०९ दधिग्रहविधानम्

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

याव्ँ वा अ॑ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते प्राजाप॒त्यन्द॑धिग्र॒हङ्गृ॑ह्णीयात्प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑भ्य ए॒व नि ह्नु॑वाते

विश्वास-प्रस्तुतिः

याव्ँ वा अ॑ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते ।

मूलम्

याव्ँ वा अ॑ध्व॒र्युश्च॒ यज॑मानश्च दे॒वता॑मन्तरि॒तस्तस्या॒ आ वृ॑श्च्येते ।

भट्टभास्कर-टीका

1अथास्य दधिग्रहस्य ब्राह्मणम् - यां वा इत्यादि ॥ यां देवतामन्तरितः अन्तर्हितां कुरुतः, लुप्तभागत्वात् । तस्यै तस्यास्सकाशादेव तौ आवृश्च्येते हियेते ।

विश्वास-प्रस्तुतिः

प्रा॒जा॒प॒त्यन्द॑धिग्र॒हङ्गृ॑ह्णीयात् ।

मूलम्

प्रा॒जा॒प॒त्यन्द॑धिग्र॒हङ्गृ॑ह्णीयात् ।

भट्टभास्कर-टीका

तत्परिहारार्थं प्राजापत्यं दधिग्रहं गृह्णीयात् ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑भ्य ए॒व नि ह्नु॑वाते ।

मूलम्

प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑भ्य ए॒व नि ह्नु॑वाते ।

भट्टभास्कर-टीका

प्रजापतिस्सर्वदेवतात्मकः सर्वदेवतोपकारार्थमेवान्तरायस्य निह्नवः कृतो भवति योध्वर्युयजमानाभ्यामेकस्यै देवतायै हविरन्तरायः कृतः, सर्वदेवतानां दधिग्रहद्वारेण हविर्लाभहेतुस्सम्पन्न इति ॥

मूलम् (संयुक्तम्)

ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णाय्ँ॒यस्यै॒ष गृ॒ह्यते॒ ज्यैष्ठ्य॑मे॒व ग॑च्छति॒ सर्वा॑साव्ँ॒वा ए॒तद्दे॒वता॑नाँ रू॒पय्ँयदे॒ष ग्रहो॒ यस्यै॒ष गृ॒ह्यते॒ सर्वा॑ण्ये॒वैनँ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ति

विश्वास-प्रस्तुतिः

ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णाय्ँ॒यस्यै॒ष गृ॒ह्यते ।

ज्यैष्ठ्य॑मे॒व ग॑च्छति ।

मूलम्

ज्ये॒ष्ठो वा ए॒ष ग्रहा॑णाय्ँ॒यस्यै॒ष गृ॒ह्यते ।

ज्यैष्ठ्य॑मे॒व ग॑च्छति ।

भट्टभास्कर-टीका

2ज्येष्ठो वा इत्यादि ॥ ज्येष्ठो वृद्धतमः । ‘वृद्धस्य च’ इति ज्यादशेः । ज्येष्ठकनिष्ठयोर्वृद्धत्वं ज्यैष्ठ्यम् । गुणवचने ष्यञ् ।

विश्वास-प्रस्तुतिः

सर्वा॑साव्ँ॒वा ए॒तद्दे॒वता॑नाँ रू॒पय्ँयदे॒ष ग्रहो॒ यस्यै॒ष गृ॒ह्यते॒ सर्वा॑ण्ये॒वैनँ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ति।

मूलम्

सर्वा॑साव्ँ॒वा ए॒तद्दे॒वता॑नाँ रू॒पय्ँयदे॒ष ग्रहो॒ यस्यै॒ष गृ॒ह्यते॒ सर्वा॑ण्ये॒वैनँ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ति।

भट्टभास्कर-टीका

सर्वासामित्यादि । गतम् ॥

मूलम् (संयुक्तम्)

उपया॒मगृ॑हीतः [26] अ॒सि॒ प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तङ्गृह्णा॒मीत्या॑ह॒ ज्योति॑रे॒वैनँ॑ समा॒नाना॑ङ्करोत्यग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑है॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णा॒त्यपे॑न्द्र द्विष॒तो मन॒ इत्या॑ह॒ भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ त्वापा॒नाय॒ त्वेत्या॑ह प्रा॒णाने॒व यज॑माने दधाति॒ तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तञ्जुहोमि [27] इत्या॑ह प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॒स्सर्वा॑भ्य ए॒वैन॑न्दे॒वता॑भ्यो जुहोति

