०५ आदित्यग्रहमन्त्राः

१ अष्टिः २ शक्वरी ४ अनुष्टुप् ६-७ त्रिष्टुप् ८ बृहती विश्वेदेवा ऋषयः

विश्वास-प्रस्तुतिः

सूर्यो॑ मा दे॒वो दे॒वेभ्यᳶ॑ पातु वा॒युर॒न्तरि॑क्षा॒द्यज॑मानो॒ऽग्निर्मा॑ पातु॒ चक्षु॑षः ।

सूर्यो॑ मा दे॒वो दे॒वेभ्यᳶ॑ पातु
वा॒युर॒न्तरि॑क्षा॒द् +++(पातु)+++
यज॑मानो॒ऽग्निर्मा॑ पातु॒ चक्षु॑षः ।

मूलम्

सूर्यो॑ मा दे॒वो दे॒वेभ्यᳶ॑ पातु वा॒युर॒न्तरि॑क्षा॒द्यज॑मानो॒ऽग्निर्मा॑ पातु॒ चक्षु॑षः ।

सूर्यो॑ मा दे॒वो दे॒वेभ्यᳶ॑ पातु
वा॒युर॒न्तरि॑क्षा॒द् +++(पातु)+++
यज॑मानो॒ऽग्निर्मा॑ पातु॒ चक्षु॑षः ।

भट्टभास्कर-टीका

1प्रवृताहुतिं द्वितीयां जुहोति - सूर्यो मेति । इयं त्रिष्टुप् । ‘यजमानः’ इति तृतीयपादान्तः ॥ सूर्यो देवो मा देवेभ्यः पातु देवापराधनिमित्तादुपद्रवाद्रक्षतु । वायुर्देवः अन्तरिक्षादन्तरिक्षचारिनिमित्तादुपद्रवात्पातु इत्येव । अग्निर्देवः यजमानः यजमा नात्मा देवानां वा स्वयमेव यष्टा चक्षुषः चक्षूरूपादपराधात् मां पातु ॥

विश्वास-प्रस्तुतिः

सक्ष॒ शूष॒ सवि॑त॒र्विश्व॑चर्षण ..
ए॒तेभि॑स्सोम॒ नाम॑भिर्विधेम ते॒ ..
तेभि॑स्सोम॒ नाम॑भिर्विधेम ते ।

मूलम्

सक्ष॒ शूष॒ सवि॑त॒र्विश्व॑चर्षण ..
ए॒तेभि॑स्सोम॒ नाम॑भिर्विधेम ते॒ ..
तेभि॑स्सोम॒ नाम॑भिर्विधेम ते ।

भट्टभास्कर-टीका

2अभिचरन् बभ्रुवा बभ्रुवत्सायाः पयो जुहोति - सक्षेति । इयं त्रिपदा जगती ॥ हे सक्ष अभिभवितः शत्रूणाम् । सहतेरौणादिकस्सः । यद्वा - सक्षतिरभिभवकर्मा छान्दसः । यद्वा - समानं क्षपति विश्वामीति सक्षः, समानं क्षीयत्यस्मिन्निति वा सक्षः, पृषोदरादिः । शूष शोषयितः । छान्दसस्स्वरविकारः । सवितः सर्वस्य प्रेरक । यद्वा - सर्वस्यानुज्ञातः । विश्वचर्षणे विश्वमनुश्य विश्वेऽपि मनुष्यास्त्वत्वेन भवन्तीति । यद्वा - विश्वदर्शन । ‘आमन्त्रितं पूर्वमविद्यमानवत्’ इति सर्वेषामामन्त्रिताद्युदात्तत्वम् । हे सोम प्रसवैश्वर्ययुक्त एतेभिः एभिश्चतुर्भिः सक्षादिभिर्नामभिः ते त्वां विधेम परिचरेम । विधतिः परिचरणकर्मा, ‘बहुलं छन्दसि’ इत्यैसभावः ॥

विश्वास-प्रस्तुतिः

अ॒हम्प॒रस्ता॑द॒हम॒वस्ता॑द॒हञ्ज्योति॑षा॒ वि तमो॑ ववार ।
यद॒न्तरि॑क्ष॒न्तदु॑ मे पि॒ताभू॑द् ..
अ॒हँ सूर्य॑मुभ॒यतो॑ ददर्श ..
अ॒हम्भू॑यासमुत्त॒मस्स॑मा॒नाना॑म् ।

