१० प्रवत्स्यतो अग्निहोत्रिणो होमः , समारोपश्च

१-२ त्रिष्टुप्
विश्वेदेवा ऋषयः

विश्वास-प्रस्तुतिः

वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्त्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।
यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ।

मूलम्

वास्तो॑ष्पते॒ प्रति॑ जानीह्य॒स्मान्त्स्वा॑वे॒शो अ॑नमी॒वो भ॑वा नः ।
यत्त्वेम॑हे॒ प्रति॒ तन्नो॑ जुषस्व॒ शन्न॑ एधि द्वि॒पदे॒ शञ्चतु॑ष्पदे ।

भट्टभास्कर-टीका

1यत्र दशाहान्युषित्वा प्रयास्यन् स्रुचि तच्चतुर्गृहीतं गृहीत्वा आहवनीये वास्तोष्पतीयं जुहोति - वास्तोष्पते इति त्रिष्टुब्भ्यां याज्यानुवाक्याभ्याम् । वास्तोष्पते इति पुरोनुवाक्यामनूच्य वास्तोष्पते इति याज्यया जुहोति ॥ ‘यदेकया जुहुयात्’ इत्यादि ब्राह्मणम् । हे वास्तोष्पते वास्तोः गृहस्य पालयितः । ‘रुद्रः खलु वै वास्तोष्पतिः’ इति ब्राह्मणम् । ‘सुबामन्त्रिते’ इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य षाष्ठिकमामन्त्रिताद्युदात्तत्वम्, ‘षष्ठ्याः पतिपुत्र’ इति सत्वम्, सुषामादित्वात्षत्वम् । अस्मान् प्रतिजनीहि अत्मीयत्वेन बुद्ध्यस्व प्रत्येकं वा अस्मान् जानीहि अनुध्यातुमर्हसि । ततश्च स्वावेशः सुखावासः सुखं वासयिता अस्माकं भव । अनमीवः अरोगः अरोगहेतुश्चास्माकं भव । ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम्, ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यत्त्वा ईमहे याचामहे तन्नो ऽस्मान् प्रतिजुषस्व प्रतिप्रापय । प्रत्येकं वा प्रापय । यद्वा - तत्तत्प्रति तत्प्रदानार्थं नः अस्मान् जुषस्व । प्रतिगृहाण वा अस्मान् । किंच - नोस्माकं द्विपदे चतुष्पदे च शं सुखं सुखहेतुः एधि भव । ‘द्वित्रिभ्यां पद्दन्’ इति द्विपद इत्यत्रोत्तरपदान्तोदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

वास्तो॑ष्पते श॒ग्मया॑ सँ॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या॑ ।
आवः॒ क्षेम॑ उ॒त योगे॒ वर॑न्नो यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।

मूलम्

वास्तो॑ष्पते श॒ग्मया॑ सँ॒सदा॑ ते सक्षी॒महि॑ र॒ण्वया॑ गातु॒मत्या॑ ।
आवः॒ क्षेम॑ उ॒त योगे॒ वर॑न्नो यू॒यम्पा॑त स्व॒स्तिभि॒स्सदा॑ नः ।

भट्टभास्कर-टीका

2अथ द्वितीया - हे वास्तोष्पते शग्मया सर्वार्थसाधनशक्तया । छान्दसं जश्त्वम् । तव संसदा सन्तत्या श्लेषणेन एतद्धोमनिमित्तेन संबन्धेन सक्षीमहि अभिभवेम शत्रून् । यद्वा - त्वया संसक्ता भूयास्म । सञ्जेराशिषि लिङ्, छान्दसोनुनासिकलोपः । रण्वया गन्तव्यया । रवि गतौ, घञ् । पचाद्यजेव वाऽकर्तरि । रमणीयया वा । रमेरक्षरविकारश्छान्दसः, औणादिको यञ् प्रत्ययः । गातुमत्या गतिमत्या सर्वत्राप्रतिहतगत्या । ‘ह्रस्वनुङ्भ्यां मतुप्’ । इति मतुप उदात्तत्वम् । किञ्च - आवः रक्ष । अवतेश्छान्दसो लुङ् । क्षेमे उत अपि च योगक्षेमार्थं योगार्थं च नः अस्मान् वरं उत्कृष्टं रक्षेति । लब्धपरिपालनं क्षेमः, अलब्धलाभो योगः । यूयमित्यादि । व्याख्यातम् । पूजार्थं एकस्मिन् बहुवचनम्, वचनव्यत्ययो वा ॥

