०९ अग्न्युत्पादनम्

९, १४ त्रिष्टुप्, ११-१३गायत्री, ७-८, १५-१६ अनुष्टुप् , १० पिपीलिकामध्योष्णिक् अग्निर्ऋषिः । चतुर्थाष्टके प्रथमप्रपाठके नवमोऽनुवाकः

मूलम् (संयुक्तम्)

आकू॑तिम॒ग्निम्प्र॒युजँ॒ स्वाहा॒ मनो॑ मे॒धाम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ चि॒त्तव्ँविज्ञा॑तम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ वा॒चो विधृ॑तिम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॒ विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यव्ँविश्वे॑ रा॒य इ॑षुध्यसि द्यु॒म्नव्ँवृ॑णीत पु॒ष्यसे॒ स्वाहा

विश्वास-प्रस्तुतिः

आकू॑तिम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।

मूलम्

आकू॑तिम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।

सायण-टीका

(अथ चतुर्थाष्टके प्रथमप्रपाठके नवमोऽनुवाकः)।

अष्टमेऽनुवाक आप्रियो याज्यानुवाक्याः प्रोक्ताः ।
अथ नवमेऽनुवाकेऽ-ग्न्युत्पादनमभिधत्ते— १८३२ कल्पः—“यत्प्रग्दीक्षाहुतीभ्यस्तत्कृत्वाऽऽकूत्यै प्रयुजेऽग्नये स्वाहेति पञ्चाऽ-ऽध्वरिकीर्हत्वाऽऽकूतिमग्निमिति षडाग्निकीर्विश्वे देवस्य नेतुरिति पूर्णाहुतिं सप्तमीम्’ इति।
पाठस्तु— आकूतिमग्निमिति ।
आकूतिः संकल्पोऽस्मदीयानुष्ठानविषयस्तां प्रयुजं प्रेरकमग्निमुद्दिश्य स्वाहुतमिदमस्तु ।

विश्वास-प्रस्तुतिः

मनो॑ मे॒धाम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।

मूलम्

मनो॑ मे॒धाम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।

सायण-टीका

अनुष्ठेयस्मरणसाधनं यन्मनः स्मृतस्य धारणसा-मर्थ्यरूपा या मेधा तदुभयं प्रति प्रयुजं प्रेरकमद्दिश्य स्वाहुतमिदमस्तु ।

विश्वास-प्रस्तुतिः

चि॒त्तव्ँविज्ञा॑तम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।

मूलम्

चि॒त्तव्ँविज्ञा॑तम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।

सायण-टीका

अविज्ञातस्या-नुष्ठानस्य ज्ञानसाधनं यच्चित्तं यदपि तेन चित्तेन ज्ञातु ( तु ) मनुष्ठानं यदुभयं प्रति प्रेरकमग्निमुद्दिश्य स्वाहुतमिदमस्तु ।

विश्वास-प्रस्तुतिः

वा॒चो विधृ॑तिम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।

मूलम्

वा॒चो विधृ॑तिम॒ग्निम्प्र॒युजँ॒ स्वाहा॑ ।

सायण-टीका

वाचो मन्त्रपाठरूपाया विधृतिर्विधारणं तां प्रति प्रेरकमग्निमुद्दिश्य स्वाहुतामिदमस्तु ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॑ ।

मूलम्

प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॑ ।

सायण-टीका

मनवे मनुष्याणां जनकाय प्रजापतये स्वाहुत-मिदमस्तु ।

विश्वास-प्रस्तुतिः

अ॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ।

मूलम्

अ॒ग्नये॑ वैश्वान॒राय॒ स्वाहा॑ ।

सायण-टीका

विश्वेषां नराणामनुग्रहीतृत्वेन वैश्वानरायाग्नये स्वाहुतमिदमस्तु ।
विश्वे विश्वात्मकस्य नेतुर्जगन्निर्वाहकस्य देवस्य सख्य मनुग्रहं मर्तो मरणवान्यजमानः सहसा वृणीत याचेत ।
तच्च मुख्यमद्दिशेन स्तोत्रेण लभ्यते ।

विश्वास-प्रस्तुतिः

विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यव्ँविश्वे॑ रा॒य इ॑षुध्यसि ।
द्यु॒म्नव्ँवृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।

मूलम्

विश्वे॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वृणीत स॒ख्यव्ँविश्वे॑ रा॒य इ॑षुध्यसि ।
द्यु॒म्नव्ँवृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।

