दृढीकृतवन्तः । तथा यजमानोऽप्युपदध्यात् ।
अथ पूर्वमुपहिताश्चतस्र इदानीमुपहिताश्चतस्रश्च मिलित्वा पुनः प्रशंसति – “अथो पशवो वै छन्दाँ सि पशूनेवास्मै समीचो दधात्यष्टावुप दधात्यष्टाक्षरा गायत्री गायत्रोऽग्निर्यावानेवाग्निस्तं चिनुतेऽष्टावुप दधात्यष्टाक्षरा गायत्री गायत्री सुवर्गं लोकमञ्जसा वेद सुवर्गस्य लोकस्य प्रज्ञात्यै” (सं. का. ५ प्र. २ अ. ३) इति।
दिशां विधारणायोपधानं पूर्वमुक्तम्। अपि च च्छन्दसां पशुप्राप्तिहेतुत्वेन पशुरूपत्वाच्छन्दोयुक्ताभिर्ऋग्भिरुपधानेन समीचः पशून्सपादयति। उपरितनाभ्यां द्वाभ्यां सहाष्टत्वेन गायत्रीसाम्यम्। मुखजत्वेन गायत्रीसंबद्धोऽग्निर्यावानस्ति। ससर्व चिनुते। किंच गायत्र्याः स्वर्गलोकाभिज्ञत्वात्तत्साम्यं स्वर्गाभिज्ञानाय संपद्यते।

विश्वास-प्रस्तुतिः

लो॒कम्पृ॑ण छि॒द्रम्पृ॒णाथो॑ सीद शि॒वा त्वम् ।
इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन् ।

मूलम्

लो॒कम्पृ॑ण छि॒द्रम्पृ॒णाथो॑ सीद शि॒वा त्वम् ।
इ॒न्द्रा॒ग्नी त्वा॒ बृह॒स्पति॑र॒स्मिन् योना॑वसीषदन् ।

सायण-टीका

कल्पः—“अवशिष्टं त्रयोदशभिर्लोकंपृणामिः प्रच्छादयति लोकं पृण ता अस्य सूददोहस इति द्वाभ्यां मन्त्राभ्यामेकैकां लोकंपृणामुपदधाति” इति।
तत्र प्रथमामाह— लोकं पृण छिद्रमिति। हे इष्टके लोकं गार्हपत्यचयनार्थे प्रदेशे पूर्वोक्ताभिरिष्ट-काभिरनाक्रान्तमवशिष्टं स्थानं पृण पूरय। तथा छिद्रं पृण द्वयोरिष्टकयोर्मध्ये किंचिदपि च्छिद्रं तथा न दृश्यते तथा पूरय, अत्यन्तं श्लिष्टा भवेत्यर्थः। अथो अपि च त्वं शिवा शान्ता सती सीद तिष्ठ। इन्द्राग्नी बृहस्पतिश्चेत्येते देवा अस्मिन्योनौ स्थाने त्वामसीषदन्सादितवन्तः।

विश्वास-प्रस्तुतिः

ता अ॑स्य॒ सूद॑दोहस॒स्सोमँ॑ श्रीणन्ति॒ पृश्ञ॑यः ।
जन्म॑न्दे॒वानाव्ँ॒विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥ [17]

मूलम्

ता अ॑स्य॒ सूद॑दोहस॒स्सोमँ॑ श्रीणन्ति॒ पृश्ञ॑यः ।
जन्म॑न्दे॒वानाव्ँ॒विश॑स्त्रि॒ष्वा रो॑च॒ने दि॒वः ॥ [17]