मूलम् (संयुक्तम्)

यत्सा॒यम्प्रा॑तरग्निहो॒त्रञ्जु॒होत्या॑हुतीष्ट॒का ए॒व ता उप॑ धत्ते [36] यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र्यत्सा॒यम्प्रा॑तर्जु॒होति

विश्वास-प्रस्तुतिः

यत्सा॒यम्प्रा॑तरग्निहो॒त्रञ्जु॒होत्या॑हुति । इष्ट॒का ए॒व ता उप॑ धत्ते ।
यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र्यत्सा॒यम्प्रा॑तर्जु॒होति ।

मूलम्

यत्सा॒यम्प्रा॑तरग्निहो॒त्रञ्जु॒होत्या॑हुति । इष्ट॒का ए॒व ता उप॑ धत्ते ।
यज॑मानोऽहोरा॒त्राणि॒ वा ए॒तस्येष्ट॑का॒ य आहि॑ताग्नि॒र्यत्सा॒यम्प्रा॑तर्जु॒होति ।

भट्टभास्कर-टीका

3अथ वास्तोष्पतीयस्य ब्राह्मणम् - यत्सायमित्यादि ॥ सायंप्रातः अग्निहोमेन आहुत्यात्मिका इष्टका यजमान उपधत्ते ॥

विश्वास-प्रस्तुतिः

अ॒हो॒रा॒त्राण्येवाप्त्वेष्ट॑काᳵ कृ॒त्वोप॑ धत्ते ।

मूलम्

अ॒हो॒रा॒त्राण्येवाप्त्वेष्ट॑काᳵ कृ॒त्वोप॑ धत्ते ।

भट्टभास्कर-टीका

4अहोरात्राणीत्यादि ॥ अहानि रात्रयश्चाहोरात्राणि । ‘हेमन्तशिशिरावहोरात्रे च’ इति नपुंसकत्वम् । आहिताग्नेरिष्टकास्थानीयान्यहोरात्राणि सायंप्रातर्होमेन अहोरात्राण्याप्त्वा होमेन चेष्टकाः कृत्वा अहोरात्रात्मिका इष्टका उपधत्ते ॥

मूलम् (संयुक्तम्)

दश॑ समा॒नत्र॑ जुहोति॒ दशा॑क्षरा वि॒राड्वि॒राज॑मे॒वाप्त्वेष्ट॑काङ्कृ॒त्वोप॑ ध॒त्तेऽथो॑ वि॒राज्ये॒व य॒ज्ञमा॑प्नोति॒ चित्य॑श्चित्योऽस्य भवति॒

विश्वास-प्रस्तुतिः

दश॑ समा॒नत्र॑ जुहोति ।
दशा॑क्षरा वि॒राड् ।
वि॒राज॑मे॒वाप्त्वेष्ट॑काङ्कृ॒त्वोप॑ ध॒त्ते ।

मूलम्

दश॑ समा॒नत्र॑ जुहोति ।
दशा॑क्षरा वि॒राड् ।
वि॒राज॑मे॒वाप्त्वेष्ट॑काङ्कृ॒त्वोप॑ ध॒त्ते ।

भट्टभास्कर-टीका

5दशेत्यादि ॥ समानत्र वास्तौ दशाहुतीः दशस्वहोरात्रेषु जुहोति । दशसंख्यासंपत्त्या दशाक्षरां विराजमाप्त्वा विराडात्मिकामेवेष्टकामुपधत्ते । एवं त्रप्या [तिस्रः] इष्टका आहुतीष्टका अहोरात्रेष्टकौ विराडिष्टकेति ।

