विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छन्द॑सा त्रि॒वृता॒ स्तोमे॑न रथन्त॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जान्भ्रातृ॑व्या॒नध॑रान्पादया॒म्यवै॑नान्बाधे॒ प्रत्ये॑नान्नुदे॒ऽस्मिन्क्षये॒ऽस्मिन्भू॑मिलो॒के यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मो विष्णो॒ᳵ क्रमे॒णात्ये॑नान्क्रामा॒मि
विश्वास-प्रस्तुतिः
अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छन्द॑सा ..
त्रि॒वृता॒ स्तोमे॑न रथन्त॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जान् भ्रातृ॑व्या॒नध॑रान्पादयामि ।
मूलम्
अ॒ग्निना॑ दे॒वेन॒ पृत॑ना जयामि गाय॒त्रेण॒ छन्द॑सा ..
त्रि॒वृता॒ स्तोमे॑न रथन्त॒रेण॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण पूर्व॒जान् भ्रातृ॑व्या॒नध॑रान्पादयामि ।
भट्टभास्कर-टीका
1अग्निना देवेनेत्याद्या अभिचारादिः । संवत्सरमेतैः क्रमैः क्रमेत - अग्निना देवेन पृतनाः परसेनाः जयामि अभिभवामि गायत्रेण छन्दसा । गायत्र्येव गायत्रं, ‘नपुंसके स्वार्थ उपसंख्यानम्’ इत्यण् । त्रिवृता स्तोमेन नवस्तोत्रीयेण स्तोमेन त्र्यवयवास्तिस्रो वृत्तयः यस्य इति त्रिवृत्, त्रिचक्रादित्वादुत्तरपदान्तोदात्तत्वम् । रथन्तरेण साम्ना ‘अभी त्वा शूर नोनुमः’ इत्येतद्योनिना वषट्कारेणायुधेन अग्निप्रसादेन गायत्र्यादिभिस्साधनभूतैर्जयामि पूर्वजान् प्रथमजान् भ्रातृव्यान् शत्रून् । ‘व्यन् सपत्ने’ इति व्यन् । अधरान् पादयामि अधोमुखान्निपातयामि ।
विश्वास-प्रस्तुतिः
अवै॑नान्बाधे ।
मूलम्
अवै॑नान्बाधे ।
भट्टभास्कर-टीका
किंच - एनानवबाधे अवमतान् कृत्वा बहुधा पीडयामि यथा मामेव शरणं भजेयुः । एनादेशोनुदात्तः ।
विश्वास-प्रस्तुतिः
प्रत्ये॑नान्नुदे॒ऽस्मिन्क्षये॒ऽस्मिन्भू॑मिलो॒के यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः ।
मूलम्
प्रत्ये॑नान्नुदे॒ऽस्मिन्क्षये॒ऽस्मिन्भू॑मिलो॒के यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः ।
भट्टभास्कर-टीका
किं च - एनान् प्रतिनुदे प्रत्येकं प्रातिलोम्येन वा व्यथयामि अस्मिन् क्षये गृहे । ‘क्षयो निवासे’ इत्याद्युदात्तत्वम् । ‘ऊडिदम्’ इतीदमो विभक्तिरुदात्ता । अस्मिन् भूमिलोके पृथिवीस्थाने न गृहमात्र एव । योस्मान् द्वेष्टि अविदितमस्माकं, यं च वयं द्विष्मः अविदितं तस्य तावुभावपि भ्रातृव्यौ पीडयामि ।
विश्वास-प्रस्तुतिः
विष्णो॒ᳵ क्रमे॒णात्ये॑नान्क्रामामि ।
मूलम्
विष्णो॒ᳵ क्रमे॒णात्ये॑नान्क्रामामि ।
भट्टभास्कर-टीका
किं च - विष्णोः क्रमेण विष्णोरेव वा क्रमेण तेन पूर्वकृतेन साधनभूतेन निरस्य अतिक्रम्य अधितिष्ठामि ॥
मूलम् (संयुक्तम्)
इन्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि॒ त्रैष्टु॑भेन॒ छन्द॑सा पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण [10] स॒ह॒जान्
विश्वास-प्रस्तुतिः
इन्द्रे॑ण दे॒वेन॒ पृत॑ना जयामि ।
त्रैष्टु॑भेन॒ छन्द॑सा पञ्चद॒शेन॒ स्तोमे॑न बृह॒ता साम्ना॑ वषट्का॒रेण॒ वज्रे॑ण सह॒जान् +++(भ्रातृ॑व्या॒नध॑रान्पादयामि । प्रत्ये॑नान्नुदे॒ऽस्मिन्क्षये॒ऽस्मिन्भू॑मिलो॒के यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः ।)+++

