१-४ त्रिष्टुप्,
२-३ अनुष्टुप्
विश्वेदेवा ऋषयः
विश्वास-प्रस्तुतिः
सन्त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सन्त्वा॑ नह्याम्य॒प ओष॑धीभिः ।
सन्त्वा॑ नह्यामि प्र॒जया॒हम॒द्य सा दी॑क्षि॒ता स॑नवो॒ वाज॑म॒स्मे ।
मूलम्
सन्त्वा॑ नह्यामि॒ पय॑सा घृ॒तेन॒ सन्त्वा॑ नह्याम्य॒प ओष॑धीभिः ।
सन्त्वा॑ नह्यामि प्र॒जया॒हम॒द्य सा दी॑क्षि॒ता स॑नवो॒ वाज॑म॒स्मे ।
भट्टभास्कर-टीका
1पत्नीं संनह्यति - हे पत्नि त्वां संनह्यामि पयसा घृतेन च सह बध्नामि अनेन योक्त्रसंनहनेन हेतुना । किं च - अद्भिरोषधीभिश्च त्वां संनह्यामि । अप इति व्यत्ययेन तृतीयार्थे द्वितीया । यद्वा - त्वत्सन्नहनेन हेतुना अप ओषधीभिस्सह सन्नह्यामि । किं च - त्वां प्रजया पुत्रादिकयाऽहमद्य इदानीं सन्नह्यामि । सा त्वमनेन दीक्षिता अस्मे अस्मभ्यं वाजमन्नं सनवः संविभज देहि वा । यद्वा - अस्मदर्थं हविर्लक्षणमन्नं साधय ॥
विश्वास-प्रस्तुतिः
प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिव्ँ॒वर्णे॑न सीदतु ।
अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह ।
मूलम्
प्रैतु॒ ब्रह्म॑ण॒स्पत्नी॒ वेदिव्ँ॒वर्णे॑न सीदतु ।
अथा॒हम॑नुका॒मिनी॒ स्वे लो॒के वि॒शा इ॒ह ।
भट्टभास्कर-टीका
2दीक्षणीयायां पत्नीं प्राचीमुदानयन् वाचयति - प्रैत्वित्यनुष्टुभा ॥ प्रैतु गच्छतु । ब्रह्मणः परिबृढस्यास्य यज्ञस्य पत्नी पालयित्री वेदिं प्राप्नोतु । ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् । प्राप्य च वर्णेन रूपेण सीदतु उपविशतु आत्मानमेवाह, पुरुषव्यत्ययो वा । अथानन्तरमहं अनुकामिनी अनुक्रमेण यज्ञफलं यज्ञस्यापि धनसंपादनद्वारेण कामयमाना स्वे लोके बर्हिस्थाने जघनेन गार्हपत्यं विशै उपविशानि । कारकस्य सर्वानन्यत्वात् लोपे सति निघाताभावः । इहास्मिन् कर्मणि ॥
विश्वास-प्रस्तुतिः
सु॒प्र॒जस॑स्त्वा व॒यँ सु॒पत्नी॒रुप॑ सेदिम ।
अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् ।
मूलम्
सु॒प्र॒जस॑स्त्वा व॒यँ सु॒पत्नी॒रुप॑ सेदिम ।
अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् ।
भट्टभास्कर-टीका
3तत्रोपसीदति - सुप्रजस इत्यनुष्टुभा ॥ व्याख्यातेयं ‘प्रत्युष्टम्’ इत्यत्र । सुप्रजसः शोभनपुत्रादिकाः सुपत्नीः शोभनभर्तृकाश्च वयं त्वामुपसेदिम उपसीदामहे । अग्ने सपत्नानां शत्रूणां दम्भनं हिंसितारं अदाभ्यं केन चिदप्यनुपहिंसितव्यम् । अदब्धासः त्वत्प्रसादेन कैनचिदप्यनुपहिंस्या वयम् ॥
विश्वास-प्रस्तुतिः
इ॒मव्ँवि ष्या॑मि॒ वरु॑णस्य॒ पाश॑म् [19] यमब॑ध्नीत सवि॒ता सु॒केतः॑ ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ करोमि ।
मूलम्
इ॒मव्ँवि ष्या॑मि॒ वरु॑णस्य॒ पाश॑म् [19] यमब॑ध्नीत सवि॒ता सु॒केतः॑ ।
धा॒तुश्च॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नम्मे॑ स॒ह पत्या॑ करोमि ।
भट्टभास्कर-टीका
4इमं विष्यामीति योक्त्रविमोचनमन्त्रोपि तत्रैव व्याख्यातः त्रिष्टुप् ॥ इमं विष्यामि वरुणस्य वारकस्य पाशं विष्यामि विश्लथयामि, यमबध्नीत सविता सुकेतः सुज्ञानः । धातुरपि कारणभूते सुकृतस्य फलस्थाने स्योनं सुखं मम पत्या सह करोमीति ॥