विश्वास-प्रस्तुतिः

अथो॑ वि॒राज्ये॒व य॒ज्ञमा॑प्नोति ।

मूलम्

अथो॑ वि॒राज्ये॒व य॒ज्ञमा॑प्नोति ।

भट्टभास्कर-टीका

अथो अपि च विराजि लब्धायां यज्ञस्संपद्यते ।

विश्वास-प्रस्तुतिः

चित्य॑श्चित्योऽस्य भवति ।

मूलम्

चित्य॑श्चित्योऽस्य भवति ।

भट्टभास्कर-टीका

चित्याश्चित्यः पुनःपुनश्च यजमानस्याग्निर्भवति न कदाचित्समाप्यते । ‘चित्याग्निचित्ये च’ इति निपात्यते, पौनःपुन्ये द्विर्वचनम्, ‘अनुदात्तं च’ इति द्वितीयस्य अनुदात्तत्वम् ॥

मूलम् (संयुक्तम्)

तस्मा॒द्यत्र॒ दशो॑षि॒त्वा प्र॒याति॒ तद्य॑ज्ञवा॒स्त्ववा॑स्त्वे॒व तद्यत्ततो॑ऽर्वा॒चीन॑म् [37]

विश्वास-प्रस्तुतिः

तस्मा॒द्यत्र॒ दशो॑षि॒त्वा प्र॒याति॒ तद्य॑ज्ञवा॒स्तु ।
अवा॑स्त्वे॒व तद्यत्ततो॑ऽर्वा॒चीन॑म् ।

मूलम्

तस्मा॒द्यत्र॒ दशो॑षि॒त्वा प्र॒याति॒ तद्य॑ज्ञवा॒स्तु ।
अवा॑स्त्वे॒व तद्यत्ततो॑ऽर्वा॒चीन॑म् ।

भट्टभास्कर-टीका

6यदुक्तं विराजि यज्ञमाप्नोतीति, तत्स्फुटीकरोति - तस्मादिति ॥ यस्मादेवं विराट्सम्पत्तौ यज्ञावाप्तिः, तस्माद्यत्र वसतौ दश्रात्रीरुषित्वा प्रयाति देशान्तरं गच्छति, तद्यज्ञवास्तु भवति वास्तोष्पतीयहोमः कर्तव्य इत्यर्थः । यत्ततो दशरात्रादर्वाचीनं न्यूनं नवरात्रादि वसति तदवास्त्वेव उक्तेन न्यायेन यज्ञानवाप्तेर्वास्तोष्पतीयहोमाभावादवास्तुत्वम् । अर्वागञ्चतीति ऋत्विगादिना क्विनि ‘विभाषाञ्चेः’ इति खः ॥

मूलम् (संयुक्तम्)

रु॒द्रᳵ खलु॒ वै वा॑स्तोष्प॒तिर्यदहु॑त्वा वास्तोष्प॒तीय॑म्प्रया॒याद्रु॒द्र ए॑नम्भू॒त्वाग्निर॑नू॒त्थाय॑ हन्याद्वास्तोष्प॒तीय॑ञ्जुहोति भाग॒धेये॑नै॒वैनँ॑ शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानः

विश्वास-प्रस्तुतिः

रु॒द्रᳵ खलु॒ वै वा॑स्तोष्प॒तिर् ,

मूलम्

रु॒द्रᳵ खलु॒ वै वा॑स्तोष्प॒तिर् ,

भट्टभास्कर-टीका

7कः पुनरत्र यष्टव्यः? । को वाऽस्य यागः? इत्याह - रुद्र इति ॥ ‘रुद्रो वा एष यदग्निस्स एतर्हि जातो यर्हि सर्वश्चितः’ इति न्यायेन अस्येष्टकचितस्य यज्ञस्य वास्तुनः पातृत्वेन स्वामित्वेन अग्न्यात्मा रुद्रस्सन्निधत्ते भागं च लिप्सते । तस्माद्रुद्रो वास्तोष्पतिः । छान्दसष्षष्ठ्या अलुक्, ‘पत्यावैश्वर्ये’ इति व्यत्ययेन न प्रवर्तते ।