मूलम्

अ॒हम्प॒रस्ता॑द॒हम॒वस्ता॑द॒हञ्ज्योति॑षा॒ वि तमो॑ ववार ।
यद॒न्तरि॑क्ष॒न्तदु॑ मे पि॒ताभू॑द् ..
अ॒हँ सूर्य॑मुभ॒यतो॑ ददर्श ..
अ॒हम्भू॑यासमुत्त॒मस्स॑मा॒नाना॑म् ।

भट्टभास्कर-टीका

3पात्नीवतस्य श्रयणम् - अहमिति । इयं पञ्चपदा शक्वरी ॥ अहं परस्तादुपरिष्टात् भूयासम् । अहमेवावस्तात् अधस्ताच्च भूयासम् । सर्वव्यापी भूयासमिति यावत् । ज्योतिषा तेजसा । तमः ध्वान्तं तमोहेतुभूतमनिष्टं वा अहं विववार विशेषेण वारयितुं समर्थो भूयासम् । छान्दसो लिट् । यदन्तरिक्षं परमं व्योम तदेव मे पिता अभूत् भूयात् । छान्दसो लुङ् । किञ्च - उभयतः इह च प्रेत्य चाहं सूर्यं ददर्श, अहं भूयासम् । सूर्यवत्स्वेष्वेव लोकेषु वर्तीतिवत् । छान्दसो लिट् । किञ्च - अहं समानानामुत्तमो भूयासम् । उञ्छादित्वादन्तोदात्तः ॥

विश्वास-प्रस्तुतिः

आ स॑मु॒द्रादाऽन्तरि॑क्षात्प्र॒जाप॑तिरुद॒धिञ्च्या॑वया॒तीन्द्र॒ᳶ प्र स्नौ॑तु म॒रुतो॑ वर्षय॒न्तु ।

मूलम्

आ स॑मु॒द्रादाऽन्तरि॑क्षात्प्र॒जाप॑तिरुद॒धिञ्च्या॑वया॒तीन्द्र॒ᳶ प्र स्नौ॑तु म॒रुतो॑ वर्षय॒न्तु ।

भट्टभास्कर-टीका

4उपांशुसवनेनादित्यग्रहमधस्तादुदाहरन्ति - आ समुद्रादिति त्रिष्टुभा ॥ आ समुद्रात् अन्तरिक्षावधिकायां प्रजापतिरुदधिं उदकस्य धारयितारं च्यावयाति च्यावयतु सर्वत्र वर्षतु । लेट्याडगमः । इन्द्रः प्रस्नौतु स्रावयतु वर्षत्विति यावत् । स्नु प्रस्नवने । मरुतश्च वर्षयन्तु । इन्द्रस्य साहाय्यकं प्रतिबन्धन्तां त्वत्प्रसादेन हे आदित्यग्रह ॥

विश्वास-प्रस्तुतिः

उन्न॑म्भय पृथि॒वीम्भि॒न्द्धीदन्दि॒व्यन्नभः॑ ।
उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् ।

मूलम्

उन्न॑म्भय पृथि॒वीम्भि॒न्द्धीदन्दि॒व्यन्नभः॑ ।
उ॒द्नो दि॒व्यस्य॑ नो दे॒हीशा॑नो॒ वि सृ॑जा॒ दृति॑म् ।

भट्टभास्कर-टीका

5अथ द्वितीया - उन्नम्भयेति ॥ व्याख्यातेयं ‘देवा वसव्या अग्ने’ इत्यत्र । हे आदित्यग्रह त्वं पृथिवीमुन्नम्भय अविचलितां कुरु पृथिवीम् । नभ हिंसायां, छान्दसो नुट् । इदं दिव्यं दिवि भवं नभः नभस्थं मेघम्, तात्स्थ्यात्ताच्छब्द्यम् । यथा मञ्चाः क्रोशन्तीति । भिन्धि विदारय । भित्त्वा च उद्गः उदकस्य । ‘पद्दन्’ इत्यादिना उदन्भावः । दिव्यस्य देवार्हस्य । दण्डादित्वाद्यः, ‘क्रियाग्रहणं कर्तव्यम्’ इति सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । दिव्यमुदकं नः अस्मभ्यं देहि विसृज विमुञ्च दृतिं मेघं विश्लथितबन्धं कुरु ईशानः । संहितायां दीर्घत्वम् ॥

