१-५ त्रिष्टुप्, ६ विराड्रूपा, १० अनुष्टुप् । अग्निर्ऋषिः चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः
विश्वास-प्रस्तुतिः
समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु सव्ँवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या ।
सन्दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिशᳶ॑ पृथि॒व्याः ।
मूलम्
समा॑स्त्वाग्न ऋ॒तवो॑ वर्धयन्तु सव्ँवत्स॒रा ऋष॑यो॒ यानि॑ स॒त्या ।
सन्दि॒व्येन॑ दीदिहि रोच॒नेन॒ विश्वा॒ आ भा॑हि प्र॒दिशᳶ॑ पृथि॒व्याः ।
सायण-टीका
[अथ चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः]
षष्ठेऽनुवाक उखासंस्कार उक्तः ।
अथ सप्तमेऽनुवाके पञ्चपश्वङ्गभूता आग्निक्यः सामिधेन्य उच्यन्ते।
कल्पः—‘एकर्विंशतिं चतुर्विशतिं वा पराचीः सामिधेनीरन्वाहैकादश प्राकृतीः समास्त्वाऽग्न इति दशाऽऽग्निकीः’ इति ।
तत्राऽऽद्यामाह— समास्त्वाऽग्न इति ।
समाशब्दः संवत्सरवाची ।
संवत्सरशब्देन तु तदव यवा मासा अर्धमासाश्चोपलक्ष्यन्ते ।
हेऽग्ने संवत्सर ऋतवो मासा अर्धमासाश्चेत्येते कालविशेषाः ।
तथर्पयो मन्त्रद्रष्टारः ।
तथा यानि सत्यानि सत्यवचनानि सन्ति ते सर्वेऽपि त्वां वर्धयन्तु ।
तैर्वर्धितस्त्वं दिव्येन द्युलोकार्हेण रोचनेन तेजसा संदीदिहि सभ्यग्दीप्यस्व ।
किंच त्वदीयया दीप्त्या पृथिव्याः संबन्धिनीः प्रदिशः सर्वा दिशो विदिशश्चाऽऽभाहि सर्वतो भासय ।
विश्वास-प्रस्तुतिः
सञ्चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय ।
मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शस॑स्सन्तु॒ माऽन्ये ।
मूलम्
सञ्चे॒ध्यस्वा॑ग्ने॒ प्र च॑ बोधयैन॒मुच्च॑ तिष्ठ मह॒ते सौभ॑गाय ।
मा च॑ रिषदुपस॒त्ता ते॑ अग्ने ब्र॒ह्माण॑स्ते य॒शस॑स्सन्तु॒ माऽन्ये ।
सायण-टीका
अथ द्वितीयामाह— सं चेध्यस्वाग्न इति ।
हेऽग्ने त्वं समिध्यस्व च स्वयमपि दीप्तो भव ।
एनं प्रबोधय च यजमानं कर्मानुष्ठानाय प्रबुद्धं कुरु ।
महते सौभगायोत्तिष्ठ
१८१४ च यजमानस्यात्यन्तसौभाग्यार्थमुद्युक्तोऽपि भव ।
हेऽग्ने ते तवोपसत्ता परिचारकश्च मत्परिषन्मा हिंस्यताम् ।
किंच ते त्वदीया ब्रह्माणो ब्राह्मणा ऋत्विग्यजमाना यशसः सन्तु यशरिवनो भवन्तु ।
अन्ये त्वत्परिचर्याविमुका यशस्विनो मा भूवन् ।
विश्वास-प्रस्तुतिः
त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने [25] सव्ँ॒वर॑णे भवा नः ।
स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन् ।
मूलम्
त्वाम॑ग्ने वृणते ब्राह्म॒णा इ॒मे शि॒वो अ॑ग्ने [25] सव्ँ॒वर॑णे भवा नः ।
स॒प॒त्न॒हा नो॑ अभिमाति॒जिच्च॒ स्वे गये॑ जागृ॒ह्यप्र॑युच्छन् ।
सायण-टीका
अथ तृतीयामाह— त्वामग्न इति ।
हेऽग्न इमे ब्राह्मणा ऋत्विग्यजमानास्त्वां वृणते संभजन्त आराधयन्ति ।
हेऽग्ने नोऽस्माकं संवरणेऽपराधानामाच्छादने निमित्तभूते सति शिवः शान्तो भव, अपराधं मा प्रकटयेत्यर्थः ।
किंच नोऽस्माकं सपत्नहा वीरघाती, अभिमातिजित्पापजयकारी च भूत्वा स्वे गये स्वकीये गृहेऽप्रयुछन्प्रमादमकुर्वन्ञ्जागृहि सावधानो भव ।
अस्माद्धितं विचारयेत्यर्थः ।
विश्वास-प्रस्तुतिः
इ॒हैवाग्ने॒ अधि॑ धारया र॒यिम्मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिणः॑ ।
