०८ राष्ट्रभृन्मन्त्राणां काम्यप्रयोगाः

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

रा॒ष्ट्रका॑माय होत॒व्या॑ रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतो॑ रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुन्द्धे रा॒ष्ट्रमे॒व भ॑वति

विश्वास-प्रस्तुतिः

रा॒ष्ट्रका॑माय होत॒व्याः॑ ।

मूलम्

रा॒ष्ट्रका॑माय होत॒व्याः॑ ।

भट्टभास्कर-टीका

1अथ राष्ट्रभृतां ब्राह्मणं - राष्ट्रकामायेत्यादि ॥ राष्ट्रं प्राप्तुकामो राष्ट्रकामः । ‘शीलिकामि ’ इत्यादिना णः पूर्वपदप्रकृतिस्वरत्वं च ।

विश्वास-प्रस्तुतिः

रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतः॑ ।

रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुन्द्धे, रा॒ष्ट्रमे॒व भ॑वति ।

मूलम्

रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतः॑ ।

रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रमव॑ रुन्द्धे रा॒ष्ट्रमे॒व भ॑वति ।

भट्टभास्कर-टीका

राष्ट्रं वा इति । तत्साधनत्वात्ताच्छब्द्यम् । अस्मै यजमानाय राष्ट्रमवरुन्धे परिगृह्णात्यध्वर्युः । ततो यजमानो राष्ट्रं भवति । स्वस्वामिनोरभेदोपचारः विधेयत्वातिशयप्रदर्शनार्थः ॥

मूलम् (संयुक्तम्)

आ॒त्मने॑ होत॒व्या॑ रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतो॑ रा॒ष्ट्रम्प्र॒जा रा॒ष्ट्रम्प॒शवो॑ रा॒ष्ट्रय्ँयच्छ्रेष्ठो॒ भव॑ति रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुन्द्धे॒ वसि॑ष्ठस्समा॒नाना॑म्भवति

विश्वास-प्रस्तुतिः

आ॒त्मने॑ होत॒व्याः॑ ।
रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतः॑ ।
रा॒ष्ट्रम्प्र॒जा रा॒ष्ट्रम्प॒शवो॑ रा॒ष्ट्रय्ँयच्छ्रेष्ठो॒ भव॑ति ।
रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुन्द्धे ।

मूलम्

आ॒त्मने॑ होत॒व्याः॑ ।
रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतः॑ ।
रा॒ष्ट्रम्प्र॒जा रा॒ष्ट्रम्प॒शवो॑ रा॒ष्ट्रय्ँयच्छ्रेष्ठो॒ भव॑ति ।
रा॒ष्ट्रेणै॒व रा॒ष्ट्रमव॑ रुन्द्धे ।

भट्टभास्कर-टीका

2आत्मन इति ॥ प्रजादिसमृद्ध्या यच्छ्रैष्ठ्यं तत्पुरुषस्यात्मा । राष्ट्रं प्रजा; राष्ट्रहेतुत्वाद्बलहेतुत्वाद्वा । राष्ट्रं पशवः ; तत एव हेतोः यच्छ्रेष्ठः सर्वेषां प्रशस्यतमो भवति तदपि राष्ट्रतुल्यम् ।

विश्वास-प्रस्तुतिः

वसि॑ष्ठस्समा॒नाना॑म्भवति ।

मूलम्

वसि॑ष्ठस्समा॒नाना॑म्भवति ।

भट्टभास्कर-टीका

वसिष्ठः वसुमत्तमः समानानां मध्ये भवति । प्रजादि धनं वसु । विन्मतोर्लुक्, ‘टेः’ इति टिलोपः ॥

मूलम् (संयुक्तम्)

ग्राम॑कामाय होत॒व्या॑ रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतो॑ रा॒ष्ट्रँ स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रँ स॑जा॒तानव॑ रुन्द्धे ग्रा॒मी [22] ए॒व भ॑वति

विश्वास-प्रस्तुतिः

ग्राम॑कामाय होत॒व्याः॑ ।
रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतः॑ ।

