०३ काम्यावषाविधानम्

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

इ॒मे वै स॒हास्ता॒न्ते वा॒युर्व्य॑वा॒त्ते गर्भ॑मदधाता॒न्तँ सोम॒ᳶ प्राज॑नयद॒ग्निर॑ग्रसत॒ स ए॒तम्प्र॒जाप॑तिराग्ने॒यम॒ष्टाक॑पालमपश्य॒त्तन्निर॑वप॒त्तेनै॒वैना॑म॒ग्नेरधि॒ निर॑क्रीणा॒त्

विश्वास-प्रस्तुतिः

इ॒मे वै स॒हास्ताम् ।

मूलम्

इ॒मे वै स॒हास्ताम् ।

भट्टभास्कर-टीका

1अथाजावशाया ब्राह्मणमेव - इमे वा इत्यादि ॥ इयं चासौ च इमे, ‘त्यदादीनां यद्यत्परं तच्छिष्यते’ इतीदमश्शेषः । द्यावापृथिव्यौ पूर्वं सहास्तां अपृथगभूताम् ।

विश्वास-प्रस्तुतिः

ते वा॒युर्व्य॑वात् ।

मूलम्

ते वा॒युर्व्य॑वात् ।

भट्टभास्कर-टीका

ते वायुः व्यवात् व्यगमयत् पृथक्त्वेनोपर्यधश्च ईरितवान् ।

विश्वास-प्रस्तुतिः

ते गर्भ॑मदधाताम् ।

मूलम्

ते गर्भ॑मदधाताम् ।

भट्टभास्कर-टीका

ते द्यावापृथिव्यौ वायुना संपरिष्वक्ते गर्भमदधाताम् ।

विश्वास-प्रस्तुतिः

तँ सोम॒ᳶ प्राज॑नयत् ।

मूलम्

तँ सोम॒ᳶ प्राज॑नयत् ।

भट्टभास्कर-टीका

तं गर्भं सोमः प्राजनयत् जनयामास ।

विश्वास-प्रस्तुतिः

अ॒ग्निर॑ग्रसत ।

मूलम्

अ॒ग्निर॑ग्रसत ।

भट्टभास्कर-टीका

अग्निस्तमग्रसत ।

विश्वास-प्रस्तुतिः

स ए॒तम्प्र॒जाप॑तिराग्ने॒यम॒ष्टाक॑पालमपश्यत् ।
तन्निर॑वपत् ।
तेनै॒वैना॑म॒ग्नेरधि॒ निर॑क्रीणात् ।

मूलम्

स ए॒तम्प्र॒जाप॑तिराग्ने॒यम॒ष्टाक॑पालमपश्यत् ।
तन्निर॑वपत् ।
तेनै॒वैना॑म॒ग्नेरधि॒ निर॑क्रीणात् ।

भट्टभास्कर-टीका

प्रजापतिराग्नेयेनाष्टाकपालेन एनां वशां अग्नेर्नीष्क्रीतवान् । ‘अधिपरी अनर्थकौ ’ इत्यधिशब्दोनर्थकः ॥

मूलम् (संयुक्तम्)

तस्मा॒दप्य॑न्यदेव॒त्या॑मा॒लभ॑मान आग्ने॒यम॒ष्टाक॑पालम्पु॒रस्ता॒न्निर्व॑पेद॒ग्नेरे॒वैना॒मधि॑ नि॒ष्क्रीया ल॑भते

विश्वास-प्रस्तुतिः

तस्मा॒दप्य॑न्यदेव॒त्या॑मा॒लभ॑मान आग्ने॒यम॒ष्टाक॑पालम्पु॒रस्ता॒न्निर्व॑पेत् ।
अ॒ग्नेरे॒वैना॒मधि॑ नि॒ष्क्रीया ल॑भते ।

मूलम्

तस्मा॒दप्य॑न्यदेव॒त्या॑मा॒लभ॑मान आग्ने॒यम॒ष्टाक॑पालम्पु॒रस्ता॒न्निर्व॑पेत् ।
अ॒ग्नेरे॒वैना॒मधि॑ नि॒ष्क्रीया ल॑भते ।

