विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तान॑भ्याता॒नान॑पश्य॒न्तान॒भ्यात॑न्वत
विश्वास-प्रस्तुतिः
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत ।
तद् असु॑रा अकुर्वत ।
ते दे॒वा ए॒तान् अ॑भ्याता॒नान् अ॑पश्यन् ।
तान् अ॒भ्यात॑न्वत ।
मूलम्
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत ।
तदसु॑रा अकुर्वत ।
ते दे॒वा ए॒तान॑भ्याता॒नान॑पश्यन् ।
तान॒भ्यात॑न्वत ।
भट्टभास्कर-टीका
1अथ जयाभ्यातानानां राष्ट्रभृतां ब्राह्मणम् । तत्रादावनन्तराधिकृतानां विशिष्टफलहेतुत्वमाह - देवा वा इत्यादि ॥ अभ्यातन्यते आभिमुख्येनानीयते कर्मसमृद्धिरेभिरिति अभ्यातानाः, करणे घञ्, थाथादिनोत्तरपदान्तोदात्तत्वम् । तानभ्यातन्वत आभिमुख्येन शास्त्रमर्यादया चाकुर्वन् अजुहवुः ॥
मूलम् (संयुक्तम्)
यद्दे॒वाना॒ङ्कर्मासी॒दार्ध्य॑त॒ तद्यदसु॑राणा॒न्न तदा॑र्ध्यत
विश्वास-प्रस्तुतिः
यद् दे॒वानां॒ कर्मासी॒द् आर्ध्य॑त।
तद् यद् असु॑राणां॒ न तदा॑र्ध्यत।
मूलम्
यद्दे॒वाना॒ङ्कर्मासी॒दार्ध्य॑त ।
तद्यदसु॑राणा॒न्न तदा॑र्ध्यत ।
भट्टभास्कर-टीका
2यद्देवानामित्यादि ॥ अभ्यातानानां देवैरेव विहितत्वात् ॥
विश्वास-प्रस्तुतिः
येन॒ कर्म॒णे ऽर्त्से॒त्, तत्र॑ होत॒व्याः॑, ऋ॒ध्नोत्ये॒व तेन॒ कर्म॑णा॥
मूलम्
येन॒ कर्म॒णेर्त्से॒त्तत्र॑ होत॒व्या॑ ऋ॒ध्नोत्ये॒व तेन॒ कर्म॑णा
भट्टभास्कर-टीका
3येनेत्यादि ॥ यत् कर्म येन कर्मणा ईर्त्सेत् इदं मे समृद्ध्येतेति तस्मिन्नभ्याताना होतव्याः न केवलं भ्रातृव्यवतैव । ऋधेस्सनि ‘आप् ज्ञप्यृधमीत्’ इतीत्वम्, अभ्यासलोपश्च । केचिदाहुः - येन कर्मणेर्त्सेत् तत्र होतव्याः सर्वेऽप्यभ्याताना जया राष्ट्रभृतश्चेति । तत्र होतव्या एव क्रमात् जया अभ्याताना राष्ट्रभृत इति
मूलम् (संयुक्तम्)
यद्विश्वे॑ दे॒वास्स॒मभ॑र॒न्तस्मा॑दभ्याता॒ना वै॑श्वदे॒वा यत्प्र॒जाप॑ति॒र्जया॒न्प्राय॑च्छ॒त्तस्मा॒ज्जयाः॑ प्राजाप॒त्याः [17] यद्रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्रा॑ष्ट्र॒भृताँ॑ राष्ट्रभृ॒त्त्वन्ते दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ जयै॑रजयन्राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ यद्दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒ तद॑भ्याता॒नाना॑मभ्यातान॒त्वय्ँयज्जयै॒रज॑य॒न्तज्जया॑नाञ्जय॒त्वय्ँयद्रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒ तद्रा॑ष्ट्र॒भृताँ॑ राष्ट्रभृ॒त्त्वम्
विश्वास-प्रस्तुतिः
तेन॒ कर्म॑णा॒ यद् विश्वे॑ दे॒वाः स॒मभ॑र॒न्, तस्मा॑द् अभ्याता॒ना वै॑श्वदे॒वा।
यत्प्र॒जाप॑ति॒र् जया॒न्प्राय॑च्छत्,
तस्मा॒ज् जयाः॑ प्राजाप॒त्याः ।
यद्रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् आद॑दत,
तद्रा॑ष्ट्र॒भृताँ॑ राष्ट्रभृ॒त्त्वम् ।
मूलम्
यद्विश्वे॑ दे॒वास्स॒मभ॑रन् ।
तस्मा॑दभ्याता॒ना वै॑श्वदे॒वाः ।
यत्प्र॒जाप॑ति॒र्जया॒न्प्राय॑च्छत् ।
तस्मा॒ज्जयाः॑ प्राजाप॒त्याः ।
यद्रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत ।
तद्रा॑ष्ट्र॒भृताँ॑ राष्ट्रभृ॒त्त्वम् ।
भट्टभास्कर-टीका
