१ त्रिष्टुप्
विश्वेदेवा ऋषयः
विश्वास-प्रस्तुतिः
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः॑ ।
स्वा॒दोस्स्वादी॑यस्स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒भि यो॑धि ।
मूलम्
त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः॑ ।
स्वा॒दोस्स्वादी॑यस्स्वा॒दुना॑ सृजा॒ समत॑ ऊ॒ षु मधु॒ मधु॑ना॒भि यो॑धि ।
भट्टभास्कर-टीका
1अथ तृतीयेऽह्नि प्राजापत्यमतिग्राह्यं गृह्णाति - त्वे क्रतुमपि वृञ्जन्तीत्येकां त्रिष्टुभमनुद्रुत्य उपयामगृहीतोसीति यजुषा ॥ त्वे तव । ‘सुपां सुलुक्’ इति शे आदेशः । क्रतुं कर्म पूजादिकं विश्वे सर्वेऽपि वृञ्जन्ति सकृदनुष्ठाय संस्थापयन्ति । तत्र द्विरनुष्ठानं, तेनैते स्मः अस्मदादीनां विलक्षणानां यज्ञकर्मणि वर्तमानानां सः स्वभाव इति । ये त्रिरनुतिष्ठन्ति ते ऊमाः अवितारस्सर्वस्य अस्मत्तोपि विलक्षणाः देवा भवन्ति, देवानां स स्वभाव इति । तस्मादस्माभिः द्वितीयः प्राजापत्यग्रहो गृह्यते इति । त्रिरिति । एकवाक्ये पदात्परत्वाभावाद्भवन्तीति न निहन्यते । अवतेरौणादिके मत्प्रत्यये ‘ज्वरत्वर’ इत्यादिना ऊठ् । तस्मात्स्वादोः पूर्वस्मात् प्राजापत्यात् स्वादीयः स्वादुतरमेतत् स्वादुना दध्यादिना संसृज संसृजामि । पुरुषव्यत्ययः, ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् । अतस्त्वमपि हे प्रजापते ग्रह एव वा । मधु मधुनः फलस्य साधनमेतत्कर्म मधुना कर्मफलेन सुष्ठु अभियोधि आभिमुख्येन संसृज । ‘वा छन्दसि’ इत्यपित्त्वाभावेनाङित्त्वात् ‘अङितश्च’ इति धिभावः, ‘उतो वृद्धिः’ इति व्यत्ययेन न क्रियते, ‘अन्येषामपि दृश्यते’ इति उकारस्य संहितायां दीर्घत्वम्, ‘सुञः’ इति षत्वम् ॥
मूलम् (संयुक्तम्)
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णाम्ये॒ष ते॒ योनिᳶ॑ प्र॒जाप॑तये त्वा ।
उपयामगृहीतः ...{Loading}...
विश्वास-प्रस्तुतिः
उ॒प॒या॒म-गृ॑हीतो ऽसि।
Keith
Thou art taken with a support/ foundation.
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि।
भट्टभास्कर-टीका
उपयम्यन्ते स्वात्मन्येव नियम्यन्ते भूतजातान्यस्मिन् अभिन्नेधिकरणे इत्युपयामः पृथ्वी । ‘इयं वा उपयामः’ इति ब्राह्मणम् । ‘हलश्च’ इति घञ्, थाथादिस्वरेणान्तोदात्तत्वम् । तेन गृहीतस्त्वमसि ; कोन्यस्त्वां गृहीतुं क्षम इति भावः ; पृथिव्यापो गृहीष्यामीतिवत् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - उपयामार्थं पृथिव्यर्थं गृहीतोसीति ; हे सोम ।
ननु ‘स्वाहा त्वा सुभवस्सूर्याय’ इति मन्त्रवर्णनात् सूर्यदेवत्यः कथं पृथिवीदेवत्यः स्यात् ? नैतद्देवताभिधानं ; पृथिवीवासिनां प्रजानां यागद्वारेण स्थित्यर्थं गृहीतोसीति स्तूयते । यद्वा - पृथिव्यपि देवतैवास्य ‘उपयामगृहीतोसीत्याहादितिदेवत्यास्तेन’ इति, अदितिः पृथ्वी । ‘चतुर्थी’ इति योगविभागात्समासः । ‘क्ते च’ इति पूर्वपदप्रकृतिस्वरत्वम् । ‘इयं वा उपयामस्तस्मादिमां प्रजा अनु प्रजायन्ते’ इति ब्राह्मणम् ॥
उपयामगृहीतोसीति व्याख्यातम् । ‘इयं वा उपयामः’ तयैव गृहीतोसीति ।
प्रजापतये त्वा ...{Loading}...
विश्वास-प्रस्तुतिः
प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णामि ।
Keith
agreeable to Prajapati I take thee
मूलम्
प्र॒जाप॑तये त्वा॒ जुष्ट॑ङ्गृह्णामि ।
भट्टभास्कर-टीका
प्रजापतये जुष्टं प्रियं गृह्णामि । गृहीत्वा यथायतनं सादयति एष ते योनिः कारणं प्रजापतये सादयामि
प्रजापतिशब्दे ‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
भास्करोक्त-विनियोगः
3अनेन गृहीत्वा परिमृज्य सादयति - एष ते योनिः प्रजापतये त्वेत्यादि ॥
विश्वास-प्रस्तुतिः
ए॒ष ते॒ योनि॑ᳶ प्र॒जाप॑तये त्वा ॥ [46]
Keith
this is thy birthplace; to Prajapati thee!