रा॒ष्ट्रँ स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रँ स॑जा॒तानव॑ रुन्द्धे ।
ग्रा॒म्ये॑व भ॑वति ।

मूलम्

ग्राम॑कामाय होत॒व्याः॑ ।
रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतः॑ ।

रा॒ष्ट्रँ स॑जा॒ता रा॒ष्ट्रेणै॒वास्मै॑ रा॒ष्ट्रँ स॑जा॒तानव॑ रुन्द्धे ।
ग्रा॒म्ये॑व भ॑वति ।

भट्टभास्कर-टीका

3ग्रामकामायेति ॥ सजातसमवायो ग्रामः । सजाताः समानजन्मानः । पूर्ववत्ताच्छब्द्यम् । ‘वा दान्त’ इत्युत्तरपदान्तोदात्तत्वम् ॥

मूलम् (संयुक्तम्)

अधि॒देव॑ने जुहोत्यधि॒देव॑न ए॒वास्मै॑ सजा॒तानव॑ रुन्द्धे॒ त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते

विश्वास-प्रस्तुतिः

अ॒धि॒देव॑ने जुहोति ।
अ॒धि॒देव॑न ए॒वास्मै॑ सजा॒तानव॑ रुन्द्धे ।

त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते ।

मूलम्

अ॒धि॒देव॑ने जुहोति ।
अ॒धि॒देव॑न ए॒वास्मै॑ सजा॒तानव॑ रुन्द्धे ।

त ए॑न॒मव॑रुद्धा॒ उप॑ तिष्ठन्ते ।

भट्टभास्कर-टीका

4अधि देवन इति ॥ अधि दीव्यत्यस्मिन्निति अधिदेवनं देवनस्थानं, तत्र प्रधानाग्निमुपसमाधाय निशायां जुहोति ॥

मूलम् (संयुक्तम्)

रथमु॒ख ओज॑स्कामस्य होत॒व्या॑ ओजो॒ वै रा॑ष्ट्र॒भृत॒ ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुन्द्ध ओज॒स्व्ये॑व भ॑वति

विश्वास-प्रस्तुतिः

र॒थ॒मु॒ख ओज॑स्कामस्य होत॒व्याः॑ ।

मूलम्

र॒थ॒मु॒ख ओज॑स्कामस्य होत॒व्याः॑ ।

भट्टभास्कर-टीका

5रथमुख इति ॥ उपर्यग्नेः रथमुखं प्रगृह्य जुहुयात् ।

विश्वास-प्रस्तुतिः

ओजो॒ वै रा॑ष्ट्र॒भृतः॑ ।
ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुन्द्धे ।
ओ॒ज॒स्व्ये॑व भ॑वति ।

मूलम्

ओजो॒ वै रा॑ष्ट्र॒भृतः॑ ।
ओजो॒ रथ॒ ओज॑सै॒वास्मा॒ ओजोऽव॑ रुन्द्धे ।
ओ॒ज॒स्व्ये॑व भ॑वति ।

भट्टभास्कर-टीका

ओजो वा इत्यादि । गतम् । पूर्ववत्ताच्छब्द्यम् ॥

मूलम् (संयुक्तम्)

यो रा॒ष्ट्रादप॑भूत॒स्स्यात्तस्मै॑ होत॒व्या॑ याव॑न्तोऽस्य॒ रथा॒स्स्युस्तान्ब्रू॑याद्यु॒ङ्ग्ध्वमिति॑ रा॒ष्ट्रमे॒वास्मै॑ युनक्ति [23]