सायण-टीका

विश्वे विश्वात्मकस्य रायो धनस्येषुध्यसीशिषे त्वं नियन्ताऽसीति स्तुत्यां पुष्यसे यज्ञपोषणाय द्युम्नं धनं वृणीत याचेत ।
इदं हविस्तव हुतमस्तु ।
आकूतिमित्यादिभिर्वैश्वानराय स्वाहेत्यन्तैर्मन्त्रैः साध्यं होमं विधत्ते— “षड्भिदर्क्षियति षड्वा ऋतव ऋतुभिरेवैनं दक्षियति” [सं. का. ५ प्र. १ अ. ९] इति ।
होमेन दीक्षाख्यं संस्कारं कुर्यादित्यर्थः । विश्वे देवस्य नेतुरिति पूर्णाहुतिं सप्तमीमिति विधिमभिप्रेत्य विधेयगतां सप्तसंख्यां प्रशंसति ।

“सप्तभिर्दीक्षयति सप्त छन्दाँ सि छन्दोभिरेवैनं दीक्षयति” (सं. का. ५ प्र. १ अ. ९) इति।
गायत्री त्रिष्टुब्जगतीत्यादिमन्त्रोक्तेषु च्छन्दःस्वष्टस्वन्त्ययोरुष्णिक्ककुभोरेकी-कारेण च्छन्दसां सप्तत्वम् ।
विश्वे देवस्येतिमन्त्रे यजनुष्टुप्छन्दो यच्चास्य मन्त्रस्योत्तमत्वं चष्मरूपत्वं तदुभयं प्रशंसति— १८३३ “विश्वे देवस्य नेतुरित्यनुष्टुभोत्तमया जुहोति वाग्वा अनुष्टुप्तस्मात्प्राणानां वात्तगुमा” [सं. का. ५ प्र. १ अ. ९] इति।
यस्मादिहानुष्टुब्वाग्रूपा सर्वमन्त्रेष्वन्त्या च तस्माल्लोकेऽपि प्राणानां चक्षुरा-दीन्द्रियाणां मध्ये वागुत्कृष्टा ।
वाचा हि विद्वत्सभायां राजसभायां च पूज्यो भवति ।
अशेषजगद्व्यवहारसमर्थत्वेन मन्त्रौ प्रस्तौति।
“एकस्मादक्षरादनाप्तं प्रथमं पदं तस्माद्यद्वाचोऽनाप्तं तन्मनुष्या उपजीवन्ति पूर्णया जुहोति पूर्ण इव हि प्रजापतिः प्रजापतेराप्त्यै न्यूनया जुहोति न्यूनाद्धि प्रजापतिः प्रजा असृजत प्रजानाँ सृष्ट्यै” (सं. का. ५ प्र. १ अ. ९) इति।
यस्मादस्यामृचि प्रथमं पदं प्रथमः पाद एकेनाक्षरेण न्यूनं तस्मान्मनुष्या वाचः स्वरूपमनाप्तमसंपूर्णमुपजीवन्ति ।
मूलाधारादुत्पन्नो वायुर्मूर्धपर्यन्तं प्रसृता वक्त्रे तत्तत्स्थानेषु वर्णानुत्पादयति ।
तदिदं वर्णाभिव्यक्तिलक्षणं वाचश्चतुर्थं पदम् ।
पूर्वाणि तु त्रीणि पदानि कण्ठादध एव गृढत्वान्नाभिव्यञ्जयितुं शक्यन्ते ।
तथा चाऽऽन्नयते—“गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति” इति।
तुरीयं वैखर्याख्यवाचो रूपम् ।
एते नासंपूर्णे वाग्व्यवहारसामर्थ्थे दर्शितम् ।
किंचेय-मृगुत्तरेषु पादेष्वक्षरसंपूर्णा ।
तेन सृष्टिपूर्णप्रजापतिसाम्यात्तत्प्राप्तये भवति ।
प्रथम-पादे यदक्षरऱ्यूनत्वं तेन सृष्टिशून्यजगद्वीजसाम्यात्तत्प्राप्तये भवति । हि यस्मान्नितरा-मूनात्प्रलीनविकारादुपादानात्प्रजा असृजत ।