मूलम् (संयुक्तम्)
प्रेह्यु॒देह्यृ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्र॑न्नय॒त्वदि॑ति॒र्मध्य॑न्ददताँ रु॒द्राव॑सृष्टासि यु॒वा नाम॒ मा मा॑ हिँसीः ।
विश्वास-प्रस्तुतिः
प्रेहि॑ ।
उ॒देहि॑ ।
मूलम्
प्रेहि॑ ।
उ॒देहि॑ ।
भट्टभास्कर-टीका
5पन्नेजनीहस्तां पत्नीमुदानयन् वाचयति - प्रेहीति यजुरन्तमानुष्टुभम् ॥ हे पत्नि प्रेहि प्रथमं गच्छ, उदेह्युदयं भज यद्वा - उत्कृष्टं गच्छ, प्रथमगामित्वात् ।
विश्वास-प्रस्तुतिः
ऋ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्र॑न्नय॒तु ।
मूलम्
ऋ॒तस्य॑ वा॒मीरन्व॒ग्निस्तेऽग्र॑न्नय॒तु ।
भट्टभास्कर-टीका
ऋतस्य यज्ञस्य वामीः वननीयेन तद्वती । ‘छन्दसीवनिपौ’ अग्निस्ते अग्रं अग्र्यं मार्गं अनुपश्चान्नयतु सेवताम् ।
विश्वास-प्रस्तुतिः
अदि॑ति॒र्मध्य॑न्ददताम् ।
मूलम्
अदि॑ति॒र्मध्य॑न्ददताम् ।
भट्टभास्कर-टीका
अदितिस्तु मध्यं मार्गस्य मध्यदेशं ददतां धारयतु । व्यत्ययेन द्विवचनम् । धात्वाकारस्य वा छान्दसं ह्रस्वत्वम् ।
विश्वास-प्रस्तुतिः
रु॒द्राव॑सृष्टासि ।
मूलम्
रु॒द्राव॑सृष्टासि ।
भट्टभास्कर-टीका
रुद्रैरवसृष्टाऽसि अनुज्ञाताऽसि त्वम् । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
यु॒वा नाम॑ +++(असि)+++ ।
मूलम्
यु॒वा नाम॑ +++(असि)+++ ।
भट्टभास्कर-टीका
अनुज्ञाकरणमाह - युवा युवतिर्नाम त्वमसि तस्मादहिंस्याऽसि । युवशब्दात् ‘यूनः’ इति तिप्रत्ययापवादोसौ प्रत्ययः छान्दसः, अत एवान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
मा मा॑ हिँसीः ।
मूलम्
मा मा॑ हिँसीः ।
भट्टभास्कर-टीका
मां मा हिंसीः यज्ञस्यानिवृत्तौ अहं हिंसितस्स्याम् । अत एनामादाय प्रेहीति ॥
मूलम् (संयुक्तम्)
वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे॑भ्यो वो दे॒वेभ्यᳶ॑ प॒न्नेज॑नीर्गृह्णामि य॒ज्ञाय॑ वᳶ सादयामि॒
विश्वास-प्रस्तुतिः
वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे॑भ्यो वो दे॒वेभ्यो॒ य॒ज्ञाय॑ वᳶ प॒न्नेज॑नीर्गृह्णामि
+++(वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे॑भ्यो वो दे॒वेभ्यो॒ )+++ य॒ज्ञाय॑ वᳶ प॒न्नेज॑नीस्सादयामि ।
मूलम्
वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे॑भ्यो वो दे॒वेभ्यो॒ य॒ज्ञाय॑ वᳶ प॒न्नेज॑नीर्गृह्णामि
+++(वसु॑भ्यो रु॒द्रेभ्य॑ आदि॒त्येभ्यो॒ विश्वे॑भ्यो वो दे॒वेभ्यो॒ )+++ य॒ज्ञाय॑ वᳶ प॒न्नेज॑नीस्सादयामि ।
भट्टभास्कर-टीका
6-7पन्नेजनीनां ग्रहणसादन मन्त्रौ वसुभ्य इत्यादिका उष्णिहौ, मध्ये अष्टाक्षरः पादः, अभित एकादशाक्षरौ । ‘यज्ञाय वः’ इति मन्त्रयोरन्तः । गृह्णामीति सादयामीति चेति । सादने वसुभ्य इत्याद्यनुषज्यते ॥
मूलम् (संयुक्तम्)
विश्व॑स्य ते॒ विश्वा॑वतो॒ वृष्णि॑यावतः [20] तवा॑ग्ने वा॒मीरनु॑ स॒न्दृशि॒ विश्वा॒ रेताँ॑सि धिषी॒य
विश्वास-प्रस्तुतिः
विश्व॑स्य ते॒ विश्वा॑वतो॒ ..
वृष्णि॑यावत॒स्तव॑ ..
अग्ने वा॒मीरनु॑ स॒न्दृशि॒ ..
