११, १४-१५ अनुष्टुप् ,
५ , १०, १२-१३
त्रिष्टुप्,
७ महाबृहती ,
१६ जगती
८-९ गायत्री
४ उपरिष्ठाद् बृहती
१० उष्णिक्
अग्निर्ऋषिः ।
मूलम् (संयुक्तम्)
विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हा गा॑य॒त्रञ्छन्द॒ आ रो॑ह पृथि॒वीमनु॒ वि क्र॑मस्व॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णो॒ᳵ क्रमो॑ऽस्यभिशस्ति॒हा त्रैष्टु॑भ॒ञ्छन्द॒ आ रो॑हा॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णो॒ᳵ क्रमो॑ऽस्यरातीय॒तो ह॒न्ता जाग॑त॒ञ्छन्द॒ आ रो॑ह॒ दिव॒मनु॒ वि क्र॑मस्व॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मो विष्णोः॑ [1] क्रमो॑ऽसि शत्रूय॒तो ह॒न्तानु॑ष्टुभ॒ञ्छन्द॒ आ रो॑ह॒ दिशोऽनु॒ वि क्र॑मस्व॒ निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।
सायण-टीका
तत्र प्रथमोऽनुवाकः।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
१ ॥
आद्यप्रपाठके ह्युख्यो योऽग्निः सोऽयं प्रपञ्चितः ।
प्रपाठके द्वितीये तु स्याद्देवयजनग्रहः ॥
२ ॥
चयनार्थस्तत्र चानुवाका एकादशेरिताः ।
आसन्द्यां स्थापनं वात्सप्रसूक्तेन ह्युपस्थितिः ॥
३ ॥
- उखाग्नेर्नयनं गार्हपत्याग्निचयनं भुवः ।
कर्षणं चौषधावापो लोष्टक्षेपादिकं तथा ॥
४ ॥
रुक्मादेरुपधानं स्वयमातृण्णादिकस्य च।
निधानं पशुशीर्षाणां याज्या अर्था उदीरिताः ॥
५ ॥
तत्र प्रथमानुवाक आसन्द्यामुखाग्निस्थापनं प्रतिपाद्यते।
विश्वास-प्रस्तुतिः
विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हा,
गा॑य॒त्रञ्छन्द॒ आ रो॑ह ।
पृ॒थि॒वीमनु॒ वि क्र॑मस्व ।
निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।
मूलम्
विष्णो॒ᳵ क्रमो॑ऽस्यभिमाति॒हा,
गा॑य॒त्रञ्छन्द॒ आ रो॑ह ।
पृ॒थि॒वीमनु॒ वि क्र॑मस्व ।
निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।
सायण-टीका
कल्पः—“ उपरि नाभेर्धारयमाणो विष्णोः क्रमोऽसीति चतुरो विष्णुक्रमा ञ्प्राचः क्रामति ’ इति।
पाठस्तु— विष्णोः क्रमोऽसीति।
यज्ञप्रयोगं कृत्स्नं व्याप्नोतीति विष्णुर्यजमानः ।
यद्वा विष्णुना परमेश्वरेणाभेदोपचारं कृत्प्रा विष्णुरित्युच्यते ।
हे प्रथमपादविन्यास त्वं विष्णो-रभिमातिहा पापघाती क्रमोऽसि।
पाप्मा वा अभिमातिरिति श्रुत्यन्तरम् ।
तादृशस्त्वं गायत्रं छन्द आरोहानुग्राहकत्वेन स्वी कुरु।
ततः पृथिवीमनु विक्रमस्व प्रदेवतारूपमिमं प्रदेशं विशेषेण प्राप्नुहि ।
यमभिमातिं वयं द्विष्मः सोऽयं निर्भक्तोऽस्मात्प्रदेशान्निः-सारितः ।
