०४ अतिमोक्षमन्त्राः

अनुष्टुप् , ३ , ६ , ९ , त्रिष्टुप् । विश्वेदेवा ऋषयः

विश्वास-प्रस्तुतिः

ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषᳶ॑ पृथि॒व्यामध्यास॑ते ।
अ॒ग्निर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ।

मूलम्

ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषᳶ॑ पृथि॒व्यामध्यास॑ते ।
अ॒ग्निर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ।

भट्टभास्कर-टीका

1अथातिमोक्षः । वैश्वकर्मणानि हुत्वा गार्हपत्ये आज्यं विलाप्य उत्पूय स्रुचि चतुर्गृहीतं गृहीत्वा गार्हपत्ये जुहोत्यन्वारब्धे यजमाने - ये देवा इत्यादि ॥ अत्र प्रथमे अनुष्टुभौ । तृतीया त्रिष्टुप् । चतुर्थीपश्चम्यौ अनुष्टुभौ । षष्ठी त्रिष्टुप् । सप्तम्यष्टम्यावनुष्टुभौ । नवमी त्रिष्टुप् । ‘ये देवा यज्ञहनो यज्ञमुषः’ इति प्रथमयो प्रथमौ पादौ, समाना अन्येऽपि पादाः । एवं नफलं गच्छेम ॥

विश्वास-प्रस्तुतिः

आग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णाम्भा॒गो यु॒वयो॒र्यो अस्ति॑ ।
नाक॑ङ्गृह्णा॒नास्सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ।

मूलम्

आग॑न्म मित्रावरुणा वरेण्या॒ रात्री॑णाम्भा॒गो यु॒वयो॒र्यो अस्ति॑ ।
नाक॑ङ्गृह्णा॒नास्सु॑कृ॒तस्य॑ लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः ।

भट्टभास्कर-टीका

2अथाग्नीध्रमभिप्रैति - आऽगन्मेति ॥ हे मित्रावरुणा मित्रावरुणौ वरेण्या वरेण्यौ वरणीयौ रात्रीणां सम्बन्धी अहोरात्रेषु अस्माभिर्दत्तः युवयोर्भागः हविरंशो योस्ति सामर्थ्यात्तस्य फलं वयमागन्म आभिमुख्येन गच्छेम नाकं स्वयमेव गृह्णानाः आददानाः सुकृतस्य लोके सुष्ठुकृतानां कर्मणां तृतीये फलस्थाने दिवः पृष्ठे रोचने दीप्यमाने अधि उपरि सुकृतमागन्मेति । यद्वा - अधिकं रोचमाने दिवः पृष्ठे आगन्मेति । ‘कर्षात्वतः’ इति भागशब्दोन्तोदात्तः, न ‘भ्राण्नपात्’ इत्यादौ नाकशब्दोन्तोदात्तो निपात्यते । ‘सूपमानात्क्तः’ इति सुकृतशब्दोन्तोदात्तः, ‘अनुदात्तेतश्च हलादेः’ इति रोचनशब्दो युजन्तः ॥

विश्वास-प्रस्तुतिः

ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ऽन्तरि॒क्षेऽध्यास॑ते ।
वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ।

मूलम्

ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॒ऽन्तरि॒क्षेऽध्यास॑ते ।
वा॒युर्मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ।

भट्टभास्कर-टीका

3अथाग्नीध्रं गत्वा स्रुचि चतुर्गृहीतं गृहीत्वा शये[आग्नीध्रे]ऽन्वारब्धे यजमाने जुहोति - ये देवा इति द्वाभ्यां पृथगाहुतिद्वयम् । गतौ च मन्त्रौ ॥

विश्वास-प्रस्तुतिः

यास्ते॒ रात्रीः॑ सवितः [12] दे॒व॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ ।
गृ॒हैश्च॒ सर्वैः॑ प्र॒जया॒ न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजाँ॑सि ।

मूलम्

यास्ते॒ रात्रीः॑ सवितः [12] दे॒व॒यानी॑रन्त॒रा द्यावा॑पृथि॒वी वि॒यन्ति॑ ।
गृ॒हैश्च॒ सर्वैः॑ प्र॒जया॒ न्वग्रे॒ सुवो॒ रुहा॑णास्तरता॒ रजाँ॑सि ।

