१, ७,९-१० त्रिष्टुप्, ८ तनुशिरा
विश्वेदेवा ऋषयः
विश्वास-प्रस्तुतिः
आ वा॑यो भूष शुचिपा॒ उप॑ नस्स॒हस्र॑न्ते नि॒युतो॑ विश्ववार ।
उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ।
मूलम्
आ वा॑यो भूष शुचिपा॒ उप॑ नस्स॒हस्र॑न्ते नि॒युतो॑ विश्ववार ।
उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेय॑म् ।
भट्टभास्कर-टीका
1अजावशाया उपाकरणेऽनुवर्तयति - आ वायो इति त्रिष्टुप् ॥ इयं व्याख्याता ग्रहेषु । हे वायो शुचिपाः अस्मानुपेत्य आभूषय हे विश्ववार यस्य ते सहस्रं नियुतं अश्वाः । तस्य ते अन्धः अन्नं मद्यं मदहेतुं उपायामि उपगच्छामि । हे देव यस्य च पूर्वपेयं दधिषे दधासि तत्संपादयामीति ॥
- 1ऐन्द्रवायवपात्रेण वायव्यं गृह्णाति - आवायो इति चतुष्पदया त्रिष्टुभा ॥ हे वायो शुचिपाः शुचेश्शुद्धस्य पातः । उपेत्युपसर्गश्रुतेर्योग्यं क्रियापदमध्याह्रियते । नः अस्मानुपेत्य, इममस्मदीयं सोमं पानेनाभूष आ समन्तादलं कुरु । यद्वा - अस्मदीयं यज्ञमागमनेनालङ्कुरु । भूष अलङ्कारे, भौवादिकः । कथमनेनागमनेन यज्ञोलङ्क्रियत इत्याह - विश्ववार निजबलेन विश्वस्यावारक , विश्वेषां वा वरणीय, ते तव सहस्रं नियुतः अश्वाः, अतस्तवैवागमनं भूषणाय भवति ।
हे वायो नियुतमश्वा अस्मानुपयान्तु । यद्वा - वायो आभूषय यज्ञं । तदर्थं किं क्रियतामित्याह – तव सहस्रं नियुतः अस्मानुपागच्छन्तु । यद्वा - भूषेत्यामन्त्रितमेव, भूषयतीति भूषः अलङ्कर्ता कस्य ? तस्य यत्र यत्र गच्छतीति । हे एवंगुणक वायो, तव सहस्रं नियुतोस्मानुपयन्तु तैस्सहितस्सन्नस्मत्सकाशमागच्छेत्यर्थः । उपसर्गद्वयेन क्रियापदमध्याह्रियते । उपो इत्युपशब्दस्यार्थे वर्तते । उपो अयामि समीपं प्रापयामि । किं सोमम् । अहं तुभ्यमागताय सोममुपहरामि । इ गतौ भौवादिकः अन्तर्भावितण्यर्थः णिलुग्वा । कीदृशमित्याह – अन्धः अदनीयम् । ‘अदेर्नुम्धश्च’ इत्यसुन् । मद्यं मदकरम् । ‘गदमदचर’ इत्यादिना यत्, ‘यतो नावः’ इत्याद्युदात्तत्वम् ।
पुनश्च सोमो विशेष्यते - हे देव वायो यस्य पूर्वपेयं प्रथमपानं त्वं दधिषे दधासि आचरसि, यं लब्ध्वा प्रथमं पिबसि, अन्यमग्रेपिबन्तं न क्षमसे यागेषु । ‘छन्दसि लुङ्लङ्लिटः’ इति दधातेर्लिट् । पिबतेर्भावे ‘अचो यत्’, कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘यतो नावः’ ॥
मूलम् (संयुक्तम्)
आकू॑त्यै त्वा॒ कामा॑य त्वा स॒मृधे॑ त्वा
