अथ चतुर्थकाण्डप्रारम्भः - वैश्वदेवं काण्डम्
सायण-टीका
राजसूयः , पशुबन्धः, इष्टयो, नक्षत्रेष्टयो, दिवश्येनयो, अपाघाः, सात्रायणमुपहोमाः, कौलकी सूक्तान्यौपानुवाक्यं याज्या अश्वमेधः पुरुषमेधः सौत्रामणी अच्छिद्राणि पशुहौत्रम् उपनिषदः इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानि +++(सूत्रम्)+++
राजसूयः तद्ब्राह्मणम्, पशुबन्धः उपानुवाक्यं याज्याः अश्वमेधः तद्ब्राह्मणम् सात्रायणम् उपहोमाः सूक्तानि नक्षत्रेष्टयः सौत्रामणी अच्छिद्राणि पशुहौत्रं परशुमेधश्चेति षोडश वैश्वदेवानीत्यर्थः
अथ स(सायण)भाष्यकृष्णयजुर्वेदयितैत्तिरीयसंहितायां चतुर्थं काण्डम्।
(तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदोभ्योऽखिलं जगत्।
निर्मेमे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
तृतीयकाण्डे सोमस्य शेषः प्रायेण वर्णितः।
चतुर्थे त्वग्निचित्यङ्गमन्त्राणां पाठ ईर्यते॥
अवान्तरविशेषास्तु विनियोगे प्रदर्शिताः।
चतुर्थकाण्डमग्न्याख्यं सप्तभिः पाठकैर्युतम्॥
उखासंभरणे मन्त्राः प्रथमे पाठके श्रुताः।
एकादशानुवाकाः स्युस्तदर्थाः स्युः क्रमादमी॥
अभ्घ्र्यादानं मृदाक्रान्तिः खननं हरणं तथा।
उखानिर्माणसंस्कारौ सामिधेन्यस्तथाऽऽप्रियः॥
अग्न्युत्पादो धारणं च याज्या इत्यनुवाकगाः ॥
इति।
(इति भाष्यकारोपोद्घातः)।
अग्निचित्यङ्गमन्त्रपाठाभिधानम्