सायण-टीका

अथ द्वितीयामाह— ता अस्य सूदेति। दिवो रोचने स्वर्गे य प्रकाशकेऽस्य जन्मन्यजमानस्य जन्मनि निमित्तभूते सति देवानां संबन्धिन्यो विशः प्रजारूपाः पृश्नयो गोसदृशाः सूददोहसोऽन्नस्य दोहयित्र्यस्ता इष्टकाः सोमं श्रीणन्ति पक्वं कुर्वन्ति। कदा, त्रिष्वा समन्ताद्यानि प्रातःस-वनादीनि तेषु, निरन्तरं सोमपाकहेतव एता इष्टका इत्यर्थः। एतन्मन्त्रद्वयसाध्यमुषधानं विधत्ते— “त्रयोदश लोकंपृणा उप दधात्येकविँ शतिः संपद्यन्ते प्रतिष्ठा वा एकविँ शः प्रतिष्ठा गार्हपत्य एकविँ शस्यैव प्रतिष्ठां गार्हपत्यमनु प्रति तिष्ठति” (सं. का. ५ प्र. २ अ. ३) इति।
लोकमिष्टकानाक्रान्तमवशिष्टं देशं पूरयन्तीति लोकपृणाः, एतन्नामिका इष्टकास्त्र-योदशसंख्याका उपदध्यात्। एवं सति पूर्वोक्ताभिरष्टभिरिष्टकाभिः सदैकविंशतिः संपद्यन्ते । तथा सत्येकविँश स्तोमो यथा स्तोमान्तराणां त्रिवृदादीनां प्रतिष्ठा तथा नित्यं धार्यो गार्हपत्योऽप्याहवनीयाद्यग्नीनां प्रतिष्ठा। तदुभयप्रतिष्ठामनु यजमानः प्रतितिष्ठतीति। वेदनं प्रशंसति— “प्रत्यग्निं चिक्यानीस्तष्ठति य एवं वेद” [सं. का. ५ प्र. २ अ. ३] इति।
चिक्यानश्चयनं कृतावान्भूत्वा प्रतितिष्ठतीत्यर्थः।
१८९२ एवं निरूपिता येयमेका चितिः ईदृशीनां चितीनामुपर्यधाभावेन वर्तमानानप-ञ्चसंख्यां विधत्ते— “पञ्चचितीकं चिन्वीत प्रथमं चिन्वानः पाङ्क्तो यज्ञः पाङ्क्ता पशवो यज्ञां मेव पशुनव रुन्धे” [सं. का. ५ प्र. २ अ. ३] इति।
प्रथमं चिन्वानः प्रथमवारमग्निचयनं कुर्वन्यजमानः पञ्चचितीकं पञ्चसंख्याकाश्चि- तयोऽनन्तरोक्ता यस्याग्नेस्तादृशं चिन्वीत। धानादिपयस्यान्तैः पञ्चभिर्हविर्भिर्युक्तत्वात्पा-ङ्क्तो यज्ञः । सपुच्छैश्चतुर्भिः पादैः पाङ्क्ताः पशवः। एवं चयनं कृत्वा यज्ञं पशूंश्च प्राप्नोति।
द्वितीयवारमग्निचयनं कुर्वतः संख्यां विधत्ते— “त्रिचितीकं चिन्वीत द्वितीयं चिन्वानस्त्रय इमे लोका एष्वेव लोकेषु प्रतितिष्ठति” (सं. का. ५ प्र. २ अ. ३) इति।
तृतीयवारमग्निचयनं कुर्वतः संख्यां विधत्ते— “एकचितीकं चिन्वीत तृतीयं चिन्वान एकधा वै सुवर्गो लोक एकवृतैव सुवर्गं लोकमेति” [सं. का. ५ प्र. २ अ. ३] इति।
एकधैकप्रकारः सुखैकस्वाभाव्यात्स्वर्गप्राप्तस्य तद्धेतुकर्मसमाप्तेः पूर्वं पुनरावृत्त्य-भावाच्च। एकवृतैकगुणया चित्या त्रिगुणत्वपञ्चगुणत्ववर्जितया।
पांसुप्रक्षेपं विधत्ते— “पुरीषेणाभ्यूहति तस्मान्माँ सेनास्थि छन्नम्” [सं. का. ५ प्र. २ अ. ३ ] इति।
यस्मादस्थिसमाः कठिना इष्टका मांससमेन मृदुना पांसुनाऽभ्युहत्याच्छादयति तस्माल्लोके पि मांसेसनास्थि च्छन्नम। वेदनं प्रशंसति— “न दुश्वर्मा भवति य एवं वेद” (सं. का. ५ प्र. २ अ. ३ ) इति।
चितिगतां पुरीषगतां च संख्यां मिलित्वा प्रशंसति— “पञ्च चितयो भवन्ति पञ्चमिः पुरीषैरभ्यूहति दश संपद्यन्ते दशाक्षरा वि १८९३ राडन्नं त्रिराड्विराज्येवान्नाद्ये प्रति तिष्ठति” [सं. का. ५ प्र. २ अ. ३ ] इति।
एकां चितिं कृत्वा पुरीषेणाऽऽच्छादयेत् । तस्या उपरि द्वितीयां चिति॑ कृत्वा तामप्याच्छदयेत् । एवं चितिपञ्चकेन पुरीषपञ्चकेन च दशसंख्यासंपत्तेर्विराट्छन्दोद्वा-रेणान्ने प्रतितिष्ठति । अत्र विनियोगसंग्रहः— अपोद्धन्ति चितिस्थानमग्नेस्तु सिकतां [ता ]वपेत् ।
संज्ञानमूषान्निवपेत्संया ( याः ) संसृजते द्वयम् ॥
अयं चतसृभिः प्राचीरिष्टका आदधाति हि ।
इडां द्वाभ्यां पुरस्ताद्द्वे चिद्द्वाभ्यां पश्चिमे द्वयम् ।
लोकं लोकंपृणा द्वाभ्यां मन्त्रा अत्र चतुर्दश ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके चतुर्थोऽनुवाकः ॥ ४ ॥