विश्वास-प्रस्तुतिः

यदहु॑त्वा वास्तोष्प॒तीय॑म्प्रया॒याद्रु॒द्र ए॑नम्भू॒त्वाग्निर॑नू॒त्थाय॑ हन्यात् ।

मूलम्

यदहु॑त्वा वास्तोष्प॒तीय॑म्प्रया॒याद्रु॒द्र ए॑नम्भू॒त्वाग्निर॑नू॒त्थाय॑ हन्यात् ।

भट्टभास्कर-टीका

ततश्च यदहुत्वा वास्तोष्पतीयं प्रयायात्, एनं प्रयान्तं रुद्रो भूत्वा अग्निरनूथाय हन्यात् अनुद्रुत्य नाशयेत् ।

विश्वास-प्रस्तुतिः

वास्तोष्प॒तीय॑ञ्जुहोति ।
भा॒ग॒धेये॑नै॒वैनँ॑ शमयति ।
नार्ति॒मार्च्छ॑ति॒ यज॑मानः ।

मूलम्

वास्तोष्प॒तीय॑ञ्जुहोति ।
भा॒ग॒धेये॑नै॒वैनँ॑ शमयति ।
नार्ति॒मार्च्छ॑ति॒ यज॑मानः ।

भट्टभास्कर-टीका

वास्तोष्पतीयमित्यादि । वास्तोष्पते इति द्वाभ्याम् । संयोजिते वा अयं होमः स्यात्, अयुक्ते वा प्रागेव भवेत् ॥

मूलम् (संयुक्तम्)

यद्यु॒क्ते जु॑हु॒याद्यथा॒ प्रया॑ते॒ वास्ता॒वाहु॑तिञ्जु॒होति॑ ता॒दृगे॒व तद्यदयु॑क्ते जुहु॒याद्यथा॒ क्षेम॒ आहु॑तिञ्जु॒होति॑ ता॒दृगे॒व तदहु॑तमस्य वास्तोष्प॒तीयँ॑ स्यात् [38]

विश्वास-प्रस्तुतिः

यद्यु॒क्ते जु॑हु॒याद् ,
यथा॒ प्रया॑ते॒ वास्ता॒वाहु॑तिञ्जु॒होति॑ ता॒दृगे॒व तत् ।

मूलम्

यद्यु॒क्ते जु॑हु॒याद् ,
यथा॒ प्रया॑ते॒ वास्ता॒वाहु॑तिञ्जु॒होति॑ ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

8अत्र पक्षद्वयेऽपि दोषमुक्त्वा समाधातुमारभते - यद्युक्ते इत्यादि ॥ अत्रानेन वास्तोष्पतीयं होतव्यं, तत्रापि प्रयास्यता होतव्यम्, यत्र यत् युक्ते जुहुयात् यथा प्रयाते अपगते वास्तौ अवास्तुन्येव जुहोति तादृक्तत्तुल्यं भवति । युक्ते तु स्थितस्यैव भाण्डाधारत्वादवास्तुत्वं वसतेर्व्यज्यते ।

विश्वास-प्रस्तुतिः

यदयु॑क्ते जुहु॒याद् यथा॒ क्षेम॒ आहु॑तिञ्जु॒होति॑ ।
ता॒दृगे॒व तत् ।
अहु॑तमस्य वास्तोष्प॒तीयँ॑ स्यात् ।

मूलम्

यदयु॑क्ते जुहु॒याद् यथा॒ क्षेम॒ आहु॑तिञ्जु॒होति॑ ।
ता॒दृगे॒व तत् ।
अहु॑तमस्य वास्तोष्प॒तीयँ॑ स्यात् ।