विश्वास-प्रस्तुतिः

मा सु भि॑त्था॒ मा सु रि॑षो॒ दृँह॑स्व वी॒डय॑स्व॒ सु ।
अम्ब॑ धृष्णु वी॒रय॑स्व [35] अ॒ग्निश्चे॒दङ्क॑रिष्यथः ।

मूलम्

मा सु भि॑त्था॒ मा सु रि॑षो॒ दृँह॑स्व वी॒डय॑स्व॒ सु ।
अम्ब॑ धृष्णु वी॒रय॑स्व [35] अ॒ग्निश्चे॒दङ्क॑रिष्यथः ।

सायण-टीका

कल्पः—“यत्प्राङ्मुष्टिकर्मणस्तत्कृत्वा शृणकुलायेन मुञ्जकुलायेन वौखां प्रच्छाद्य मा सु मित्था इति द्वाभ्यामाहवनीये प्रवृणक्ति” इति।

तत्र प्रथमामाह— मा सु मित्थेति । हे उखे त्वं मा भित्था भिन्ना मा भव । तदिदमाभिन्नत्वं सुष्टु कर्तव्यम् । तथा मा रिषः स्फुटितेनापि हिंसिता मा भव । तदेतदफुटनं सुष्टु कर्तव्यम् । सर्वात्मना द्वैधीभावो भेदः । लेशस्य पृथग्भावः स्फुटनं, १८३४ तदुभयं तव मा भूदित्यर्श्चः । दृंहस्य भेदाभावाय दृढा भव । सुवीडयस्व स्फुठना-भावाय स्वाङ्गानि सुष्ठु दृढी कुरु । हे धृष्णु घर्षणयुक्ते हेऽम्ब मातृसदृशि वीरयस्व वीरवदाचर । अग्निश्च त्वं च मिलित्वेदमस्मदीयं कर्म करिष्यथः ।

विश्वास-प्रस्तुतिः

दृँह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ ।
जुष्ट॑न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् ।

मूलम्

दृँह॑स्व देवि पृथिवि स्व॒स्तय॑ आसु॒री मा॒या स्व॒धया॑ कृ॒तासि॑ ।
जुष्ट॑न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यमरि॑ष्टा॒ त्वमुदि॑हि य॒ज्ञे अ॒स्मिन् ।

सायण-टीका

अथ द्वितीयामाह— दृँहस्य देवीति । हे पृथिवि देवि, मृत्कार्यत्वात्पृथिवीरूपत्वं, मन्त्रैर्निष्पा-द्यवाद्देवतात्वं, तथाविधे हे उखे स्वस्तये यजमानार्थं दृंहस्व दृढा भव । आसुरी माया शम्बराद्युसुरनिर्मितमायेव स्वधया कृताऽसि, कव्यप्रदानवाचिना स्वधाशब्देनान्नमात्र-मुपलक्ष्यते, अन्नेन निमित्तभूतेन तद्धेतुयागसिद्ध्यर्थेत्वं निष्पादिताऽसि । आसुरी माया यद्वदचिन्त्यरचनारूपं चित्रं वस्तु सहसा भूत्वा प्रतिभाति तद्वत्त्वमपि द्विस्तन-त्वादिरचनायुक्ता निष्पन्ना सीत्यर्थः । त्वन्मुखान्निष्पत्स्यमानमिदं हव्बं देवानां जुष्ठं प्रियमस्तु । त्वमप्यरिष्टा केनाप्यहिंसिता सत्यस्मिन्यज्ञ उदिह्युद्गता भव । अस्यामुखा-यां परितोऽङ्गारानोप्य तापनं विधत्ते— “यदर्चिषि प्रवृञ्ज्याद्भूपमव रुन्धति यदङ्गारेषु भविष्यदङ्गारेषु प्र वृ-णक्ति भविष्यदेवाव रुन्धे भविष्यद्धि भूयो भूतात्” (सं. का. ५ प्र. १ अ. ९) इति।
यदि ज्वालायामुखां प्रतपेत्तदानीं यदस्य गृहे भूतं पूर्वे विद्यमानं धनमस्ति तदेव स्वाधीनं भवति, न तु भविष्यत् । यदि, अङ्गारेषु प्रतपेत्तदानीं गृहे भविष्यद-विद्यमानं धनं प्राप्नोति । हि यस्माज्जना भविष्यद्धनं भूताद्भूयोऽधिकं मन्यन्ते । न खलु कश्चिदपि भूतार्थं प्रति यतते भविष्यदर्थं तु सवोऽपि प्रयतते । अङ्गारेषु काष्ठै समिन्धनेन ज्वाला भाविनी । अतोऽङ्गाराणां भाविधनहेतुत्वं युक्तम् । वस्मिन्प्रताप-ने मा सु भित्था इत्यादिमन्त्रद्वयं विनियुङ्क्ते— “द्वाभ्यां प्र वृणक्ति द्विपाद्यजमानः प्रतिष्ठित्यै” [सं. का. ५ प्र. १ अ. ९] इति।

