विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
ऋष॑यो॒ वा इन्द्र॑म्प्र॒त्यक्ष॒न्नाप॑श्य॒न्तव्ँवसि॑ष्ठᳶ प्र॒त्यक्ष॑म्पश्य॒त्सो॑ऽब्रवी॒द्ब्राह्म॑णन्ते वक्ष्यामि॒ यथा॒ त्वत्पु॑रोहिताᳶ प्र॒जाᳶ प्र॑जनि॒ष्यन्तेऽथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति॒ तस्मा॑ ए॒तान्त्स्तोम॑भागानब्रवी॒त्ततो॒ वसि॑ष्ठपुरोहिताᳶ प्र॒जाᳶ प्राजा॑यन्त॒ तस्मा॑द्वासि॒ष्ठो ब्र॒ह्मा का॒र्यᳶ॑ प्रैव जा॑यते
विश्वास-प्रस्तुतिः
ऋष॑यो॒ वा इन्द्र॑म्प्र॒त्यक्ष॒न्नाप॑श्यन् ।
तव्ँवसि॑ष्ठᳶ प्र॒त्यक्ष॑म्पश्यत् ।
सो॑ऽब्रवीत् ।
ब्राह्म॑णन्ते वक्ष्यामि ।
यथा॒ त्वत्पु॑रोहिताᳶ प्र॒जाᳶ प्र॑जनि॒ष्यन्ते ।
मूलम्
ऋष॑यो॒ वा इन्द्र॑म्प्र॒त्यक्ष॒न्नाप॑श्यन् ।
तव्ँवसि॑ष्ठᳶ प्र॒त्यक्ष॑म्पश्यत् ।
सो॑ऽब्रवीत् ।
ब्राह्म॑णन्ते वक्ष्यामि ।
यथा॒ त्वत्पु॑रोहिताᳶ प्र॒जाᳶ प्र॑जनि॒ष्यन्ते ।
भट्टभास्कर-टीका
1ऋषयो वा इत्यादि ॥ ब्रह्मैव ब्राह्मणम् । जातावेकवचनम् । ब्राह्मणमन्त्रांस्तव वक्ष्यामीति । यद्वा - ब्रह्मत्वसाधनं ब्राह्मणं ज्ञानं तद्वक्ष्यामि । शान्तिकादिकर्तृत्वसामान्यात् पुरोहितशब्देन ब्रह्मोच्यते । शान्तिकादिषु पुरस्तान्निधीयते स्थाप्यते इति । ‘त्वं पुरोहितो ब्रह्म यासां तादृश्यः प्रजाः प्रजनिष्यन्ते येन तादृशं तव ब्राह्मणं ब्रह्मत्वप्रदं ज्ञानं मन्त्रजातं वा ते वक्ष्यामि ।
विश्वास-प्रस्तुतिः
अथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति॑ ।
मूलम्
अथ॒ मेत॑रेभ्य॒ ऋषि॑भ्यो॒ मा प्र वो॑च॒ इति॑ ।
भट्टभास्कर-टीका
एतत्त्वमितरेभ्यः ऋषिभ्यो मा प्रवोचः इति वसिष्ठमब्रवीदिन्द्रः ।
विश्वास-प्रस्तुतिः
तस्मा॑ ए॒तान्त्स्तोम॑भागानब्रवीत् ।
मूलम्
तस्मा॑ ए॒तान्त्स्तोम॑भागानब्रवीत् ।
भट्टभास्कर-टीका
उक्त्वा च तस्मै वसिष्ठाय एतान् स्तोमभागान् ‘रश्मिरसि’ इत्यादीन् अब्रवीत् ।
विश्वास-प्रस्तुतिः
ततो॒ वसि॑ष्ठपुरोहिताᳶ प्र॒जाᳶ प्राजा॑यन्त ।
मूलम्
ततो॒ वसि॑ष्ठपुरोहिताᳶ प्र॒जाᳶ प्राजा॑यन्त ।
भट्टभास्कर-टीका
ततो वसिष्ठपुरोहिताः वासिष्ठकाः प्रजाः प्राजायन्त ।
विश्वास-प्रस्तुतिः
तस्मा॑द्वासि॒ष्ठो ब्र॒ह्मा का॒र्यᳶ॑ प्रैव जा॑यते ।
मूलम्
तस्मा॑द्वासि॒ष्ठो ब्र॒ह्मा का॒र्यᳶ॑ प्रैव जा॑यते ।
भट्टभास्कर-टीका
तस्माद्वासिष्ठो ब्रह्मा कार्यः स्तोमभागान्विद्यादिति सामर्थ्याद्गम्यते तेन प्रैव जायते यजमानः । वसिष्ठशब्दादृष्यण् ।
