१-३ त्रिष्टुप् , ४ शक्वरी
विश्वेदेवा ऋषयः
भास्करोक्त-विनियोगः
1दर्शपूर्णमासावारभमाणस्य द्वौ सारस्वतौ होमौ स्तः, तयोर्द्वे अनुवाक्ये द्वे याज्ये । तत्र प्रथमस्पानुवाक्या - पूर्णेति त्रिष्टुप् ॥
29 पूर्णा पश्चादुत ...{Loading}...
पू॒र्णा प॒श्चाद् उ॒त पू॒र्णा पु॒रस्ता॑त्।
उन् म॑ध्य॒तᳶ पौ॑र्णमा॒सी जि॑गाय +++(शत्रून्)+++।
तस्या॑न् दे॒वा अधि॑ सव्ँ॒वस॑न्तः।
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम्।
29 पूर्णा पश्चादुत ...{Loading}...
मूलम्
पू॒र्णा प॒श्चादु॒त पू॒र्णा पु॒रस्ता॑त् ।
उन्म॑ध्य॒तᳶ पौ॑र्णमा॒सी जि॑गाय ।
तस्या॑न्दे॒वा अधि॑ सव्ँ॒वस॑न्तः ।
उ॒त्त॒मे नाक॑ इ॒ह मा॑दयन्ताम् ।
भट्टभास्कर-टीका
पूर्णा पूरिता पूर्णचन्द्रसंबन्धात् पञ्चदशी तिथिः (पूर्णेति स्थितिः) पूर्णेत्युच्यते । सा पश्चात् तिथेरन्ते पूर्णा, उत अपि च पुरस्तादादौ च पूर्णा, मध्यतश्च पूर्णा । तस्यां हि तिथौ सर्वसवितृकरणामनुप्रवेशेन भासमानाशेषमण्डलश्चन्द्रो भवति । यद्यपि परमार्थतः तिथ्यन्ते सर्वात्मना चन्द्रः पूर्यते । तथाप्युपलद्भयभिप्रायेणैवमुक्तं, आरम्भात्प्रभृति तस्यां मण्डलं पूर्णमुपलभामहे न तिथ्यन्तरवत् न्यूनमुपलभ्यते । ‘वा दान्तशान्त’ इति ण्यन्तस्य पूर्णेति निपात्यते । एवं त्रिष्वपि कालेषु पूर्णचन्द्रोस्यामिति पूर्णमासी तिथिः । मसी परिमाणे, ण्यन्तात्क्विप् । मित्रः परिमितिहेतुः । मिमीतेर्वा असुनि माः, पूर्णश्चासौ माश्च पूर्णमाः, तस्येयं पौणर्मासी पञ्चदशी । यद्वा - पूर्णो मा अस्मिन्निति पूर्णमासः पर्वान्तः कर्मविशेषो वा । अच्समासान्तः । यद्वा - करणे घञ्, मासः चन्द्रः, तत्सम्बन्धिनी पौणर्मासी । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वम् । सा उज्जिगाय उज्जयत्यन्याः तिथीः । उत्कृष्टा भवतीति यावत् । छान्दसे लिटि ‘सन् लिटोर्जेः’ इति कुत्वम् । तस्यां तादृश्यां देवा अधिसंवसन्त एकीभूय वर्तमाना उत्तमे उद्गततमे नाके सुखैकरूपे इहास्मिन् लोके मादयन्ताम् । मद तृप्तियोगे, चौरादिकः, उत्तमशब्द उञ्छादिरन्तोदात्तः ॥
पूर्णा पश्चात् । पुरस्ताच्च पूर्णा । मध्यतश्च पूर्णा । तस्मात् पौर्णमासी पूर्णेन च चद्रमसा योगात् सेयं पौर्णमासी उज्जिगाय अन्याः स्थितीरुज्जयति, तस्यामधिसंवसन्तो देवा उत्तमे नाकस्थानीये अस्मिन् स्थाने मादयन्तां माद्यन्तु ॥
भट्टभास्कर-टीका
29पौर्णमास्याः - पूर्णा पश्चादिति ॥ व्याख्याता पञ्चमाद्ये ॥
भास्करोक्त-विनियोगः
2अथ द्वितीयस्य याज्या - यत्ते इति त्रिष्टुप् ॥
30 यत्ते देवा ...{Loading}...
