०५ अभ्यातानमन्त्राः

विश्वेदेवा ऋषयः

भास्करोक्त-विनियोगः

1येन कर्मणेर्त्सेत् तत्राभ्यातानान् सप्तदश स्रुवाहुतीर्जुहोति - अग्निर्भूतानामित्यादीन् ॥

मूलम् (संयुक्तम्)

अ॒ग्निर्भू॒ताना॒मधि॑पति॒स्स मा॑व॒त्विन्द्रो॑ ज्ये॒ष्ठानाय्ँ॑य॒मᳶ पृ॑थि॒व्या वा॒युर॒न्तरि॑क्षस्य॒ सूर्यो॑ दि॒वश्च॒न्द्रमा॒ नक्ष॑त्राणा॒म्बृह॒स्पति॒र्ब्रह्म॑णो मि॒त्रस्स॒त्यानाव्ँ॒वरु॑णो॒ऽपाँ स॑मु॒द्रस्स्रो॒त्याना॒मन्नँ॒ साम्रा॑ज्याना॒मधि॑पति॒ तन्मा॑ऽवतु॒ सोम॒ ओष॑धीनाँ सवि॒ता प्र॑स॒वानाँ॑ रु॒द्रᳶ प॑शू॒नान्त्वष्टा॑ रू॒पाणाव्ँ॒विष्णु॒ᳶ पर्व॑तानाम्म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु

विश्वास-प्रस्तुतिः - सङ्क्षेपः

अग्नि᳓र्भूता᳓नाम् [अ᳓धिपतिः स᳓ माऽवतु, अस्मि᳓न्ब्र᳓ह्मन्न् +++(अस्मिन्ब्रह्मण्य् इत्यथर्ववेदे)+++᳓ अस्मि᳓न्क्षत्रे᳙ ऽस्यामाशि᳓ष्यस्या᳓म्पुरोधा᳓याम् अस्मि᳓न्क᳓र्मन्नस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]]…।

इ᳓न्द्रो ज्येष्ठा᳓नाम् ……। यमः᳓ पृथिव्या᳓…। वायु᳓र् अन्त᳓रिक्षस्य…।
सू᳓र्यो दिवः᳓…। चन्द्र᳓मा न᳓क्षत्राणाम्…। बृ᳓हस्प᳓तिर् ब्र᳓ह्मणः…।
मित्रः᳓ सत्या᳓नाम्…। व᳓रुणोऽपा᳓म्…। समुद्रः᳓ स्रोत्या᳓नाम्…।
अ᳓न्नँ सा᳓म्राज्यानाम् अ᳓धिपति, त᳓न् माऽवतु…।
सो᳓म ओ᳓षधीनाम्…। सविता᳓ प्रसवा᳓ना᳓म्…।
रुद्रः᳓ पशूना᳓म्…। त्व᳓ष्टा रूपा᳓णा᳓म्…। वि᳓ष्णुः प᳓र्वतानाम्…। मरु᳓तो गणा᳓नाम् अ᳓धिपतयस् ते᳓ मावन्तु…।
पि᳓तरः पितामहाः परेऽवरे त᳓ता᳓स् त᳓ता᳓म᳓हा᳓ इह᳓ मावत …। …।…।

विश्वास-प्रस्तुतिः

अग्नि᳓र्भूता᳓नाम् अ᳓धिपतिस् स᳓ माऽवतु
[अस्मि᳓न् ब्र᳓ह्मन्न् +++(अस्मिन्ब्रह्मण्य् इत्यथर्ववेदे)+++᳓
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

अ॒ग्निर्भू॒ताना॒मधि॑पति॒स्स मा॑ऽवतु
[अ॒स्मिन् ब्रह्म॑न्न् +++(अ॒स्मिन्ब्रह्म॑ण्य् इत्यथर्ववेदे)+++
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]]॥

भट्टभास्कर-टीका

हुत्वाहुत्वा वाचयति - पितरः पितामहा इति । इयं जगती अतिजगती वा । ‘आशिषि’ इति तृतीयपादान्तः । अग्निः भूतानां प्रजानां अधिपतिः स्वामी स माऽवतु रक्षतु स्वाहुतमिदमस्तु तस्मा इति । ‘अधिपतिस्स माऽवतु’ इति सर्वत्रानुषज्यते । यत्र तु लिङ्गभेदो वचनभेदो वा भवति तत्राम्नायत एव स विशेषः, यथा - ‘अन्नं साम्राज्यानामधिपति तन्माऽवतु’ ‘मरुतो गणानामधिपतयस्ते माऽवन्तु’ इति ॥

