११ पाशुक-हौत्र-मन्त्राः

गायत्री
२-४ अनुष्टुप्
६-८ २१ त्रिष्टुप्
विश्वेदेवा ऋषयः

विश्वास-प्रस्तुतिः

प्र दे॒वन्दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् ।
ह॒व्या नो॑ वक्षदानु॒षक् ।

मूलम्

प्र दे॒वन्दे॒व्या धि॒या भर॑ता जा॒तवे॑दसम् ।
ह॒व्या नो॑ वक्षदानु॒षक् ।

भट्टभास्कर-टीका

1अथ वरुणप्रघासानामग्निप्रणयनीया अष्टौ - प्र देवमिति गायत्री ॥ हे ऋत्विग्यजमानाः देवं जातवेदसं जातानां वेदितारं जातधनादिकं वा अग्निं प्रभरत प्रकर्षेण भरत प्रणयत । ‘अन्येषामपि दृश्यते’ इति सांहितिको दीर्घः । देव्या दीप्तया धिया प्रज्ञयाकर्मणा वा । ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् । किं प्रयोजनमिति चेत्? नः अस्माकं हव्या हव्यानि हवींषि । ‘शेश्छन्दसि’ इति लोपः ॥

विश्वास-प्रस्तुतिः

अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते ।
रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ ।

मूलम्

अ॒यमु॒ ष्य प्र दे॑व॒युर्होता॑ य॒ज्ञाय॑ नीयते ।
रथो॒ न योर॒भीवृ॑तो॒ घृणी॑वाञ्चेतति॒ त्मना॑ ।

भट्टभास्कर-टीका

2अथ द्वितीया - अयमुष्य इत्यनुष्टुप् ॥ अयमु अयमेव स्यः सः देवयुः देवान्यष्टुमिच्छन् । ‘न छन्दस्यपुत्रस्य’ इतीत्वाभावः, ‘क्याच्छन्दसि’ इत्युप्रत्ययः । होता देवानामाह्वाता सोयमेव यज्ञाय प्रणीयते । रथो न रथ इव । रंहणशील आदित्यो रथः रथवान्वा, लुप्तमत्वर्थीयः । अभिवृतः ब्राह्मणैर्वेष्टितः । सांहितिकमुपसर्गस्य दीर्घत्वम्, ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । योः मिश्रयिता हविषां देवैः । यौतेर्विच् । धृणीवान् रश्मिवान् । सांहितिकं दीर्घत्वम्, ‘छन्दसीरः’ इति मतुपो वत्वम्, व्यत्ययेन ‘छन्दसि’ इति रुर्न प्रवर्तते । चेतति जानाति त्मना आत्मना स्वयमेव यागनिवृत्त्युपायान् वेत्तीति । ‘मन्त्रेष्वाङ्यादेः’ इति लोपः ॥

विश्वास-प्रस्तुतिः

अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः ।
सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ।

मूलम्

अ॒यम॒ग्निरु॑रुष्यत्य॒मृता॑दिव॒ जन्म॑नः ।
सह॑सश्चि॒त्सही॑यान्दे॒वो जी॒वात॑वे कृ॒तः ।

भट्टभास्कर-टीका

3अथ तृतीया - अयमग्निरित्यनुष्टुप् ॥ अयं प्रणीयमानोग्निरुरुष्यति रक्षति यागं रक्षःप्रभृतिभ्यः । यद्वा - रक्षत्यात्मानं आ समाप्तेरविनाशो वर्तिष्यते । अमृतादिव जन्मनः यथा अमृतादविद्यमानमरणात् जन्महेतोरविनाशोयं स्तुतो भवति । एवमस्मादाहवनीयाज्जातत्वान्नस्य विनाश इति । उरुष्यतिः कण्ड्वादिः ‘नञो जरमर’ इत्यमृतशब्दस्योत्तृरपदाद्युदात्तत्वम् । सहसश्चित्सहीयान् । सहो बलम् । मत्वर्थीयो लुप्यते । चिच्छब्दोप्यर्थे । बलवद्भ्योपि बलवत्तरः । सहस्वच्छब्दादीयसुनि ‘विन्मतोर्लुक्’ इति लुक्, ‘टेः’ इति टिलोपः । देवः दीप्तिमान् । जीवातवे जीवनहेतवे यागाय कृतः प्रणीतः । सोयमग्निः उरुष्यति ॥