यत् ते॑ दे॒वा अद॑धुर् भाग॒-धेय॒म्
अमा॑वास्ये सव्ँ॒वस॑न्तो महि॒त्वा।
सा नो॑ य॒ज्ञम् पि॑पृहि+++(←पालनपूरणयोः)+++ विश्व-वारे+++(←वरणे?)+++
र॒यिन् नो॑ धेहि सुभगे सु॒वीर॑म्॥
30 यत्ते देवा ...{Loading}...
मूलम्
यत्ते॑ दे॒वा अद॑धुर्भाग॒धेय॒ममा॑वास्ये सव्ँ॒वस॑न्तो महि॒त्वा ।
सा नो॑ य॒ज्ञम्पि॑पृहि विश्ववारे र॒यिन्नो॑ धेहि सुभगे सु॒वीर॑म् ।
मूलम्
यत्ते॑ दे॒वा अद॑धुः ॥23॥
भट्टभास्कर-टीका
हे अमावास्ये ते तव देवाः भागधेयं इमं होमं यत् यस्मात् अदधुः दत्तवन्तः । अमा सह सूर्याचन्द्रमसावस्यां संवसत इत्यमावास्या । ‘अमावस्यदन्यतरस्याम्’ इति निपात्यते, पादादित्वादामन्त्रिताद्युदात्तत्वम् । देवा विशेष्यन्ते - संवसन्तः संभूयैकत्र वसन्तमहित्वा तव माहात्म्येन । यस्मात्तव भागमिमं होममदधुः, तस्मात् हे विश्ववारे विश्वकालवति विश्वैर्वा वरणीये सा तादृशी देवैर्दत्तभागा नोस्माकमिमं यज्ञं होमात्मकं पिपृहि पूरय कामैः, पालय वा । पॄ पालनपूरणयोः, शपः श्लुः, धातोर्ह्रस्वत्वम्, अभ्यासस्य चेत्वम् । यद्वा - पृ प्रीतौ, प्रीत्या गृहाणेत्यर्थः । महित्वशब्दात्तृतीयैकवचनस्याजादेशः । किंच - हे सुभगे कल्याणधने अनेन हविषा प्रीता त्वं नः अस्मभ्यं रयिं धनं सुवीरं कल्याणवीरयुक्तं धेहि धनं देहीति । ‘वीरवीर्यौ च` इत्युत्तर पदात्तत्वम् ॥
अथ द्वितीया - हे अमावास्ये! तुभ्यं देवाः यस्माद्भागधेयमादधुः संवसन्तः सहासीना महिम्ना माहात्म्येन, सा त्वं हे विश्ववारे! विश्वकाले नोऽस्माकं यज्ञं पिपृहि पालय, हे सुभगे नोऽस्मभ्यं सुवीरं शोभनपुत्रादिकं धनं धेहि इति ॥
मूलम् (संयुक्तम्)
स॒ह॒स्र॒पो॒षँ सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न्वर्च॑सा [1] सव्ँ॒वि॒दा॒ना
भास्करोक्त-विनियोगः
3अथ द्वितीयस्यानुवाक्या - निवेशनीति त्रिष्टुप् ।
29 निवेशनी ...{Loading}...
नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नाव्ँ॒,
विश्वा॑ रू॒पाणि॒ वसू॑न्य् आवे॒शय॑न्ती।
स॒ह॒स्र॒पो॒षँ सु॒भगा॒ ररा॑णा॒
सा न॒ आग॒न् वर्च॑सा सव्ँविदा॒ना॥
29 निवेशनी ...{Loading}...