विश्वास-प्रस्तुतिः

इ᳓न्द्रो ज्येष्ठा᳓नाम् [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

इन्द्रो॑ ज्ये॒ष्ठाना॑म् [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

2इन्द्रो ज्येष्ठानामधिपतिः [वृद्धतमानां लोकपालानाम्] ॥

विश्वास-प्रस्तुतिः

यमᳶ᳓ पृथिव्याः᳓ [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

य॒मᳶ पृ॑थि॒व्याः [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

3यमोग्निविशेषः, ‘अग्निर्वाव यम इयं यमी’ इति । यम एव वा ॥

विश्वास-प्रस्तुतिः

वायु᳓रन्त᳓रिक्षस्य [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

सू᳓र्यो दिवः᳓ [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

चन्द्र᳓मा न᳓क्षत्राणाम् [अ᳓धिपतिस् स᳓ माऽवतु],
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

वा॒युर॒न्तरि॑क्षस्य [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

सूर्यो॑ दि॒वः [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

च॒न्द्रमा॒ नक्ष॑त्राणाम् [अधि॑पति॒स् स मा॑ऽवतु],
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

4-6वायुरन्तरिक्षस्येत्यादि ॥ गतम् ॥

विश्वास-प्रस्तुतिः

बृ᳓हस्प᳓तिर्ब्र᳓ह्मणः [अ᳓धिपतिस् स᳓ माऽवतु],
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

बृह॒स्पति॒र्ब्रह्म॑णः [अधि॑पति॒स् स मा॑ऽवतु],
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

7बृहस्पतिर्ब्रह्मणः ऋत्विजोधिपतिः ब्राह्मणजनेर्वा । बृहस्पतिशब्दो वनस्पत्यादित्वादाद्युदात्तः ॥

विश्वास-प्रस्तुतिः

मित्र᳓स्सत्या᳓नाम् [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

मि॒त्रस्स॒त्याना॑म् [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

8मित्रस्सत्यानां सत्यवताम् ॥

विश्वास-प्रस्तुतिः

व᳓रुणोऽपा᳓म् [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

वरु॑णो॒ऽपाम् [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

9वरुणोपां स्थावराणाम् । ‘ऊडिदम्’ इति षष्ठ्या उदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

समुद्र᳓स्स्रोत्या᳓नाम् [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

स॑मु॒द्रस्स्रो॒त्याना॒म् [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

10समुद्रस्स्रोत्यानां स्रोतसि भवानां नद्यादीनाम् । ‘स्रोतसो विभाषा ड्यड्ड्यौ’ इति ड्यः ॥

विश्वास-प्रस्तुतिः

अ᳓न्नँ सा᳓म्राज्यानाम᳓धिपति त᳓न्माऽवतु ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

अन्नँ॒ साम्रा॑ज्याना॒मधि॑पति॒ तन्मा॑ऽवतु ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

11अन्नं साम्राज्यानां सम्यग्राजवतां अधिपति मा अवतु ॥

विश्वास-प्रस्तुतिः

सो᳓म ओ᳓षधीनाम् [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

सोम॒ ओष॑धीनाम् [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

12सोम ओषधीनां फलपाकान्ताम् ॥

विश्वास-प्रस्तुतिः

सविता᳓ प्रसवा᳓नाम् [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

स॒वि॒ता प्र॑स॒वाना॑म् [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

13सविता प्रसवानां अनुज्ञानानाम् ॥

विश्वास-प्रस्तुतिः

रुद्रᳶ᳓ पशूना᳓म् [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

रु॒द्रᳶ प॑शू॒नाम् [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

14रुद्रः पशूनां द्विपदां चतुष्पदां च । ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ॥

विश्वास-प्रस्तुतिः

त्व᳓ष्टा रूपा᳓णाम् [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

त्वष्टा॑ रू॒पाणा॑म् [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

15त्वष्टा रूपाणां रूपणीयानाम् ॥

विश्वास-प्रस्तुतिः

वि᳓ष्णुᳶ प᳓र्वतानाम् [अ᳓धिपतिस् स᳓ माऽवतु] ,
[अस्मि᳓न् ब्र᳓ह्मन्न्
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥]