विश्वास-प्रस्तुतिः

यो रा॒ष्ट्रादप॑भूत॒स्स्यात्तस्मै॑ होत॒व्याः॑ ।

याव॑न्तोऽस्य॒ रथा॒स्स्युस्तान्ब्रू॑याद्यु॒ङ्ग्ध्वमिति॑ ।

मूलम्

यो रा॒ष्ट्रादप॑भूत॒स्स्यात्तस्मै॑ होत॒व्याः॑ ।

याव॑न्तोऽस्य॒ रथा॒स्स्युस्तान्ब्रू॑याद्यु॒ङ्ग्ध्वमिति॑ ।

भट्टभास्कर-टीका

6यो राष्ट्रादित्यादि ॥ अपभूतः अपरुष्टः । पूर्ववद्गतेः प्रकृतिस्वरत्वम् । हुत्वा यावन्तोस्य राष्ट्रप्रेप्सोः रथाः भवन्ति तान् सर्वान् ‘युङ्ध्वम्’ इति प्रैषं ब्रूयात् ।

विश्वास-प्रस्तुतिः

रा॒ष्ट्रमे॒वास्मै॑ युनक्ति ।

मूलम्

रा॒ष्ट्रमे॒वास्मै॑ युनक्ति ।

भट्टभास्कर-टीका

तेनास्मै राष्ट्रमेव युनक्ति ततो[न]पभूतो भवतीति । तिङः परत्वाद्युङ्ध्वमिति न निहन्यते ॥

मूलम् (संयुक्तम्)

आहु॑तयो॒ वा ए॒तस्याकॢ॑प्ता॒ यस्य॑ रा॒ष्ट्रन्न कल्प॑ते स्वर॒थस्य॒ दक्षि॑णञ्च॒क्रम्प्र॒वृह्य॑ ना॒डीम॒भि जु॑हुया॒दाहु॑तीरे॒वास्य॑ कल्पयति॒ ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते

विश्वास-प्रस्तुतिः

आहु॑तयो॒ वा ए॒तस्याकॢ॑प्ताः ।
यस्य॑ रा॒ष्ट्रन्न कल्प॑ते ।
स्व॒र॒थस्य॒ दक्षि॑णञ्च॒क्रम्प्र॒वृह्य॑ ना॒डीम॒भि जु॑हुयात् ।

मूलम्

आहु॑तयो॒ वा ए॒तस्याकॢ॑प्ताः ।
यस्य॑ रा॒ष्ट्रन्न कल्प॑ते ।
स्व॒र॒थस्य॒ दक्षि॑णञ्च॒क्रम्प्र॒वृह्य॑ ना॒डीम॒भि जु॑हुयात् ।

भट्टभास्कर-टीका

7आहुतय इत्यादि ॥ अकॢप्ताः स्वस्वकार्यकरणे असमर्था यस्य राष्ट्रं न कल्पते नेष्टसाधनसमर्थं भवति, स्वरथस्य दक्षिणं चक्रं प्रवृह्य उपर्यग्नौ रथचक्रस्य नाडीं रन्ध्रं प्रगृह्य निशायां राष्ट्रभृतो जुहोति ।

विश्वास-प्रस्तुतिः

आहु॑तीरे॒वास्य॑ कल्पयति ।

मूलम्

आहु॑तीरे॒वास्य॑ कल्पयति ।

भट्टभास्कर-टीका

तेनाहुतीरस्य कल्पयति ।

विश्वास-प्रस्तुतिः

ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते ।

मूलम्

ता अ॑स्य॒ कल्प॑माना रा॒ष्ट्रमनु॑ कल्पते ।

भट्टभास्कर-टीका

ताश्च कल्पमानाः अनु अस्य राष्ट्रं कल्पते । लक्षणे अनोः कर्मप्रवचनीयत्वम् ॥

मूलम् (संयुक्तम्)

सङ्ग्रा॒मे सय्ँय॑त्ते होत॒व्या॑ रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते॒ ये स॑ङ्ग्रा॒मँ सय्ँ॒यन्ति॒ यस्य॒ पूर्व॑स्य॒ जुह्व॑ति॒ स ए॒व भ॑वति॒ जय॑ति॒ तं स॑ङ्ग्रा॒मम्मा॑न्धु॒क इ॒ध्मः [24] भ॒व॒त्यङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒ सेना॒म्प्रति॑ वेष्टयन्ति

विश्वास-प्रस्तुतिः

स॒ङ्ग्रा॒मे सय्ँय॑त्ते होत॒व्याः॑ ।
रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते ।