मूलम्
नि॒वेश॑नी स॒ङ्गम॑नी॒ वसू॑नाव्ँ॒विश्वा॑ रू॒पाणि॒ वसू॑न्यावे॒शय॑न्ती ।
स॒ह॒स्र॒पो॒षँ सु॒भगा॒ ररा॑णा॒ सा न॒ आ ग॒न्वर्च॑सा सव्ँविदा॒ना ।
मूलम्
नि॒वेश॑नी॒
भट्टभास्कर-टीका
निवेशनी वसूनाम्, निविशते वसूनि यस्यां तादृशी, संगमनी संगच्छन्ती वसून्यनया तादृशशीलया विश्वानि च रूपाणि यानि रूपवन्ति वसूनि तानि आवेशयन्ती अस्मात्प्रत्युत्कर्षन्ती सहस्नपोषं सहस्रपुष्टियुक्तं यथा तथा रराण ददातु । रातेर्व्यत्ययेनात्मनेपदम्, शपः श्लुः । सुभगा शोभनधना सा तादृशी सती अमावास्या नो ऽस्मान् आगन् आगच्छतु वर्चसा दीप्त्या उपलक्षिता संविदाना सम्यग्जानती । ‘समो गमृच्छि’ इत्यात्मनेपदम्, गमेश्छान्दसे लङि शपो लुक्, ‘मो नो धातोः’ ॥
भट्टभास्कर-टीका
29-30अमावास्यायाः - ‘निवेशनी, यत्ते देवा अदधुः’ इति व्याख्याते चैते ‘पूर्णा पश्चात्’ इत्यत्र ॥
भास्करोक्त-विनियोगः
4अथ प्रथमस्य याज्या - अग्नीषोमावित्यतिशक्वरी पञ्चपदा ॥
विश्वास-प्रस्तुतिः
अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसू॑न्रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतम् ।
मा॒ध्यँ हि पौ॑र्णमा॒सञ्जु॒षेथा॒म्ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒तावथा॒स्मभ्यँ॑ स॒हवी॑राँ र॒यिन्नि य॑च्छतम् ।
मूलम्
अग्नी॑षोमौ प्रथ॒मौ वी॒र्ये॑ण॒ वसू॑न्रु॒द्राना॑दि॒त्यानि॒ह जि॑न्वतम् ।
मा॒ध्यँ हि पौ॑र्णमा॒सञ्जु॒षेथा॒म्ब्रह्म॑णा वृ॒द्धौ सु॑कृ॒तेन॑ सा॒तावथा॒स्मभ्यँ॑ स॒हवी॑राँ र॒यिन्नि य॑च्छतम् ।
भट्टभास्कर-टीका
हे अग्नीषोमौ युवां प्रथमौ प्रधानौ वीर्येणात्मीयेन बलेन वसून् रुद्रानादित्यान् च इहास्मिन् कर्माणि जिन्वतं प्रीणयतम् । जिवि प्रीणने, इदित्वान्नुम् । माध्यं मध्यभावं सर्वदेवसाधारणं मध्यस्थमित्यर्थः । पौर्णमासं पौर्णमास्यां भवमिदं हविः जुषेथां ततो ब्रह्मणाऽनेन अन्नेन वृद्धौ सुकृतेन शोभनकर्मणा सातौ संसक्तौ । ‘सुपमानात्कः’ इति सुकृतशब्दोन्तोदात्तः । अथानन्तरमस्मभ्यं सहवीरां विक्रान्तपुरुषसहितां रयिं धनं नियच्छतं नियमेन दत्तम् ॥
मूलम् (संयुक्तम्)
आ॒दि॒त्याश्चाङ्गि॑रसश्चा॒ग्नीनाद॑धत॒ ते द॑र्शपूर्णमा॒सौ प्रैप्स॒न्तेषा॒मङ्गि॑रसा॒न्निरु॑प्तँ ह॒विरासी॒दथा॑दि॒त्या ए॒तौ होमा॑वपश्य॒न्ताव॑जुहवु॒स्ततो॒ वै ते द॑र्शपूर्णमा॒सौ [2] पूर्व॒ आल॑भन्त दर्शपूर्णमा॒सावा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ता॑ज्जुहुयात्सा॒क्षादे॒व द॑र्शपूर्णमा॒सावा ल॑भते
विश्वास-प्रस्तुतिः
आ॒दि॒त्याश्चाङ्गि॑रसश्चा॒ग्नीनाऽद॑धत ।
ते द॑र्शपूर्णमा॒सौ प्रैप्स॑न् ।
मूलम्
