०८ दधिग्रहमन्त्राः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तङ्गृह्णामि॒ दक्षा॑य दक्ष॒वृधे॑ रा॒तन्दे॒वेभ्यो॑ऽग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यᳶ प॒र्जन्या॑त्मभ्यः

विश्वास-प्रस्तुतिः

उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा ।
ज्योति॑ष्मते॒ ज्योति॑ष्मन्तङ्गृह्णामि ।

मूलम्

उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये त्वा ।
ज्योति॑ष्मते॒ ज्योति॑ष्मन्तङ्गृह्णामि ।

भट्टभास्कर-टीका

1प्राजापत्यं दधिग्रहं गृह्णाति - उपयामगृहीतोसीत्यादि ॥ ‘इयं वा उपयामः’ तयैव गृहीतोसि । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । प्रजापतये ज्योतिष्मते दीप्तिमते हे दधिग्रह त्वां दीप्तिमन्तं गृह्णामि ।

विश्वास-प्रस्तुतिः

दक्षा॑य दक्ष॒वृधे॑ रा॒तन्दे॒वेभ्यो॑ऽग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यᳶ प॒र्जन्या॑त्मभ्यः ।

मूलम्

दक्षा॑य दक्ष॒वृधे॑ रा॒तन्दे॒वेभ्यो॑ऽग्निजि॒ह्वेभ्य॑स्त्वर्ता॒युभ्य॒ इन्द्र॑ज्येष्ठेभ्यो॒ वरु॑णराजभ्यो॒ वाता॑पिभ्यᳶ प॒र्जन्या॑त्मभ्यः ।

भट्टभास्कर-टीका

दक्षाय सर्वोत्पादनसमर्थाय दक्षवृधे दक्षयोरुत्साहवतोरध्वर्युयजमानयोर्वर्धयित्रे; अन्तरितत्वादिदोषापनयनात् । ‘यां वा अध्वर्युश्च यजमानश्च देवतामन्तरितः’ इति ब्राह्मणम् । वृधेर्ण्यन्तात्क्विप्, ‘बहुलमन्यत्रापि’ इति णिलुक् । ग्रहो विशेष्यते - रातं दत्तं देवेभ्यः । प्रजापतेस्सर्वदेवतात्मकत्वात् तस्मै गृहीतं सर्वदेवेभ्यो दत्तं भवतीति ।

देवा विशेष्यन्ते - अग्निजिह्वेभ्यः अग्निः जिह्वास्थानीयो येषां तेभ्यः ।

ऋतायुभ्यः ऋतं यज्ञः सत्यं वा आयुर्येषां तेभ्यः ।
इन्द्रज्येष्ठेभ्यः इन्द्रो ज्येष्ठः श्रेष्ठो येषां तेभ्यः ।
वरुणराजभ्यः वरुणो राजा येषां तेभ्यः ।
वातापिभ्यः वातवद्व्याप्नुवद्भ्यः वातमाविश्य व्याप्नुवद्भ्यः अमूर्तेभ्यः पितृभ्यः । उक्तमुत्तरपदाद्युदात्तत्वम् ।
पर्जन्यात्मभ्यः वर्षणस्वभावेम्बः । एभ्यः सर्वेभ्यो यो दत्तो भवति, तं त्वां प्रजापतये गृह्णामीति ॥

मूलम् (संयुक्तम्)

दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा

विश्वास-प्रस्तुतिः

दि॒वे त्वा॑ +++(उद्यच्छामि )+++ ,
अ॒न्तरि॑क्षाय त्वा +++(उद्यच्छामि)+++ ,
पृ॒थि॒व्यै त्वा॑ +++(उद्यच्छामि)+++ ।

मूलम्

दि॒वे त्वा॑ +++(उद्यच्छामि )+++ ,
अ॒न्तरि॑क्षाय त्वा +++(उद्यच्छामि)+++ ,
पृ॒थि॒व्यै त्वा॑ +++(उद्यच्छामि)+++ ।

भट्टभास्कर-टीका

2आदायोत्तिष्ठति - दिव इत्यादि ॥ दिवाद्यथं त्वामुद्यच्छामीति शेषः । ‘ऊडिदम्’ इति दिवश्चतुर्थ्या उदात्तत्वम् । ‘उदात्तयणः’ इति पृथिव्याः ॥

मूलम् (संयुक्तम्)

अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ऽराती॒यति॒ तञ्ज॑हि

विश्वास-प्रस्तुतिः

अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ऽराती॒यति॒ तञ्ज॑हि ।

मूलम्

अपे॑न्द्र द्विष॒तो मनोऽप॒ जिज्या॑सतो ज॒ह्यप॒ यो नो॑ऽराती॒यति॒ तञ्ज॑हि ।

भट्टभास्कर-टीका

3पूर्वया द्वारा निष्क्रामति - अपेन्द्रेति पुरोष्णिहा ॥ तृतीयस्याष्टाक्षरत्वात्, (द्वितीयस्य) । हे इन्द्र द्विषतः, योस्मान् द्वेष्टि भवन्तं वा, तस्य मनः अपजहि अपगमय नाशय । किञ्च - जिज्यासतः योस्मान् क्षपयितुमिच्छति, तस्य च मनोपजहि । ताननेन पापेन जहि । यद्वा - जिज्यासतः अस्माकं शत्रूनपजहि जिज्यासतश्च मनोऽपजहि । अरातीयति अदानमिच्छति योस्मभ्यं न किञ्चिदपि दातुमिच्छति, तं चादानशीलं शत्रुं जहि । अरातिशब्दात् ‘छन्दसि परेच्छायाम्’ इति क्यच् ॥

मूलम् (संयुक्तम्)

प्रा॒णाय॑ त्वापा॒नाय॑ त्वा व्या॒नाय॑ त्वा स॒ते त्वास॑ते त्वा॒द्भ्यस्त्वौष॑धीभ्यो॒ विश्वे॑भ्यस्त्वा भू॒तेभ्यो॒ यतᳶ॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त॒ तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तञ्जुहोमि ॥ [25]

विश्वास-प्रस्तुतिः

प्रा॒णाय॑ त्वा +++(उद्यच्छामि )+++ ,
अ॒पा॒नाय॑ त्वा +++(उद्यच्छामि )+++ ,
व्या॒नाय॑ त्वा +++(उद्यच्छामि )+++ ,
स॒ते त्वा॑ +++(उद्यच्छामि )+++ , अस॑ते त्वा +++(उद्यच्छामि )+++ ,
अ॒द्भ्यस्त्वा॑ +++(उद्यच्छामि )+++ ,
ओष॑धीभ्यो॒ +++(त्वा उद्यच्छामि )+++ ,
विश्वे॑भ्यस्त्वा +++(उद्यच्छामि )+++ ,
भू॒तेभ्यो॒ +++(त्वा उद्यच्छामि )+++ ,
यतᳶ॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त

मूलम्

प्रा॒णाय॑ त्वा +++(उद्यच्छामि )+++ ,
अ॒पा॒नाय॑ त्वा +++(उद्यच्छामि )+++ ,
व्या॒नाय॑ त्वा +++(उद्यच्छामि )+++ ,
स॒ते त्वा॑ +++(उद्यच्छामि )+++ , अस॑ते त्वा +++(उद्यच्छामि )+++ ,
अ॒द्भ्यस्त्वा॑ +++(उद्यच्छामि )+++ ,
ओष॑धीभ्यो॒ +++(त्वा उद्यच्छामि )+++ ,
विश्वे॑भ्यस्त्वा +++(उद्यच्छामि )+++ ,
भू॒तेभ्यो॒ +++(त्वा उद्यच्छामि )+++ ,
यतᳶ॑ प्र॒जा अक्खि॑द्रा॒ अजा॑यन्त

भट्टभास्कर-टीका

4अथ जुहोति - प्राणाय त्वेत्यादिभिः । सर्वे निगदसिद्धाः । प्राणादयश्शब्दा व्युत्पादिताः । सते । ‘शतुरनुमः’ इति चतुर्थ्या उदात्तत्वम् ।
अद्भ्यः । ‘ऊडिदम्’ इति । अक्खिद्रा अदीनाः ऊर्जिताः अजायन्त । खिद दैन्ये, औणादिको रक्प्रत्ययः, छान्दसो वर्णोपजनः ।

विश्वास-प्रस्तुतिः

तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तञ्जुहोमि ॥ [25]

मूलम्

तस्मै॑ त्वा प्र॒जाप॑तये विभू॒दाव्ने॒ ज्योति॑ष्मते॒ ज्योति॑ष्मन्तञ्जुहोमि ॥ [25]

भट्टभास्कर-टीका

तस्मै त्वा प्रजापतये विभूदाव्ने विभूनां हतामर्थानां दात्रे । ‘आतो मनिन्’ इति वनीप् ‘अन्येषामपि दृश्यते’ इति संहितायां पूर्वपदस्य दीर्घत्वम् ।

ज्योतिष्मत इत्यादि । व्याख्यातम्

  • { ज्योतिष्मते दीप्तिमते त्वां दीप्तिमन्तं गृह्णामि ।}
    तादृशाय प्राणाद्यर्थं त्वां जुहोमीति ॥

इति तृतीये पञ्चमे अष्टमोनुवाकः ॥