  • [ टीका - 9अथ वर्षाभूस्तम्भमभिजुहोति - उन्नम्भयेत्यनुष्टुभा ॥ हे वर्षाभूस्तम्भ उन्नम्भय उच्छ्वासय । नभिः गतिकर्मा छान्दसो नुम् । पृथिवीं वृष्ट्या । तद्दर्शयति - इदं दिव्यं दिवि स्थितं नभः मेघं भिन्धि । नभेरसुनि नभः । गत्वरम् । तथा कृत्वा उद्गः उदकस्य दिव्यस्य नः अस्मभ्यं देहि । कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । ईशानः उदकं दातुं समर्थः त्वं विसृज विमुञ्च दृतिं दृतिस्थानीयं मेघं क्षारय । ‘द्व्यचोतस्तिङः’ इति दीर्घत्वम् । पूर्ववदुदकस्योदन्भावः उदात्तनिवृत्तिस्वरश्च । उद्ग ईशान इति वा । ‘अधीगर्थ’ इति षष्ठी ॥]
मूलम् (संयुक्तम्)

प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निरोष॑धी॒ᳶ प्रास्या॒ग्नावा॑दि॒त्यञ्जु॑होति रु॒द्रादे॒व प॒शून॒न्तर्द॑धा॒त्यथो॒ ओष॑धीष्वे॒व प॒शून् [17] प्रति॑ ष्ठापयति

विश्वास-प्रस्तुतिः

प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निरोष॑धी॒ᳶ प्रास्या॒ग्नावा॑दि॒त्यञ्जु॑होति ।
रु॒द्रादे॒व प॒शून॒न्तर्द॑धा॒ति ।

मूलम्

प॒शवो॒ वा ए॒ते यदा॑दि॒त्य ए॒ष रु॒द्रो यद॒ग्निरोष॑धी॒ᳶ प्रास्या॒ग्नावा॑दि॒त्यञ्जु॑होति ।
रु॒द्रादे॒व प॒शून॒न्तर्द॑धा॒ति ।

भट्टभास्कर-टीका

6अथादित्यग्रहस्य च प्रयोगविशेषार्थं ब्राह्मणं - पशवो वा इत्यादि ॥ पशुसाधनत्वादादित्यग्रहः पशुत्वेनोच्यते । अग्नावोषधीः प्रास्य प्रक्षिप्य आदित्यग्रहं जुहोति । ततो रुद्रात्पशूनन्तर्दधाति व्यवहितान् करोति ।

विश्वास-प्रस्तुतिः

अथो॒ ओष॑धीष्वे॒व प॒शून् प्रति॑ ष्ठापयति ।

मूलम्

अथो॒ ओष॑धीष्वे॒व प॒शून् प्रति॑ ष्ठापयति ।

भट्टभास्कर-टीका

अथो अपि च अग्नावोषधीः प्रक्षिप्यादित्यग्रहहोमात् ओषधीषु पशवः प्रतिष्ठापिता भवन्ति ॥

विश्वास-प्रस्तुतिः

क॒विर्य॒ज्ञस्य॒ वि त॑नोति॒ पन्था॒न्नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ।
येन॑ ह॒व्यव्ँवह॑सि॒ यासि॑ दू॒त इ॒तᳶ प्रचे॑ता अ॒मुत॒स्सनी॑यान् ।

मूलम्

क॒विर्य॒ज्ञस्य॒ वि त॑नोति॒ पन्था॒न्नाक॑स्य पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ।
येन॑ ह॒व्यव्ँवह॑सि॒ यासि॑ दू॒त इ॒तᳶ प्रचे॑ता अ॒मुत॒स्सनी॑यान् ।