विश्वास-प्रस्तुतिः
आकू॑त्यै त्वा॒ +++(नियुनज्मि)+++,
मूलम्
आकू॑त्यै त्वा॒ +++(नियुनज्मि)+++,
भट्टभास्कर-टीका
2नियोजने अनुवर्तयति ॥ आकूत्यै त्वेति यजुः - आकूतिः संकल्पलक्षणा देवी तस्यै हे वशे त्वां नियुनज्मि । कूङ् शब्दे, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
कामा॑य त्वा +++(नियुनज्मि)+++,
मूलम्
कामा॑य त्वा +++(नियुनज्मि)+++,
भट्टभास्कर-टीका
कामाय इच्छायै ।
विश्वास-प्रस्तुतिः
स॒मृधे॑ त्वा +++(नियुनज्मि)+++ ।
मूलम्
स॒मृधे॑ त्वा +++(नियुनज्मि)+++ ।
भट्टभास्कर-टीका
समृधे समृद्ध्यै । संपदादिलक्षणः क्विप् ॥
मूलम् (संयुक्तम्)
किक्कि॒टा ते॒ मनᳶ॑ प्र॒जाप॑तये॒ स्वाहा॑ किक्कि॒टा ते॑ प्रा॒णव्ँवा॒यवे॒ स्वाहा॑ किक्कि॒टा ते॒ चक्षु॒स्सूर्या॑य॒ स्वाहा॑ किक्कि॒टा ते॒ श्रोत्र॒न्द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॑ किक्कि॒टा ते॒ वाचँ॒ सर॑स्वत्यै॒ स्वाहा॑ [5]
विश्वास-प्रस्तुतिः
किक्कि॒टा ते॒ मनᳶ॑ प्र॒जाप॑तये॒ स्वाहा॑ ।
मूलम्
किक्कि॒टा ते॒ मनᳶ॑ प्र॒जाप॑तये॒ स्वाहा॑ ।
भट्टभास्कर-टीका
3पर्यग्नौ क्रियमाणे किक्किटाकारं जुहोति - किक्किटा ते इत्यादिभिर्यजुर्भिः ॥ किक्किटेत्यनुकरणशब्दोयं छान्दसः डाजन्तः, पशूनां रतिजनितो ध्वनिविशेषः अनेनानुक्रियते । हे पशो त्वां किक्किटाकृत्य प्रीणयित्वा ते त्वदीयं मनः प्रजापतये स्वाहुतं करोमि ददामीत्यर्थः ।
पशूनां किक्किटाकाररतित्वात् तत्प्रीणनार्थं किक्किटाकृत्य ददामि न पुनः प्रतिकूलं तवाचरामीत्येवमर्थमिदमुच्यते । ब्राह्मणं च भवति - ‘किक्किटाकारेण वै ग्राम्याः पशवो रमन्ते’ इत्यादि ।
विश्वास-प्रस्तुतिः
किक्कि॒टा ते॑ प्रा॒णव्ँवा॒यवे॒ स्वाहा॑ ।
मूलम्
किक्कि॒टा ते॑ प्रा॒णव्ँवा॒यवे॒ स्वाहा॑ ।
भट्टभास्कर-टीका
एवं किक्किटाकृत्य तव प्राणं वायवे ददामि
विश्वास-प्रस्तुतिः
किक्कि॒टा ते॒ चक्षु॒स्सूर्या॑य॒ स्वाहा॑ ।
मूलम्
किक्कि॒टा ते॒ चक्षु॒स्सूर्या॑य॒ स्वाहा॑ ।
भट्टभास्कर-टीका
चक्षुस्सूर्याय ददामि ।
विश्वास-प्रस्तुतिः
किक्कि॒टा ते॒ श्रोत्र॒न्द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॑ ।
मूलम्
किक्कि॒टा ते॒ श्रोत्र॒न्द्यावा॑पृथि॒वीभ्याँ॒ स्वाहा॑ ।
भट्टभास्कर-टीका
श्रोत्रे द्यावापृथिवीभ्यां ददामि ।
विश्वास-प्रस्तुतिः
किक्कि॒टा ते॒ वाचँ॒ सर॑स्वत्यै॒ स्वाहा॑ ।
मूलम्