विश्वास-प्रस्तुतिः

इडा॑यास्त्वा प॒दे व॒यन्नाभा॑ पृथि॒व्या अधि॑ ।
जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे । [32]

मूलम्

इडा॑यास्त्वा प॒दे व॒यन्नाभा॑ पृथि॒व्या अधि॑ ।
जात॑वेदो॒ नि धी॑म॒ह्यग्ने॑ ह॒व्याय॒ वोढ॑वे । [32]

भट्टभास्कर-टीका

4अथ चतुर्थी - इडाया इत्यनुष्टुप् ॥ हे अग्ने जातवेदः इडायाः पृथिव्याः अवयवे पदे अस्मिन् स्थाने । कस्मिन्? नाभा उत्तरनाभौ । ‘सुपां सुलुक्’ इति सप्तम्या डादेशः । पृथिव्याः प्रथिताया उत्तरवेद्या अधि उपरिष्टात् निधीमहि स्थापयामः । धीङ् आधारे, छान्दसे लुङि शपो लुक्, ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यदभावः । किमर्थम्? हव्याय वोढबे हविर्वोढुं देवेभ्यः । ‘तुमर्थे सेसेन्’ इति तवेन्प्रत्ययः । हवमर्हतीति हव्यः, दण्डादित्वाद्यः, ‘क्रियाग्रहणं कर्तव्यम्’ इति संप्रदानत्वम् ॥

विश्वास-प्रस्तुतिः

अग्ने॒ विश्वे॑भिस्स्वनीक दे॒वैरूर्णा॑वन्तम्प्रथ॒मस्सी॑द॒ योनि॑म् ।
कु॒ला॒यिन॑ङ्घृ॒तव॑न्तँ सवि॒त्रे य॒ज्ञन्न॑य॒ यज॑मानाय सा॒धु ।

मूलम्

अग्ने॒ विश्वे॑भिस्स्वनीक दे॒वैरूर्णा॑वन्तम्प्रथ॒मस्सी॑द॒ योनि॑म् ।
कु॒ला॒यिन॑ङ्घृ॒तव॑न्तँ सवि॒त्रे य॒ज्ञन्न॑य॒ यज॑मानाय सा॒धु ।

भट्टभास्कर-टीका

5अथ पञ्चमी - अग्ने विश्वेभिरिति त्रिष्टुप् ॥ हे अग्ने विश्वेभिस्सर्वैर्देवैः स्वनीकः सुसेनामुखः विश्वैर्देवैस्सह । ऊर्णावन्तं ऊर्णास्तुकया तद्वन्तं योनिं योनिस्थानं प्रथमो मुख्यस्त्वं सीद आस्व । कुलायिनं संभारैस्तद्वन्तं घृतवन्तं व्याघारणभूतेन तद्वन्तम् । तत्रासीनस्त्वं सवित्रे आदित्याय यज्ञं इष्टं हविर्नय प्रापय । सर्वमिष्टं कुर्विति यावत् । यथोक्तम् - ‘अग्नौ प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते’ इति । किमर्थम्? यजमानाय साधु यथा यजमानार्थं साधयेद्यागफलम् । ‘कृपावाजि’ इत्युण्प्रत्ययः । यद्वा - यजमानस्य फलावाप्तये यज्ञं साधु सवितारं नय ॥

विश्वास-प्रस्तुतिः

सीद॑ होत॒स्स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ।

मूलम्

सीद॑ होत॒स्स्व उ॑ लो॒के चि॑कि॒त्वान्त्सा॒दया॑ य॒ज्ञँ सु॑कृ॒तस्य॒ योनौ॑ ।
दे॒वा॒वीर्दे॒वान्ह॒विषा॑ यजा॒स्यग्ने॑ बृ॒हद्यज॑माने॒ वयो॑ धाः ।