एवमुत्तरेष्वपि योज्यम् ।
विश्वास-प्रस्तुतिः
विष्णो॒ᳵ क्रमो॑ऽसि, अ॒भि॒श॒स्ति॒हा ,त्रैष्टु॑भ॒ञ्छन्द॒ आ रो॑ह ।
अ॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व ।
निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।
मूलम्
विष्णो॒ᳵ क्रमो॑ऽसि, अ॒भि॒श॒स्ति॒हा ,त्रैष्टु॑भ॒ञ्छन्द॒ आ रो॑ह ।
अ॒न्तरि॑क्ष॒मनु॒ वि क्र॑मस्व ।
निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।
सायण-टीका
अभिशस्तिहा मिथ्यापवादघाति ।
विश्वास-प्रस्तुतिः
विष्णो॒ᳵ क्रमो॑ऽसि ।
अ॒रा॒ती॒य॒तो ह॒न्ता , जाग॑त॒ञ्छन्द॒ आ रो॑ह ।
दिव॒मनु॒ वि क्र॑मस्व।
निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।
मूलम्
विष्णो॒ᳵ क्रमो॑ऽसि ।
अ॒रा॒ती॒य॒तो ह॒न्ता , जाग॑त॒ञ्छन्द॒ आ रो॑ह ।
दिव॒मनु॒ वि क्र॑मस्व।
निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।
सायण-टीका
अरातिरवश्यदात यस्य दानाभावस्तमात्मन इच्छतीत्यरातीयंस्तस्य हन्ता विनाशकः।
विश्वास-प्रस्तुतिः
विष्णोः॑ [1] क्रमो॑ऽसि,
श॒त्रू॒य॒तो ह॒न्ता, आनु॑ष्टुभ॒ञ्छन्द॒ आ रो॑ह।
दिशोऽनु॒ वि क्र॑मस्व ।
निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।
मूलम्
विष्णोः॑ [1] क्रमो॑ऽसि,
श॒त्रू॒य॒तो ह॒न्ता, आनु॑ष्टुभ॒ञ्छन्द॒ आ रो॑ह।
दिशोऽनु॒ वि क्र॑मस्व ।
निर्भ॑क्त॒स्स यन्द्वि॒ष्मः ।
सायण-टीका
प्रहारेण हन्तृत्वं शत्रुत्वं तदिच्छतीति शत्रू *उखाग्नेश्चयनमिति ख, पुस्तके टिप्पन्यां पाठः ।
१८६१ यंस्तस्य हन्ता विनाशकः।
अत्र सर्वत्र यजमानः स्वात्मानं विष्णुत्वेन भावयेत् चतुर्णो प्रक्रमाणां प्रदेशान्पृथिव्यादिलोकरूपत्वेन भावयेत् ।
गायत्रादिच्छन्दोभिमानिदेवतास्तेषां प्रक्रमाणामनुग्राहिकाः ।
एतैर्मन्त्रैः साध्यान्विष्णुक्रमान्विधत्ते— “विष्णुमुखा वै देवाश्छन्दोभिरिमाल्ँ लोकाननपजय्यमभ्यजयन्यद्विय्णुक्रमान्क्रमते विष्णुरेव भूत्वा यजमानश्छन्दोभिरिवल्ँ लोकाननपजय्यपभि जयति विष्णोः क्रमोऽस्यभि-मातिहेत्याह गायत्री वै पृथिवी त्रैष्टुभमन्तरिक्षं जागती द्यौरानुष्टुभीर्दिशश्छन्दोभिरेवे-माल्ँ लेकान्यथापूर्वमामि जयति” (सं. का. ५ प्र. २ अ. १) इति।
देवाः पूर्वं स्वेषु विष्णुमेव मुख्यं कृत्वा छन्दोभिमानिदेवैः सहिता अनपजय्यमन्यै-र्जेतुं यथा न शक्यते तथेमल्ँ लोकानभ्यजयन् ।
अतो यजमानो विष्णुक्रमस्तथा जयति । गायत्रादिच्छन्दोदेवायां पृथिव्यादिलोकस्वामित्वेन तैः सह लोकानां जेतुं शक्यतया मन्त्रेषु गायत्रं छन्द आरोहेत्यादि पठितमित्यभिप्रायः ।