किक्कि॒टा ते॒ वाचँ॒ सर॑स्वत्यै॒ स्वाहा॑ ।
भट्टभास्कर-टीका
वाचं सरस्वत्यै ददामि । एवं यदुदानानि [नादीनि] मनआदीनि तत्रैव हूयन्ते ॥
विश्वास-प्रस्तुतिः
त्वन्तु॒रीया॑ व॒शिनी॑ व॒शासि॑ स॒कृद्यत्त्वा॒ मन॑सा॒ गर्भ॒ आऽश॑यत् ।
व॒शा त्वव्ँव॒शिनी॑ गच्छ दे॒वान्त्स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ।
मूलम्
त्वन्तु॒रीया॑ व॒शिनी॑ व॒शासि॑ स॒कृद्यत्त्वा॒ मन॑सा॒ गर्भ॒ आऽश॑यत् ।
व॒शा त्वव्ँव॒शिनी॑ गच्छ दे॒वान्त्स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ।
भट्टभास्कर-टीका
4अथैनामन्तरेण चात्वालोत्करौ उदीचीं नीयमानामनुमन्त्रयते - त्वं तुरीयेति त्रिष्टुभा ॥ वशे त्वं तुरीया चतुर्थी लोकत्रये; उत्तरस्मिन् मन्त्रे लोकत्रयस्य वक्ष्यमाणत्वात् तैर्लोकैस्समत्वमापाद्येयं स्तूयते । ‘चतुरश्छयतावाद्यक्षरलोपश्च’ इति छयतौ । वशिनी वशवती वश इन्द्रियसंयमः, तद्वती; यस्माच्चिरं वृषस्यन्ती न भवति । वशा क मनीया सकृत्प्रसूता वन्ध्या वशा दैवा [द] भवत् यस्मात्त्वां मनसा संकल्पेन सकृदेकवारं गर्भ आशयत् आगत्य त्वां त्वदुदरे शयितवान्, तस्माद्वशाऽसि, यस्मात्सकृदेव तस्माद्वशिनी चासि । द्वितीयादिप्रवृत्तौ मनःप्रवृत्तिरेव नास्तीति सा त्वं वशा च वशीनी च सती पुनःप्रसवरहिता देवान् गच्छ स्वर्गं गच्छ सत्यास्सन्तु यजमानस्य कामाः । ‘एष वै कामो यजमानस्य यदनार्तउदृचं गच्छति’ इति ॥
मूलम् (संयुक्तम्)
अ॒जासि॑ रयि॒ष्ठा पृ॑थि॒व्याँ सी॑दो॒र्ध्वान्तरि॑क्ष॒मुप॑ तिष्ठस्व दि॒वि ते॑ बृ॒हद्भाः ।
विश्वास-प्रस्तुतिः
अ॒जासि॑,
र॒यि॒ष्ठा पृ॑थि॒व्याँ सी॑द ।
मूलम्
अ॒जासि॑,
र॒यि॒ष्ठा पृ॑थि॒व्याँ सी॑द ।
भट्टभास्कर-टीका
5उपासने वर्तयति - अजाऽसीति यजुः ॥ अजा त्वमसि रयिष्ठा धने स्थिता धनहेतुभूता त्वं पृथिवीं सीद आस्व ।
विश्वास-प्रस्तुतिः
ऊ॒र्ध्वान्तरि॑क्ष॒मुप॑ तिष्ठस्व ।
मूलम्
ऊ॒र्ध्वान्तरि॑क्ष॒मुप॑ तिष्ठस्व ।
भट्टभास्कर-टीका
ततः ऊर्ध्वा उन्नीता अन्तरिक्षमुपतिष्ठस्व
विश्वास-प्रस्तुतिः
दि॒वि ते॑ बृ॒हद्भाः ।
मूलम्
दि॒वि ते॑ बृ॒हद्भाः ।
भट्टभास्कर-टीका
दिवि ते तव बृहद्भाः महती दीप्तिः । भासेरसुनि भाः । यद्वा - ‘भ्राजभास’ इति भासतेः क्विप् । बृहदिति लिङ्गव्यत्ययः । एवं त्रिष्वपि लोकेषु तिष्ठेति ॥
भास्करोक्त-विनियोगः
6अथास्यै वपां जुहोति - तन्तुं तन्वन्निति जगत्या ॥
०६ तन्तुं तन्वन्रजसो ...{Loading}...