भट्टभास्कर-टीका

6अथ षष्ठी - सीदेति त्रिष्टुप् ॥ हे अग्ने होतः आह्वातः स्व उ लोके स्व एव स्थाने उत्तरवेद्यां सीद आस्व । चिकित्वान् स्वव्यापारं जानानः । कित ज्ञाने । सीदंश्च त्वं यज्ञं सुकृतस्य कर्मणः योनौ स्थाने सादय । सांहितिकं दीर्घत्वम् । ‘सूपमानात्क्तः’ इति सुकृतशब्दोन्तोदात्तः । तदर्थमित्थं कर्तव्यमित्याह – देवावीः देवानामविता रक्षिता तर्पयिता वा । ‘अवितॄस्तॄतन्त्रिभ्य ईः’ । यस्मादेवं तस्मात् देवान् हविषा यजासि यज । लोट्याडागमः । इदं च कर्तव्यमित्याह – बृहत् महत् यजमाने वयः अन्नं धाः धेहि स्थापय । दधातेर्लेटि शपो लुक् ॥

विश्वास-प्रस्तुतिः

नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ ।
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठस्सहस्रम्भ॒रश्शुचि॑जिह्वो अ॒ग्निः ।

मूलम्

नि होता॑ होतृ॒षद॑ने॒ विदा॑नस्त्वे॒षो दी॑दि॒वाँ अ॑सदत्सु॒दक्षः॑ ।
अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठस्सहस्रम्भ॒रश्शुचि॑जिह्वो अ॒ग्निः ।

भट्टभास्कर-टीका

7अथ सप्तमी - नि होतेति त्रिष्टुप् ॥ होता आह्वाता विदानः स्वाधिकारज्ञः । व्यत्ययेनानुदात्तेत्त्वमात्मनेपदम्, लसार्वधातुकानुदात्तत्वम् । त्वेषः दीप्तिमान् दीदिवान् ज्वलन् । दीव्यतेश्छान्दसस्य लिटः क्वसुरादेशः । सुदक्षः सुष्ठु शीघ्रः सुपण्डितो वा । ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । अदब्धव्रतप्रमतिः अनुपहिंसितकर्मा चासौ प्रकृष्टमतिश्चेति कर्मधारयन्याये दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । अनुपहिंसितकर्मा, प्रकृष्टा मतिर्यस्येति । वसिष्ठः वसुमत्तरः । सहस्रंभरः बहुधनः धनस्य भर्ता । यद्वा - बहुधनो हि सहस्रं भृत्यादीन् बिभर्तीति । भर्तेः ‘संज्ञायां भृतृवृजि’ इति खः । शुचिजिह्वः शुद्धज्वालः । अतस्सर्वेऽपि देवाः त्वदर्चिलीढमदन्ति । ईदृशोग्निः अङ्गनादिगुणयुक्तः होतृषदने न्यषीदत् निषीदतु । ‘सदिरप्रतेः’ इति षत्वम् । निषण्णश्चास्माकं अभिप्रेतानि साधयत्विति । छान्दसो लुङ्, इरित्वादङ् ॥

मूलम् (संयुक्तम्)

त्वन्दू॒तस्त्वम् [33] उ॒ न॒ᳶ प॒र॒स्पास्त्वव्ँवस्य॒ आ वृ॑षभ प्रणे॒ता

विश्वास-प्रस्तुतिः

त्वन्दू॒तस्त्वमु॑ न॒ᳶ प॒र॒स्पास्त्वव्ँवस्य॒ आ वृ॑षभ प्रणे॒ता ।
अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ।

मूलम्

त्वन्दू॒तस्त्वमु॑ न॒ᳶ प॒र॒स्पास्त्वव्ँवस्य॒ आ वृ॑षभ प्रणे॒ता ।
अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ।