भट्टभास्कर-टीका

अथ यदयुक्ते जुहुयात् यथा क्षेमे निवासे प्रयाणप्रसङ्ग एव जुहोति तादृक्तत् एवं पक्षद्वयेऽपि वास्तोष्पतीयं हुतं स्यात्, ततो रुद्रः कृद्ध्येत् ॥

मूलम् (संयुक्तम्)

दक्षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॒क्तोऽथ॑ वास्तोष्प॒तीय॑ञ्जुहोत्यु॒भय॑मे॒वाक॒रप॑रिवर्गमे॒वैनँ॑ शमयति

विश्वास-प्रस्तुतिः

दक्षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॒क्तः ।
अथ॑ वास्तोष्प॒तीय॑ञ्जुहोति ।
उ॒भय॑मे॒वाक॒रप॑रिवर्गमे॒वैनँ॑ शमयति ।

मूलम्

दक्षि॑णो यु॒क्तो भव॑ति स॒व्योऽयु॒क्तः ।
अथ॑ वास्तोष्प॒तीय॑ञ्जुहोति ।
उ॒भय॑मे॒वाक॒रप॑रिवर्गमे॒वैनँ॑ शमयति ।

भट्टभास्कर-टीका

9अथ समाधत्ते - दक्षिण इत्यादि ॥ दक्षिणो गौर्युक्तो भवति, सव्यस्त्वयुक्तः, तथाऽस्मिन्नवसरे वास्तोश्पतीयं जुहोति उभयमप्यकः करोति वास्तुनी होतव्यं, प्रयास्यता होतव्यमिति तदुभयमनुष्ठितं भवति । एकस्य योगे प्रयाणस्य प्रस्तुतत्वात्, एकस्य चायोगेन प्रयाणस्याप्रस्तुतत्वात् एकस्य व्यवायोपगमात् । ततश्चैनमपरिवर्गं किंचिदप्यपरिवर्ग्यं सर्वात्मना शमयति । वृजेश्छान्दसो घञ्, तेन बहुव्रीहिः । करोतेश्छान्दसो लुङ्, ‘मन्त्रे घस’ इत्यादिना च्लेर्लुक् ॥

मूलम् (संयुक्तम्)

यदेक॑या जुहु॒याद्द॑र्विहो॒मङ्कु॑र्यात्पुरोनुवा॒क्या॑म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॒

विश्वास-प्रस्तुतिः

यदेक॑या जुहु॒याद्द॑र्विहो॒मङ्कु॑र्यात् ।

पुरोनुवा॒क्या॑म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॑ ।

मूलम्

यदेक॑या जुहु॒याद्द॑र्विहो॒मङ्कु॑र्यात् ।

पुरोनुवा॒क्या॑म॒नूच्य॑ या॒ज्य॑या जुहोति सदेव॒त्वाय॑ ।

भट्टभास्कर-टीका

10वषट्कारान्तानामभावाद्दर्विहोमः स्यात् । तस्मात्पुरोनुवाक्यामनूच्य अनुद्रुत्य द्वितीयया याज्यया जुहोति सदेवत्वाय देवसंमितत्वाय देवयोग्यत्वायेत्यर्थः । दर्विहोमप्रियतमत्वाद्देवानाम् ॥

मूलम् (संयुक्तम्)

यद्धु॒त आ॑द॒ध्याद्रु॒द्रङ्गृ॒हान॒न्वारो॑हये॒द्यद॑व॒क्षाणा॒न्यस॑म्प्रक्षाप्य प्रया॒याद्यथा॑ यज्ञवेश॒सव्ँवा॒दह॑नव्ँवा ता॒दृगे॒व तद॒यन्ते॒ योनि॑र्ऋ॒त्विय॒ इत्य॒रण्योः॑ स॒मारो॑हयति [39] ए॒ष वा अ॒ग्नेर्योनि॒स्स्व ए॒वैनय्ँ॒योनौ॑ स॒मारो॑हय॒ति