विश्वास-प्रस्तुतिः

उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा ।
ज्योति॑ष्मते॒ ज्योति॑ष्मन्तङ्गृह्णा॒मीत्या॑ह ।
ज्योति॑रे॒वैनँ॑ समा॒नाना॑ङ्करोति ।
अ॒ग्नि॒जि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑ह ।

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा ।
ज्योति॑ष्मते॒ ज्योति॑ष्मन्तङ्गृह्णा॒मीत्या॑ह ।
ज्योति॑रे॒वैनँ॑ समा॒नाना॑ङ्करोति ।
अ॒ग्नि॒जि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इत्या॑ह ।

भट्टभास्कर-टीका

3अथ मन्त्रपदानि व्याचष्टे - उपयामगृहीत इति ॥ ज्योतिः द्युतिमन्तं समानानां मध्ये यजमानं करोति ।

विश्वास-प्रस्तुतिः

ए॒ताव॑ती॒र्वै दे॒वता॒स्ताभ्य॑ ए॒वैनँ॒ सर्वा॑भ्यो गृह्णा॒ति ।

अपे॑न्द्र द्विष॒तो मन॒ इत्या॑ह ।
भ्रातृ॑व्यापनुत्त्यै प्रा॒णाय॑ त्वापा॒नाय॒ त्वेत्या॑ह ।

प्रा॒णाने॒व यज॑माने दधाति ।

तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तञ्जुहोमीत्या॑ह ।

प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॒स्सर्वा॑भ्य ए॒वैन॑न्दे॒वता॑भ्यो जुहोति ।

एतावतीः एतावत्यः या अग्निजिह्वाद्याः पर्जन्यान्ताः एतावत्प्रमाणाः भ्रातृव्याभिभूत्यै । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

आज्यग्र॒हङ्गृ॑ह्णीया॒त्तेज॑स्कामस्य॒ तेजो॒ वा आज्य॑न्तेज॒स्व्ये॑व भ॑वति सोमग्र॒हङ्गृ॑ह्णीयाद्ब्रह्मवर्च॒सका॑मस्य ब्रह्मवर्च॒सव्ँ वै सोमो॑ ब्रह्मवर्च॒स्ये॑व भ॑वति दधिग्र॒हङ्गृ॑ह्णीयात्प॒शुका॑म॒स्योर्ग्वै दध्यूर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे ॥ [28]

विश्वास-प्रस्तुतिः

आ॒ज्य॒ग्र॒हङ्गृ॑ह्णीया॒त्तेज॑स्कामस्य ।

मूलम्

आ॒ज्य॒ग्र॒हङ्गृ॑ह्णीया॒त्तेज॑स्कामस्य ।

भट्टभास्कर-टीका

4आज्यग्रहमित्यादयः काम्या विधयः । तेजस्कामस्य । ‘शीलिकामि’ इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वम्, ‘अतः कृकमि’ इत्यादिना सत्वम् ।

विश्वास-प्रस्तुतिः

तेजो॒ वा आज्य॑न्तेज॒स्व्ये॑व भ॑वति ।

सो॒म॒ग्र॒हङ्गृ॑ह्णीयाद्ब्रह्मवर्च॒सका॑मस्य ।
ब्र॒ह्म॒व॒र्च॒सव्ँ वै सोमो॑ ब्रह्मवर्च॒स्ये॑व भ॑वति ।

द॒धि॒ग्र॒हङ्गृ॑ह्णीयात् प॒शुका॑म॒स्य ।
ऊर्ग्वै दध्यूर्क्प॒शव॑ ऊ॒र्जैवास्मा॒ ऊर्ज॑म्प॒शूनव॑ रुन्द्धे ॥

तेजो वा इति । तद्धेतुत्वात्ताच्छब्द्यम् । एवं सर्वत्र । ‘सावेकाचः’ इत्यूर्जस्तृतीयाया उदात्तत्वम् । अस्मा इत्यन्वादेशेऽशनुदात्तः । ‘बर्हिषो बर्हिषि गृह्णीयात् । अंशूनुपसंगृह्य सोमं गृह्णीयात्’ इत्याचार्याः ॥

इति तृतीये पञ्चमे नवमोनुवाकः ।