भट्टभास्कर-टीका

8अथाष्टमी - हे अग्ने नोस्माकं त्वं दूतः देवेषु गन्ता, त्वमेव नः परस्पाः प्रकृष्टः पारयिता । पारस्करादित्वात्सुट् । वस्यः वसुमत्तरः । ईयसुन आद्यक्षरलोपः, व्यत्ययेन नपुंसकत्वम्, क्रियाविशेषणं वा । वसीयः प्रणेतेति । आमन्त्रितं वा हे वसीयः । व्यत्ययेन निघाताभावः । आकारस्समुच्चये वसीयः प्रणेता प्रधानपाकान्तरशोः [पारयित्रोः] पूर्वापेक्षया समुच्चयः । त्वं नः परस्पाः प्रणेता चेति । हे वृषभ वर्षितः अतोस्माकं तोकस्य तने तनयस्य नप्त्रादेः । छान्दसो वर्णलोपः, विभक्तिव्यत्ययश्च । तनूनां शरीराणां च त्वमेव गोपाः गोपयिता । आयप्रत्ययान्तात्क्विप्, अतो लोपयलोपौ, ‘धातोः’ इत्यन्तोदात्तत्वम् । पदकारमते पाता गोपाः । स एव विशेष्यते - अप्रयुच्छन् अप्रमाद्यन् दीद्यत् दीप्यमानः । देदितिर्दीप्तिकर्मा छान्दसः अभ्यस्तधर्मः, ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् । यदुक्तं त्वमेव नः रक्षेति एतत् त्वं बोधि बुद्ध्यस्व । लेटि शपो लुक् । ‘वा छन्दसि’ इत्यपित्त्वाभावात् लघूपधगुणाभावः । धातोरन्त्यलोपश्छान्दसः । कर्मणि वा लुङ्, एतत्त्वया बोधि बुध्यतां विदितमिदं तवास्तु त्वमेव नः गोपायितेति । ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः ॥

विश्वास-प्रस्तुतिः

अ॒भि त्वा॑ देव सवित॒रीशा॑नव्ँ॒वार्या॑णाम् ।
सदा॑वन्भा॒गमी॑महे ।

मूलम्

अ॒भि त्वा॑ देव सवित॒रीशा॑नव्ँ॒वार्या॑णाम् ।
सदा॑वन्भा॒गमी॑महे ।

भट्टभास्कर-टीका

9अत्रैवाग्निमन्थनीयास्त्रयोदश, सर्वा गायत्र्यः, त्रयोदशी त्रिष्टुप् ॥ तत्र प्रथमा - अभि त्वेति ॥ हे देव दानादिगुणयुक्त हे सवितः सर्वस्य प्रसावक त्वामीशानं ईशितारं स्वामिनं वार्याणां वरणीयानां वरिष्ठानां धनानाम् । वृणातेः ‘ऋहलोर्ण्यत् ,’ ‘ईडवन्द’ इत्युदात्तत्वम् । हे सदावन् सर्वदा विश्वरक्षिन् भागं भजनीयं धनं अभीमहे आभिमुख्येन याचामहे । ‘कर्षात्वतः’ इत्यन्तोदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

म॒ही द्यौᳶ पृ॑थि॒वी च॑ न इ॒मय्ँ य॒ज्ञम्मि॑मिक्षताम् ।
पि॒पृ॒तान्नो॒ भरी॑मभिः ।

मूलम्

म॒ही द्यौᳶ पृ॑थि॒वी च॑ न इ॒मय्ँ य॒ज्ञम्मि॑मिक्षताम् ।
पि॒पृ॒तान्नो॒ भरी॑मभिः ।

भट्टभास्कर-टीका

10द्वितीया - मही द्यौरिति ॥ व्याख्यातेयं ‘सूर्यो देवः’ इत्यत्र । मही महती द्यौः पृथिवी च नोस्माकं इमं यज्ञं मिमिक्षतां सिञ्चताम्, पिपृतां प्रीणयतां चास्मान् । भरीमभिः भरणप्रकारैरिति ॥

विश्वास-प्रस्तुतिः

त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ।
मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ।

मूलम्

त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ॑र्वा॒ निर॑मन्थत ।
मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ।

भट्टभास्कर-टीका

11तृतीया - त्वमग्ने इति ॥ हे अग्ने त्वां अथर्वा ऋषिः पुष्करात्पुष्करपर्णात् अधि उपरि निरमन्थत पुष्करपर्णस्थं मन्थनेन ततो निष्कृष्य अलभत । यथोक्तम् - ‘पुष्करपर्णे ह्येनमुपश्रितमविन्दत्’ इति । कीदृशात्? मूर्ध्नः मूर्धस्थनीयात् प्रधानभूतात् पुष्करपर्णात् । उदात्तनिवृत्तिस्वरेण विभक्तेरुदात्तत्वम् । विश्वस्य वाघतः ऋत्विक्समुदायस्य [वाहकात्] उदकात्प्राणो निरमन्थदित्येके ॥