अत्रायं प्रयोगक्रमः - यत्राह ब्रह्मन् स्तोष्यामः प्रशास्तरिति तद्ब्रह्म प्रसौति ‘देव सवितः’ इत्येतां प्रतिपदमुक्त्वा ‘रश्मिरसि क्षयाय त्वा क्षयं जिन्व’ इति एतस्यानुवाकस्य एकैकमुपादाय प्रसौति । एवमेव प्रसवद्वादशभिः अग्निष्टोमं प्रसौति, त्रयोदशभिरत्यग्निष्टोमं, पञ्चदशभिरुक्थ्यं, षोडशभिष्षोडशिनम्, सप्तदशभिर्वाजपेयम्, एकोनत्रिंशताऽतिरात्रम्, सर्वैरप्तोर्यामम् । यत्र राथन्तराय सन्धये सर्पन्ति तदाह - ‘वसुकोसि वेषश्रिरसि वस्यष्टिरसि’ इति । एवमेव प्रसौत्याप्तोर्यामादिति । यज्ञस्य स्तोमानां तेजोभागाः स्तोमभागाः । उक्तं च - ‘बृहस्पतिर्वा एतद्यज्ञस्य तेजस्समभरद्यत्स्तोमभागाः’ इति । दासीभारादीत्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥
मूलम् (संयुक्तम्)
र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षय॑ञ्जि॒न्वेति॑ [5] आ॒ह॒ दे॒वा वै क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञम्प्राह॒ प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्म॑ञ्जि॒न्वेत्या॑ह मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्ये॑भ्य ए॒व य॒ज्ञम्प्राहान्वि॑तिरसि दि॒वे त्वा॒ दिव॑ञ्जि॒न्वेत्या॑है॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञम्प्राह॑ विष्ट॒म्भो॑ऽसि॒ वृष्ट्यै॑ त्वा॒ वृष्टि॑ञ्जि॒न्वेत्या॑ह॒ वृष्टि॑मे॒वाव॑ [6] रु॒न्द्धे
विश्वास-प्रस्तुतिः
र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षय॑ञ्जि॒न्वेत्या॑ह ।
दे॒वा वै क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञम्प्राह ।
प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्म॑ञ्जि॒न्वेत्या॑ह ।
मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्ये॑भ्य ए॒व य॒ज्ञम्प्राह ।
अन्वि॑तिरसि दि॒वे त्वा॒ दिव॑ञ्जि॒न्वेत्या॑ह ।
ए॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञम्प्राह॑ ।
वि॒ष्ट॒म्भो॑ऽसि॒ वृष्ट्यै॑ त्वा॒ वृष्टि॑ञ्जि॒न्वेत्या॑ह।
वृष्टि॑मे॒वाव॑ रुन्द्धे ।
मूलम्
र॒श्मिर॑सि॒ क्षया॑य त्वा॒ क्षय॑ञ्जि॒न्वेत्या॑ह ।
दे॒वा वै क्षयो॑ दे॒वेभ्य॑ ए॒व य॒ज्ञम्प्राह ।
प्रेति॑रसि॒ धर्मा॑य त्वा॒ धर्म॑ञ्जि॒न्वेत्या॑ह ।
मनु॒ष्या॑ वै धर्मो॑ मनु॒ष्ये॑भ्य ए॒व य॒ज्ञम्प्राह ।
अन्वि॑तिरसि दि॒वे त्वा॒ दिव॑ञ्जि॒न्वेत्या॑ह ।
ए॒भ्य ए॒व लो॒केभ्यो॑ य॒ज्ञम्प्राह॑ ।
