०७ स्रुचां वृक्षावशेषविधानम्

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽच्छिन॒त्तस्यै॒ रस॒ᳶ परा॑पत॒त्स पृ॑थि॒वीम्प्रावि॑श॒त्स ख॑दि॒रो॑ऽभव॒द्यस्य॑ खादि॒रस्स्रु॒वो भव॑ति॒ छन्द॑सामे॒व रसे॒नाव॑ द्यति॒ सर॑सा अ॒स्याहु॑तयो भवन्ति

विश्वास-प्रस्तुतिः

व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽच्छिनत् ।
तस्यै॒ रस॒ᳶ परा॑पतत् ।
स पृ॑थि॒वीम्प्रावि॑शत्।

मूलम्

व॒ष॒ट्का॒रो वै गा॑यत्रि॒यै शिरो॑ऽच्छिनत् ।
तस्यै॒ रस॒ᳶ परा॑पतत् ।
स पृ॑थि॒वीम्प्रावि॑शत्।

भट्टभास्कर-टीका

1अथ स्रुचां लक्षणार्थं ब्राह्मणं - वषट्कार इत्यादि ॥ स्तुत्यर्थमुत्प्रेक्षेयं क्रियते । वषट्क्रियतेऽनेनेति वषट्कारः, वौषट्छब्दः, थाथादिनोत्तरपदान्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

स ख॑दि॒रो॑ऽभवत् ।
यस्य॑ खादि॒रस्स्रु॒वो भव॑ति ।

मूलम्

स ख॑दि॒रो॑ऽभवत् ।
यस्य॑ खादि॒रस्स्रु॒वो भव॑ति ।

भट्टभास्कर-टीका

खादिर इति । बिल्वादित्वादण् ।

विश्वास-प्रस्तुतिः

छन्द॑सामे॒व रसे॒नाव॑ द्यति ।
सर॑सा अ॒स्याहु॑तयो भवन्ति ।

मूलम्

छन्द॑सामे॒व रसे॒नाव॑ द्यति ।
सर॑सा अ॒स्याहु॑तयो भवन्ति ।

भट्टभास्कर-टीका

छन्दसामिति । सर्वच्छन्दःप्रकृतित्वाद्गायत्र्याः । गतमन्यत् ॥

मूलम् (संयुक्तम्)

तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसी॒त्तङ्गा॑य॒त्र्याह॑र॒त्तस्य॑ प॒र्णम॑च्छिद्यत॒ तत्प॒र्णो॑ऽभव॒त्तत्प॒र्णस्य॑ पर्ण॒त्वय्ँयस्य॑ पर्ण॒मयी॑ जु॒हूः [22] भव॑ति सौ॒म्या अ॒स्याहु॑तयो भवन्ति जु॒षन्ते॑ऽस्य दे॒वा आहु॑तीः

विश्वास-प्रस्तुतिः

तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् ।
तङ्गा॑य॒त्र्याऽह॑रत् ।
तस्य॑ प॒र्णम॑च्छिद्यत ।
तत्प॒र्णो॑ऽभवत् ।
तत्प॒र्णस्य॑ पर्ण॒त्वम् ।

मूलम्

तृ॒तीय॑स्यामि॒तो दि॒वि सोम॑ आसीत् ।
तङ्गा॑य॒त्र्याऽह॑रत् ।
तस्य॑ प॒र्णम॑च्छिद्यत ।
तत्प॒र्णो॑ऽभवत् ।
तत्प॒र्णस्य॑ पर्ण॒त्वम् ।

भट्टभास्कर-टीका

2तृतीयस्यां दिवि इतः तृतीये लोके द्युसंज्ञे सोम आसीत् । पर्णं पत्रं सोमाभरणं रभसेनाच्छिद्यत ।