विश्वास-प्रस्तुतिः

तमु॑ [34] त्वा॒ द॒ध्यङ्ङृषिᳶ॑ पु॒त्र ई॑धे॒ अथ॑र्वणः ।
वृ॒त्र॒हण॑म्पुरन्द॒रम् ।

मूलम्

तमु॑ [34] त्वा॒ द॒ध्यङ्ङृषिᳶ॑ पु॒त्र ई॑धे॒ अथ॑र्वणः ।
वृ॒त्र॒हण॑म्पुरन्द॒रम् ।

भट्टभास्कर-टीका

12चतुर्थी - तमु त्वेति ॥ तमेव त्वा दध्यङ्नाम ऋषिः अथर्वणः पुत्रः ईधे दीपयामास । ‘इन्धिभवतिभ्यां च’ इति कित्त्वात् ‘अनिदिताम्’ इति लोपः । वृत्रहणं वृत्रस्यासुरस्य पाप्मनो वा हन्तारं पुरन्दरं पुरामसुरसम्बन्धिनीनां दारयितारम् । ‘पूस्सर्वयोः’ इति खच्, ‘वाचयमपुरन्दरौ’ इति निपात्यते ॥

विश्वास-प्रस्तुतिः

तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् ।
ध॒न॒ञ्ज॒यँ रणे॑रणे ।

मूलम्

तमु॑ त्वा पा॒थ्यो वृषा॒ समी॑धे दस्यु॒हन्त॑मम् ।
ध॒न॒ञ्ज॒यँ रणे॑रणे ।

भट्टभास्कर-टीका

13पञ्चमी - तमु त्वा पाथ्य इति ॥ तमेव त्वां पाथ्यो नाम ऋषिः वृषा प्रधानः समीधे दीपितवान् दस्युहन्तमं दस्यूनां हन्तृतमं हन्तारम् । ‘नाढ्घस्य’ इति नुट् । धनञ्जयं धनानां जेतारं रणेरणे संग्रामे । पूर्ववत्खच् ।‘अनुदात्तं च’ इति द्वितीयो रणशब्दोनुदात्तः ॥

विश्वास-प्रस्तुतिः

उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि ।
ध॒न॒ञ्ज॒यो रणे॑रणे ।

मूलम्

उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि ।
ध॒न॒ञ्ज॒यो रणे॑रणे ।

भट्टभास्कर-टीका

14षष्ठी - उत ब्रुवन्त्विति ॥ उत अपि च जन्तवः मनुष्या ऋत्विगादयः ब्रुवन्तु स्तुतिं कुर्वन्तु । अयमग्निः वृत्रहा पापादेर्हन्ता उदजनि धनंजयो रणेरणे ॥

विश्वास-प्रस्तुतिः

आ यँ हस्ते॒ न खा॒दिनँ॒ शिशु॑ञ्जा॒तन्न बिभ्र॑ति ।
वि॒शाम॒ग्निँ स्व॑ध्व॒रम् ।

मूलम्

आ यँ हस्ते॒ न खा॒दिनँ॒ शिशु॑ञ्जा॒तन्न बिभ्र॑ति ।
वि॒शाम॒ग्निँ स्व॑ध्व॒रम् ।

भट्टभास्कर-टीका

15अथ सप्तमी - आ यमिति ॥ यमग्निमध्वर्युः हस्ते अञ्जलौ बिभ्रति । विभक्तिवचनव्यत्ययः । यद्वा - लेटि अडागमे ‘नाभ्यस्तस्याचि’ इति गुणाभावः । ‘ससाधनां क्रियामुपसर्ग आह’ इति आ इत्यागतोग्निरुच्यते । आगतमेवाग्निं बिभर्ति, न खादिनं हविर्भुञ्जानं ज्वलदवस्थमित्यर्थः । यथाऽऽहुः - ‘जातमध्वर्युरर्ञ्जालिना गृह्णाति’ इति । शिशुं जातं न जातमिव, यथा मात्रादयो जातमात्रमेव शिशुं हस्ते बिभ्रति । अग्निर्विशेष्यते - विशां मनुष्याणां स्वध्वरं शोभनयज्ञम्; अवितथफलसाधनत्वात् । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । ‘सावेकाचः’ इति विशो विभक्तिरुदात्ता । सोयमग्निरुदजनीति ॥