मूलम्
ए॒ष ते॒ योनि॑ᳶ प्र॒जाप॑तये त्वा ॥ [46]
भट्टभास्कर-टीका
‘पत्यावैश्वर्ये’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
प्रा॒ण॒ग्र॒हान्गृ॑ह्णाति ।
मूलम्
प्रा॒ण॒ग्र॒हान्गृ॑ह्णाति ।
भट्टभास्कर-टीका
4प्राणग्रहान् गृह्णातीत्यादि ब्राह्मणम् ॥ एषां मन्त्रास्त्वनन्तरकाण्डे भविष्यन्ति । तत्रायं प्रयोगक्रमः - सन्नद्धस्य राज्ञो नवांशून् प्राच आयातयति ‘अयं पुरोभुवः’ इति । ‘अयं दक्षिणा विश्वकर्मा’ इति नव दक्षिणा आयातयति । ‘अयं पश्चाद्विश्वव्यचाः’ इति नव प्रतीच आयातयति । ‘इदमुत्तरात्सुवः’ इति नवोदीच आयातयति । ‘इयमुपरि मतिः’ इति नवोपरिष्टात्प्रदक्षिणं पर्यायातयति । तानपानभृद्भिः प्रत्यूहति ‘प्राची दिशाम्’ इति । वाचयति ‘पितरः पितामहाः’ इति, ये पुरस्ताद्भवन्ति । अथ ‘दक्षिणा दिशाम्’ इति ये दक्षिणतो भवन्ति । अथ ‘प्रतीची दिशाम्’ इति ये पश्चाद्भवन्ति । अथ ‘उदीची दिशाम्’ इति य उत्तरतो भवन्ति । अथ ‘ऊर्ध्वा दिशाम्’ इति य उपरिष्टात्प्रदक्षिणं पर्याता भवन्ति ॥
मूलम् (संयुक्तम्)
ए॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहा॒स्स्तोमा॒श्छन्दाँ॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ तत् [29] अव॑ रुन्द्धे ।
विश्वास-प्रस्तुतिः
ए॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहा॒स्स्तोमा॒श्छन्दाँ॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ तदव॑ रुन्द्धे ।
मूलम्
ए॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒ते ग्रहा॒स्स्तोमा॒श्छन्दाँ॑सि पृ॒ष्ठानि॒ दिशो॒ याव॑दे॒वास्ति॒ तदव॑ रुन्द्धे ।
भट्टभास्कर-टीका
5एतावद्वा इत्यादि ॥ एतावदेवास्मिन् जगति पुनरेते ग्रहाः स्तोमास्त्रिवृदादयः, छन्दांसि गायत्र्यादीनि, पृष्ठानि सामानि रथन्तरादीनि । एतदात्मका एते ग्रहाः एतावदेवास्ति सर्वमवरुन्धे ॥
मूलम् (संयुक्तम्)
ज्ये॒ष्ठा वा ए॒तान्ब्रा॑ह्म॒णाᳶ पु॒रा वि॒द्वाम॑क्र॒न्तस्मा॒त्तेषाँ॒ सर्वा॒ दिशो॒ऽभिजि॑ता अभूव॒न्यस्यै॒ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छत्य॒भि दिशो॑ जयति
विश्वास-प्रस्तुतिः
ज्ये॒ष्ठा वा ए॒तान्ब्रा॑ह्म॒णाᳶ पु॒रा वि॒द्वाम॑क्रन् ।
तस्मा॒त्तेषाँ॒ सर्वा॒ दिशो॒ऽभिजि॑ता अभूवन् ।
यस्यै॒ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति ।
अ॒भि दिशो॑ जयति ।
मूलम्
ज्ये॒ष्ठा वा ए॒तान्ब्रा॑ह्म॒णाᳶ पु॒रा वि॒द्वाम॑क्रन् ।
तस्मा॒त्तेषाँ॒ सर्वा॒ दिशो॒ऽभिजि॑ता अभूवन् ।
यस्यै॒ते गृ॒ह्यन्ते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति ।
अ॒भि दिशो॑ जयति ।
भट्टभास्कर-टीका
6ज्येष्ठा वा इत्यादि ॥ गतम् । विदामक्रन् । विदेर्लुङि ‘अभ्युत्सादयाम्’ इत्यादौ आम्प्रत्ययो निपात्यते, ‘मन्त्रे घस’ इत्यादिना अनुप्रयुज्यमानस्य च्लेर्लुक् ॥