त᳓न्तुं तन्व᳓न् र᳓जसो+++(=दिवः)+++ भानु᳓म् अ᳓न्विहि
ज्यो᳓तिष्मतः पथो᳓ रक्ष धिया᳓ कृता᳓न् ।
+++(तेन खगोलं, विषुव-स्थानञ् च साधु जानीहि!)+++
अन्-उल्बणं᳓+++(=उत्कटम् [ग्रन्थ्या])+++ वयत जो᳓गुवाम्+++(=स्तोतॄणाम्)+++ अ᳓पो+++(=कर्म)+++
+++(विषुव-स्थानीय! अग्ने)+++ म᳓नुर् भव, जन᳓या दै᳓व्यं ज᳓नम् ॥६
+++(अग्नये तन्तुमत इदं न मम)+++
006 ...{Loading}...
अधिमन्त्रम् - sa
- देवता - अग्निः सौचीकः
- ऋषिः - देवाः
- छन्दः - जगती
मूलम् - तैत्तिरीयम्
तन्तु॑न्त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतᳶ प॒थो र॑क्ष धि॒या कृ॒तान् ।
अ॒नु॒ल्ब॒णव्ँव॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्य॒ञ्जन॑म् ।
Thomson & Solcum
त᳓न्तुं तन्व᳓न् र᳓जसो भानु᳓म् अ᳓न्व् इहि
ज्यो᳓तिष्मतः पथो᳓ रक्ष धिया᳓ कृता᳓न्
अनुल्बणं᳓ वयत जो᳓गुवाम् अ᳓पो
म᳓नुर् भव जन᳓या दइ᳓वियं ज᳓नम्
Vedaweb annotation
Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons
Pāda-label
popular
popular
popular
popular
Morph
ánu ← ánu (invariable)
bhānúm ← bhānú- (nominal stem)
{case:ACC, gender:M, number:SG}
ihi ← √i- 1 (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
rájasaḥ ← rájas- (nominal stem)
{case:GEN, gender:N, number:SG}
tántum ← tántu- (nominal stem)
{case:ACC, gender:M, number:SG}
tanván ← √tan- (root)
{case:NOM, gender:M, number:SG, tense:PRS, voice:ACT}
dhiyā́ ← dhī́- (nominal stem)
{case:INS, gender:F, number:SG}
jyótiṣmataḥ ← jyótiṣmant- (nominal stem)
{case:ACC, gender:M, number:PL}
kr̥tā́n ← √kr̥- (root)
{case:ACC, gender:M, number:PL, non-finite:PPP}
patháḥ ← pánthā- ~ path- (nominal stem)
{case:ACC, gender:M, number:PL, tense:PRF, voice:MED}
rakṣa ← √rakṣⁱ- (root)
{number:SG, person:2, mood:IND, tense:PRS, voice:ACT}
anulbaṇám ← anulbaṇá- (nominal stem)
{case:NOM, gender:N, number:SG}
ápaḥ ← ápas- (nominal stem)
{case:NOM, gender:N, number:SG}
jóguvām ← jógū- (nominal stem)
{case:GEN, gender:M, number:PL}
vayata ← √u- 2 (root)
{number:PL, person:2, mood:IMP, tense:PRS, voice:ACT}
bhava ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
daívyam ← daívya- (nominal stem)
{case:ACC, gender:M, number:SG}
jánam ← jána- (nominal stem)
{case:ACC, gender:M, number:SG}
janáya ← √janⁱ- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}
mánuḥ ← mánu- (nominal stem)
{case:NOM, gender:M, number:SG}
पद-पाठः
तन्तु॑म् । त॒न्वन् । रज॑सः । भा॒नुम् । अनु॑ । इ॒हि॒ । ज्योति॑ष्मतः । प॒थः । र॒क्ष॒ । धि॒या । कृ॒तान् ।
अ॒नु॒ल्ब॒णम् । व॒य॒त॒ । जोगु॑वाम् । अपः॑ । मनुः॑ । भ॒व॒ । ज॒नय॑ । दैव्य॑म् । जन॑म् ॥
Hellwig Grammar
- tantuṃ ← tantum ← tantu
- [noun], accusative, singular, masculine
- “thread; fiber; lineage; cobweb; fibril; stalk.”