विश्वास-प्रस्तुतिः
अक्र॑न्दद॒ग्निस्स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुध॑स्सम॒ञ्जन् ।
स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।
मूलम्
अक्र॑न्दद॒ग्निस्स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुध॑स्सम॒ञ्जन् ।
स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः ।
सायण-टीका
कल्पः—“अक्रन्ददग्निरित्येतामनुद्रुत्य” इति। पाठस्तु— अक्रन्ददग्निरिति। अयमग्निरक्रन्ददस्मदनिष्टनिवारणार्थं गर्जतु। किमिव, स्तनय-न्निव द्यौः । यथा द्युलोकस्थो मेघः सस्यशोषभीतिनिवारणाय स्तनयति तद्वत् । किं कुर्वन् । क्षाम दाहकमस्माद्विरुद्धं रेरिहल्लेलिहानः, वीरुधः समञ्जन्पुष्पफलसमृद्धलताव-दस्मदनुकूलानि सम्यगमभिव्यञ्जयन् । हि यस्माज्जज्ञान उत्पद्यमानः सद्य ईं तदानीमे-वेद्धो दीप्तः सन्विविधं जगदख्यत्प्रख्यापयति । रोदसी द्यावापृथिव्यारेन्तर्भानुना रश्मिना स्वयमाभाति समन्तात्प्रकाशते ।
एतस्य मन्त्रस्यानुवचनं विधत्ते— “प्रजापतिरग्निमसृजत सोऽस्मात्सृष्टः पराङैत्तमेतयाऽन्वैदक्रन्ददिति तया वै सोऽग्नेः प्रियं धामावारुन्ध यदेतामन्वाहाग्नेरवेतैया प्रिय घामाव रुन्धे” (सं. का. ५ प्र. २ अ. १) इति।
स सृष्टोऽग्निरस्मात्प्रजापते पराङावृत्तिरहित ऐदगच्छत्। अक्रन्ददित्येतयर्चा १८६२ तमग्निमनुगम्य स प्रजापतिस्तयैवर्चाऽग्नेः प्रियं स्थानं प्राप्तवान् । अत एवास्या अनु-वचनमग्नेः प्रियस्य स्थानस्य संपादनाय भवति ।
विश्वास-प्रस्तुतिः
अग्ने॑ऽभ्यावर्तिन्न॒भि न॒ आ व॑र्त॒स्वायु॑षा॒ वर्च॑सा स॒न्या मे॒धया॑ प्र॒जया॒ धने॑न ।
मूलम्
अग्ने॑ऽभ्यावर्तिन्न॒भि न॒ आ व॑र्त॒स्वायु॑षा॒ वर्च॑सा स॒न्या मे॒धया॑ प्र॒जया॒ धने॑न ।
सायण-टीका
कल्पः—“अग्नेऽभ्यावर्तिन्निति चतसृभिः प्रदक्षिणमावर्तते” तत्र प्रथमामाह— अग्नेऽभ्यावर्तिन्निति । आभिमुख्येनाऽऽवर्तितुं शीलमस्यास्तीत्याभ्यावर्ति, तादृश हेऽग्न आयुरादिभिः सह नोऽस्मानभिलक्ष्बाऽऽवर्तस्व । आयुरपमृत्युरहितं वर्चः कान्ति-र्बलं वा, सनिर्धनदानं, मेधा श्रुतार्थधारणशक्तिः । प्रजा पुत्रादिः। धनं सुवर्णम् । धन-शब्देन संपादयितब्यमुच्यते । सनिशब्देय संपादितस्या बन्धुभ्यः प्रदानशक्तिरुच्यते ।
विश्वास-प्रस्तुतिः
अग्ने॑ [2] अ॒ङ्गि॒र॒श्श॒तन्ते॑ सन्त्वा॒वृत॑स्स॒हस्र॑न्त उपा॒वृतः॑ ।
तासा॒म्पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि ।
मूलम्