मूलम् (संयुक्तम्)
पञ्च॑ गृह्यन्ते॒ पञ्च॒ दिश॒स्सर्वा॑स्वे॒व दि॒क्ष्वृ॑ध्नुवन्ति॒ नव॑नव गृह्यन्ते॒ नव॒ वै पुरु॑षे प्रा॒णाᳶ प्रा॒णाने॒व यज॑मानेषु दधति
विश्वास-प्रस्तुतिः
पञ्च॑ गृह्यन्ते ।
पञ्च॒ दिश॒स्सर्वा॑स्वे॒व दि॒क्ष्वृ॑ध्नुवन्ति ।
मूलम्
पञ्च॑ गृह्यन्ते ।
पञ्च॒ दिश॒स्सर्वा॑स्वे॒व दि॒क्ष्वृ॑ध्नुवन्ति ।
भट्टभास्कर-टीका
7पञ्च गृह्यन्ते इत्यादयो विधयः । नियतमेव नवांशवो गृह्यन्ते ।
विश्वास-प्रस्तुतिः
नव॑नव गृह्यन्ते ।
मूलम्
नव॑नव गृह्यन्ते ।
भट्टभास्कर-टीका
नव वा इति । सप्त शीर्षण्याः, द्वाववाञ्चौ ।
विश्वास-प्रस्तुतिः
नव॒ वै पुरु॑षे प्रा॒णाᳶ प्रा॒णाने॒व यज॑मानेषु दधति ।
मूलम्
नव॒ वै पुरु॑षे प्रा॒णाᳶ प्रा॒णाने॒व यज॑मानेषु दधति ।
भट्टभास्कर-टीका
यजमानेषु दधतीति । सत्रविषयत्वाद्बहुवचनम् ॥
मूलम् (संयुक्तम्)
प्राय॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते प्रा॒णा वै प्रा॑णग्र॒हाः [30] प्रा॒णैरे॒व प्र॒यन्ति॑ प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न्गृह्यन्ते
विश्वास-प्रस्तुतिः
प्रा॒य॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते ।
प्रा॒णा वै प्रा॑णग्र॒हाᳶ प्रा॒णैरे॒व प्र॒यन्ति॑ ।
प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न्गृह्यन्ते ।
मूलम्
प्रा॒य॒णीये॑ चोदय॒नीये॑ च गृह्यन्ते ।
प्रा॒णा वै प्रा॑णग्र॒हाᳶ प्रा॒णैरे॒व प्र॒यन्ति॑ ।
प्रा॒णैरुद्य॑न्ति दश॒मेऽह॑न्गृह्यन्ते ।
भट्टभास्कर-टीका
8क्व पुनरेते ग्रहाः गृहीतव्या इत्याह - प्रायणीये चेत्यादि ॥ एते प्रायणीयोदयनीययोरेव नियुक्ता गृह्यन्ते । ‘दशमेहंस्तदु रात्रिसत्रेष्वग्निष्टोम आयातयति वा गृह्णीयादगदो हैव भवति’ इत्याचार्याः ॥
मूलम् (संयुक्तम्)
प्रा॒णा वै प्रा॑णग्र॒हाᳶ प्रा॒णेभ्य॒ᳵ खलु॒ वा ए॒तत्प्र॒जा य॑न्ति॒ यद्वा॑मदे॒व्यय्ँयोने॒श्च्यव॑ते दश॒मेऽह॑न्वामदे॒व्यय्ँयोने॑श्च्यवते॒ यद्द॑श॒मेऽह॑न्गृ॒ह्यन्ते॑ प्रा॒णेभ्य॑ ए॒व तत्प्र॒जा न य॑न्ति ॥ [31]
विश्वास-प्रस्तुतिः
प्रा॒णा वै प्रा॑णग्र॒हाᳶ प्रा॒णेभ्य॒ᳵ खलु॒ वा ए॒तत्प्र॒जा य॑न्ति ।
यद्वा॑मदे॒व्यय्ँयोने॒श्च्यव॑ते ।
दश॒मेऽह॑न्वामदे॒व्यय्ँयोने॑श्च्यवते ।
यद्द॑श॒मेऽह॑न्गृ॒ह्यन्ते॑ ।
प्रा॒णेभ्य॑ ए॒व तत्प्र॒जा न य॑न्ति ॥
मूलम्
प्रा॒णा वै प्रा॑णग्र॒हाᳶ प्रा॒णेभ्य॒ᳵ खलु॒ वा ए॒तत्प्र॒जा य॑न्ति ।
यद्वा॑मदे॒व्यय्ँयोने॒श्च्यव॑ते ।
दश॒मेऽह॑न्वामदे॒व्यय्ँयोने॑श्च्यवते ।
यद्द॑श॒मेऽह॑न्गृ॒ह्यन्ते॑ ।
प्रा॒णेभ्य॑ ए॒व तत्प्र॒जा न य॑न्ति ॥
भट्टभास्कर-टीका
9प्राणेभ्य इत्यादि - प्राणेभ्यः प्रजायन्ति उपगच्छन्ति तदा, यदा वामदेव्यं साम योनेश्च्यवते । कदा पुनस्तद्योनेश्च्यवते? आह - दशमेऽहन्नित्यादि । गतम् । ‘वामदेवाड्ड्यड्ड्यौ’ ॥
इति तृतीये पञ्चमे दशमोनुवाकः ॥