भट्टभास्कर-टीका

2तस्मादित्यादि ॥ या एता ब्राह्मणाभिहिता वाय्वादयो देवतास्तासां अन्यतमदेवत्यामप्यालभमानः नाग्निदेवत्यामेव । देवतान्तात्तादर्थ्ये यत् ॥

मूलम् (संयुक्तम्)

यत् [7] वा॒युर्व्यवा॒त्तस्मा॑द्वाय॒व्या॑ यदि॒मे गर्भ॒मद॑धाता॒न्तस्मा॑द्द्यावापृथि॒व्या॑ यत्सोम॒ᳶ प्राज॑नयद॒ग्निरग्र॑सत॒ तस्मा॑दग्नीषो॒मीया॒ यद॒नयो॑र्विय॒त्योर्वागव॑द॒त्तस्मा॑त्सारस्व॒ती यत्प्र॒जाप॑तिर॒ग्नेरधि॑ नि॒रक्री॑णा॒त्तस्मा॑त्प्राजाप॒त्या सा वा ए॒षा स॑र्वदेव॒त्या॑ यद॒जा व॒शा

विश्वास-प्रस्तुतिः

यद्वा॒युर्व्यवा॒त् तस्मा॑द्वाय॒व्या॑ ।

मूलम्

यद्वा॒युर्व्यवा॒त् तस्मा॑द्वाय॒व्या॑ ।

भट्टभास्कर-टीका

3इदानीं ता एवास्या देवता दर्शयति - यद्वा - यद्वायुरित्यादि ॥ वायोरपि त्रिस्थनीयत्वात् वायव्या वशा । ‘वार्वृतुपित्र्युषसो यत्’ ।

विश्वास-प्रस्तुतिः

यदि॒मे गर्भ॒मद॑धाता॒न् तस्मा॑द्द्यावापृथि॒व्या॑ ।

मूलम्

यदि॒मे गर्भ॒मद॑धाता॒न् तस्मा॑द्द्यावापृथि॒व्या॑ ।

भट्टभास्कर-टीका

यदिमे इति । द्यावापृथिव्यौ मातृस्थानीयत्वात् । द्यावापृथिव्यादिना यत् ।

विश्वास-प्रस्तुतिः

यत्सोम॒ᳶ प्राज॑नयत्, अ॒ग्निरग्र॑सत॒ तस्मा॑दग्नीषो॒मीया॑ ।

मूलम्

यत्सोम॒ᳶ प्राज॑नयत्, अ॒ग्निरग्र॑सत॒ तस्मा॑दग्नीषो॒मीया॑ ।

भट्टभास्कर-टीका

यत्सोम इत्यादि । प्रजननहेतुस्सोमः अग्निः ग्रासकः अग्नेश्चेयं निष्क्रीता, तस्मादग्नीषोमीया । तेनैव छः ।

विश्वास-प्रस्तुतिः

यद॒नयो॑र्विय॒त्योर्वागव॑द॒त् , तस्मा॑त्सारस्व॒ती ।

मूलम्

यद॒नयो॑र्विय॒त्योर्वागव॑द॒त् , तस्मा॑त्सारस्व॒ती ।

भट्टभास्कर-टीका

यदनयोरित्यादि । अनयोर्द्यावापृथिव्योः वियत्योः विगच्छन्त्योः वागवदत् शब्दस्समजनि विपाटनजन्मा तस्मादियं सारस्वती । उदात्तनिवृत्तिस्वरेण दीर्घ उदात्तत्वम् । विपूर्वादेतेश्शतरि ‘शतुरनुमः’ इति विभक्तेरुदात्तत्वम् ।

विश्वास-प्रस्तुतिः

यत्प्र॒जाप॑तिर॒ग्नेरधि॑ नि॒रक्री॑णा॒त् तस्मा॑त्प्राजाप॒त्या ।

मूलम्

यत्प्र॒जाप॑तिर॒ग्नेरधि॑ नि॒रक्री॑णा॒त् तस्मा॑त्प्राजाप॒त्या ।

भट्टभास्कर-टीका

यत्प्रजापतिरित्यादि । पत्युत्तरपदलक्षणोण्यः ।

विश्वास-प्रस्तुतिः

सा वा ए॒षा स॑र्वदेव॒त्या॑ यद॒जा व॒शा ।

मूलम्

सा वा ए॒षा स॑र्वदेव॒त्या॑ यद॒जा व॒शा ।

भट्टभास्कर-टीका

सा वा एषेत्यादि । तस्मात्सैषाऽजा वशा नैकदेवत्या ॥

मूलम् (संयुक्तम्)