अग्ने॑ [2] अ॒ङ्गि॒र॒श्श॒तन्ते॑ सन्त्वा॒वृत॑स्स॒हस्र॑न्त उपा॒वृतः॑ ।
तासा॒म्पोष॑स्य॒ पोषे॑ण॒ पुन॑र्नो न॒ष्टमा कृ॑धि॒ पुन॑र्नो र॒यिमा कृ॑धि ।
सायण-टीका
अथ द्वितीयामाह— अग्ने अङ्गिर इति । हेऽङ्गिरोऽङ्गसौष्ठवयुक्ताग्ने ते तवाऽऽवृतः शतं सन्तुं। आवृतिशक्तयः शतसंख्याका भवन्तु । तथा ते तवोपावृत उमावृतिशक्तय, सहस्र-संख्याका भवन्तु । स्वस्यैवाऽऽवर्तनमावृत् । समीपवृर्तिनां पुरुषाणां द्रव्य विशेषाणां चाऽऽवर्ततमुपावृत् । अस्मासु स्नेहादिशयात्त्वमपि पुनः पुनरावर्तस्वत्वदीयाः पुरुषा-सत्वदीयानि च द्रव्याणि पुनः पुनरावर्तन्तामित्यर्थः । तासामावृतिशक्तीनां शतसहस्त्र-संख्याकानां यः पोषः समृद्धिस्तस्यापि पोषस्यान्यः पोषोऽयुतलक्षादिसंख्याकाभिवृद्धि-स्तादृशेन पोषेण नोऽस्मदीयं नष्टं धनं पुनर्भूयोऽ प्याकृध्यावृतं कुरु । पुनर्भृयोऽपि रयिं पूर्वससंपादितं धनमाकृधि सर्वतः संपादितं कुरु ।
विश्वास-प्रस्तुतिः
पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा ।
पुन॑र्नᳶ पाहि वि॒श्वतः॑ ।
मूलम्
पुन॑रू॒र्जा नि व॑र्तस्व॒ पुन॑रग्न इ॒षायु॑षा ।
पुन॑र्नᳶ पाहि वि॒श्वतः॑ ।
सायण-टीका
अथ तृतीयामाह— पुनरूर्जेति । हेऽग्ने त्वमूर्जा क्षीरादिरसेन सह पुनर्निवर्तस्वात्रात्राऽगच्छ । इषाऽन्नेनाऽऽयुषा सह पुनरागच्छ । नोऽस्मान्पुन पुनः कृताद्विश्वतः सर्वस्मादपराधात्पाहि ।
विश्वास-प्रस्तुतिः
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या ।
वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ ।
मूलम्
स॒ह र॒य्या नि व॑र्त॒स्वाग्ने॒ पिन्व॑स्व॒ धार॑या ।
वि॒श्वप्स्नि॑या वि॒श्वत॒स्परि॑ ।
सायण-टीका
अथ चतुर्थीमाह— सह रय्येति । हेऽग्ने रय्या धनेन सह निवर्तस्व । प्सा भक्षण इति धातुः विश्वैः सर्वैः प्सायते भक्ष्यते पीयत इति विश्वप्स्नी । तादृश्या वृष्टिधारया विश्वतस्परि सर्वेषां तुणधान्यलतापादपानामुपरि पिन्वस्व सिञ्च ।
एतैर्मन्त्रैरावर्तनं विधत्ते— १८६३ “ईश्वरो वा एषा पराङ्प्रदधा यो विष्णुक्रगान्क्रमते चतसृमिरा वर्तते चत्वारि छन्दाँ सि छन्दाँ सि खलु वा अग्नेः प्रिया तनूः प्रियामेवास्य तनुवमभि पर्यावर्तत” [सं. का. ५ प्र. २ अ. १] इति।
यो यजमानो विष्णुक्रमानाचरत्येष पराङावृत्तिरहितः प्रदघ ईश्वरः प्रकर्षेण गन्तुं समर्थ पुनरावृत्तिं न लभत इत्यर्थः । अत आवृत्तिलाभाय चतुसृभिर्ऋग्भिरावृत्तिं कुर्यात । गायत्री त्रिष्टुब्जगत्यनुष्टुबिति चतुर्णां छन्दसामभ्ऱ्यादानावुपात्तत्वदग्निशरीर-त्वम् । आवृत्तौ प्रादक्षिण्यं विधत्ते— “दक्षिणा पर्यावर्तते स्वमेव वीर्यमनु पर्यावर्तत तस्माद्दक्षिणोऽर्ध आत्मनो वीर्यावत्तरोऽथो आदित्यस्वैवाऽऽवृतमनु पर्यावर्तते” (सं. का. ५ प्र. २ अ. १) इति ।