आ॒दि॒त्याश्चाङ्गि॑रसश्चा॒ग्नीनाऽद॑धत ।
ते द॑र्शपूर्णमा॒सौ प्रैप्स॑न् ।
भट्टभास्कर-टीका
5अथैनयोर्हेमयोर्ब्राह्मणम् - आदित्याश्चाङ्गिरसश्चाग्नीनादधत, दर्शपूर्णमासौ प्राप्तुं प्रारब्धुमैच्छन् । ‘आप्ज्ञप्यृधाम्’ इतीत्वम् ।
विश्वास-प्रस्तुतिः
तेषा॒मङ्गि॑रसा॒न्निरु॑प्तँ ह॒विरासी॑त् ।
मूलम्
तेषा॒मङ्गि॑रसा॒न्निरु॑प्तँ ह॒विरासी॑त् ।
भट्टभास्कर-टीका
तेषां मध्ये अङ्गिरसां निरुप्तमासीद्धविः । अहुत्वैव सारस्वतौ होमौ हविरुप्तवन्तः । दर्शपूर्णमासस्थानीयत्वादेतयोः होमयोर्दर्शपूर्णमासशब्दौ कर्मप्रवचनौ । तत्र दृशिरयं ज्ञानमात्रे वर्तते ।
विश्वास-प्रस्तुतिः
अथा॑दि॒त्या ए॒तौ होमा॑वपश्य॒न्ताव॑जुहवुः ।
ततो॒ वै ते द॑र्शपूर्णमा॒सौ पूर्व॒ आऽल॑भन्त ।
द॒र्श॒पू॒र्ण॒मा॒सावा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ता॑ज्जुहुयात् ।
सा॒क्षादे॒व द॑र्शपूर्णमा॒सावा ल॑भते ।
मूलम्
अथा॑दि॒त्या ए॒तौ होमा॑वपश्य॒न्ताव॑जुहवुः ।
ततो॒ वै ते द॑र्शपूर्णमा॒सौ पूर्व॒ आऽल॑भन्त ।
द॒र्श॒पू॒र्ण॒मा॒सावा॒लभ॑मान ए॒तौ होमौ॑ पु॒रस्ता॑ज्जुहुयात् ।
सा॒क्षादे॒व द॑र्शपूर्णमा॒सावा ल॑भते ।
भट्टभास्कर-टीका
अथादृष्टार्थः ‘पश्यार्थैश्चानालोचने’ इत्यालोचनेन न गृह्यते, अस्ति चेति तु केवलं ज्ञायते । अधिकरणे सन्तन्यते दिनेदिने चाप्यते तं सन्ततमुत्तरार्धमासः आत्मलाभत्वात्तदनुविधायिनोः तदपेक्षे आनुलोम्यप्रतिलोम्ये । विपर्ययलक्षणेत्येके । पूर्णमासो व्याख्यातः ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति॒ स त्वै द॑र्शपूर्णमा॒सावा ल॑भेत॒ य ए॑नयोरनुलो॒मञ्च॑ प्रतिलो॒मञ्च॑ वि॒द्यादित्य॑मावा॒स्या॑या ऊ॒र्ध्वन्तद॑नुलो॒मम्पौ॑र्णमा॒स्यै प्र॑ती॒चीन॒न्तत्प्र॑तिलो॒मय्ँयत्पौ॑र्णमा॒सीम्पूर्वा॑मा॒लभे॑त प्रतिलो॒ममे॑ना॒वा ल॑भेता॒मुम॑प॒क्षीय॑माण॒मन्वप॑ [3] क्षी॒ये॒त॒ सा॒र॒स्व॒तौ होमौ॑ पु॒रस्ता॑ज्जुहुयादमावा॒स्या॑ वै सर॑स्वत्यनुलो॒ममे॒वैना॒वा ल॑भते॒ऽमुमा॒प्याय॑मान॒मन्वा प्या॑यत
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वै द॑र्शपूर्णमा॒सावा ल॑भेत ।
मूलम्
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वै द॑र्शपूर्णमा॒सावा ल॑भेत ।
भट्टभास्कर-टीका
6ब्रह्मवादिन इत्यादि ॥ तुशब्दोनुलोमविदन्येभ्यो व्यावर्तयति अत्रायं यज्ञात्मनः औत्तरस्मादर्धमासात् प्रतिपत्प्तभृति सन्ततं सन्तन्यते दिनेदिने चाप्यते तं सन्ततमुत्तरार्धमासे आगते आलभते न विकरोति । ततस्तं कालेकाले आगते यजते तत्र मध्यात् पूर्वपर्वसन्धौ भूयिष्ठस्योत्तरार्धमासस्य तस्मन्नह्नि यागः कर्तव्यः, अन्यथोत्तरेद्युः ।