विश्वास-प्रस्तुतिः

प्र दे॒वन्दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् ।
आ स्वे योनौ॒ नि षी॑दतु ।

मूलम्

प्र दे॒वन्दे॒ववी॑तये॒ भर॑ता वसु॒वित्त॑मम् ।
आ स्वे योनौ॒ नि षी॑दतु ।

भट्टभास्कर-टीका

16अथाष्टमी - प्र देवमिति ॥ देवमग्निं वसुवित्तर्मं धनानां लब्धृतमं प्रभरत । सांहितिकं दीर्घत्वम् । देववीतये देवानां यागाय, देवा वियन्ति भुञ्जतेऽस्मिन्निति । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । सोयं स्वे योनौ आहवनीयस्थाने आहवनीये निषीदतु आगत्यास्ताम् ॥

विश्वास-प्रस्तुतिः

आ [35] जा॒तञ्जा॒तवे॑दसि प्रि॒यँ शि॑शी॒ताति॑थिम् ।
स्यो॒न आ गृ॒हप॑तिम् ।

मूलम्

आ [35] जा॒तञ्जा॒तवे॑दसि प्रि॒यँ शि॑शी॒ताति॑थिम् ।
स्यो॒न आ गृ॒हप॑तिम् ।

भट्टभास्कर-टीका

17अथ नवमी - आ जातमिति ॥ जातमिममग्निं जातवेदसि आहवनीये अग्नौ आशिशीत आनीय तीक्ष्णं कुरुत । अध्यर्थे वा आकारः । आहवनीयस्योपरि तीक्ष्णं कुरुतेति । ज्वालावत्तीक्ष्णत्वम्, महत्त्वं वा । प्रियमतिथिमिव, यथा प्रियमतिथिमागतं पूजया तर्पयन्ति एवममुं ग्रहपतिं ग्रहाणां पातारमग्निं स्योने स्थाने वा आशिशीत । आकारस्समुच्चये । शेतेर्लेटि शपश्श्लुः, ‘ई हल्यघोः’ इतीत्वम् ॥

विश्वास-प्रस्तुतिः

अ॒ग्निना॒ग्निस्समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ ।
ह॒व्य॒वाड्जु॒ह्वा॑स्यः ।

मूलम्

अ॒ग्निना॒ग्निस्समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा॑ ।
ह॒व्य॒वाड्जु॒ह्वा॑स्यः ।

भट्टभास्कर-टीका

18दशमी - अग्निनेति ॥ ‘यस्त्वा हृदा’ इत्यत्र व्याख्याता । अग्निना प्रभूतेनाग्निना आहवनीयः समिध्यते । कविः क्रान्तदर्शनः ग्रहपतिः ग्रहाणां पाता युवा हविषां देवैर्मिश्रयिता । यद्वा - नित्यतरुणः । हव्यवाट् वोढा च हविषाम् । जुह्वास्यः जुहूरास्यस्थानीया यस्येति ॥

  • { टीका- ‘अग्नयेग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः’ इत्यस्य पुरोनुवाक्या - अग्निनाग्निरिति गायत्री ॥ अग्निनाभ्युद्दृतेनायमग्निः पूर्वोद्धृतः समिध्यते सम्यगेव इध्म उद्वायते [सम्यगेव इध्यते] । कविर्मेधावी गृहपतिर्गृहस्य पतिस्स्वामी । युवा नित्यतरुणः, हविर्भिर्वा देवानामात्मनश्च मिश्रयिता । हव्यवाट् हविषां वोढा । ‘वहश्च’ इति ण्विः । जुह्वास्यः जुहूरास्यस्थानीया यस्य । सोयमेवं गुणोग्निरभ्युद्धरणदोषमुपशमयत्विति शेषः ॥}
विश्वास-प्रस्तुतिः

त्वँ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता ।
सखा॒ सख्या॑ समि॒ध्यसे॑ ।

मूलम्

त्वँ ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे॑ण॒ सन्त्स॒ता ।
सखा॒ सख्या॑ समि॒ध्यसे॑ ।