4अधुना अपकृतं भ्रातृव्यवन्तमेवाधिकृत्य क्रमविशेषं चाह - यद्विश्वे देवा इत्यादि ॥ भ्रातृव्यवतोयं क्रमः, अभ्याताना जया राष्ट्रभृत इति ।
विश्वास-प्रस्तुतिः
ते दे॒वा अ॑भ्याता॒नैर् असु॑रान् अ॒भ्यात॑न्वत
मूलम्
ते दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत
भट्टभास्कर-टीका
ते देवा इत्यादि । असुरान् भ्रातृव्यानभ्यातन्वत विधेयानकुर्वत ।
विश्वास-प्रस्तुतिः
जयै॑र् अजयन् ।
मूलम्
जयै॑रजयन् ।
भट्टभास्कर-टीका
ततश्च जयैरजयन् विनष्टैश्वर्यानकुर्वत ।
विश्वास-प्रस्तुतिः
राष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् आद॑दत ।
मूलम्
राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत ।
भट्टभास्कर-टीका
राष्ट्रभृद्भिः तेषां राष्ट्रं अधिवासं आददत आत्मसादकुर्वत ।
विश्वास-प्रस्तुतिः
यद् दे॒वा अ॑भ्याता॒नैर् असु॑रान् अ॒भ्यात॑न्वत॒, तद॑भ्याता॒नाना॑मभ्यातान॒त्वम् ।
मूलम्
यद्दे॒वा अ॑भ्याता॒नैरसु॑रान॒भ्यात॑न्वत॒, तद॑भ्याता॒नाना॑मभ्यातान॒त्वम् ।
भट्टभास्कर-टीका
अभ्यातन्वते आभिमुख्येनानीयते भ्रातृव्य एभिरिति अभ्यातानाः ।
विश्वास-प्रस्तुतिः
यज् जयै॒र् अज॑य॒न्
तज् जया॑नाञ् जय॒त्वम् ।
मूलम्
यज्जयै॒रज॑य॒न्तज्जया॑नाञ्जय॒त्वम् ।
भट्टभास्कर-टीका
जयते भ्रातृव्य एभिरिति जयाः, करणे एरच्, ‘जयः करणम्’ इत्याद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः
यद् रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् आद॑दत॒
तद् रा॑ष्ट्र॒भृताँ॑ राष्ट्रभृ॒त्त्वम् ।
मूलम्
यद्रा॑ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमाद॑दत॒
तद्रा॑ष्ट्र॒भृताँ॑ राष्ट्रभृ॒त्त्वम् ।
भट्टभास्कर-टीका
राष्ट्रं भ्रातृव्यस्य भ्रियते आत्मना धार्यते एभिरिति राष्ट्रभृतः । विभर्तेः करणे क्विप् । हरतेर्वा ‘हृग्रहोर्भः’ इति भत्वम् ।
भ्रातृव्यस्य राष्टं ह्रियते एभिरिति राष्ट्रभृतः, कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
ततो॑ दे॒वा अभ॑व॒न् परासु॑राः ।
मूलम्
ततो॑ दे॒वा अभ॑व॒न्परासु॑राः ।
भट्टभास्कर-टीका
5ततो देवा इत्यादि ॥ ततस्तादृशात्प्रयोगात् देवा भूतिमन्तस्संपन्नाः, असुराश्च पराभूताः ॥
मूलम् (संयुक्तम्)
यो भ्रातृ॑व्यवा॒न्त्स्यात्स ए॒ताञ्जु॑हुयादभ्याता॒नैरे॒व भ्रातृ॑व्यान॒भ्यात॑नुते॒ जयै॑र्जयति राष्ट्र॒भृद्भी॑ रा॒ष्ट्रमा द॑त्ते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥ [18]
विश्वास-प्रस्तुतिः
यो भ्रातृ॑व्यवा॒न्त् स्या॒त्,
स ए॒ताञ् जु॑हुयात् ।
अ॒भ्या॒ता॒नैर् ए॒व भ्रातृ॑व्यान् अ॒भ्यात॑नुते ।
जयै॑र् जयति ।
रा॒ष्ट्र॒भृद्भी॑ रा॒ष्ट्रम् आद॑त्ते।
मूलम्
यो भ्रातृ॑व्यवा॒न्त्स्यात् ।
स ए॒ताञ्जु॑हुयात् ।
अ॒भ्या॒ता॒नैरे॒व भ्रातृ॑व्यान॒भ्यात॑नुते ।
जयै॑र्जयति ।
रा॒ष्ट्र॒भृद्भी॑ रा॒ष्ट्रमा द॑त्ते॒।
भट्टभास्कर-टीका
8देवा वै यद्यज्ञे इत्युपक्रममुपसंहृतं [संहर्तुं] यो भ्रातृव्यवान् स्यात् इत्यादि ॥ गतम् ।
विश्वास-प्रस्तुतिः
भव॑त्य् आ॒त्मना॒ ॥
मूलम्
भव॑त्या॒त्मना॒ ॥
भट्टभास्कर-टीका
आत्मना - प्रकृत्य्-आदित्वात् तृतीया ॥
विश्वास-प्रस्तुतिः
परा॑स्य॒ भ्रातृ॑व्यो भवति ॥
मूलम्
परा॑स्य॒ भ्रातृ॑व्यो भवति ॥