मूलम्

स॒ङ्ग्रा॒मे सय्ँय॑त्ते होत॒व्याः॑ ।
रा॒ष्ट्रव्ँ वै रा॑ष्ट्र॒भृतो॑ रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते ।

भट्टभास्कर-टीका

8संग्रामे संयत्ते इत्यादि ॥ संग्रामे संयत्ते प्रक्रान्ते तज्जयार्थिनो होतव्याः ।

विश्वास-प्रस्तुतिः

ये स॑ङ्ग्रा॒मँ सय्ँ॒यन्ति।
यस्य॒ पूर्व॑स्य॒ जुह्व॑ति ।
स ए॒व भ॑वति ।
जय॑ति॒ तं स॑ङ्ग्रा॒मम् ।

मूलम्

ये स॑ङ्ग्रा॒मँ सय्ँ॒यन्ति।
यस्य॒ पूर्व॑स्य॒ जुह्व॑ति ।
स ए॒व भ॑वति ।
जय॑ति॒ तं स॑ङ्ग्रा॒मम् ।

भट्टभास्कर-टीका

राष्ट्रार्थं खल्वेते व्यायच्छन्ते व्यायामं कुर्वन्ति, ये संग्रामं संयन्ति प्राप्नुवन्ति ।

तस्माद्यस्य पूर्वर्स्य प्रथमभाजिन एव जुहोति स एव भवति आत्मवान् संपद्यते तेन इतरं जयति च तं संग्रामं स एव ।

मूलम् (संयुक्तम्)

मा॑न्धु॒क इ॒ध्मः [24] भ॒व॒ति ।

विश्वास-प्रस्तुतिः

मा॑न्धु॒क इ॒ध्मो भ॑वति ।

मूलम्

मा॑न्धु॒क इ॒ध्मो भ॑वति ।

भट्टभास्कर-टीका

अत्र विशेषमाह - मान्धुक इति । मान्धुकशब्दोधिक्रियन्ते? । बन्धूकविकार इत्येके । वृक्षान्तरमित्यन्ये । ‘कोपधाच्च’ इत्यण् । तत्रत्यं मित्रमग्निमुपसमाधाय मान्धुकमिध्ममभ्यज्य स्वाहाकारेणाभ्याधाय निशायामेतं जुहोति ।

विश्वास-प्रस्तुतिः

अङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒ सेना॒म्प्रति॑ वेष्टयन्ति ।

मूलम्

अङ्गा॑रा ए॒व प्र॑ति॒वेष्ट॑माना अ॒मित्रा॑णामस्य॒ सेना॒म्प्रति॑ वेष्टयन्ति ।

भट्टभास्कर-टीका

त एवाङ्गाराः प्रतिवेष्टमानाः संहत्य ज्वलन्तः अस्यामित्राणां सेनाः प्रतिवेष्टयन्ति प्रतिवेष्ट्य दहन्ति । ‘अमेरित्रः’ इतीत्रप्रत्ययः ॥

मूलम् (संयुक्तम्)

य उ॒न्माद्ये॒त्तस्मै॑ होत॒व्या॑ गन्धर्वाप्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति॒ य उ॒न्माद्य॑त्ये॒ते खलु॒ वै ग॑न्धर्वाप्स॒रसो॒ यद्रा॑ष्ट्र॒भृत॒स्तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहेति॑ जुहोति॒ तेनै॒वैना॑ञ्छमयति॒ नैय॑ग्रोध॒ औदु॑म्बर॒ आश्व॑त्थ॒ᳶ प्लाक्ष॒ इती॒ध्मो भ॑वत्ये॒ते वै ग॑न्धर्वाप्स॒रसा॑ङ्गृ॒हास्स्व ए॒वैना॑न् [25] आ॒यत॑ने शमयति

विश्वास-प्रस्तुतिः

य उ॒न्माद्ये॑त् ।
तस्मै॑ होत॒व्याः॑ ।
ग॒न्ध॒र्वा॒प्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति ।