दक्षिणा प्रादक्षिण्येन, दक्षिणभागमपस्थाप्य वामभागस्य परिभ्रमणं प्रादक्षिण्यम् । पुरुषस्य दक्षिणभागे सामर्थ्यातिशयसद्भावात्तदेवानुसृत्त्याऽऽवृत्तिकृता भवति । यस्माद्दक्षिणभागे वीर्यं श्रुतेरभिप्रेतं भवति तल्माल्लोकेऽपि सर्वेषु व्यापारेषु दक्षिणहस्तस्यैव वीर्यातिशय उषलभ्यते । किंच, आदित्यो मेरूं प्रदक्षिणी करोति तदप्यत्रानुसृतं भवति ।
विश्वास-प्रस्तुतिः
उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मम् [3] वि म॑ध्य॒मँ श्र॑थाय ।
अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ।
मूलम्
उदु॑त्त॒मव्ँव॑रुण॒ पाश॑म॒स्मदवा॑ध॒मम् [3] वि म॑ध्य॒मँ श्र॑थाय ।
अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम ।
सायण-टीका
कल्पः “उदुत्तममिति त्शिक्यपाशमुन्मुच्य” इति । पाठस्तु— उदुत्तमं वरुणेति । हे वरुणोत्तममुत्तमाङ्गे शिरसि स्थापितं त्वदीयं पाशमु(मस्मदस्मत्त उ) त्कृष्य श्रथाय विनाशय । अधममधमाङ्गे स्थापितं पादप्रदेशे स्थापितं पाशमवकृष्य विनाशय । मध्यमप्रदेशे स्थापितं पाशं विच्छेदय । अथ पाशत्रयमिन, शानन्तरं हे आदित्य सूर्यसदृश वरुण वयमनागसः पापरहिताः सन्तस्तव व्रते त्वदीये कर्मणि अदितयेऽखण्डितत्वाय स्याम योग्या भवेम ।
अनेन मन्त्रेण शिक्यपाशोन्मोकमभिप्रेत्य मन्त्रगतस्य व णपाशस्य प्रसंङ्गं दर्शयति—
“शुनःशेषमाजीगर्ति वरुणोऽगृह्णात्स एतां वरुणीमपश्यत्तया वै स आत्मानं वरुणापाशादमुञ्चद्रुणो वा एतं गृह्णाति य उखां प्रतिमुञ्चत उदुत्तमं १८६४ वरुणपाशमस्मदित्याइऽऽत्मानमेवैतया वरुणपाशान्मुञ्चति” [सं. का. ५ प्र. २ अ. १] इति।
शुनःशेषो नाम ऋषिः स चाजीगर्तस्य पुत्रस्तं कदाचिद्वरुणोगृह्णाद्गहीत वान् वरुणगृहीतत्वं च जलोदरव्याधिनाऽभिव्यज्यते । स च शुनःशेषस्त त्परि हारायोदुत्तममित्येतां वारुणीमृचमपश्यत् । ततस्तयैवर्चा स शुनःशेषः स्वात्मानं पाशान्मोचितवान् । अतोऽत्रापि यो यजमान उखां प्रतिमुञ्चते योऽयं वरुण गृहीतः संस्तत्परिहारायोदुत्तममित्यनया शिक्यपाशमुन्मुच्य तन्मन्त्रप्रसादेन वरुण पाशान्मुक्तो भवति ।
विश्वास-प्रस्तुतिः
आ त्वा॑हार्षम॒न्तर॑भूर्द्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्त्व॒स्मिन्रा॒ष्ट्रमधि॑ श्रय ।