वा॑य॒व्या॑मा ल॑भेत॒ भूति॑कामो वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ वा॒युमे॒व स्वेन॑ [8] भा॒ग॒धेये॒नोप॑ धावति॒ स ए॒वैन॒म्भूति॑ङ्गमयति

विश्वास-प्रस्तुतिः

वा॒य॒व्या॑मा ल॑भेत॒ भूति॑कामः ।

स ए॒वैन॒म्भूति॑ङ्गमयति ।

मूलम्

वा॒य॒व्या॑मा ल॑भेत॒ भूति॑कामः ।

स ए॒वैन॒म्भूति॑ङ्गमयति ।

भट्टभास्कर-टीका

4इदानीं काम्यदेवताविशेषं विदधाति - वायव्यामा लभेतेत्यादि ॥ वायुदेवत्यामिमामालभेत भूतिकामः भूष्णुताकामः । ‘शीलिकामि’ इत्यादीना णः, पूर्वपदप्रकृतिस्वरर्त्वं च ।

विश्वास-प्रस्तुतिः

वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ ।

मूलम्

वा॒युर्वै क्षेपि॑ष्ठा दे॒वता॑ ।

भट्टभास्कर-टीका

क्षेपिष्ठा क्षिप्रकारिका । ‘स्थूलदूर’ इति यणादिलोपो गुणश्च ।

विश्वास-प्रस्तुतिः

वा॒युमे॒व स्वेन॑ भाग॒धेये॑नोप॑ धावति ।

मूलम्

वा॒युमे॒व स्वेन॑ भाग॒धेये॑नोप॑ धावति ।

भट्टभास्कर-टीका

स्वेनात्मीयेन भागधेयेन उपधावति उपसर्पति । स्वार्थिको धेयप्रत्ययः ॥

मूलम् (संयुक्तम्)

द्यावापृथि॒व्या॑मा ल॑भेत कृ॒षमा॑णᳶ प्रति॒ष्ठाका॑मो दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वर्षति॒ व्य॑स्यामोष॑धयो रोहन्ति स॒मर्धु॑कमस्य स॒स्यम्भ॑वति

विश्वास-प्रस्तुतिः

द्या॒वा॒पृ॒थि॒व्या॑मा ल॑भेत कृ॒षमा॑णᳶ प्रति॒ष्ठाका॑मः ।

मूलम्

द्या॒वा॒पृ॒थि॒व्या॑मा ल॑भेत कृ॒षमा॑णᳶ प्रति॒ष्ठाका॑मः ।

भट्टभास्कर-टीका

5द्यावापृथिव्यामित्यादि ॥ प्रतिष्ठा क्षेत्रसस्यसमृद्धिः ।

विश्वास-प्रस्तुतिः

दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वर्षति ।

मूलम्

दि॒व ए॒वास्मै॑ प॒र्जन्यो॑ वर्षति ।

भट्टभास्कर-टीका

अस्मै एतदर्थमेव पर्जन्यो दिवः वृष्टिं पातयति ।

विश्वास-प्रस्तुतिः

व्य॑स्यामोष॑धयो रोहन्ति स॒मर्धु॑कमस्य स॒स्यम्भ॑वति ।

मूलम्

व्य॑स्यामोष॑धयो रोहन्ति स॒मर्धु॑कमस्य स॒स्यम्भ॑वति ।

भट्टभास्कर-टीका

ओषधयश्चास्यां रोहन्ति विविधमुत्पद्यन्ते । समृद्धिशीलं चास्य सस्यं भवति । छान्दस उकञ् ॥

मूलम् (संयुक्तम्)