विश्वास-प्रस्तुतिः

मित्रै॒तामु॒खान्त॑प ।

मूलम्

मित्रै॒तामु॒खान्त॑प ।

सायण-टीका

कल्पः—“मित्रैतामुखां तपेति प्रदक्षिणमङ्गारैः परीन्धे” इति। पाठस्तु— १८३५ मित्रैतामुखामिति । हे मित्रैतामुखां तप तप्तां कुरु ।

विश्वास-प्रस्तुतिः

ए॒षा मा भे॑दि ।

मूलम्

ए॒षा मा भे॑दि ।

सायण-टीका

एषोखा मा भेदि मा भिद्यताम् ।

विश्वास-प्रस्तुतिः

ए॒तान्ते॒ परि॑ ददा॒म्यभि॑त्त्यै ।

मूलम्

ए॒तान्ते॒ परि॑ ददा॒म्यभि॑त्त्यै ।

सायण-टीका

अभि ये भङ्गाबावार्थंमेतामुखां ते तव हस्ते परितो ददामि ।
देवतान्तरपरित्यागेन मित्रायैवोखायाः परिदाने कारणं दर्शयति— “ब्राह्मण वा एषा यजुषा संभृता यदुखा सा यद्भिद्येताऽऽर्तिमार्छेद्याजमानो हन्येतास्य यज्ञो मित्रैतामुखां तपेत्याह ब्रह्म वै मित्रौ ब्रह्मन्नेवैनां प्रतिष्ठापयति नाऽऽ-र्तिमार्छति यजमानो नास्य यज्ञो हन्यते” [सं. का. ५ प्र. १ अ. ९] इति।
येयमुखा सैषा परब्रह्मस्वरूपेण वसवस्त्वा कृण्वन्वित्यादिना यजुषा संपा-दिता। परब्रह्मण उत्पन्नत्वाद्यजुषो ब्रह्मत्वम् । तथाविधेन यजुवोत्पन्नाया उखायाः—कदाचिदपि भेदो न युक्तः । कुलालेन निर्मितादयजुऽकाद्घटाद्विलक्षणत्वात् । एवं सति यदि कदाचित्प्रमादाद्भिद्येत तदानीं यजमानो म्रियेत यज्ञोऽपि विनश्येत् । मि-त्रायोखायाः परिदाने तु मित्रस्य परब्रह्मरूपत्वाद्ब्रह्मण्येवोखा प्रतिष्ठापिता भवति । ततो यजमानस्य यज्ञस्य च नास्ति हानिः ।