मूलम्
आ त्वा॑हार्षम॒न्तर॑भूर्द्ध्रु॒वस्ति॒ष्ठावि॑चाचलिः ।
विश॑स्त्वा॒ सर्वा॑ वाञ्छन्त्व॒स्मिन्रा॒ष्ट्रमधि॑ श्रय ।
सायण-टीका
कल्पः—“आ त्वाऽहार्षमित्याहृत्य” इति । पाठस्तु— आ त्वाऽहर्षमिति । हेऽग्ने त्वामाहार्षमाहृतवानस्मि । त्वं चोखाया अन्तर भृरवस्थितोऽसि । अविचाचलिरत्यन्तं चलनरहितो घ्रुवस्तिष्ठ स्थिरस्तिष्ठ । सवां विशः प्रजास्त्वां वाञ्छन्तु । अस्मिन्यजमाने राष्ट्रमधिश्रयाधिकं स्थापय ।
अस्य मन्त्रस्य प्रथमपादे वह्नेराहरणं प्रसिद्धमेव प्रतीयत इति दर्शयति— “आ त्वाऽहार्षमित्याहाऽऽ ह्येनँ हरति” (सं. का. ५ प्र. २ अ. १) इति। द्वितीयपादेऽन्वयव्यतिरेकाम्यां प्रतिष्ठा सिध्यतीत्याह— “घ्रुवस्तिष्ठाविचाचलिरित्याह प्रतिष्ठित्यै” (सं. का. ५ प्र. २ अ. १) इति। तृतीयपादे प्रजासमृद्धिं चतुर्थपादे राज्यस्थैर्यं च क्रमेण दर्शयति— “विशस्त्वा सर्वा वाञ्छन्त्वित्याह विशैवैनँ समर्धत्यस्मिन्नाष्ट्रमधि श्रयेत्याह राष्ट्रमेवास्मिन्ध्रुवमकः” [सं. का. ५ प्र. २ अ. १] इति।
विशा प्रजया । एनं यजमानम् । अस्मिन्यजमाने । अकः करोति ।
चतुर्थपादपाठकाले यजमानविषयं काम्यं मनसा ध्यानं विधत्ते— “यं कामयेत राष्ट्रँ स्यादिति तं मनसा ध्यायेद्राष्ट्रमेव भवति” [सं. का. ५ प्र. २ अ. १] इति।
यं यजमानमुद्दिश्य राज्यमस्त्विति कामयेताध्वर्युस्तं चतुर्थपादोच्चारणकाले ध्यायेत् ।
विश्वास-प्रस्तुतिः
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग्मि॒वान्तम॑सो॒ ज्योति॒षागा॑त् ।
अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ।
सीद॒ त्वम्मा॒तुर॒स्याः [4] उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् ।
मूलम्
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग्मि॒वान्तम॑सो॒ ज्योति॒षागा॑त् ।
अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ।
सीद॒ त्वम्मा॒तुर॒स्याः [4] उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् ।
सायण-टीका
कल्पः— “उपतिष्ठते बृहन्नुषसामूर्ध्वो अस्थात्” इति । पाठस्तु— अग्रे वृहन्निति । अयमाग्निर्बृहन्नुषसामग्र उषसां मुख ऊर्ध्वोऽस्थात्, अग्निहोत्रादौ बोध्यमान उत्तिष्ठति । ज्योतिषा स्वकीयेन तेजसा तमसो निर्जग्मिवान्निर्गतः सन्नागात् । कीदृशोऽग्निः । रुशता तमो हिंसता भानुना रश्मिना स्वङ्गः शोभनशरीरः । किंच जात उत्पन्नमात्र एव विश्व सद्मानि सर्वाणि स्थानानि आप्राः स्वकीयेन तेजसा सर्वत्र पूरितवान्।