विश्वास-प्रस्तुतिः

यस्य॑ पर्ण॒मयी॑ जु॒हूः [22] भव॑ति ।

मूलम्

यस्य॑ पर्ण॒मयी॑ जु॒हूः [22] भव॑ति ।

भट्टभास्कर-टीका

पर्णमयीति । ‘नित्यं वृद्धशरादिभ्यः’ इति मयट् ।

विश्वास-प्रस्तुतिः

सौ॒म्या अ॒स्याहु॑तयो भवन्ति ।

मूलम्

सौ॒म्या अ॒स्याहु॑तयो भवन्ति ।

भट्टभास्कर-टीका

सौम्या इति । सोममाहरन्त्याः गायत्र्याः ऋक्पर्णात्मिकया जुह्वा हुतत्वात् । आसोमाड्ड्यण्’ ।

विश्वास-प्रस्तुतिः

जु॒षन्ते॑ऽस्य दे॒वा आहु॑तीः ।

मूलम्

जु॒षन्ते॑ऽस्य दे॒वा आहु॑तीः ।

भट्टभास्कर-टीका

अस्याहुतिर्देवा जुषन्ते प्रीयमाणा भजन्ते ॥

मूलम् (संयुक्तम्)

दे॒वा वै ब्रह्म॑न्नवदन्त॒ तत्प॒र्ण उपा॑शृणोत्सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति॒ न पा॒पँ श्लोकँ॑ शृणोति॒

विश्वास-प्रस्तुतिः

दे॒वा वै ब्रह्म॑न्नवदन्त ।
तत्प॒र्ण उपा॑शृणोत् ।
सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति ।
न पा॒पँ श्लोकँ॑ शृणोति ।

मूलम्

दे॒वा वै ब्रह्म॑न्नवदन्त ।
तत्प॒र्ण उपा॑शृणोत् ।
सु॒श्रवा॒ वै नाम॒ यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति ।
न पा॒पँ श्लोकँ॑ शृणोति ।

भट्टभास्कर-टीका

3ब्रह्मन् ब्रह्मविषये अवदन्त वादं कृतवन्तः । भासने आत्मनेपदम् । ब्रह्मवादश्रवणं पूरणवर्णात्मकजुहूसंबन्धेन पापशब्दानामश्रवणम् ॥

मूलम् (संयुक्तम्)

ब्रह्म॒ वै प॒र्णो विण्म॒रुतोऽन्नव्ँ॒विण्मा॑रु॒तो॑ऽश्व॒त्थो यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्ब्रह्म॑णै॒वान्न॒मव॑ रु॒न्द्धेऽथो॒ ब्रह्म॑ [23] ए॒व वि॒श्यध्यू॑हति रा॒ष्ट्रव्ँ वै प॒र्णो विड॑श्व॒त्थो यत्प॑र्ण॒मयी॑ जु॒हूर्भव॒त्याश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति

विश्वास-प्रस्तुतिः

ब्रह्म॒ वै प॒र्णो विण्म॒रुतोऽन्नव्ँ॒विण्मा॑रु॒तो॑ऽश्व॒त्थः ।

यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति ।

आश्व॑त्थ्युप॒भृत् ।

ब्रह्म॑णै॒वान्न॒मव॑ रु॒न्द्धे ।

अथो॒ ब्रह्मै॒व वि॒श्यध्यू॑हति ।

मूलम्

ब्रह्म॒ वै प॒र्णो विण्म॒रुतोऽन्नव्ँ॒विण्मा॑रु॒तो॑ऽश्व॒त्थः ।

यस्य॑ पर्ण॒मयी॑ जु॒हूर्भव॑ति ।

आश्व॑त्थ्युप॒भृत् ।

ब्रह्म॑णै॒वान्न॒मव॑ रु॒न्द्धे ।

अथो॒ ब्रह्मै॒व वि॒श्यध्यू॑हति ।

भट्टभास्कर-टीका

4ब्रह्म वै पर्ण इति ॥ ब्राह्मणजातिः तदेव पर्णः ; प्रशस्तत्वसामान्यात् । विट् वैश्यजातिः, सा मरुतः; कृष्यादिप्रयासबहुलत्वात् विशोन्नत्वात् ।