क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतान्ते॒ अनि॑ष्टृतः ।
मूलम्
इ॒हैवाग्ने॒ अधि॑ धारया र॒यिम्मा त्वा॒ नि क्र॑न्पूर्व॒चितो॑ निका॒रिणः॑ ।
क्ष॒त्रम॑ग्ने सु॒यम॑मस्तु॒ तुभ्य॑मुपस॒त्ता व॑र्धतान्ते॒ अनि॑ष्टृतः ।
सायण-टीका
अथ चतुर्थीमाह— इहैवाग्न इति ।
हेऽग्न इहैव गृह एव रयिं धनमधिधारयाधिक्येन संषा-दय ।
पूर्वचितो येऽस्मत्तोऽपि पूर्वमग्नेश्चेतारस्तेऽस्मान्प्रति निकारिणो निराकर्तारो भृत्वा त्वामस्मामिश्चीयमानमग्निं मा निक्रन्मेमैव निराकुर्वन्तु ।
हेऽग्ने तुभ्यं तव क्षत्रं बलं सुयममस्तु सुस्थितं भवतु ।
ते तत्रोपसत्ता परिचारकोऽनिष्टृतः केनापि नित रामहिंसितः सन्वर्धताम् ।
विश्वास-प्रस्तुतिः
क्ष॒त्रेणा॑ग्ने॒ स्वायु॒स्सँ र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व ।
स॒जा॒ताना॑म्मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह ।
मूलम्
क्ष॒त्रेणा॑ग्ने॒ स्वायु॒स्सँ र॑भस्व मि॒त्रेणा॑ग्ने मित्र॒धेये॑ यतस्व ।
स॒जा॒ताना॑म्मध्यम॒स्था ए॑धि॒ राज्ञा॑मग्ने विह॒व्यो॑ दीदिही॒ह ।
सायण-टीका
अथ पञ्चमीमाह— क्षत्त्रेणाग्न इति ।
हेऽग्ने क्षत्रेण त्वदीयेन बलेन स्वायुरस्मदीयं शोभनमायुः संरभस्व संरक्षाऽऽयुःसंरक्षणेऽप्रमत्तो भव ।
हेऽग्ने मित्रधेये मित्राणामस्माकं धारणे मित्रेणानुग्रहयुक्तेन चित्तेन यतस्व प्रतस्व प्रयत्नं कुरु ।
अग्निना सह प्रजापतेर्मुखतो जातत्वाद्ब्राह्मणा अग्नेः सजातास्तेषां मध्यमस्था एधि मध्यमे प्रदेशेऽवस्थितो भव ।
सर्वदा ब्राह्मणान्पूजयेत्यर्थः ।
हूयतेऽत्रेति हवा यज्ञा विविधाश्च ते हवाश्च विहवाः विहवानर्हतीति विहव्यः ।
हेऽग्ने त्वमिह भूमौ राज्ञां विहव्यो विविधयज्ञप्रवर्तकः सन्दीदिहि, अतिशयेन दीप्यस्व ।
विश्वास-प्रस्तुतिः
अति॑ [26] निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने ।
विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्यँ॑ स॒हवी॑राँ र॒यिन्दाः॑ ।
मूलम्
अति॑ [26] निहो॒ अति॒ स्रिधोऽत्यचि॑त्ति॒मत्यरा॑तिमग्ने ।
विश्वा॒ ह्य॑ग्ने दुरि॒ता सह॒स्वाथा॒स्मभ्यँ॑ स॒हवी॑राँ र॒यिन्दाः॑ ।
सायण-टीका
अथ षष्ठीमाह— अति निहो अतीति ।
निकृष्टानि श्वशुकरादिजन्मानि जिहीते प्राप्नोति यैर्दुरितैस्तानि दुरितानि हकारान्तेन निहशब्देनोच्यन्ते ।
शरीरशोषणादिहेतवो रोग-विशेषाः स्रिधुशब्दनोच्यन्ते ।
हेऽग्ने निहो दुरितान्यतिसहस्वातिशयेन विना १८१५ शय ।
स्त्रिधो रोगांश्चातिसहस्व ।
अचित्तिं कर्मानुष्ठानविषयज्ञानं चातिसहस्व ।
अरातिं कर्मविघ्नकारिणं शत्रु चातिसहस्व ।
हिशब्दोऽपिशब्दार्थः ।
किंबहुना, हेऽग्ने विश्वान्यपि दुरितान्यनिष्टकारणानि सहस्व विनाशय ।
अथानन्तरमस्मभ्यं सहवीरां वीरैः पुत्रैः सहितां सयिं धनं दा देहि ।
विश्वास-प्रस्तुतिः
अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह ।
विश्वा॒ आशाः॑ प्रमु॒ञ्चन्मानु॑षीर्भि॒यश्शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे ।
मूलम्
अ॒ना॒धृ॒ष्यो जा॒तवे॑दा॒ अनि॑ष्टृतो वि॒राड॑ग्ने क्षत्र॒भृद्दी॑दिही॒ह ।
विश्वा॒ आशाः॑ प्रमु॒ञ्चन्मानु॑षीर्भि॒यश्शि॒वाभि॑र॒द्य परि॑ पाहि नो वृ॒धे ।