अथ भेदे सति प्रायश्चितं विधत्ते— “यदि भिद्येत तैरेव कपालै सँ सृजेत्सैव ततः प्रायाश्चित्तिः” (सं. का. ५ प्र. १ अ. ९) इति।
षक्वाया उखाया भेदे तदीयैरेव कपालैमृंदन्तरं मिश्रीयत्वा पुनरप्युखां निष्पादयेत् । सैव पुनर्निष्पादितोखा ततो भेदरूपादपराधात्प्रायश्चिर्त्तिर्विमोचनहेतुः । पूर्व सामान्याकारेणोखायाः प्रतपनमाहवतीये विहितम् ।
अथ गतश्रियो विशेषं विधत्ते— “यो गतश्रीः स्यान्मथित्वा तस्याव दध्यादभूतो वा एष स स्वां देवतामुपैति” [सं. का. ५ प्र. १ अ. ९] इति।
योऽग्निचयने प्रवृत्तो गतश्रीः शुश्रुवान्ग्रामणी राजन्यो वा भवेत्तस्य मथित-मग्निमुखायामवदध्यात् । न त्वाहवनीय उखायाः प्रवृञ्जनं कार्यम् । एष त्रयाणां १८३६ गतश्रियां मध्येऽन्यतमो भूतो भूतिमानैश्वर्योपेतः । अतः प्रभुत्त्वात्स स्वकीयामेव मथितारिनरूपां देवतागुपैतुमर्हति न त्वाहवनीयदेवतान्तराम् ।
यस्तु गतश्रीः सन्पुनर्भूतिं कामयेत तस्य मथिताग्निमपोद्य पूर्ववत्प्रवृञ्जन-मपि विधत्ते— “यो भूतिकामः स्याद्य उखायै संभवेत्स एव तस्य स्यादतो ह्येष संभवत्यषे वै स्वयंभूर्नाम भवत्येव” (सं. का. ५ प्र. १ अ. ९) इति।
आहवनीये प्रतप्तायामुखायां योऽग्निः संभवेत्स एव तस्य भूतिकामर्स्यं गत श्रियः कार्यो न तु मथितः । हि यस्मादत उखायामेष संभवति तस्मान्मथनापेक्षा मन्तरेण स्वयमेवोत्पन्नत्वादेष स्वयंभूरित्युच्यते । एवं सति यजमानो भवत्येव भूतिं प्राप्नोत्येव । यजमानद्वेषिणोऽध्वर्योः प्रकारान्तरं विधत्ते “यं कामयेत भ्रातृव्यमस्मै जनयेयमित्यन्यस्तस्याऽऽहत्याव दघ्यात्साक्षादे-वास्मै भ्रातृव्यं जनयति” [सं. का. ५ प्र. १ अ. ९] इति।
यमुद्दिश्य शत्रुमस्मै जनयेयमिति कामयेताध्वर्युस्तस्यान्यतो गृहान्तरादिप्रदे-शादग्रिमानीयोखायां प्रक्षिपेत् । तथा सति विलम्बमन्तरेणैव भ्रातृव्यं जनयति । अथ कामनाविशेषेणान्यमग्निं विधत्ते— “अम्बरीषादन्नकामस्याव दध्यादम्बरीषे वा अन्नं भ्रियते सयोन्येवान्नमव रुन्धे” [सं. का. ५ प्र. १ अ. ९] इति।
घृतादिना शाकादिभर्जनार्थे यल्लौकिकं लोहदिपात्रं तदम्बरीषं तस्मिन्प्रतप्ते घृतप्रक्षेषेण प्रौढा ज्वालोत्पद्यते । ततोऽग्निमाहृत्योखायामवदध्यात् । लोके हि तस्मिन्नम्बरीषे शाकादिकमन्नं धार्यते । अतः काम्यमानेनान्नेनैतस्याग्नेः समानयोनि-त्वाद्यजमानोऽन्नं प्राप्नोत्येव।
तदेवं प्रवृञ्जनप्रसंङ्गागतान्विधन्पिरिसमाप्य प्रकृतप्रवृञ्जनोपयुक्तं द्रव्यं विधत्ते— “मुञ्चानव तधात्यूर्ग्वै मुञ्जा ऊर्जमेवास्मा अपि दधाति” (सं. का. ५ प्र. १ अ. ९) इति।
१८३७ शुष्कान्मुञ्जाख्यांस्तृणविशेषानुखायां प्रक्षिपेत् । महिष्यादिभिर्भक्ष्यत्वान्मुञ्जा ऊर्ग्रूपाः । अन्नमेव यजमानाय संपादयति ।