2इन्द्रेणेत्यादि ॥ द्वितीयोतिक्रमः । त्रिष्टुबेव त्रैष्टुभम् । उत्सादित्वात्स्वार्थिकोञ् । पञ्चदशः पञ्चदशस्स्तोत्रीयः । ‘स्तोमे डविधिः पञ्चदशाद्यर्थे’ इति डः । बृहता साम्ना ‘त्वामिद्धि हवामहे’ इत्येतद्योनिना । समानमन्यत् । सहजानिति विशेषः । सकुल्याः स्वाभाविका वा । पूर्ववत्सः । ‘भ्रातृव्यान्’ इत्याद्यनुषज्यते ॥
मूलम् (संयुक्तम्)
विश्वे॑भिर्दे॒वेभि॒ᳶ पृत॑ना जयामि॒ जाग॑तेन॒ छन्द॑सा सप्तद॒शेन॒ स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णापर॒जान्
विश्वास-प्रस्तुतिः
विश्वे॑भिर्दे॒वेभि॒ᳶ पृत॑ना जयामि।
जाग॑तेन॒ छन्द॑सा सप्तद॒शेन॒ स्तोमे॑न वामदे॒व्येन॒ साम्ना॑ वषट्का॒रेण॒ वज्रे॑णापर॒जान् +++(भ्रातृ॑व्या॒नध॑रान्पादयामि । प्रत्ये॑नान्नुदे॒ऽस्मिन्क्षये॒ऽस्मिन्भू॑मिलो॒के यो॑ऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यन्द्वि॒ष्मः ।)+++

3विश्वेभिरिति ॥ तृतीयोतिक्रमः । जगतीशबोप्युत्सादिः । सप्तदशस्तोत्रीयः प्रवसथः । वामदेवेन दृष्टं साम वामदेव्यं, वामदेवाद्यत् । समानमन्यत् । ‘कया नश्चित्र आ भुवत्’ इत्येतद्योनि वामदेव्यम् । अपरजानिति विशेषः । अपरेण केनचिन्निमित्तेन सजाताश्शत्रवः । स एव सः । पूर्ववद्भ्रातृव्यानित्याद्यनुषज्यते ॥
विश्वास-प्रस्तुतिः
इन्द्रे॑ण स॒युजो॑ व॒यँ सा॑स॒ह्याम॑ पृतन्य॒तः ।
घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति ।
मूलम्
इन्द्रे॑ण स॒युजो॑ व॒यँ सा॑स॒ह्याम॑ पृतन्य॒तः ।
घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति ।
भट्टभास्कर-टीका
4अथ शुक्रामन्थिनः - इन्द्रेणेति गायत्री ॥ इन्द्रेण सयुजः संयुक्ता वयं सासह्याम भृशमभिभवेम । यङन्ताद्व्यत्ययेन परस्मैपदम् । पृतन्यतः पृअतनां सङ्ग्राममस्माभिस्सह कर्तुमिच्छतः । क्यचि ‘कव्यध्वरपृतनस्य’ इति लोपः । घ्नन्तो वृत्राणि वारकाणि परबलानि पापानि वा । अप्रति अप्रतिबलं यथा भवति तथा । ‘नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् ॥
यत् ते अग्ने ...{Loading}...
यत्ते॑ अग्ने॒ ...{Loading}...
मूलम् (संयुक्तम्)
यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासय्ँ॒यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासय्ँ॒यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥ [11]
विश्वास-प्रस्तुतिः
यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।
मूलम्
यत्ते॑ अग्ने॒ तेज॒स्तेना॒हन्ते॑ज॒स्वी भू॑यासम् ।
भट्टभास्कर-टीका
5यत्ते अग्ने इत्यादि यजुः ॥ तेजो दीप्तिः ।
विश्वास-प्रस्तुतिः
यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।
मूलम्
यत्ते॑ अग्ने॒ वर्च॒स्तेना॒हव्ँव॑च॒स्वी भू॑यासम् ।
भट्टभास्कर-टीका
वर्चोन्नम् ।
विश्वास-प्रस्तुतिः
यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥
मूलम्
यत्ते॑ अग्ने॒ हर॒स्तेना॒हँ ह॑र॒स्वी भू॑यासम् ॥
भट्टभास्कर-टीका
हरः बलम् । त्वदीयैस्तेजःप्रभृतिभिः मदीयेन यागेन वर्धभानैर्हेतुभिः अहं तेजःप्रभृतिमान् भूयासमिति ॥
इति तृतीये पञ्चमे तृतीयोनुवाकः ॥