वि॒ष्ट॒म्भो॑ऽसि॒ वृष्ट्यै॑ त्वा॒ वृष्टि॑ञ्जि॒न्वेत्या॑ह।
वृष्टि॑मे॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
2-5इदानीं मन्त्रपदानि व्याचष्टे - रश्मिरसीत्यादि ॥ क्षयति निवसत्यस्मिन्विश्वमिति गतम् ॥
विश्वास-प्रस्तुतिः
प्र॒वास्य॑नु॒वासीत्या॑ह मिथुन॒त्वाय॑ ।
मूलम्
प्र॒वास्य॑नु॒वासीत्या॑ह मिथुन॒त्वाय॑ ।
भट्टभास्कर-टीका
6-7प्रवाऽस्यनुवाऽसीति द्वयोर्ग्रहणम् ॥
मूलम् (संयुक्तम्)
उशिग॑सि॒ वसु॑भ्यस्त्वा॒ वसू॑ञ्जि॒न्वेत्या॑हा॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शादि॒त्या ए॒ताव॑न्तो॒ वै दे॒वास्तेभ्य॑ ए॒व य॒ज्ञम्प्राहौजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॒न्वेत्या॑ह दे॒वाने॒व पि॒तॄननु॒ सन्त॑नोति॒ तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्व [7] इत्या॑ह पि॒तॄने॒व प्र॒जा अनु॒ सन्त॑नोति पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह
विश्वास-प्रस्तुतिः
उ॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसू॑ञ्जि॒न्वेत्या॑ह ।
अ॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शादि॒त्या ए॒ताव॑न्तो॒ वै दे॒वाः ।
तेभ्य॑ ए॒व य॒ज्ञम्प्राह ।
ओजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॒न्वेत्या॑ह ।
दे॒वाने॒व पि॒तॄननु॒ सन्त॑नोति ।
तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्वेत्या॑ह ।
पि॒तॄने॒व प्र॒जा अनु॒ सन्त॑नोति ।
पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह ।
मूलम्
उ॒शिग॑सि॒ वसु॑भ्यस्त्वा॒ वसू॑ञ्जि॒न्वेत्या॑ह ।
अ॒ष्टौ वस॑व॒ एका॑दश रु॒द्रा द्वाद॑शादि॒त्या ए॒ताव॑न्तो॒ वै दे॒वाः ।
तेभ्य॑ ए॒व य॒ज्ञम्प्राह ।
ओजो॑ऽसि पि॒तृभ्य॑स्त्वा पि॒तॄञ्जि॒न्वेत्या॑ह ।
दे॒वाने॒व पि॒तॄननु॒ सन्त॑नोति ।
तन्तु॑रसि प्र॒जाभ्य॑स्त्वा प्र॒जा जि॑न्वेत्या॑ह ।
पि॒तॄने॒व प्र॒जा अनु॒ सन्त॑नोति ।
पृतना॒षाड॑सि प॒शुभ्य॑स्त्वा प॒शूञ्जि॒न्वेत्या॑ह ।
भट्टभास्कर-टीका
8-10उशिगसीत्यादीनां त्रयाणां वस्वादिमन्त्राणां ग्रहणम् । तदाह - अष्टौ वसव इत्यादि । देवानेवेत्यादि । स्थापयति ॥
विश्वास-प्रस्तुतिः
प्र॒जा ए॒व प॒शूननु॒ सन्त॑नोति ।
मूलम्
प्र॒जा ए॒व प॒शूननु॒ सन्त॑नोति ।
भट्टभास्कर-टीका
11प्रजा एवेति ॥ पितॄणामनन्तरं प्रजास्सन्तनोति, प्रजानां पशून् सन्तनोति ॥
मूलम् (संयुक्तम्)