विश्वास-प्रस्तुतिः

द्र्व॑न्नस्स॒र्पिरा॑सुतिᳶ प्र॒त्नो होता॒ वरे॑ण्यः ।
सह॑सस्पु॒त्रो अद्भु॑तः ।

मूलम्

द्र्व॑न्नस्स॒र्पिरा॑सुतिᳶ प्र॒त्नो होता॒ वरे॑ण्यः ।
सह॑सस्पु॒त्रो अद्भु॑तः ।

सायण-टीका

कल्पः—“दूब्रन्नः सर्पिरासुतिरिति तस्यां क्रुमुकमुल्लिखितं घृतेनाङ्क्त्वाऽ-वदधाति मुञ्जश्चि” इति । पाठस्तु— द्ब्रन्नः सर्पिरिति । अत्रोत्पत्स्यमानोऽग्निरेतैर्विशषेणैः प्रशस्यते । द्रुशब्देन वृक्षा उच्यन्ते । “द्रुषदमित्याह । वनस्पतयो वै द्रु । वनस्पतीनामेवैतेन सूयते” इति श्रुत्यन्तरात् । द्रुशब्दाभिधेया वृक्षा अन्नं यस्यासौ द्ब्रन्नः । सर्पिरेवाऽऽहारत्वेन सूयते प्रक्षिप्यतेऽस्मिन्निति सर्पिरासुतिः । प्रत्नः पुरातनः । होता देवानामाह्वाता । वरेण्यो वरणीयः । सहसो बलस्य पुत्रः । मथनहेतुना बलेनोत्पद्यमानत्वात् । अद्भुत आश्चर्यरूपः ।
अनेन मन्त्रेण साध्यं क्रुमुकावधानं विधत्ते— “अग्निर्देवेभ्यो निलायत स क्रुमुक्तं प्राविशत्क्रुमुकमव दधाति यदेवास्य तत्र न्यक्तं तदेवाव रुन्धे” [सं. का. ५ प्र. १ अ. ९] इति।
क्रुमुकमल्पं काष्ठशकलम् । न्यक्तं विलीनमग्निरूपम् । तत्र तस्मिन्नेव शकलेऽस्याग्नेर्यदेव रूपं न्यक्तं विलीनं तत्प्राप्नोति । चूर्णरूपं क्रुमुकमिति सूत्रका-रेणोक्तम् । अस्य क्रमुकस्य घृताक्तत्वं विधत्ते— “आज्येन सं यौत्येतद्वा अग्नेः प्रियं धाम यदाज्यं प्रियेणैवैनं धाम्ना समर्ध-यत्यथो तेजसा” [सं. का. ५ प्र. १ अ. ९] इति।
संयौति तत्क्रुमुकं संमिश्रयेत् । आज्यस्याग्निस्थानत्वम् “आ प्यायत। घुतयोनिरग्निः” इत्यादिमन्त्रवर्णाद्घृतेन ज्वालोत्पत्तेश्चावगन्तव्यम् । ज्वालेत्पत्तिरेवा-त्राथो तेजसा समर्धयतीत्युच्यते ।

विश्वास-प्रस्तुतिः

पर॑स्या॒ अधि॑ सव्ँ॒वतोऽव॑राँ अभ्या [36] त॒र॒ ।
यत्रा॒हमस्मि॒ ताँ अ॑व ।

मूलम्

पर॑स्या॒ अधि॑ सव्ँ॒वतोऽव॑राँ अभ्या [36] त॒र॒ ।
यत्रा॒हमस्मि॒ ताँ अ॑व ।

सायण-टीका

कल्पः—“परस्या अधि संवत इति वैकङ्कतीं समिधमादधाति” इति ।
पाठस्तु— परस्या अधीति । सम्यग्वनुते देवान्भजते यस्यां क्रियायां सा क्रिया संवत्। परस्याः संवतोऽध्युत्कृष्टाया इष्ठेरधीष्ठानं त्वमवरान्निकृष्ठानप्यस्मानभ्यात- १८३८ राऽऽभिमुख्येनाऽऽगत्य दुःखात्तारय । यत्र येषु बन्धुष्वमहस्मि तानपि बन्धूनव रक्ष। अनेन मन्त्रेण साध्यं समिदाधानं विधत्ते— “वैकङ्कतीमा दधाति मा एवाव रुन्धे” [सं. का. ५ प्र. १ अ. ९] इति।

विश्वास-प्रस्तुतिः

प॒र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्व इ॒हा ग॑हि ।
पु॒री॒ष्यᳶ॑ पुरुप्रि॒योऽग्ने॒ त्वन्त॑रा॒ मृधः॑ ।

मूलम्

प॒र॒मस्याः॑ परा॒वतो॑ रो॒हिद॑श्व इ॒हा ग॑हि ।
पु॒री॒ष्यᳶ॑ पुरुप्रि॒योऽग्ने॒ त्वन्त॑रा॒ मृधः॑ ।