अग्नीषो॒मीया॒मा ल॑भेत॒ यᳵ का॒मये॒तान्न॑वानन्ना॒दस्स्या॒मित्य॒ग्निनै॒वान्न॒मव॑ रुन्द्धे॒ सोमे॑ना॒न्नाद्य॒मन्न॑वाने॒वान्ना॒दो भ॑वति

विश्वास-प्रस्तुतिः

अ॒ग्नी॒षो॒मीया॒मा ल॑भेत ।
यᳵ का॒मये॒तान्न॑वानन्ना॒दस्स्या॒मित्य॒ग्निनै॒वान्न॒मव॑ रुन्द्धे ।
सोमे॑ना॒न्नाद्य॒मन्न॑वाने॒वान्ना॒दो भ॑वति ।

मूलम्

अ॒ग्नी॒षो॒मीया॒मा ल॑भेत ।
यᳵ का॒मये॒तान्न॑वानन्ना॒दस्स्या॒मित्य॒ग्निनै॒वान्न॒मव॑ रुन्द्धे ।
सोमे॑ना॒न्नाद्य॒मन्न॑वाने॒वान्ना॒दो भ॑वति ।

भट्टभास्कर-टीका

6अग्नीषोमीयामित्यादि ॥ अन्नवान् बह्वन्नः । अन्नादः अन्नादनसमर्थः । अन्नस्यादनमन्नाद्यं, छान्दसो भावे यत् ॥

मूलम् (संयुक्तम्)

सारस्व॒तीमा ल॑भेत॒ यः [9] ई॒श्व॒रो वा॒चो वदि॑तो॒स्सन्वाच॒न्न वदे॒द्वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ सैवास्मि॒न्वाच॑न्दधाति

विश्वास-प्रस्तुतिः

सा॒र॒स्व॒तीमा ल॑भेत ।
य ई॑श्व॒रो वा॒चो वदि॑तो॒स्सन् वाच॒न्न वदेत् ।
वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
सैवास्मि॒न्वाच॑न्दधाति।

मूलम्

सा॒र॒स्व॒तीमा ल॑भेत ।
य ई॑श्व॒रो वा॒चो वदि॑तो॒स्सन् वाच॒न्न वदेत् ।
वाग्वै सर॑स्वती॒ सर॑स्वतीमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति ।
सैवास्मि॒न्वाच॑न्दधाति।

भट्टभास्कर-टीका

7सारस्वतीमित्यादि … ॥ +++(अत्र टीकाभागः लुप्तः स्यात् )+++

मूलम् (संयुक्तम्)

प्राजाप॒त्यामा ल॑भेत॒ यᳵ का॒मये॒तान॑भिजितम॒भि ज॑येय॒मिति॑ प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वान॑भिजितम॒भि ज॑यति वाय॒व्य॑यो॒पाक॑रोति वा॒योरे॒वैना॑मव॒रुध्या ल॑भते

विश्वास-प्रस्तुतिः

प्रा॒जा॒प॒त्यामा ल॑भेत ।
यᳵ का॒मये॒तान॑भिजितम॒भि ज॑येय॒मिति॑ ।
प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वान॑भिजितम॒भि ज॑यति ।

मूलम्

प्रा॒जा॒प॒त्यामा ल॑भेत ।
यᳵ का॒मये॒तान॑भिजितम॒भि ज॑येय॒मिति॑ ।
प्र॒जाप॑ति॒स्सर्वा॑ दे॒वता॑ दे॒वता॑भिरे॒वान॑भिजितम॒भि ज॑यति ।

भट्टभास्कर-टीका

8 … +++(अत्र टीकाभागः लुप्तः स्यात् )+++ उपायान्तरेणानभिजितमभिजयेयमिति । प्रजापतेस्सर्वदेवतात्मकत्वात् सर्वाभिर्देवताभिरनभिजितं सर्वमभिजयति ।