सायण-टीका
अथ सप्तमीमाह— अनाधृष्य इति ।
हेऽग्ने त्वमिह कर्मणि दीदिहि दीप्यस्व ।
कीदृशस्त्वम् ।
अनाधृष्य इतः परं केनाप्यधर्षणीयः ।
जातवेदा उत्पन्नसमस्तजगदभिज्ञः ।
अनिष्टृत इतः पूर्वमपि केनाप्यहिंसितः ।
विराड्विविधं राजमानः ।
क्षत्रं बलं बिभर्तीति क्षत्र-भृत् किंच यथोक्तविशेणषविशिष्टस्त्वं शिवाभिः शान्ताभिरनुग्रह दृष्टिभिरद्यास्मिन्क-र्मणि नोऽस्मान्वृधेऽभिवृद्धये परिपाहि सर्वतः पालय ।
किं कुर्वत् ।
बिश्वा आशा निषिद्धाचरणविषयाः सर्वास्तृष्णा मानुषीर्भियो मनुष्येषु प्रसक्ता व्याध्यादिभीतीश्च प्रमुञ्चन्प्रकर्षेण निवारयन् ।
विश्वास-प्रस्तुतिः
बृह॑स्पते सवितर्बो॒धयै॑नँ॒ सँशि॑तञ्चित्सन्त॒राँ सँ शि॑शाधि ।
व॒र्धयै॑नम्मह॒ते सौभ॑गाय [27] विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ।
मूलम्
बृह॑स्पते सवितर्बो॒धयै॑नँ॒ सँशि॑तञ्चित्सन्त॒राँ सँ शि॑शाधि ।
व॒र्धयै॑नम्मह॒ते सौभ॑गाय [27] विश्व॑ एन॒मनु॑ मदन्तु दे॒वाः ।
सायण-टीका
अथाष्टमीमाह— बृहस्पत इति ।
अत्र बृहस्पतिसवितृशब्दावग्निपरौ ।
सामिधेनीनामाग्नेय-त्वात् ।
बृहस्पतिसवितृभ्यां तुल्य हेऽग्ने एनं यजमानं बोधय कर्मणि बुद्धिमन्तं कुरु।
संशितंचित्पूर्वमेव निशितबुद्धिमप्येनं संतरां संशिशाधि पुनरप्यतिशयेन सम्यगनुशा-सनवन्तं कुरु ।
एनं यजमानं महते सौभगाय वर्धय ।
विश्वे सर्वेऽपि देवा एनं यज-मानमनुमदन्तु समीचीनोऽयमिति हृष्यन्तु ।
विश्वास-प्रस्तुतिः
अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।
प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ।
मूलम्
अ॒मु॒त्र॒भूया॒दध॒ यद्य॒मस्य॒ बृह॑स्पते अ॒भिश॑स्ते॒रमु॑ञ्चः ।
प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्माद्दे॒वाना॑मग्ने भि॒षजा॒ शची॑भिः ।
सायण-टीका
अथ नवमीमाह— अमुत्रभूयादिति ।
भूयो भावः ।
अमुत्र स्वर्गे भूयोऽमुत्रभूयः ।
स्वर्गे चि-रावस्तानमित्यर्थः ।
पञ्चमी निमित्तार्था ।
अधशब्दो धकारयुक्त इदानीमित्येतस्मिन्नर्थे वर्तते ।
हे बृहस्पतितुल्याग्नेऽमुत्रभूयात्स्वर्गे चिरावस्थानं निमित्तीकृत्याथेदानीं यम-स्याभिशस्तेर्यमसंबन्धिहिंसानिमित्तात्पापादस्मानमुञ्चो मोचितवानसीति यत्तेनास्माकं परलोकविषये चिन्ता नास्तीति शेषः ।
हेऽग्ने देवानां भिषजावश्विनौ देवौ शचीभिः।
स्वकीयशक्तिभिरस्माद्यजमानान्मृत्युं प्रत्याहैताम्, अपमृत्युमिह लोके निराकुरुताम् ।
विश्वास-प्रस्तुतिः
उद्व॒यन्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ [28]
मूलम्
उद्व॒यन्तम॑स॒स्परि॒ पश्य॑न्तो॒ ज्योति॒रुत्त॑रम् ।
दे॒वन्दे॑व॒त्रा सूर्य॒मग॑न्म॒ ज्योति॑रुत्त॒मम् ॥ [28]
सायण-टीका
अथ दशमीमाह— उद्वयं तमस इति ।
वयं तमस उत्तरं ज्योतिस्तमसो विनाशकत्वेनोत्कृष्ट- १८१६ मग्निसंबद्धं ज्योतिरुत्परि पश्यन्त उत्कर्षेण सर्वतोऽवलोकयन्तो देवत्रा देवेषु मध्ये सूर्यं देवं सृर्यरूपेण वर्तमानमग्निसंबद्धमेवोत्तयं ज्योतिरगन्म प्राप्तास्म ।
अत्र विनियोगसंग्रहः—
समास्त्वा सामिधेन्यः स्युर्दशैता आग्निके पशौ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे प्रथमप्रपाठके सप्तमोऽनुवाकः ॥
७ ॥