विश्वास-प्रस्तुतिः

यद्धु॒त आ॑द॒ध्याद् रु॒द्रङ्गृ॒हान॒न्वारो॑हयेत् ।

मूलम्

यद्धु॒त आ॑द॒ध्याद् रु॒द्रङ्गृ॒हान॒न्वारो॑हयेत् ।

भट्टभास्कर-टीका

11यद्धुत इत्यादि ॥ हुतहोमे भाण्डादि शकट आदध्यात् आरोपयेत् तदा गृहानश्मादीन्यनुरुद्रमप्यारोपयेत् । स हि हुते होमे वास्तुं जहाति । तस्मादहुते यानेषु भाण्डान्यारोपयितव्यानीति भावः ।

विश्वास-प्रस्तुतिः

यद॑व॒क्षाणा॒न्यस॑म्प्रक्षाप्य प्रया॒यात्

मूलम्

यद॑व॒क्षाणा॒न्यस॑म्प्रक्षाप्य प्रया॒यात्

भट्टभास्कर-टीका

यदवक्षाणानीत्यादि । यद्यवक्षाणानि ज्वलितकाष्ठसंहतीः असंप्रक्षाप्य समारोपितानि न कृत्वा अनिर्वापिताग्निरेव स्थापयित्वा प्रयायात् । क्षै जै षै क्षये, णौ पुगागमः ।

विश्वास-प्रस्तुतिः

यथा॑ यज्ञवेश॒सव्ँवा॒दह॑नव्ँवा ता॒दृगे॒व तत् ।

मूलम्

यथा॑ यज्ञवेश॒सव्ँवा॒दह॑नव्ँवा ता॒दृगे॒व तत् ।

भट्टभास्कर-टीका

यथायज्ञवेशसं यज्ञविध्वंसनं वा आदहनं सर्वतो दहनं वा क्रियते तत्तुल्यं तादृशं व्यसनं अनारोपितोग्निरुत्पादयेदित्यर्थः ।

विश्वास-प्रस्तुतिः

अ॒यन्ते॒ योनि॑र्ऋ॒त्विय॒ इत्य॒रण्योः॑ स॒मारो॑हयति ।

मूलम्

अ॒यन्ते॒ योनि॑र्ऋ॒त्विय॒ इत्य॒रण्योः॑ स॒मारो॑हयति ।

भट्टभास्कर-टीका

तस्मात् ‘अयं ते योनिर् ऋत्वियः’ इत्यनया ऋचा अरण्योरग्निं समारोहयति ।

  • अ॒यन्ते॒ योनि॑र्ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः ।
    तञ्जा॒नन्न् [16] अ॒ग्न॒ आ रो॒हाथा॑ नो वर्धया र॒यिम् ।

    • अथ द्वितीयामाह— अयं ते योनिरिति। हेऽग्नेऽयमिष्टाकारूपः पदार्थस्ते तव योनिरुत्पत्तिहेतुः, ऋत्विय ऋतुकालीनस्त्रीपुरुषसंगमतुल्य इति। यतो योनेरिष्टकारूपाज्जात उत्पन्नसत्व-मरोचथा दीप्तिमानसि, तं तथाविधं योनिमिष्टकारूपं जानन्नवगच्छन्सन्नारोह प्राप्नुहि । अथानन्तरं नोऽस्माकं रयिं धनं वर्धय।

    • 41 अथ द्वितीया - अयं ते योनिरिति ॥ एषा च ‘उप प्रयन्तः’ इत्यत्र व्याख्याता । हे अग्ने! अयं ते तव ऋत्वियः ऋतुप्रायप्राप्तो योनिः कारणं यतो जातः त्वं अरोचथाः तं जानन् आत्माधिकारं विद्वान् आरोह अथ आरुह्य च नः अस्माकं रयिं वर्धय इति ॥