य उ॒न्माद्य॑त्ये॒ते खलु॒ वै ग॑न्धर्वाप्स॒रसो॒ यद्रा॑ष्ट्र॒भृतः॑ ।

मूलम्

य उ॒न्माद्ये॑त् ।
तस्मै॑ होत॒व्याः॑ ।
ग॒न्ध॒र्वा॒प्स॒रसो॒ वा ए॒तमुन्मा॑दयन्ति ।

य उ॒न्माद्य॑त्ये॒ते खलु॒ वै ग॑न्धर्वाप्स॒रसो॒ यद्रा॑ष्ट्र॒भृतः॑ ।

भट्टभास्कर-टीका

9य उन्माद्येदित्यादि ॥ गतम् । एते खल्विति । तेषां प्रतिपादकत्वात्ताच्छब्द्यम् ।

विश्वास-प्रस्तुतिः

तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहेति॑ जुहोति ।

तेनै॒वैना॑ञ्छमयति ।

मूलम्

तस्मै॒ स्वाहा॒ ताभ्य॒स्स्वाहेति॑ जुहोति ।

तेनै॒वैना॑ञ्छमयति ।

भट्टभास्कर-टीका

तस्मा इत्यादि ॥ गन्धर्वाप्सरोभ्यः पृथक्स्वाहाकृत्य होमेन एनान् शमयति शान्ताननुन्मादयितॄन् करोति ।

विश्वास-प्रस्तुतिः

नैय॑ग्रोध॒ औदु॑म्बर॒ आश्व॑त्थ॒ᳶ प्लाक्ष॒ इती॒ध्मो भ॑वति ।

मूलम्

नैय॑ग्रोध॒ औदु॑म्बर॒ आश्व॑त्थ॒ᳶ प्लाक्ष॒ इती॒ध्मो भ॑वति ।

भट्टभास्कर-टीका

अत्र विशेषमाह - नैयग्रोध इत्यादि । एषामन्यतम इध्मो भवतीत्येके । एतच्चतुष्टयवानेक इध्म इत्यन्ये । ‘अनुदात्तादेश्च’ इति विकारे न्यग्रोधादिभ्योञ् ।

मूलम् (संयुक्तम्)

ए॒ते वै ग॑न्धर्वाप्स॒रसा॑ङ्गृ॒हास्स्व ए॒वैना॑न् [25] आ॒यत॑ने शमयति ।

विश्वास-प्रस्तुतिः

ए॒ते वै ग॑न्धर्वाप्स॒रसा॑ङ्गृ॒हाः ।

मूलम्

ए॒ते वै ग॑न्धर्वाप्स॒रसा॑ङ्गृ॒हाः ।

भट्टभास्कर-टीका

एत इत्यादि ॥ एते न्यग्रोधादयः गन्धर्वाप्सरसां ग्रहवत्प्रीतिहेतवः ।

विश्वास-प्रस्तुतिः

स्व ए॒वैना॒ना॒यत॑ने शमयति ।

मूलम्

स्व ए॒वैना॒ना॒यत॑ने शमयति ।

भट्टभास्कर-टीका

तस्मादेवं कुर्वन् स्वस्मिन्नेवायतनेऽवस्थितानेतान् शमयति शान्ताननुन्मादयितॄन् करोति ॥

मूलम् (संयुक्तम्)

अभि॒चर॑ता प्रतिलो॒मँ हो॑त॒व्याः॑ प्रा॒णाने॒वास्य॑ प्र॒तीच॒ᳶ प्रति॑ यौति॒ तन्ततो॒ येन॒ केन॑ च स्तृणुते॒ स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वै॒तद्वा अ॒स्यै निर्ऋ॑तिगृहीत॒न्निर्ऋ॑तिगृहीत ए॒वैन॒न्निर्ऋ॑त्या ग्राहयति॒ यद्वा॒चᳵ क्रू॒रन्तेन॒ वष॑ट्करोति वा॒च ए॒वैन॑ङ्क्रू॒रेण॒ प्र वृ॑श्चति ता॒जगार्ति॒मार्च्छ॑ति