भट्टभास्कर-टीका

4अथाग्नीध्रमुपतिष्ठते - यास्ते इति ॥ हे सवितः यास्तव सम्बन्धिन्यो रात्रीः रात्रयः अग्निसमीपप्राप्तिहेतवः देवयानीः देवान् गच्छन्ति यासु ता देवयान्यः यागवत्य इति यावत्, उभयत्रापि ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । द्यावापृथिवी अन्तरा द्यावापृथिव्योर्मध्ये या वियन्ति विविधं गच्छन्ति । ‘दिवो द्यावा’ इति द्यावादेशः ‘देवताद्वन्द्वे च’ इत्याद्युदात्तत्वम्। ‘अन्तराऽन्तरेण’ इति द्वितीया । ताभिर्हेतुभूताभिः अग्रे प्रथममेव गृहैः गृहवासिभिः सर्वैर्जनैः प्रजया सह । समुच्चये नुशब्दः । सुवो रुहाणाः सुखैकरूपं स्वर्गं आरोहन्तः ऋत्विग्यजमानाः रजांसि लोकान्तराणि दुःखबलानि तरतः तरन्तु त्वत्प्रसादेन । व्यत्ययेन मध्यमः । यद्वा - वयं तराम त्वत्प्रसादादिति । सर्वधा मध्यमव्यत्ययेन मुच्यामहे । ‘अन्येषामपि दृश्यते’ इति संहितायामस्य दीर्घत्वम् । ‘इमानेव लोकांस्तीर्त्वा सगृहस्सपशुस्सुवर्गं लोकमेति’ इति ब्राह्मणम् । ‘स्वरो रोहतौ छन्दसि’ इत्युत्वम् । रुहेर्व्यत्ययेनात्मनेपदम् । लसार्वधातुकानुदात्तत्वं च ॥

विश्वास-प्रस्तुतिः

ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्यध्यास॑ते ।
सूर्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ।

मूलम्

ये दे॒वा य॑ज्ञ॒हनो॑ यज्ञ॒मुषो॑ दि॒व्यध्यास॑ते ।
सूर्यो॑ मा॒ तेभ्यो॑ रक्षतु॒ गच्छे॑म सु॒कृतो॑ व॒यम् ।

भट्टभास्कर-टीका

5अथाहवनीयं [अनु]द्रुत्य स्रुचि चतुर्गृहीतं गृहीत्वा आहवनीये जुहोत्यन्वारब्धे यजमाने - ये देवा इति द्वाभ्यां पृथगाहुतिद्वयम् । गतौ च मन्त्रौ ॥

विश्वास-प्रस्तुतिः

येनेन्द्रा॑य स॒मभ॑र॒ᳶ पयाँ॑स्युत्त॒मेन॑ ह॒विषा॑ जातवेदः ।
तेना॑ग्ने॒ त्वमु॒त व॑र्धये॒मँ स॑जा॒तानाँ॒ श्रैष्ठ्य॒ आ धे॑ह्येनम् ।

मूलम्

येनेन्द्रा॑य स॒मभ॑र॒ᳶ पयाँ॑स्युत्त॒मेन॑ ह॒विषा॑ जातवेदः ।
तेना॑ग्ने॒ त्वमु॒त व॑र्धये॒मँ स॑जा॒तानाँ॒ श्रैष्ठ्य॒ आ धे॑ह्येनम् ।

भट्टभास्कर-टीका

6अथाहवनीयमुपतिष्ठते - येनेन्द्रायेति ॥ हे जातवेदः जातानां वेदितः अग्ने येन बलेन स्नेहेन वा इन्द्राय पयांसि दधिघर्मादीनि समभरः संभरसि । छान्दसो लङ् । उत्तमेन तेन बलेन स्नेहेन वा । उत अपि च हविषा एतद्धुतेन हेतुना इमं यजमानं त्वं वर्धय । कीदृशी वृद्धिरस्य कर्तव्येति चेद्ब्रूमः - सजातानां समानजातानां श्रैष्ठ्ये श्रेष्ठभावे यथाऽयं सजातानां श्रेष्ठः प्रशस्यतमो भवति तथा तत्र एनं यजमानं धेहि स्थापय सजातानां मध्ये । उत्तमशब्द उञ्छादिरन्तोदात्तः । ‘वा जाते’ इति सजातशब्दोन्तोदात्तः । केचिदाहुः - तिस्र एव गार्हपत्ये जुहोति, तिस्र आग्नीध्रे, तिस्र आहवनीये इति ॥

मूलम् (संयुक्तम्)

य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुषः॑ [13] स॒न्ति॒ त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑ ।

विश्वास-प्रस्तुतिः

य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुष॑स्सन्ति ।
त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑ ।

मूलम्

य॒ज्ञ॒हनो॒ वै दे॒वा य॑ज्ञ॒मुष॑स्सन्ति ।
त ए॒षु लो॒केष्वा॑सत आ॒ददा॑ना विमथ्ना॒ना यो ददा॑ति॒ यो यज॑ते॒ तस्य॑ ।

भट्टभास्कर-टीका

7अथैषामतिमोक्षाणां ब्राह्मणम् - यज्ञहनो वा इत्यादि ॥ आददाना हविरादि । विमथ्नानाः शालाभङ्गादिकमाचरन्तः । कस्या ? यो ददाति, यश्च यजते तस्य ।