अस्य मन्त्रस्य प्रथमार्धे भागत्रयं क्रमेण व्याचष्टे—
“अग्रे बृहन्नुषसामूर्ध्वो अस्थादित्याहाग्रमेवैनँ समानानां करोति निर्जग्मिवान्तमस इत्याह तम एवास्मादप हन्ति ज्योतिषाऽऽगादित्याह ज्योतिरेवास्मिन्दधाति” (सं. का. ५ प्र. २ अ. १) इति।
विश्वास-प्रस्तुतिः
सीद॒ त्वम्मा॒तुर॒स्याः [4] उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् ।
मूलम्
सीद॒ त्वम्मा॒तुर॒स्याः [4] उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् ।
सायण-टीका
कल्पः“सीद त्वं मातुरस्या उपस्थ इति तस्यां चतुसृभिरुख्यं सादयति” इति।
औदुम्बर्या (रा) सन्द्याः प्रकृतत्वात्सैव तस्यामिति परामृश्यते ।
तत्र प्रथमामाह— सीद त्वमिति । हेऽग्ने त्वं मातृसमानाया अस्या आसन्द्या उखाया उपस्थ उत्सङ्गे सीदोपविश । कीदृशस्त्वं, विश्वानि वयुनानि सर्वाञ्ज्ञानोपायान्विद्वान । एनामुखामर्चिषा त्वदीयदीप्त्या मा शूशुचोऽत्यन्तं मा दपिय । तपसा संतापेनापि माऽभिशूसुचः । अर्चिः कारणं, तपः कार्यम् । कारणेनैष ( नेषत् ) तापो भवति । कार्येण तु भूयान्, तदुभयं मा कुर्वित्यर्थः । अस्यामुखायामन्तः शुक्रज्योतिर्निर्मेलप्रकाशः सन्विभाहि विशेषेण दीप्यस्व ।
विश्वास-प्रस्तुतिः
अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे ।
तस्या॒स्त्वँ हर॑सा॒ तप॒ञ्जात॑वेदश्शि॒वो भ॑व ।
मूलम्
अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे ।
तस्या॒स्त्वँ हर॑सा॒ तप॒ञ्जात॑वेदश्शि॒वो भ॑व ।
सायण-टीका
अथ द्वितीयामाह— अन्तरग्ने रुचेति । हेऽग्ने उखायै तस्या उखाया अन्तर्मध्ये स्वे सदने स्वकीये स्थान रुचा दीप्त्या युज्यस्व । हे जातवेदस्त्वं तस्य उखायाः शिवो भव सुखप्रदो भव । किं कुर्वन्हरसा तेजसा तपञ्ज्वलन् ।
विश्वास-प्रस्तुतिः
शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् ।
शि॒वाᳵ कृ॒त्वा दिश॒स्सर्वा॒स्स्वाय्ँयोनि॑मि॒हास॑दः ।
मूलम्
शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् ।
शि॒वाᳵ कृ॒त्वा दिश॒स्सर्वा॒स्स्वाय्ँयोनि॑मि॒हास॑दः ।
सायण-टीका
अथ तृतीयामाह— १८६६ शिवो भूत्वेति । हेऽग्ने मह्यं मदर्थं शिवः शान्तो भूत्वाऽथो अनन्तरं त्वं शिवः सीद सर्वान्प्रति शान्तः सन्नुपविश । सर्वा दिशः शान्ताः कृत्वेहास्यामुखायां स्वां योनिं स्वकीयं स्थानमासद आगत्योपविश ।
विश्वास-प्रस्तुतिः
हँ॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्बृ॒हत् ॥ [5]
मूलम्