विश्वास-प्रस्तुतिः

अ॒भि॒चर॑ता प्रतिलो॒मँ हो॑त॒व्याः॑ ।

प्रा॒णाने॒वास्य॑ प्र॒तीच॒ᳶ प्रति॑ यौति ।

मूलम्

अ॒भि॒चर॑ता प्रतिलो॒मँ हो॑त॒व्याः॑ ।

प्रा॒णाने॒वास्य॑ प्र॒तीच॒ᳶ प्रति॑ यौति ।

भट्टभास्कर-टीका

10अभिचरतेति ॥ प्रतिलोमं अन्त्यादारभ्य अस्याभिचर्यमाणस्य प्रतीचः प्रतिलोमान् प्रतियौति प्रातिकूल्येन प्रवर्तयति । ‘चौ’ इति पूर्वपदस्यान्तोदात्तत्वम् दीर्घश्च ।

विश्वास-प्रस्तुतिः

तन्ततो॒ येन॒ केन॑ च स्तृणुते ।

मूलम्

तन्ततो॒ येन॒ केन॑ च स्तृणुते ।

भट्टभास्कर-टीका

ततस्तं प्रातिकूल्यप्राणं [कारिणं] येन केन च आयुधादिं विना येन केन च स्तृणुते विनाशयितुं शक्नुयात् ।

विश्वास-प्रस्तुतिः

स्वकृ॑त॒ इरि॑णे जुहोति ।

मूलम्

स्वकृ॑त॒ इरि॑णे जुहोति ।

भट्टभास्कर-टीका

स्वकृते स्वाभाविके, इरिणे ऊषरे प्रदरे भूविवरे वा जुहोति । स्वेनैव कृतं, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

प्र॒द॒रे वै॒तद्वा अ॒स्यै निर्ऋ॑तिगृहीत॒न्निर्ऋ॑तिगृहीत ए॒वैन॒न्निर्ऋ॑त्या ग्राहयति ।

मूलम्

प्र॒द॒रे वै॒तद्वा अ॒स्यै निर्ऋ॑तिगृहीत॒न्निर्ऋ॑तिगृहीत ए॒वैन॒न्निर्ऋ॑त्या ग्राहयति ।

भट्टभास्कर-टीका

प्रकर्षेण दीर्यते इति प्रदरः, ‘ऋदोरप्’ थाथादिनोत्तरपदान्तोदात्तत्वम् । अस्यै पृथिव्याः एतस्मिन् निरृतिगृहीतं निरृत्या अलक्ष्म्या समाश्रितम् । पूर्ववत्स्वरः । तस्मान्निरृतिगृहीते स्थाने होमादेनं निरृत्या ग्राहयति ।

विश्वास-प्रस्तुतिः

यद्वा॒चᳵ क्रू॒रन्तेन॒ वष॑ट्करोति ।

मूलम्

यद्वा॒चᳵ क्रू॒रन्तेन॒ वष॑ट्करोति ।

भट्टभास्कर-टीका

यद्वाचः क्रूरं तेन वाचः क्रूरेण एनं प्रकर्षेण वृश्चति ।

विश्वास-प्रस्तुतिः

वा॒च ए॒वैन॑ङ्क्रू॒रेण॒ प्र वृ॑श्चति ।

ता॒जगार्ति॒मार्च्छ॑ति ।

मूलम्

वा॒च ए॒वैन॑ङ्क्रू॒रेण॒ प्र वृ॑श्चति ।

ता॒जगार्ति॒मार्च्छ॑ति ।

भट्टभास्कर-टीका

ततः ताजक् तदानीमेव स आर्तिं गच्छति ॥

मूलम् (संयुक्तम्)

यस्य॑ का॒मये॑ता॒न्नाद्य॑म् [26] आ द॑दी॒येति॒ तस्य॑ स॒भाया॑मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि॒ सङ्गृ॑ह्णीयात्प्र॒जाप॑ति॒र्वै भुव॑नस्य॒ पतिᳶ॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्ते