सायण-टीका

आग्नेयी दीप्तिर्विकङ्कतवृक्ष एवावतिष्ठते । अत एवाऽऽधानब्राह्मणे स्तूयते— “अग्नेः सृष्टस्य यतः । विकङ्कतं मा आर्छत्” इति । पाठस्तु— परमस्या इति । परायच्छब्दो तूरदेशवाची । हेऽग्ने परमस्याः परावतोऽ-त्यन्तदूरदेशादिहास्मिकर्मणि त्वमागहि आगच्छ । कीदृशस्त्वं, रोहिदश्वो लोहित-वर्णोऽश्वो यस्यासौ रोहिदश्व । अत एवान्यत्राप्याग्नायते “रोहितेन त्वाऽग्निर्देवतां गमयतु” इति । पुरीषमुखाहेतुभूतं पांसुमर्हतीति पुरीष्यः । पुरूणां यजमानानां प्रियः पुरुप्रियः । तादृशस्त्वं मृधः शत्रूंस्तरातिलङ्घय ।
अनेन मन्त्रेण साध्यं समिदाधानं विधत्ते— “शमीमयीमा दधाति शान्त्यै” (सं. का. ५ प्र. १ अ. ९) इति।
शमीवृक्षस्याग्निदाहशमनहेतुत्वात्तदीया समिधा शान्तिर्भवति । अत एषाऽऽधानब्राह्मणे पाठ्यते—“प्रजापतिरग्निमसृजत । सोऽबिमेत्प्र मा धक्ष्यतीति । तँश म्याँशमयत् । तच्छम्यै शमित्वम्” इति।

विश्वास-प्रस्तुतिः

सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् ।
मैना॑म॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्याँ शु॒क्रज्यो॑ति॒र्वि भा॑हि ।

मूलम्

सीद॒ त्वम्मा॒तुर॒स्या उ॒पस्थे॒ विश्वा॑न्यग्ने व॒युना॑नि वि॒द्वान् ।
मैना॑म॒र्चिषा॒ मा तप॑सा॒भि शू॑शुचो॒ऽन्तर॑स्याँ शु॒क्रज्यो॑ति॒र्वि भा॑हि ।

सायण-टीका

कल्पः—“सीद त्वं मातुरस्या उपस्थ इति तिसृमिर्जातमुख्यमुपतिष्ठते” इति। तत्र। प्रथमामाह— सीद त्वं मातुरिति । हेऽग्ने त्वं मातृसगानाया अस्या उखाया उपस्थ उत्सङ्गे सीदोपविश । कीदृशस्त्वं, विश्वानि वयुनानि सर्वाञ्ज्ञानोपायान्विद्वानेना मुखामाचषा त्वदीयदीप्त्या मा शूशुचोऽत्यन्तं मा दीपय । तपसा संतापेनाभि मा शूशुचः । अर्चिः कारणं तपः कार्ये, कारणेनेपत्तापो भवति, कार्येण तु भूयान् । तदुभयं मा कुर्वित्यर्थः । अस्यामुखायामन्तः शुक्रज्योतिर्निर्मलप्रकाशः सन्विमाहि विशेषेण दीप्यस्व ।

विश्वास-प्रस्तुतिः

अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे ।
तस्या॒स्त्वँ हर॑सा॒ तप॒ञ्जात॑वेदश्शि॒वो भ॑व ।

मूलम्

अ॒न्तर॑ग्ने रु॒चा त्वमु॒खायै॒ सद॑ने॒ स्वे ।
तस्या॒स्त्वँ हर॑सा॒ तप॒ञ्जात॑वेदश्शि॒वो भ॑व ।

सायण-टीका

अथ द्वितीयामाह— १८३९ अन्तरग्ने रुचेति । हेऽग्ने उखायै तस्या उखाया अन्तर्मध्ये स्वे सदने स्वकीये स्थाने रुचा दीप्त्यां युज्यस्वेति शेषः । हे जातवेदस्त्वं तस्या उखायाः शिवो भव सुखप्रदो भव । किं कुंर्वन् । हरसा तेजसा तपञ्ज्वलन् ।

विश्वास-प्रस्तुतिः

शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् ।
शि॒वाᳵ कृ॒त्वा दिश॒स्सर्वा॒स्स्वाय्ँयोनि॑मि॒हास॑दः ॥ [37]

मूलम्

शि॒वो भू॒त्वा मह्य॑म॒ग्नेऽथो॑ सीद शि॒वस्त्वम् ।
शि॒वाᳵ कृ॒त्वा दिश॒स्सर्वा॒स्स्वाय्ँयोनि॑मि॒हास॑दः ॥ [37]