हँ॒सश्शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत् ।
नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम्बृ॒हत् ॥ [5]
सायण-टीका
अथ चतुर्थीमाह— हँस शुचिषदिति । हन्ति स्वयमाहवनीयादिदेशेषु गच्छतीति वा वैरिणं हिनस्तीति वा हंसोऽयमग्निः । शुचौ यजने सीदतीति शुचिषत् । यजमानं वासयतीति वसुः । अन्तरिक्षे धूमज्वालारूपेण सीदतीत्यन्तरिक्षसत् । होता देवानामाह्वाता । वेद्यां यज्ञसंबन्धिन्यां सीदतीति वेदिषत् । अतिथिर्दुरोणसदतिथिसमानः सन्दुरोणेषु यजमानगृहेषु सीदतीति दुरोणसत् । नृषु मनुष्येषु जठराग्निरूपेण सीदतीति नृषत् । वरे श्रेष्ठे श्रोत्रियगृहे सीदतीति वरसत् । ऋते यज्ञे तन्निष्पादकत्वेन सीदतीति ऋतसत् । व्योमन्याकाशे सूर्यरूपेण सीदतीति व्योमसत् । अप्सु वृष्टिधारारूपासु वैद्युतरूपेण जायते प्रादुर्भवतीत्यब्जाः । गोकार्ये घृते ज्वालारूपेण जायते व्यज्यत इति गोजाः । ऋतार्थं यज्ञार्थमेव जातत्वादृतजाः । अद्रो पर्वते दावानलरूपेण जायत इत्याद्रिजाः । ईदृशोऽग्निर्बृहदृतं प्रौढमग्निचयनोपेतं यज्ञं निष्पादयत्विति शेषः ।
एतन्मन्त्रसाध्यमग्निस्थापनं विधत्ते— “चतसृभिः सादयति चत्वारि छन्दाँ सि छन्दोभिरेव” (सं. का. ५ प्र. २ अ. १) इति।
सादयतीत्यनुवर्तते । सीद त्वं मातुरित्यादिभिश्चतसृभिरौदुम्बर्यामुख्याग्निं स्थापयेत। छन्दोभिरेव स्थापितवान्भवति ।
हँस इत्यादिकायामुत्तमायामृचि च्छन्दोविशेषं प्रशंसति— अतिच्छन्दसोत्तमया वर्ष्म वा एषा छन्दसां यदतिच्छन्दा वर्ष्मैवनैँ समानानां करोति” (सं. का. ५ प्र. २ अ. १) इति।
“अतिच्छन्दस्यन्यच्छन्दसामन्तर्भावात्सर्वेषामन्येषां छन्दसामियमतिच्छन्दा ऋक्शरीरम् । अ (य) त ईदृश्योत्तमया सादनेनैनं यजमानं समानानामन्येषां पुरुषाणां शरीरस्थानीयमेव करोति, तस्मादनयोत्तमया सादयति ।
१८६७ अत्रोत्तमायां ये बहवः सच्छब्दाः शुचिषदित्यादयस्तान्प्रशंसति— “सद्वती भवती सत्त्वमेवैनं गमयति” (सं. का. ५ प्र. २ अ. १) इति।
ऋचो बहुभिः सच्छब्दैरुपेतत्वेनैनं यजमानं सत्त्वं चिरकालावस्थत्वं गमयति प्रापयति । अत्र विनियोगसंग्रहः—
विष्णोश्चतुर्भिराक्रामेदक्रन्देत्यनुवक्त्यथ ।
अग्ने चतुर्भिरावृत्त उदू पाशं विमुञ्चति ॥
आ त्वोख्यमाहरेदग्रेऽभ्युपस्थाय चतुष्टयात् ।
सीदेत्यादेस्तथाऽऽसन्द्यां सादयेत्षोडशोदिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे द्वितीयप्रपाठके प्रथमोऽनुवाकः ॥ १ ॥
( अथ चतुर्थाष्टके द्वितीयप्रपाठके द्वितीयोऽनुवाकः )।