विश्वास-प्रस्तुतिः

यस्य॑ का॒मये॑ता॒न्नाद्य॑म् [26] आ द॑दी॒येति॑ ।

मूलम्

यस्य॑ का॒मये॑ता॒न्नाद्य॑म् [26] आ द॑दी॒येति॑ ।

भट्टभास्कर-टीका

11यस्व कामयेतेत्यादि ॥ अन्नमेवात्तव्यमन्नाद्यम्, छान्दसो यत् ।

विश्वास-प्रस्तुतिः

तस्य॑ स॒भाया॑मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि॒ सङ्गृ॑ह्णीयात् ।

प्र॒जाप॑ति॒र्वै भुव॑नस्य॒ पतिᳶ॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्ते ।

मूलम्

तस्य॑ स॒भाया॑मुत्ता॒नो नि॒पद्य॒ भुव॑नस्य पत॒ इति॒ तृणा॑नि॒ सङ्गृ॑ह्णीयात् ।

प्र॒जाप॑ति॒र्वै भुव॑नस्य॒ पतिᳶ॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॒मा द॑त्ते ।

भट्टभास्कर-टीका

उत्तानो निपद्य निपतितशरीरस्सन् ‘भुवनस्य पते’ इति मन्त्रेण तृणानि संगृह्णीयात् ॥

मूलम् (संयुक्तम्)

इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्या॒न्नाद्यँ॑ हरा॒मीत्या॑हा॒न्नाद्य॑मे॒वास्य॑ हरति ष॒ड्भिर्ह॑रति॒ षड्वा ऋ॒तवᳶ॑ प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॑मा॒दाय॒र्तवो॑ऽस्मा॒ अनु॒ प्र य॑च्छन्ति [27]

विश्वास-प्रस्तुतिः

इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्या॒न्नाद्यँ॑ हरा॒मीत्या॑ह ।
अ॒न्नाद्य॑मे॒वास्य॑ हरति ।

मूलम्

इ॒दम॒हम॒मुष्या॑मुष्याय॒णस्या॒न्नाद्यँ॑ हरा॒मीत्या॑ह ।
अ॒न्नाद्य॑मे॒वास्य॑ हरति ।

भट्टभास्कर-टीका

12इदमहमित्यादि ॥ अदश्शब्दान्नडादित्वात्फक् । इदं तृणान्यादाय इदमहं नारायणस्य गोविन्दसूनोरन्नाद्यमाहरामीत्याहरन् आहरत्येवास्यान्नाद्यम् ।

विश्वास-प्रस्तुतिः

ष॒ड्भिर्ह॑रति॒ षड्वा ऋ॒तवः॑ ।

मूलम्

ष॒ड्भिर्ह॑रति॒ षड्वा ऋ॒तवः॑ ।

भट्टभास्कर-टीका

षड्भिरित्यादि । ‘भुवनस्य’ इत्यादि ‘स नो भुवनस्य’ इत्यन्तैः ।
एतानि तृणानि स्वस्यां वा सभायां स्वेषु वा अमात्येष्वपि सृजति ।

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॑मा॒दाय॒र्तवो॑ऽस्मा॒ अनु॒ प्र य॑च्छन्ति [27] ।

मूलम्

प्र॒जाप॑तिनै॒वास्या॒न्नाद्य॑मा॒दाय॒र्तवो॑ऽस्मा॒ अनु॒ प्र य॑च्छन्ति [27] ।

भट्टभास्कर-टीका

प्रजापतिनेत्यादि । गतम् ॥

मूलम् (संयुक्तम्)