रे॒वद॒स्योष॑धीभ्य॒स्त्वौष॑धीर्जि॒न्वेत्या॒हौष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयत्यभि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वेन्द्र॑ञ्जि॒न्वेत्या॑हा॒भिजि॑त्यै
विश्वास-प्रस्तुतिः
रे॒वद॑सि , ओष॑धीभ्य॒स्त्वा, ओष॑धीर्जि॒न्वेत्या॑ह ।
ओष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयति ।
अ॒भि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वा ।
इन्द्र॑ञ्जि॒न्वेत्या॑हा॒भिजि॑त्यै ।
मूलम्
रे॒वद॑सि , ओष॑धीभ्य॒स्त्वा, ओष॑धीर्जि॒न्वेत्या॑ह ।
ओष॑धीष्वे॒व प॒शून्प्रति॑ ष्ठापयति ।
अ॒भि॒जिद॑सि यु॒क्तग्रा॒वेन्द्रा॑य॒ त्वा ।
इन्द्र॑ञ्जि॒न्वेत्या॑हा॒भिजि॑त्यै ।
भट्टभास्कर-टीका
12-13रेवदसीत्यादि ॥ गतम् ॥
मूलम् (संयुक्तम्)
अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णम् [8] जि॒न्वेत्या॑ह प्र॒जास्वे॒व प्रा॒णान्द॑धाति त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑
विश्वास-प्रस्तुतिः
अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णञ्जि॑न्वेत्या॑ह ।
प्र॒जास्वे॒व प्रा॒णान्द॑धाति ।
त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ ।
मूलम्
अधि॑पतिरसि प्रा॒णाय॑ त्वा प्रा॒णञ्जि॑न्वेत्या॑ह ।
प्र॒जास्वे॒व प्रा॒णान्द॑धाति ।
त्रि॒वृद॑सि प्र॒वृद॒सीत्या॑ह मिथुन॒त्वाय॑ ।
भट्टभास्कर-टीका
14-16अधिपतिरसीत्यादि ॥ चतुर्णां प्राणादिमन्त्राणां ग्रहणम् । प्राणानिति । प्राणापानचक्षुश्रोत्राणि । मिथुनत्वायेति ‘तासु त्रिवृदसीत्येव मिथुनमदधात्’ इति दर्शनात् ॥
मूलम् (संयुक्तम्)
सँरो॒हो॑ऽसि नीरो॒हो॑ऽसीत्या॑ह॒ प्रजा॑त्यै वसु॒को॑ऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ॥ [9]
विश्वास-प्रस्तुतिः
सँ॒रो॒हो॑ऽसि नीरो॒हो॑ऽसीत्या॑ह॒ प्रजा॑त्यै ।
व॒सु॒को॑ऽसि ।
वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ॥
मूलम्
सँ॒रो॒हो॑ऽसि नीरो॒हो॑ऽसीत्या॑ह॒ प्रजा॑त्यै ।
व॒सु॒को॑ऽसि ।
वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीत्या॑ह॒ प्रति॑ष्ठित्यै ॥
भट्टभास्कर-टीका
17-21संरोहोसीत्यादीनां चतुर्णां प्रजननमन्त्राणां ग्रहणम् । ‘तास्संरोहोसि नीरोहोसीत्येव प्राजनयत्’ इति दर्शनात् । प्रतिष्ठित्या इति । ‘प्रजा एव प्रजाता एषु लोकेषु प्रतिष्ठापयति’ इति । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥
इति तृतीये पञ्चमे द्वितीयोनुवाकः ॥