मूलम्

विष्णु॒ᳶ पर्व॑तानाम् [अधि॑पति॒स् स मा॑ऽवतु] ,
[अ॒स्मिन् ब्रह्म॑न्न्
अ॒स्मिन् क्ष॒त्रे॑
ऽस्याम् आ॒शिष्य्
अ॒स्याम् पु॑रो॒धाया॑म्
अ॒स्मिन् कर्म॑न्न्
अ॒स्यां दे॒वहू॑त्याम् [स्वाहा]॥]

भट्टभास्कर-टीका

16विष्णुः पर्वतानां धारणानां धराधराणां तेषामपि धारकत्वात् ॥

विश्वास-प्रस्तुतिः

मरु᳓तो गणा᳓नाम᳓धिपतयस्ते᳓ माऽवन्तु {अस्मि᳓न्ब्र᳓ह्मन् + अस्मि᳓न्क्षत्रे᳙ + अस्यामाशि᳓ष्यस्या᳓म् पुरोधा᳓याम् + अस्मि᳓न्क᳓र्मन् + अस्या᳓न्देव᳓हूत्याम् ॥}

मूलम्

म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु {अ॒स्मिन्ब्रह्म॑न् + अ॒स्मिन्क्ष॒त्रे॑ + अस्यामा॒शिष्य॒स्याम् पु॑रो॒धाया॑म् + अ॒स्मिन्कर्म॑न् + अ॒स्यान्दे॒वहू॑त्याम् ॥}

भट्टभास्कर-टीका

17मरुतो गणानां संघातानामधिपतयः ते मा अवन्तु ॥

विश्वास-प्रस्तुतिः

पि᳓तरᳶ पितामहाᳶ परेऽवरे त᳓तास्ततामहा इह᳓ माऽवत ।

मूलम्

पित॑रᳶ पितामहाᳶ परेऽवरे॒ तता॑स्ततामहा इ॒ह मा॑ऽवत ।

भट्टभास्कर-टीका

18पितरः इत्यादीनि षडामन्त्रितपदानि । पितृततशब्दयोः पादादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । अन्येषां तु निघातः । तत्र पितरः उत्पादयितारः । तेषां पितरः पितामहाः । जीवपितृतार्थं पितामहग्रहणम् ॥
लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः ।
सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ॥ इति ॥

सप्तमादूर्ध्वं ये विप्रकृष्टास्ते परे । ततोर्वाचीनास्सान्नीकृष्टाः अवरे । तताः येभ्यो दीयते पिण्डस्ते तताः पित्रादयस्त्रयः । तेषां पितरस्ततामहाः ये न पृथक्पिण्डभाजः उभयत्रापि पिण्डभाजश्च । ते सर्वे यूयमिह कर्मणि वर्तमानं मां अवत रक्षत ।

विश्वास-प्रस्तुतिः

अस्मि᳓न् ब्र᳓ह्मन्न् +++(अस्मिन्ब्रह्मण्य् इत्यथर्ववेदे)+++᳓
अस्मि᳓न् क्षत्रे᳙
ऽस्याम् आशि᳓ष्य्
अस्या᳓म् पुरोधा᳓याम्
अस्मि᳓न् क᳓र्मन्न्
अस्यां᳓ देव᳓हूत्याम् [स्वा᳓हा᳓]॥ [16]

मूलम्

अ॒स्मिन्ब्रह्म॑न्न॒स्मिन्क्ष॒त्रे॑ऽस्यामा॒शिष्य॒स्याम्पु॑रो॒धाया॑म॒स्मिन्कर्म॑न्न॒स्यान्दे॒वहू॑त्याम् [16]

भट्टभास्कर-टीका

अस्मिन्नित्यादि । ‘निमित्तात्कर्मसंयोगे’ इति सर्वा निमित्तसप्तमी । अस्मिन् ब्रह्मन् ब्राह्मणे जातिनिर्देशोयं, इयं ब्राह्मणजातिस्संपद्यतामिति । ब्राह्मणस्य निमित्तं वा । ‘ऊडिदम्’ इति सप्तम्या उदात्तत्वम् । क्षत्रे क्षत्रजातौ । आशिषि आशासनीये फले प्रजापश्वादौ । ‘आशासः क्वौ’ इतीत्वम्, ‘शासिवसि घसीनां च’ इति षत्वम् । पुरोधायां पुरस्करणे सर्वेषां प्राधान्ये । पुरस उपसर्गभावात् ‘आतश्चोपसर्गे’ इति भिदादिर्द्रष्टव्यः । कर्मणि क्रियमाणे क्रियाविशेषे देवहूयां देवानामाह्वाने पूजायाम् । दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् ॥

इति तृतीये चतुर्थे पञ्चमोनुवाकः ॥