यो ज्ये॒ष्ठब॑न्धु॒रप॑भूत॒स्स्यात्तँ स्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नञ्चतु॑श्शरावम्प॒क्त्वा तस्मै॑ होत॒व्या॑ वर्ष्म॒ वै रा॑ष्ट्र॒भृतो॒ वर्ष्म॒ स्थलव्ँ॒वर्ष्म॑णै॒वैनव्ँ॒वर्ष्म॑ समा॒नाना॑ङ्गमयति॒ चतु॑श्शरावो भवति दि॒क्ष्वे॑व प्रति॑ तिष्ठति क्षी॒रे भ॑वति॒ रुच॑मे॒वास्मि॑न्दधा॒त्युद्ध॑रति शृत॒त्वाय॑ स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ च॒त्वार॑ आर्षे॒याᳶ प्राश्ञ॑न्ति दि॒शामे॒व ज्योति॑षि जुहोति ॥ [28]

विश्वास-प्रस्तुतिः

यो ज्ये॒ष्ठब॑न्धु॒रप॑भूत॒स्स्यात् ।

मूलम्

यो ज्ये॒ष्ठब॑न्धु॒रप॑भूत॒स्स्यात् ।

भट्टभास्कर-टीका

13यो ज्येष्ठबन्धुरित्यादि ॥ ज्येष्ठबन्धुरुच्छ्रितबन्धुः अपभूतः न्यक्कृतः ।

विश्वास-प्रस्तुतिः

तँ स्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नञ्चतु॑श्शरावम्प॒क्त्वा तस्मै॑ होत॒व्याः॑ ।

मूलम्

तँ स्थले॑ऽव॒साय्य॑ ब्रह्मौद॒नञ्चतु॑श्शरावम्प॒क्त्वा तस्मै॑ होत॒व्याः॑ ।

भट्टभास्कर-टीका

स्थले उच्छ्रिते भूप्रदेशे अवस्थाप्य ।

विश्वास-प्रस्तुतिः

वर्ष्म॒ वै रा॑ष्ट्र॒भृतो॒ वर्ष्म॒ स्थलव्ँ॒वर्ष्म॑णै॒वैनव्ँ॒वर्ष्म॑ समा॒नाना॑ङ्गमयति ।

मूलम्

वर्ष्म॒ वै रा॑ष्ट्र॒भृतो॒ वर्ष्म॒ स्थलव्ँ॒वर्ष्म॑णै॒वैनव्ँ॒वर्ष्म॑ समा॒नाना॑ङ्गमयति ।

भट्टभास्कर-टीका

चतुश्शरावमिति । चत्वारश्शरावाः परिमाणमस्येति । आर्हीयस्य ‘अध्यर्थपूर्वद्विगोः’ इति लुक्, ‘इगन्तकाल’ इति पूर्वपदप्रकृतिस्वरत्वम् ।

वर्ष्म उच्च्छ्रायः ।

विश्वास-प्रस्तुतिः

चतु॑श्शरावो भवति ।

दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।

क्षी॒रे भ॑वति ।

रुच॑मे॒वास्मि॑न्दधा॒त्युद्ध॑रति शृत॒त्वाय॑ ।

स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ ।

च॒त्वार॑ आर्षे॒याᳶ प्राश्ञ॑न्ति ।

मूलम्

चतु॑श्शरावो भवति ।

दि॒क्ष्वे॑व प्रति॑ तिष्ठति ।

क्षी॒रे भ॑वति ।

रुच॑मे॒वास्मि॑न्दधा॒त्युद्ध॑रति शृत॒त्वाय॑ ।

स॒र्पिष्वा॑न्भवति मेध्य॒त्वाय॑ ।

च॒त्वार॑ आर्षे॒याᳶ प्राश्ञ॑न्ति ।

भट्टभास्कर-टीका

उद्धरति पात्रान्तरे शृतत्वाय अभिव्यक्तये । आर्षेयाः भवन्ति । अथवा शुश्रुवांसस्स्युः ।

विश्वास-प्रस्तुतिः

दि॒शामे॒व ज्योति॑षि जुहोति ॥

मूलम्

दि॒शामे॒व ज्योति॑षि जुहोति ॥

भट्टभास्कर-टीका

दिशां सम्बन्धिनि ज्योतिषि अग्नौ हुतं भवति तैः प्राशितम् ॥

इति तृतीये चतुर्थे अष्टमोनुवाकः ॥