- tanvan ← tan
- [verb noun], nominative, singular
- “expand; perform; cause; increase; write; spread; produce; spread; speak; propagate.”
- rajaso ← rajasaḥ ← rajas
- [noun], genitive, singular, neuter
- “powder; menorrhea; dust; Rajas; atmosphere; rajas; pollen; passion; rajas [word]; sindūra; rust; tin; impurity; dark; sky.”
- bhānum ← bhānu
- [noun], accusative, singular, masculine
- “sun; Surya; Calotropis gigantea Beng.; sunbeam; beam; luminosity; copper; light; twelve; appearance; Bhānu; flare.”
- anv ← anu
- [adverb]
- “subsequently; behind; along; towards; because.”
- ihi ← i
- [verb], singular, Present imperative
- “go; travel; enter (a state); return; walk; continue; reach; ask.”
- jyotiṣmataḥ ← jyotiṣmat
- [noun], accusative, plural, masculine
- “shining.”
- patho ← pathaḥ ← pathin
- [noun], accusative, plural, masculine
- “way; road; path [word]; journey; method.”
- rakṣa ← rakṣ
- [verb], singular, Present imperative
- “protect; guard; keep; stow; govern; guard; spare; accumulate.”
- dhiyā ← dhī
- [noun], instrumental, singular, feminine
- “intelligence; prayer; mind; insight; idea; hymn; purpose; art; knowledge.”
- kṛtān ← kṛ
- [verb noun], accusative, plural
- “make; perform; cause; produce; shape; construct; do; put; fill into; use; fuel; transform; bore; act; write; create; prepare; administer; dig; prepare; treat; take effect; add; trace; put on; process; treat; heed; hire; act; produce; assume; eat; ignite; chop; treat; obey; manufacture; appoint; evacuate; choose; understand; insert; happen; envelop; weigh; observe; practice; lend; bring; duplicate; plant; kṛ; concentrate; mix; knot; join; take; provide; utter; compose.”
- anulbaṇaṃ ← an
- [adverb]
- “not.”
- anulbaṇaṃ ← ulbaṇam ← ulbaṇa
- [noun], accusative, singular, neuter
- “abounding in(p); prevailing; strong; excess.”
- vayata ← ve
- [verb], plural, Present imperative
- “weave.”
- joguvām ← jogū
- [noun], genitive, plural, masculine
- apo ← apaḥ ← apas
- [noun], accusative, singular, neuter
- “work; deed.”
- manur ← manuḥ ← manu
- [noun], nominative, singular, masculine
- “Manu; mantra; Manusmṛti; fourteen; man; manu [word]; Vaivasvata; incantation; sacred text.”
- bhava ← bhū
- [verb], singular, Present imperative
- “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”
- janayā ← janaya ← janay ← √jan
- [verb], singular, Present imperative
- “cause; give birth; produce; beget; generate; originate; create; create; make.”
- daivyaṃ ← daivyam ← daivya
- [noun], accusative, singular, masculine
- “divine; divine; celestial.”
- janam ← jana
- [noun], accusative, singular, masculine
- “people; national; man; relative; jan; Janaloka; person; jana [word]; man; attendant; Jana; foreigner; inhabitant; group.”