सायण-टीका

अथ तृतीयामाह। शिवो भूत्वेति । हेऽग्ने मह्यं मदर्थं शिवः शान्तो भूत्वा थो अनन्तरं त्वं शिवः सन्सीद सर्वान्प्रत्ति शान्तः सन्नुपविश । सर्वा दिशः शिवाः शान्ताः कृत्वेहा-स्यामुखायां स्वां योनिं स्वकीयं स्थानमासद आगत्योपविश ।
एतान्मन्त्रान्विनियुङ्क्ते— “सीद त्वं मातुरस्या उपस्थ इति तिसृभिर्जातमुप तिष्ठते त्रय इमे लोका एष्वेव लोकेष्वाविदं गच्छत्यथो प्राणानेवाऽऽत्मन्धत्ते” (सं. का. ५ प्र. १ अ. ९) इति।
आविदं ख्यातिम् । किंच प्राणापानव्यानानां त्रित्वात्तानपि त्रिसंख्यया स्वात्मनि स्थापयति ।

अत्र विनियोगसंग्रहः— आकूतिं सप्तभिर्दीक्षाहुतिर्मा स्विति च द्वयात् ।
पूर्वाग्नौ प्रवृणक्त्योखां मित्राङ्गारैः समिध्यते ॥
द्व्नन्नः क्रुमुकमाधत्ते परं वैकङ्कतीं परम् ।
शमीमयीं सीद जातं तिसृभिश्चोपतिष्ठते ॥
नवमे त्वनुवा॑केऽस्मिन्मन्त्राः षोडश वर्णिताः ॥
अत्र मीमांसा।
दशमाध्यायस्य तृतीयपादे चिन्तितम्— षड्भिर्दीक्षयतीत्यग्निगतं प्राकृतबाधकम् ।
समुच्चितं वा बाधः स्यात्कार्यैक्यात्पाठवाक्यतः ॥
अग्नौ होमाङ्गता क्लृप्तेरतिदिष्टेन तुल्यता ।
विनाऽऽवृत्तिं द्वादशत्वसिद्ध्ये स्यात्समुच्चयः ॥

अग्निचयने दीक्षाहुतयः श्रूयन्ते– ‘षड्भिर्दीक्षयति” इति। प्रकृतावपि- १८४० “स्त्रुषेण चतस्त्रो जुहोति दीक्षितत्वाय” इत्यादिना दीक्षाहुतयः षड् विहिताः । तत्र मन्त्रा भिन्नाः- “आकूत्यै प्रयुजेऽग्नये स्वाहा” इत्यादयः प्राकृता मन्त्राः, “आकूति-माग्निं प्रयुजँ स्वाहा” इत्यादयो वैकृताः । तत्र वैकृतमाहुतिम त्रषद्कं प्राकृतस्य वाधकं किंवा प्राकृतेन समुच्चितमिति संशये बाधकमिति तावत्प्राप्तम् । कुतः । कार्यैक्यात् । दीक्षणीयाङ्गभूताहुत्युपकारलक्षणं यत्कार्यं प्राकृतानां मन्त्राणां तदेव वैकृतानामपि । न च विकृतौ तन्न प्रतीयत इति शङ्कनीयम् । स्वाहान्तपाठरूपेण लिङ्गेन मन्त्राणामाहुत्युषकारकत्वप्रतीतेः । आहुतीनां च षड्भिर्दीक्षयतीति वाक्येन दीक्षणीयाङ्गत्वप्रतीतेः । तस्माच्छूयमाणैर्मन्त्रैरतिदिष्टानां बाध इति पूर्वः पक्षः । अग्नौ मन्त्राणां स्वरूपं यद्यपि श्रुतिसिद्धं तथाऽपि होमाङ्गत्वं लिङ्गेन कल्पनीयम् । तथा चातिदेशकल्प्यैर्मन्त्रैस्तुल्यबलत्वान्न बाध्य बाधकता । एवमपि न समुच्चये प्रमाणमस्तीति चेत् । अस्त्येव । द्वादश जुहोतीति संख्याविधानेन तत्सिद्धेः । न च वैकृतानामेव षण्णामावृत्त्या संख्या सिघ्वतीति वाज्यम् । आवृत्तेरश्रुतत्वात् । न च सा कल्पयितुं शक्यतेऽन्यथाऽपि संख्योपपत्तेः । तस्मात्समुच्चय इति राद्धान्तः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके नवमोऽनुवाकः ॥ ९ ॥