विश्वास-प्रस्तुतिः
य ए॑नयोरनुलो॒मञ्च॑ प्रतिलो॒मञ्च॑ वि॒द्यादिति॑ ।
मूलम्
य ए॑नयोरनुलो॒मञ्च॑ प्रतिलो॒मञ्च॑ वि॒द्यादिति॑ ।
भट्टभास्कर-टीका
एतयोश्चन्द्राधीनात्मलाभत्वात्तदनुविधायनोः तदपेक्षे आनुलोम्यप्रातिलोम्ये ।
विश्वास-प्रस्तुतिः
अ॒मा॒वा॒स्या॑या ऊ॒र्ध्वन्तद॑नुलो॒मम् ।
पौ॒र्ण॒मा॒स्यै प्र॑ती॒चीन॒न्तत्प्र॑तिलो॒मम् ।
यत्पौ॑र्णमा॒सीम्पूर्वा॑मा॒लभे॑त ।
प्र॒ति॒लो॒ममे॑ना॒वा ल॑भेत ।
मूलम्
अ॒मा॒वा॒स्या॑या ऊ॒र्ध्वन्तद॑नुलो॒मम् ।
पौ॒र्ण॒मा॒स्यै प्र॑ती॒चीन॒न्तत्प्र॑तिलो॒मम् ।
यत्पौ॑र्णमा॒सीम्पूर्वा॑मा॒लभे॑त ।
प्र॒ति॒लो॒ममे॑ना॒वा ल॑भेत ।
भट्टभास्कर-टीका
तत्रामावास्यायाः परस्तादूर्ध्वं उपर्युपर्युपचीयमानस्वस्वरूपं चन्द्रस्यावस्थानं यज्ञस्य तु विपरीतं तत्प्रतिलोमं भवती, ततश्च यदि पौर्णमासीं पूर्वामालभेत प्रतिलोममेनावालभेत प्राप्नुयात् तदानीं हि चन्द्रोपचीयते यज्ञ उपचीयते इति प्रतिलोमत्वम् ।
विश्वास-प्रस्तुतिः
अ॒मुम॑प॒क्षीय॑माण॒मन्वप॑ क्षीयेत ।
मूलम्
अ॒मुम॑प॒क्षीय॑माण॒मन्वप॑ क्षीयेत ।
भट्टभास्कर-टीका
ततश्चामुं चन्द्रमपक्षीयमाणमनु यज्ञोप्यपक्षीयेत । अमावास्योपक्रमे तु नायं दोषः, तदानीं हि चन्द्रोप्युपचीयते यज्ञोपीत्यनुलोमत्वम् । ‘अच्प्रत्यन्ववपूर्वात् ’ इत्युभयत्राच्प्रत्ययस्समासान्तः । तर्ह्यमावास्यैव पूर्वमारभ्यताम् । नैवं शक्यम् । यथोक्तमाचार्येण - ‘अथेमौ दर्शपूर्णमासौ’ पौर्णमास्युपक्रमावमावास्यासंस्थावाचार्या ब्रुवते । तत्रोदाहरन्ति - ऊर्ध्वं मध्यरात्रात्पौणर्मास्याः चन्द्रमाः पूर्यते स एतं चापररात्रं पूर्णो भवति सर्वं चाहरुत्तरस्याश्च रात्रेरा मध्यरात्रात् । अथामावास्याया उपवसथीयेऽह्नि ऊर्ध्वं मध्याह्नरात्राच्चन्द्रमसमादित्यौ रेतस एतं चापराह्णे उपरब्धो भवति सर्वां च रात्रिमुत्तरस्य चाह्न आ मध्यन्दिनात् एवं सन्धिमभियजेतेति । रात्रिर्हि पौर्णमास्यां संशुद्धमाभाति अहरमावास्यायां द्वे पौर्णमास्यौ द्वे अमावास्ये पूर्वां पूर्वां पौर्णमसीमुत्तरामुत्तराममावास्यां, या पूर्वा पौणर्मासी साऽनुमतिः, योत्तरा सा राका, या पूवाऽमावास्या सा सिनीवाली, योत्तरा सा कुहूरित्येवमुपक्रमाणि च कर्माणि शुक्लादयः चार्धमासाः’ इति ।
विश्वास-प्रस्तुतिः
सा॒र॒स्व॒तौ होमौ॑ पु॒रस्ता॑ज्जुहुयात् ।
मूलम्
सा॒र॒स्व॒तौ होमौ॑ पु॒रस्ता॑ज्जुहुयात् ।
भट्टभास्कर-टीका
एवं पौर्णमास्युपक्रमत्वे प्रातिलोम्यं प्रसक्तं तत्परिहारार्थमाह - सारस्वतावित्यादि ।
विश्वास-प्रस्तुतिः
अ॒मा॒वा॒स्या॑ वै सर॑स्वत्यनुलो॒ममे॒वैना॒वा ल॑भते ।