विश्वास-प्रस्तुतिः

वा॒य॒व्य॑यो॒पाक॑रोति ।

वा॒योरे॒वैना॑मव॒रुध्या ल॑भते ।

मूलम्

वा॒य॒व्य॑यो॒पाक॑रोति ।

वा॒योरे॒वैना॑मव॒रुध्या ल॑भते ।

भट्टभास्कर-टीका

वायव्ययेति । ‘आ वायो भूष’ इत्यनया वायुसकाशादेवैनां लब्ध्वा आलभते ॥

विश्वास-प्रस्तुतिः

आकू॑त्यै त्वा॒ कामा॑य त्वा [10] इत्या॑ह यथाय॒जुरे॒वैतत् ।

मूलम्

आकू॑त्यै त्वा॒ कामा॑य त्वा [10] इत्या॑ह यथाय॒जुरे॒वैतत् ।

भट्टभास्कर-टीका

9आकूत्यै त्वेत्यादि नियोजनमन्त्रोयम् ॥ यथा यजुरेष मन्त्रो वदति एवमेतत्फलं भवत्याकूत्यादिकम् ॥

मूलम् (संयुक्तम्)

कि॑क्किटा॒कार॑ञ्जुहोति किक्किटाका॒रेण॒ वै ग्रा॒म्याᳶ प॒शवो॑ रमन्ते॒ प्रार॒ण्याᳶ प॑तन्ति॒ यत्कि॑क्किटा॒कार॑ञ्जु॒होति॑ ग्रा॒म्याणा॑म्पशू॒नान्धृत्यै

विश्वास-प्रस्तुतिः

कि॒क्कि॒टा॒कार॑ञ्जुहोति ।

मूलम्

कि॒क्कि॒टा॒कार॑ञ्जुहोति ।

भट्टभास्कर-टीका

10किक्किटाकारमित्यादि ॥ अनुकरणशब्दोयमुक्तः । किक्किटाकारं किक्किटाकृत्य जुहोति किक्किटाकारेण प्रीणयित्वा ‘किक्किटा ते मनः’ इत्यादिभिः पंचभिर्जुहोति । छान्दसो णमुल् ।

विश्वास-प्रस्तुतिः

कि॒क्कि॒टा॒का॒रेण॒ वै ग्रा॒म्याᳶ प॒शवो॑ रमन्ते ।

मूलम्

कि॒क्कि॒टा॒का॒रेण॒ वै ग्रा॒म्याᳶ प॒शवो॑ रमन्ते ।

भट्टभास्कर-टीका

किक्किटाकारेण वा सुबोधश्च धमः? । रमन्ते प्रीणयन्ते प्रपतन्ति पलायन्ति ।

विश्वास-प्रस्तुतिः

प्रार॒ण्याᳶ प॑तन्ति ।
यत्कि॑क्किटा॒कार॑ञ्जु॒होति॑ ।
ग्रा॒म्याणा॑म्पशू॒नान्धृत्यै ।

मूलम्

प्रार॒ण्याᳶ प॑तन्ति ।
यत्कि॑क्किटा॒कार॑ञ्जु॒होति॑ ।
ग्रा॒म्याणा॑म्पशू॒नान्धृत्यै ।

भट्टभास्कर-टीका

तत्र ग्राम्याः पशवः गोश्वाजाविकं पुरुषाऽश्वगर्दभोष्ट्रं चेति सप्त । अश्वतरमेके ब्रुवते । अथाऽऽरण्याः पशवः द्विखुराः, श्वापदानि, पक्षिणश्च, सरीसृपाः, हस्ती च, मर्कटश्च, नादेयाश्चेति सप्त ॥

मूलम् (संयुक्तम्)

पर्य॑ग्नौ क्रि॒यमा॑णे जुहोति॒ जीव॑न्तीमे॒वैनाँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति

विश्वास-प्रस्तुतिः

पर्य॑ग्नौ क्रि॒यमा॑णे जुहोति ।

जीव॑न्तीमे॒वैनाँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।

मूलम्

पर्य॑ग्नौ क्रि॒यमा॑णे जुहोति ।

जीव॑न्तीमे॒वैनाँ॑ सुव॒र्गल्ँ लो॒कङ्ग॑मयति ।

भट्टभास्कर-टीका

11पर्यग्नावित्यादि ॥ पर्यग्निकरणे क्रियमाणे इत्यर्थः । जीवन्तीमित्यादि । जीवदवस्थायामेवास्यां मनआदीनां प्राजापत्यादीषु हुतत्वात् ॥