विश्वास-प्रस्तुतिः

ये दे॒वा य॑ज्ञ॒हनᳶ॑ पृथि॒व्यामध्यास॑ते ।

मूलम्

ये दे॒वा य॑ज्ञ॒हनᳶ॑ पृथि॒व्यामध्यास॑ते ।

भट्टभास्कर-टीका

ये देवा यज्ञहन इति । यज्ञमोक्षणमन्त्राणामप्युपलक्षणम् ।

विश्वास-प्रस्तुतिः

ये अ॒न्तरि॑क्षे॒ ये दि॒वीत्या॑ह ।
इ॒माने॒व लो॒काँस्ती॒र्त्वा सगृ॑ह॒स्सप॑शुस्सुव॒र्गल्ँ लो॒कमे॑ति ।

मूलम्

ये अ॒न्तरि॑क्षे॒ ये दि॒वीत्या॑ह ।
इ॒माने॒व लो॒काँस्ती॒र्त्वा सगृ॑ह॒स्सप॑शुस्सुव॒र्गल्ँ लो॒कमे॑ति ।

भट्टभास्कर-टीका

येऽन्तरिक्षे ये दिवीति शिष्टानां चतुर्णां ग्रहणम् ॥

मूलम् (संयुक्तम्)

अप॒ वै सोमे॑नेजा॒नाद्दे॒वता॑श्च य॒ज्ञश्च॑ क्रामन्त्याग्ने॒यम्पञ्च॑कपालमुदवसा॒नीय॒न्निर्व॑पेद॒ग्निस्सर्वा॑ दे॒वताः॑ [14]

विश्वास-प्रस्तुतिः

अप॒ वै सोमे॑नेजा॒नाद्दे॒वता॑श्च य॒ज्ञश्च॑ क्रामन्ति ।

आ॒ग्ने॒यम्पञ्च॑कपालमुदवसा॒नीय॒न्निर्व॑पेत् ।

मूलम्

अप॒ वै सोमे॑नेजा॒नाद्दे॒वता॑श्च य॒ज्ञश्च॑ क्रामन्ति ।

आ॒ग्ने॒यम्पञ्च॑कपालमुदवसा॒नीय॒न्निर्व॑पेत् ।

भट्टभास्कर-टीका

8अप वै सोमेनेत्यादि ॥ उदवसानीयं उदवसीयतेऽनेनेत्युदवसानीयं, करणे कृत्यः, ‘उपोत्तमं रिति’ इत्युपोत्तमस्योदात्तत्वम् ।

विश्वास-प्रस्तुतिः

अ॒ग्निस्सर्वा॑ दे॒वताः॑ ।

मूलम्

अ॒ग्निस्सर्वा॑ दे॒वताः॑ ।

भट्टभास्कर-टीका

अग्निस्सर्वादेवता इति । अग्न्यधीनस्थितित्वात्सर्वदेवानाम् ।

विश्वास-प्रस्तुतिः

पाङ्क्तो॑ य॒ज्ञो दे॒वता॑श्चै॒व य॒ज्ञञ्चाव॑ रुन्द्धे ।

गाय॒त्रो वा अ॒ग्निर्गा॑य॒त्रछ॑न्दा॒स्तञ्छन्द॑सा॒ व्य॑र्धयति ।

यत्पञ्च॑कपालङ्क॒रोति ।

अ॒ष्टाक॑पालᳵ का॒र्यो॑ऽष्टाक्ष॑रा गाय॒त्री ।

गा॑य॒त्रो॑ऽग्निर्गा॑य॒त्रछ॑न्दा॒स्स्वेनै॒वैन॒ञ्छन्द॑सा॒ सम॑र्धयति ।

पाङ्क्तो यज्ञ इति । धानादिपञ्चकात्मकपङ्क्तिप्रभवत्वात् ॥

मूलम् (संयुक्तम्)

प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवत॒ᳶ पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान्नैति॑ ॥ [15]

विश्वास-प्रस्तुतिः

प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः ।
पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान्नैति॑ ॥

मूलम्

प॒ङ्क्त्यौ॑ याज्यानुवा॒क्ये॑ भवतः ।
पाङ्क्तो॑ य॒ज्ञस्तेनै॒व य॒ज्ञान्नैति॑ ॥

भट्टभास्कर-टीका

9पञ्चकपालं निन्दति - गायत्रीप्रभवस्य गायत्रछन्दसः अग्नेः पञ्चकपालोऽवृद्धिहेतुः । तस्मादष्टाकपाल एव कार्यः । तर्हि पञ्चकपालान्वयाभावात् पाङ्क्तो यज्ञो न लभ्यते तत्राह – पङ्क्त्याविति । स्विष्टकृत इत्येके । प्रधानस्येत्यन्ये । याज्यानुवाक्ययोः पङ्क्तित्वात्पाङ्क्तयज्ञलाभः । पङ्क्तिशब्दोप्युत्सादिः । ‘अग्ने तमद्याश्वं न स्तोमैः’ इत्यक्षरपङ्क्तयः याज्यानुवाक्या भवन्ति । द्वे आग्नेयस्य । द्वे स्विष्टकृतः ॥

इति तृतीये पञ्चमे चतुर्थोनुवाकः ॥