भट्टभास्कर-टीका

19एकादशी - त्वं हीति ॥ इयमपि तत्रैव व्याख्याता । हे अग्ने त्वमग्निना प्रणीयमानेन विप्रः मेधावी विप्रेण तादृशेन सन् समीचीनकामस्सन् सता तादृशेन सखा समानख्यानः सख्या तादृशेन । हि हेतौ । यस्मादीदृशः तस्मादेतेन त्वं समिध्यसे इति

  • {टीका - तत्रैव याज्या - त्वं ह्यग्न इति गायत्री ॥ हे अग्ने त्वमग्निनाभ्युद्धृतेन समिध्यसे सम्यगेवेध्यसे । कीदृशः कीदृशेनेत्याह - विप्रो मेधावी विप्रेण मेधाविना समिध्यसे । अयमकेस्समिन्धनहेतुः । किञ्च - सन् प्राज्ञः स तादृशेनाग्निना समिध्यसे । ‘हि च’ इति निघातप्रतिषेधः, ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वं, ‘उहात्तवता तिङा’ इति समासः, अदुपदेशाल्लसार्वधातुकानुदात्तत्वे यक उदात्तत्वम् । ईदृशस्त्वमभ्युद्धरणदोषमुपशमयेति शेषः ॥}
विश्वास-प्रस्तुतिः

तम्म॑र्जयन्त सु॒क्रतु॑म्पुरो॒यावा॑नमा॒जिषु॑ ।
स्वेषु॒ क्षये॑षु वा॒जिन॑म् ।

मूलम्

तम्म॑र्जयन्त सु॒क्रतु॑म्पुरो॒यावा॑नमा॒जिषु॑ ।
स्वेषु॒ क्षये॑षु वा॒जिन॑म् ।

भट्टभास्कर-टीका

20द्वादशी - तमिति ॥ तमग्निं सुक्रतुं शोभनकर्माणम् । ‘क्रत्वादयश्च’ इत्युत्तरपदान्तोदात्तत्वम् । पुरोयावानमग्रेगन्तारम् । ‘आतो मनिन्’ इति वनिप् । आजिषु यज्ञभूमिषु स्वेषु क्षयेषु स्वेषु स्थानेषु वाजिनं हविषा तद्वन्तं; तत्र तत्र यष्टव्यत्वात् । ‘क्षयो निवासे’ इत्याद्युदात्तत्वम् । ईदृशं मर्जयन्त संस्कुर्वन्ति । मृजेर्ण्यन्ताच्छान्दसो लङ्, वृद्ध्यभावश्छान्दसः, ‘बहुलं छन्दस्यमाङ्योगेऽपि इत्यडभावः । तस्माद्वयमपि संस्कुर्म इति

विश्वास-प्रस्तुतिः

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाक॑म्महि॒मान॑स्सचन्ते॒ यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥[36]

मूलम्

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।
ते ह॒ नाक॑म्महि॒मान॑स्सचन्ते॒ यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥[36]

भट्टभास्कर-टीका

21त्रयोदशी - यज्ञेनेति ॥इज्यते इति यज्ञोग्निः । ‘यज याच’ इति नङ्प्रत्ययः । तेनेतरमग्निमयजन्त यजन्ते देवाः ऋत्विजः । स एव लङ् । यत्रैव तदेव क्रियते । तानि धर्माणि कर्माणि प्रथमानि मुख्यानि आसन् हिंसारहितानि अभावयन् । ‘बहुलमन्यत्रापि’ इति णिलुक् । ये त्वेवं कुर्वन्ति ते ह त एव नाकं स्वर्गं महिमवन्तः महिमानः । मत्वर्थीयो लुप्यते । नाको विशेष्यते - यत्र पूर्वे साध्याः साधकाः यजमानाः देवाः देवीभूतास्सन्ति इदानीमपि तत्र विद्यन्ते । साधयतेः ‘अचो यत्’ इति कर्तरि यत्, णिलोपः, ‘यतो नावः’ इत्याद्युदात्तत्वे उदात्तनिवृत्तिस्वरेण यत उदातत्वम् । तस्माद्वयमप्येतेन कर्मणा तद्धनं सचेमहीति ॥

इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीये काण्डे पञ्चमप्रश्ने एकादशोनुवाकः पञ्चमः प्रश्नस्समाप्तः ॥

समाप्तश्च तृतीयः काण्डः ॥