मूलम् (संयुक्तम्)

त्वन्तु॒रीया॑ व॒शिनी॑ व॒शासीत्या॑ह देव॒त्रैवैना॑ङ्गमयति स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामा॒ इत्या॑है॒ष वै कामः॑ [11] यज॑मानस्य॒ यदना॑र्त उ॒दृच॒ङ्गच्छ॑ति॒ तस्मा॑दे॒वमा॑ह

विश्वास-प्रस्तुतिः

त्वन्तु॒रीया॑ व॒शिनी॑ व॒शासीत्या॑ह ।
दे॒व॒त्रैवैना॑ङ्गमयति ।

मूलम्

त्वन्तु॒रीया॑ व॒शिनी॑ व॒शासीत्या॑ह ।
दे॒व॒त्रैवैना॑ङ्गमयति ।

भट्टभास्कर-टीका

12त्वं तुरीयेत्यादि ॥ उदीचीं नीयमानमेतेनानुमन्त्रयमाणे देवान् गमयत्येनाम्, ‘वशिनो गच्छ देवान्’ इति लिङ्गात् । ‘देवमनुष्य’ इति त्राप्रत्ययः ।

विश्वास-प्रस्तुतिः

स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामा॒ इत्या॑ह ।

ए॒ष वै कामो॒ यज॑मानस्य॒ यदना॑र्त उ॒दृच॒ङ्गच्छ॑ति ..

मूलम्

स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामा॒ इत्या॑ह ।

ए॒ष वै कामो॒ यज॑मानस्य॒ यदना॑र्त उ॒दृच॒ङ्गच्छ॑ति ..

भट्टभास्कर-टीका

सत्या इत्यादि । उदृचं समाप्तिम् । यज्ञस्य यदनार्तो गच्छति एष एव यजमानस्य कामः ।

विश्वास-प्रस्तुतिः

तस्मा॑दे॒वमा॑ह।

मूलम्

तस्मा॑दे॒वमा॑ह।

भट्टभास्कर-टीका

तस्मादेवमाहाध्वर्युः ‘सत्यास्सन्तु यजमानस्य कामाः’ इति, न काम्यान्तरमस्येति ॥

मूलम् (संयुक्तम्)

अ॒जासि॑ रयि॒ष्ठेत्या॑है॒ष्वे॑वैनाल्ँ॑ लो॒केषु॒ प्रति॑ ष्ठापयति दि॒वि ते॑ बृ॒हद्भा इत्या॑ह सुव॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र्दधाति॒

विश्वास-प्रस्तुतिः

अ॒जासि॑ रयि॒ष्ठेत्या॑ह ।
ए॒ष्वे॑वैनाल्ँ॑ लो॒केषु॒ प्रति॑ ष्ठापयति।

मूलम्

अ॒जासि॑ रयि॒ष्ठेत्या॑ह ।
ए॒ष्वे॑वैनाल्ँ॑ लो॒केषु॒ प्रति॑ ष्ठापयति।

भट्टभास्कर-टीका

13अजाऽसीत्यादि ॥ उपासनमन्त्रोयम् ।

विश्वास-प्रस्तुतिः

दि॒वि ते॑ बृ॒हद्भा इत्या॑ह ।
सु॒व॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र्दधाति ।

मूलम्

दि॒वि ते॑ बृ॒हद्भा इत्या॑ह ।
सु॒व॒र्ग ए॒वास्मै॑ लो॒के ज्योति॑र्दधाति ।

भट्टभास्कर-टीका

दिवीत्यदि । अस्मै यजमानाय स्वर्गे लोके ज्योतिर्दधाति ॥

मूलम् (संयुक्तम्)

तन्तु॑न्त॒न्वन्रज॑सो भा॒नुमन्वि॒हीत्या॑हे॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतᳵ करोत्यनुल्ब॒णव्ँव॑यत॒ जोगु॑वा॒मप॒ इति॑ [12] आ॒ह॒
यदे॒व य॒ज्ञ उ॒ल्बण॑ङ्क्रि॒यते॒ तस्यै॒वैषा शान्ति॒र्मनु॑र्भव ज॒नया॒ दैव्य॒ञ्जन॒मित्या॑ह मान॒व्यो॑ वै प्र॒जास्ता ए॒वाद्याः॑ कुरुते॒