विश्वा॒ रेताँ॑सि धिषी॒य ।
मूलम्
विश्व॑स्य ते॒ विश्वा॑वतो॒ ..
वृष्णि॑यावत॒स्तव॑ ..
अग्ने वा॒मीरनु॑ स॒न्दृशि॒ ..
विश्वा॒ रेताँ॑सि धिषी॒य ।
भट्टभास्कर-टीका
8पत्न्यास्सदसि सादनमुद्गात्रा संख्याप्य वाचयति - विश्वस्य त इति द्वाभ्याम् ॥ तत्र प्रथमाऽनुष्टुप्, तवान्तो द्वितीयः पादः सन्दृश्यन्तः तृतीयः, धिषीयान्तश्चतुर्थः । द्वितीया शक्वरी षट्पदा । हे अग्ने । पादादावपि व्यत्ययेन निघातः । तत् विश्वस्य विश्वात्मनो विश्वावतः विश्वस्वामित्वात्तद्वतः । छान्दसं संहितायां दीर्घत्वम् । वृष्णियावतः वृष्णियं वीर्यं मर्माणि तद्वतः । पूर्ववद्दीर्घत्वम् । ईदृशस्य तव सन्दृशि सन्दर्शने उद्गातुरभेदोपचारः । वामीः वननीयाः पन्नेजनीरिमा आपः । गौरादीत्वान्ङीष् । विश्वा विश्वानि रेतांसि विकारजातानि । तद्धेतुत्वात्ताच्छब्द्यम् । इदृशीरिमा अनुधिषीय तव सन्दर्शनलाभानन्तरं त्वां धारयामि तेनैव हेतुना । धि धारणे, आशिषि लिङ्, ‘सुधितवसुधित’ इति निपात्यते ॥
मूलम् (संयुक्तम्)
अग॑न्दे॒वान्य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्
अ॒स्मिन्त्सु॑न्व॒ति यज॑मान आ॒शिष॒स्स्वाहा॑
कृतास्समुद्रे॒ष्ठा
ग॑न्ध॒र्वमा ति॑ष्ठ॒ताऽनु॑ ।
वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः ॥ [21]
विश्वास-प्रस्तुतिः
अग॑न्दे॒वान्य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्न॒स्मिन्त्सु॑न्व॒ति ।
यज॑मान आ॒शिष॒स्स्वाहा॑कृतास्समुद्रे॒ष्ठा ग॑न्ध॒र्वमा ति॑ष्ठ॒ताऽनु॑ ।
वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः ॥
मूलम्
अग॑न्दे॒वान्य॒ज्ञो नि दे॒वीर्दे॒वेभ्यो॑ य॒ज्ञम॑शिषन्न॒स्मिन्त्सु॑न्व॒ति ।
यज॑मान आ॒शिष॒स्स्वाहा॑कृतास्समुद्रे॒ष्ठा ग॑न्ध॒र्वमा ति॑ष्ठ॒ताऽनु॑ ।
वात॑स्य॒ पत्म॑न्नि॒ड ई॑डि॒ताः ॥
भट्टभास्कर-टीका
9अथ द्वितीया - अगन्देवानिति ॥ यज्ञो देवान् न्यगन् निष्कृष्टमगन्, अभिमतानां साकल्येन संपादनं निष्कर्षः । गमेश्छान्दसे लुङि ‘मन्त्रे घस’ इत्यादिना च्लेर्लुक् । ततो यज्ञस्तादृक्स्वभावः । देवीः देव्यः आपः देवेभ्यः देवार्थं अशिषन् देवानां विधेयमकुर्वन् । ‘सर्तिशास्त्यर्तिभ्यश्च’ इत्यङ्, ‘शास इदङ्हलोः’ इतीत्वम् ।
किं च - अस्मिन् सुन्वति सोमेन यष्टरि यजमाने या आशिषः प्रार्थनीया अर्थाः, ता अप्यशिषन्नित्येव । यथाऽस्मिन् साकल्येन संपद्यन्ते तथा कृतवत्यः । तस्माद्यूयमपि स्वाहाकृताः यागोपयुक्ताः । ऊर्यादित्वेन गतित्वात् ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । समुद्रेष्ठाः समुद्रवन्ति अस्मादाप इति समुद्र आदित्यः तत्र तिष्ठन्तीति ‘सुपि स्थः’ इति कः, ‘तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् । अनु अनन्तरं च गन्धर्वं गवामुदकानां धारकं आतिष्ठत वर्तध्वम् । ततो वातस्य पत्मन् पतनस्थाने आकाशे । पतेरौणादिको मानिन् । तत्र वृष्टिद्वारेणागत्येत्यर्थः । इडः अन्नान्योषधीरातिष्ठत । व्यत्ययेन शस उदात्तत्वम्, व्यञ्जनविकारश्च । ईडितः स्तुतः सर्वैः प्रशंसनीयः ॥
इति तृतीये पञ्चमे षष्ठोनुवाकः ॥