अ॒मुमा॒प्याय॑मान॒मन्वाप्या॑यते ।
मूलम्
अ॒मा॒वा॒स्या॑ वै सर॑स्वत्यनुलो॒ममे॒वैना॒वा ल॑भते ।
अ॒मुमा॒प्याय॑मान॒मन्वाप्या॑यते ।
भट्टभास्कर-टीका
अमावास्या अमावास्यास्थानीया । सरस्वत्याः प्रथमयागात्पौर्णमास्युपक्रमदोषाप्रसंगः ॥
मूलम् (संयुक्तम्)
आग्नावैष्ण॒वमेका॑दशकपालम्पु॒रस्ता॒न्निर्व॑पे॒त्सर॑स्वत्यै च॒रुँ सर॑स्वते॒ द्वाद॑शकपालय्ँ॒यदा॑ग्ने॒यो भव॑त्य॒ग्निर्वै य॑ज्ञमु॒खय्ँय॑ज्ञमु॒खमे॒वर्द्धि॑म्पु॒रस्ता॑द्धत्ते॒ यद्वै॑ष्ण॒वो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वारभ्य॒ प्र त॑नुते॒ सर॑स्वत्यै च॒रुर्भ॑वति॒ सर॑स्वते॒ द्वाद॑शकपालोऽमावा॒स्या॑ वै सर॑स्वती पू॒र्णमा॑स॒स्सर॑स्वा॒न्तावे॒व सा॒क्षादा र॑भत ऋ॒ध्नोत्या॑भ्या॒न्द्वाद॑शकपाल॒स्सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजा॑त्यै मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ [4]
विश्वास-प्रस्तुतिः
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालम् पु॒रस्ता॒न्निर्व॑पेत् ।
सर॑स्वत्यै च॒रुँ सर॑स्वते॒ द्वाद॑शकपालम् ।
यदा॑ग्ने॒यो भव॑ति ।
अ॒ग्निर्वै य॑ज्ञमु॒खय्ँय॑ज्ञमु॒खमे॒वर्द्धि॑म्पु॒रस्ता॑द्धत्ते ।
यद्वै॑ष्ण॒वो भव॑ति ।
य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वारभ्य॒ प्र त॑नुते ।
सर॑स्वत्यै च॒रुर्भ॑वति ।
सर॑स्वते॒ द्वाद॑शकपालः ।
अ॒मा॒वा॒स्या॑ वै सर॑स्वती , पू॒र्णमा॑स॒स्सर॑स्वा॒न् , तावे॒व सा॒क्षादा र॑भते ।
ऋ॒ध्नोत्या॑भ्याम् ।
द्वाद॑शकपाल॒स्सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजा॑त्यै
मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ [4]
मूलम्
आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालम् पु॒रस्ता॒न्निर्व॑पेत् ।
सर॑स्वत्यै च॒रुँ सर॑स्वते॒ द्वाद॑शकपालम् ।
यदा॑ग्ने॒यो भव॑ति ।
अ॒ग्निर्वै य॑ज्ञमु॒खय्ँय॑ज्ञमु॒खमे॒वर्द्धि॑म्पु॒रस्ता॑द्धत्ते ।
यद्वै॑ष्ण॒वो भव॑ति ।
य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वारभ्य॒ प्र त॑नुते ।
सर॑स्वत्यै च॒रुर्भ॑वति ।
सर॑स्वते॒ द्वाद॑शकपालः ।
अ॒मा॒वा॒स्या॑ वै सर॑स्वती , पू॒र्णमा॑स॒स्सर॑स्वा॒न् , तावे॒व सा॒क्षादा र॑भते ।
ऋ॒ध्नोत्या॑भ्याम् ।
द्वाद॑शकपाल॒स्सर॑स्वते भवति मिथुन॒त्वाय॒ प्रजा॑त्यै
मिथु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ [4]
भट्टभास्कर-टीका
7आग्नावैष्णवमित्यादि ॥ साक्षादारभते इति । अन्वारम्भणीयेयमिति त्रीण्येतानिहवींषि । मिथुनौ गावौ स्त्रीपुंसौ । गतमन्यत् ॥
इति तृतीये पञ्चमे प्रथमोनुवाकः ॥