विश्वास-प्रस्तुतिः

तन्तु॑न्त॒न्वन्रज॑सो भा॒नुमन्वि॒हीत्या॑ह ।
इ॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतᳵ करोति ।
अ॒नु॒ल्ब॒णव्ँव॑यत॒ जोगु॑वा॒मप॒ इत्या॑ह ।

मूलम्

तन्तु॑न्त॒न्वन्रज॑सो भा॒नुमन्वि॒हीत्या॑ह ।
इ॒माने॒वास्मै॑ लो॒काञ्ज्योति॑ष्मतᳵ करोति ।
अ॒नु॒ल्ब॒णव्ँव॑यत॒ जोगु॑वा॒मप॒ इत्या॑ह ।

भट्टभास्कर-टीका

14तन्तुं तन्वन्नित्यादि ॥ गतम् । अयं च वपाहोममन्त्रः ।

विश्वास-प्रस्तुतिः

यदे॒व य॒ज्ञ उ॒ल्बण॑ङ्क्रि॒यते ।

मूलम्

यदे॒व य॒ज्ञ उ॒ल्बण॑ङ्क्रि॒यते ।

भट्टभास्कर-टीका

उल्बणं मात्रातिरिक्तत्वं मातव्ये । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे ‘उदात्तस्वरितयोर्यणः’ इति विभक्तिस्स्वर्यते ।

विश्वास-प्रस्तुतिः

तस्यै॒वैषा शान्ति॒र्मनु॑र्भव ज॒नया॒ दैव्य॒ञ्जन॒मित्या॑ह ।
मान॒व्यो॑ वै प्र॒जास्ता ए॒वाद्याः॑ कुरुते ।

मूलम्

तस्यै॒वैषा शान्ति॒र्मनु॑र्भव ज॒नया॒ दैव्य॒ञ्जन॒मित्या॑ह ।
मान॒व्यो॑ वै प्र॒जास्ता ए॒वाद्याः॑ कुरुते ।

भट्टभास्कर-टीका

सर्वाः प्रजाः आद्या भोक्तव्याः विधेयाः कुरुते यजमानः ॥

विश्वास-प्रस्तुतिः

मन॑सो ह॒विर॒सीत्या॑ह स्व॒गाकृ॑त्यै ।

मूलम्

मन॑सो ह॒विर॒सीत्या॑ह स्व॒गाकृ॑त्यै ।

भट्टभास्कर-टीका

15मनस इति हविर्होममन्त्रः - स्वगाकृत्यै आत्मीयदेवताया यत्स्वीकरणं तदर्थम् । ‘ऊर्यादिच्विडाचश्च’ इति डाच् । अस्य गतित्वात् ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ॥

मूलम् (संयुक्तम्)

गात्रा॑णान्ते गात्र॒भाजो॑ भूया॒स्मेत्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते

विश्वास-प्रस्तुतिः

गात्रा॑णान्ते गात्र॒भाजो॑ भूया॒स्मेत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।

मूलम्

गात्रा॑णान्ते गात्र॒भाजो॑ भूया॒स्मेत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।

भट्टभास्कर-टीका

16गात्राणामित्यवदानप्राशनमन्त्रः ॥ भूयास्मेत्यादिकामाशिषमनेनाशास्ते ॥

मूलम् (संयुक्तम्)

तस्यै॒ वा ए॒तस्या॒ एक॑मे॒वादे॑वयजनय्ँ॒यदाल॑ब्धायाम॒भ्रः [13] भव॑ति॒ यदाल॑ब्धायाम॒भ्रस्स्याद॒प्सु वा॑ प्रवे॒शये॒त्सर्वाव्ँ॑ वा॒ प्राश्ञी॑या॒द्यद॒प्सु प्र॑वे॒शये॑द्यज्ञवेश॒सङ्कु॑र्या॒त्सर्वा॑मे॒व प्राश्ञी॑यादिन्द्रि॒यमे॒वात्मन्ध॑त्ते