  • 6अथ षष्ठी - अयं त इत्यनुष्टुप् ॥ हे अग्ने अयं ते तव योनिः कारणं गार्हपत्य उच्यते नात्रारणिः । ऋत्वियः ऋतुः प्राप्तोस्येति । ‘छन्दसि घस्’ इति घस् । ऋतावृताविज्यत इत्यर्थः । यतस्त्वं जातोऽरोचथाः दीप्यसे । छान्दसो लङ् । तं योनिं जानन् त्वं ममायं योनिरित्यवगच्छन् आरोह । आश्रय मा कदाचिदपि मुचः । अथ नोस्माकं रयिं धनं वर्धय । सांहितिकं दीर्घत्वं छान्दसं । ‘निपातस्य च’ इत्यथशब्दस्य ॥

    • अथाष्टमीमाह– अयं ते योनिरिति। हेऽग्ने योऽयमिष्टकाचितिरूपप्रदेशस्ते तव योनिः स्थानं, यतो यस्या इष्टकाचितेर्जात उत्पन्नस्त्वमरोचथा दीप्तो भवति, तं योनिं जानन्स्वकीयत्वेनावगच्छन्नारोह। अथानन्तरं नोऽस्माकं रयिं धनं वर्धय।
विश्वास-प्रस्तुतिः

ए॒ष वा अ॒ग्नेर्योनि॒स्स्व ए॒वैनय्ँ॒योनौ॑ स॒मारो॑हयति ।

मूलम्

ए॒ष वा अ॒ग्नेर्योनि॒स्स्व ए॒वैनय्ँ॒योनौ॑ स॒मारो॑हयति ।

भट्टभास्कर-टीका

एष वा इत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

अथो॒ खल्वा॑हु॒र्यद॒रण्योः॑ स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निस्सी॑देत्पुनरा॒धेय॑स्स्या॒दिति॒ या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्या रो॒हेत्या॒त्मन्त्स॒मारो॑हयते॒ यज॑मानो॒ वा अ॒ग्नेर्योनि॒स्स्वाया॑मे॒वैनय्ँ॒योन्याँ॑ स॒मारो॑हयते ॥ [40]

विश्वास-प्रस्तुतिः

अथो॒ खल्वा॑हु॒र्यद॒रण्योः॑ स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निस्सी॑देत्
पु॒न॒रा॒धेय॑स्या॒दिति॑ ।

मूलम्

अथो॒ खल्वा॑हु॒र्यद॒रण्योः॑ स॒मारू॑ढो॒ नश्ये॒दुद॑स्या॒ग्निस्सी॑देत्
पु॒न॒रा॒धेय॑स्या॒दिति॑ ।

भट्टभास्कर-टीका

12अथो खल्वाहुरिति ॥ यदरण्योः समारूढोग्निः अरण्योर्व्याप्त्यादिना नश्येत् अस्याग्निरुत्सीदेत् गत एव स्यात्, ततः पुनराधेयस्स्यात् इत्यरण्योस्समारोपणे दोषमाहुः ।

विश्वास-प्रस्तुतिः

या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्या रो॒हेति॑ ।

आ॒त्मन्त्स॒मारो॑हयते ।

मूलम्

या ते॑ अग्ने य॒ज्ञिया॑ त॒नूस्तयेह्या रो॒हेति॑ ।

आ॒त्मन्त्स॒मारो॑हयते ।

भट्टभास्कर-टीका

तस्मात् ‘या ते अग्ने यज्ञिया तनूः’ इत्यादिमन्त्रेण आत्मनि समारोहयते ।

विश्वास-प्रस्तुतिः

यज॑मानो॒ वा अ॒ग्नेर्योनि॒स्स्वाया॑मे॒वैनय्ँ॒योन्याँ॑ स॒मारो॑हयते ॥ [40]

मूलम्

यज॑मानो॒ वा अ॒ग्नेर्योनि॒स्स्वाया॑मे॒वैनय्ँ॒योन्याँ॑ स॒मारो॑हयते ॥ [40]

भट्टभास्कर-टीका

यजमानो वा इत्यादि । गतम् ॥

इति तृतीये चतुर्थे दशमोनुवाकः ॥