विश्वास-प्रस्तुतिः

रा॒ष्ट्रव्ँ वै प॒र्णः , विड॑श्व॒त्थः ।
यत्प॑र्ण॒मयी॑ जु॒हूर्भव॑ति ।
आश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति ।

मूलम्

रा॒ष्ट्रव्ँ वै प॒र्णः , विड॑श्व॒त्थः ।
यत्प॑र्ण॒मयी॑ जु॒हूर्भव॑ति ।
आश्व॑त्थ्युप॒भृद्रा॒ष्ट्रमे॒व वि॒श्यध्यू॑हति ।

भट्टभास्कर-टीका

अपि च - विश उपरि ब्रह्माध्यूहति स्थापयति ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑ति॒र्वा अ॑जुहो॒त्सा यत्राहु॑तिᳶ प्र॒त्यति॑ष्ठ॒त्ततो॒ विक॑ङ्कत॒ उद॑तिष्ठ॒त्ततᳶ॑ प्र॒जा अ॑सृजत॒ यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति॒ प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यते

विश्वास-प्रस्तुतिः

प्र॒जाप॑ति॒र्वा अ॑जुहोत् ।
सा यत्राहु॑तिᳶ प्र॒त्यति॑ष्ठत् ।
ततो॒ विक॑ङ्कत॒ उद॑तिष्ठत् ।
ततᳶ॑ प्र॒जा अ॑सृजत ।
यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति ।
प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यते ।

मूलम्

प्र॒जाप॑ति॒र्वा अ॑जुहोत् ।
सा यत्राहु॑तिᳶ प्र॒त्यति॑ष्ठत् ।
ततो॒ विक॑ङ्कत॒ उद॑तिष्ठत् ।
ततᳶ॑ प्र॒जा अ॑सृजत ।
यस्य॒ वैक॑ङ्कती ध्रु॒वा भव॑ति ।
प्रत्ये॒वास्याहु॑तयस्तिष्ठ॒न्त्यथो॒ प्रैव जा॑यते ।

भट्टभास्कर-टीका

5प्रजापतिर्वा इत्यादि ॥ गतम् । वैकङ्कती । पूर्ववदञ् ॥

मूलम् (संयुक्तम्)

ए॒तद्वै स्रु॒चाँ रू॒पय्ँयस्यै॒वँरू॑पा॒स्स्रुचो॒ भव॑न्ति॒ सर्वा॑ण्ये॒वैनँ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते॒ नास्याप॑रूपमा॒त्मञ्जा॑यते ॥ [24]

विश्वास-प्रस्तुतिः

ए॒तद्वै स्रु॒चाँ रू॒पय्ँयस्यै॒वँरू॑पा॒स्स्रुचो॒ भव॑न्ति ।

सर्वा॑ण्ये॒वैनँ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते ।

मूलम्

ए॒तद्वै स्रु॒चाँ रू॒पय्ँयस्यै॒वँरू॑पा॒स्स्रुचो॒ भव॑न्ति ।

सर्वा॑ण्ये॒वैनँ॑ रू॒पाणि॑ पशू॒नामुप॑ तिष्ठन्ते ।

भट्टभास्कर-टीका

6स्रुचामिति ॥ स्रुक्साहचर्यात् स्रुवोपि स्रुगिति व्यपदिश्यते ।

विश्वास-प्रस्तुतिः

नास्याप॑रूपमा॒त्मञ्जा॑यते ॥

मूलम्

नास्याप॑रूपमा॒त्मञ्जा॑यते ॥

भट्टभास्कर-टीका

नास्येति । अस्य यजमानस्य आत्मन् शरीरे अपरूपं रूपशून्यं न जायते रूपवानेव भवतीति ॥

इति तृतीये पञ्चमे सप्तमोनुवाकः ॥