विश्वास-प्रस्तुतिः

तस्यै॒ वा ए॒तस्या॒ एक॑मे॒वादे॑वयजनम् ।
यदाल॑ब्धायाम॒भ्रो भव॑ति ।

मूलम्

तस्यै॒ वा ए॒तस्या॒ एक॑मे॒वादे॑वयजनम् ।
यदाल॑ब्धायाम॒भ्रो भव॑ति ।

भट्टभास्कर-टीका

17तस्यै वा इत्यादि ॥ तस्या अजावशायाः एकमेवादेवयजनं अदेवयोग्यम्, आलम्भनकाले एकं परिहर्तव्यं, किम्? यत् आलब्धायामस्यां गगने अभ्रो भवति दुर्दिनं भवतीत्यर्थः । तत्र यान्यहान्यमेघसंपन्नानि मन्यते तेषु तामालभेत ।

विश्वास-प्रस्तुतिः

यदाल॑ब्धायाम॒भ्रस्स्यात् + अ॒प्सु वा॑ प्रवे॒शये॒त्सर्वाव्ँ॑ वा॒ प्राश्ञी॑यात्

मूलम्

यदाल॑ब्धायाम॒भ्रस्स्यात् + अ॒प्सु वा॑ प्रवे॒शये॒त्सर्वाव्ँ॑ वा॒ प्राश्ञी॑यात्

भट्टभास्कर-टीका

तत्र प्रमादात् यद्यालब्धायामभ्रस्स्यात् अप्सु वैनां प्रवेशयेत्, सर्वां वा यजमान एव अन्वहं प्राश्नीयात् ।

विश्वास-प्रस्तुतिः

यद॒प्सु प्र॑वे॒शये॑द् यज्ञवेश॒सङ्कु॑र्यात् ।
सर्वा॑मे॒व प्राश्ञी॑यात् .. + इ॒न्द्रि॒यमे॒वात्मन्ध॑त्ते ।

मूलम्

यद॒प्सु प्र॑वे॒शये॑द् यज्ञवेश॒सङ्कु॑र्यात् ।
सर्वा॑मे॒व प्राश्ञी॑यात् .. + इ॒न्द्रि॒यमे॒वात्मन्ध॑त्ते ।

भट्टभास्कर-टीका

प्रथमं पक्षं दूषयति - यदप्स्वित्यादि । यज्ञवेशसं यज्ञमेव व्यापादयेत् । तस्मात् ‘एतेनैवास्यामन्त्रणोपादानानां प्रास्याथेतरावग्नावनुप्रहरेत्’ इति बोधायनः । ‘निधायैनामाद्यात्’ इत्याजीगविः ॥

मूलम् (संयुक्तम्)

सा वा ए॒षा त्र॑या॒णामे॒वाव॑रुद्धा सव्ँवत्सर॒सद॑स्सहस्रया॒जिनो॑ गृहमे॒धिन॒स्त ए॒वैतया॑ यजेर॒न्तेषा॑मे॒वैषाप्ता ॥

विश्वास-प्रस्तुतिः

सा वा ए॒षा त्र॑या॒णामे॒वाव॑रुद्धा ।
सव्ँ॒व॒त्स॒र॒सद॑स्सहस्रया॒जिनो॑ गृहमे॒धिनः॑ ।
त ए॒वैतया॑ यजेर॒न्तेषा॑मे॒वैषाप्ता ॥

मूलम्

सा वा ए॒षा त्र॑या॒णामे॒वाव॑रुद्धा ।
सव्ँ॒व॒त्स॒र॒सद॑स्सहस्रया॒जिनो॑ गृहमे॒धिनः॑ ।
त ए॒वैतया॑ यजेर॒न्तेषा॑मे॒वैषाप्ता ॥

भट्टभास्कर-टीका

18सा वा एषेत्यादि ॥ गतम् । तस्मात्तेषामेवैकोनया यजेतेति । तेषामेवैषाप्ता एतत्फलावाप्तिरिति ॥

इति तृतीये चतुर्थे तृतीयोनुवाकः ॥