भट्टभास्कर-टीका

7प्रायणीयोदयनीययोः स्रुवां जुहोति - कविर्यज्ञस्येति द्वाभ्यां त्रिष्टुब्भ्याम् ॥ तत्र प्रथमा - कविः क्रान्तदर्शनः वितनोति विस्तारयति । किम्? यज्ञस्य पन्थां मार्गम् । व्यत्ययेन द्वितीयायामप्याकारः । क्व? नाकस्य केवलसुखरूपस्य दिवः द्युलोकस्य पृष्ठे अधि भूलोकोपरि रोचने रोचमाने । नाकरोचनशब्दौ व्याख्यातौ । येन पथा हव्यं वहासि देवेभ्यः, येन पथा सुखं यासि गच्छसि । कुतः? (त्वमस्माकम्) इतः अस्मत्सकाशात् प्रचेताः प्रवृद्धचेताः अमुतः अमुष्माल्लोकात् आदाय मनुष्येभ्यः सनीयान् संभक्तृतरः तेन पथा आयाहि इति सामर्थ्याद्गम्यते । सनितृशब्दात् ‘परादिश्छन्दसि’ इतीयसुन्, ‘तुरिष्ठेमेयस्सु’ इति तृलोपः । वहसि, ‘यद्वृत्तानित्यम्’ इति न निहन्यते । यासीत्येतत्तु तिङःपरत्वान्न निहन्यते । अनेन पथा गत्वा अस्मदर्थं साधयेति ॥

विश्वास-प्रस्तुतिः

यास्ते॒ विश्वाः॑ स॒मिध॒स्सन्त्य॑ग्ने॒ याᳶ पृ॑थि॒व्याम्ब॒र्हिषि॒ सूर्ये॒ याः ।
तास्ते॑ गच्छ॒न्त्वाहु॑तिङ्घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑ ।

मूलम्

यास्ते॒ विश्वाः॑ स॒मिध॒स्सन्त्य॑ग्ने॒ याᳶ पृ॑थि॒व्याम्ब॒र्हिषि॒ सूर्ये॒ याः ।
तास्ते॑ गच्छ॒न्त्वाहु॑तिङ्घृ॒तस्य॑ देवाय॒ते यज॑मानाय॒ शर्म॑ ।

भट्टभास्कर-टीका

8द्वितीया - यास्तव सर्वा अपि समिधः समिन्धनहेतवः सन्ति काष्ठादयः पृथिव्यां सन्ति । याश्च बर्हिषि परिबृढे आकाशे सन्ति । याश्च सूर्ये द्युलोके सन्ति । तास्सर्वा अपि तव घृतस्याहुतिं गच्छन्ति अनुगच्च्छन्तु वा । यद्वा - घृताहुतिभावं गच्छन्तु घृताहुतिवत्तव प्रीणयित्र्यस्सन्तु । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । यथा देवायते देवान् कामयमानाय यजमानाय शर्मं सुखं भवति तथा आहुतिभावं भजन्तामिति । देवशब्दात्क्यचि ‘न छन्दसि’ इतीत्वाभावः ॥

विश्वास-प्रस्तुतिः

आ॒शासा॑नस्सु॒वीर्यँ॑ रा॒यस्पोषँ॒ स्वश्वि॑यम् ।
बृह॒स्पति॑ना रा॒या स्व॒गाकृ॑तो॒ मह्यय्ँ॒यज॑मानाय तिष्ठ ॥ [18]

मूलम्

आ॒शासा॑नस्सु॒वीर्यँ॑ रा॒यस्पोषँ॒ स्वश्वि॑यम् ।
बृह॒स्पति॑ना रा॒या स्व॒गाकृ॑तो॒ मह्यय्ँ॒यज॑मानाय तिष्ठ ॥ [18]

भट्टभास्कर-टीका

9पशौ यूपोपस्थानमन्त्रः - आशासान इति पथ्याबृहती ॥ आशासानः प्रार्थयमानः सुवीर्यं शोभनवीर्ययुक्तं रायः धनस्य पोषं पुष्टिम् । सत्वस्वरावुक्तौ । स्वश्वियं शोभनाश्वसमूहम् । ‘केशाश्वाभ्याम्’ इति छः, छान्दसं ह्रस्वत्वम् । बृहस्पतिना राया धनभूतेन धात्रा स्वगाकृतः स्वगः आत्मगामी तथाकृतः । छान्दसौ डाच्, ‘ऊर्यादीच्विडाचश्च’ । यजमानाय मह्यं तिष्ठ ॥

इति तृतीये पञ्चमे पञ्चमोनुवाकः ॥