सायण-भाष्यम्
हे अग्ने तन्तुं यज्ञं तन्वन् विस्तारयन् रजसः रञ्जनात्मकस्य लोकस्य भानुं भासकमादित्यम् अन्विहि अनुगच्छ। रश्मिद्वारा सूर्यमण्डलं प्रविशेत्यर्थः । किंच ज्योतिष्मतः प्रकाशवतो यज्ञस्य पथः गमनमार्गान् । अथवा ज्योतिष्मतो दीप्तिमतः स्वर्गस्य पथो मार्गान् देवयानान् । रक्ष पालय । कीदृशान्मार्गान् । धिया कर्मणा कृतान् संपादितान् । किंच सोऽग्निः जोगुवां स्तोतॄणाम् अपः । कर्मनामैतत् । क्रियया व्याप्यं कर्म अनुल्बणम् अनतिरिक्तं वयत करोतु । ‘यदेव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिः ’ (तै. सं. ३. ४. ३. ७) इति हि ब्राह्मणम् । स त्वं मनुर्भव मन्तव्यो भव । स्तुत्यो भवेत्यर्थः। किंच दैव्यं जनं देवसंघं जनय उत्पादय । यज्ञाभिगमनवन्तं कुर्वित्यर्थः ॥
भट्टभास्कर-टीका
तन्तुं विस्तारं तन्वन् कुर्वन् तस्य रजसः उदकस्य । हेतौ शता । वृष्ट्यर्थं भानुमादित्यं अन्विहि अनुगच्छ । किं च – ज्योतिष्मतः प्रकाशवतः पथः मार्गान् धिया कृतान् कर्मणा प्रज्ञया वा संपादितान् रक्ष यजमानार्थं पथस्संपादय । तदर्थमस्माकं जोगुवां कर्मसमाप्त्यर्थं त्वरमाणानाम् । पुरीषे गुशब्दः, अत्र तु वेगितायां गतौ वर्तते , यङ्लुगन्तात् क्विप् ।
एवं कुर्वतां संभाव्यमानप्रमादानामस्माकं अपः कर्म अनुल्बणं कर्म वयतेति । उत्पूर्वाद्वनतेः पचाद्यच्, छान्दसो वर्णविकारः उल्बणमिति । किंच - हे वशे मनुः मन्त्री भव । कथम् मन्तव्यम् जनय उत्पादय दैव्यं मानुषं जनम् । ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् । देवाद्यञ् । यजमानो वा उच्यते - मनुर् इव स्रष्टा भव प्रजानाम् । अत्र ब्राह्मणं ‘यदेव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिः’ इति ॥
Wilson
English translation:
“(The gods) spreading out the sacrifice, follow the illuminator of the world (the sun); protect theluminous paths (of the gods) constructed by sacred acts; may Agni render the pious works of the worshipper freefrom defect; become Manu, genitive rate the people of heaven.”
Commentary by Sāyaṇa: Ṛgveda-bhāṣya
Become Manu: be deserving of praise;
Manu =mantavya stutya
Jamison Brereton
Stretching the thread (of the sacrifice), (o Agni,) go following the radiance of the airy realm. Protect the paths of light made by
insightful thought.
(You priests,) weave a work without knots for the ever-praising ones. Become Manu, (o Agni). Generate the divine race.
Griffith
Spinning the thread, follow the region’s splendid light: guard thou the path ways well which wisdom hath prepared.
Weave ye the knotless labour of the bards who sing: be Manu thou, and bring the Heavenly People forth.
Geldner
Deinen Faden weiterspannend geh du dem Lichte des Luftraumes nach; nimm die lichten Pfade, die mit Kunst bereiteten, in acht! Webet ohne Knoten das Werk der Sänger! Sei du Manu, schaffe das göttliche Volk zur Stelle!
Grassmann
Die Fäden spannend geh dem Glanz der Lüfte nach, beschirm die lichten Pfade, die die Andacht geht; ihr Flammen, webet knotenlos der Sänger Werk; sei Manu du, erquick das göttliche Geschlecht.
Elizarenkova
Протягивая нить, иди вслед за светом воздушного пространства!
Обращай внимание на полные света пути, созданные молитвой!
Тките без узлов работу воспевающих!
Стань Ману, породи божественный род!
अधिमन्त्रम् (VC)
- अग्निः सौचीकः
- देवाः
- निचृज्जगती
- निषादः
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (तन्तुं तन्वन्) हे गृहस्थ के कुल-पितृकुल में या गुरुकुल में उत्पन्न या निष्णात विद्वन् ! तू सन्ततिक्रम का शिष्यक्रम का विस्तार करता हुआ या विस्तार करने के हेतु (रजसः-भानुम्-अनु इहि) मनोरञ्जन के या अध्यात्मरञ्जन के परम्परा से प्रसिद्ध ज्ञान का अनुष्ठान कर (धिया कृतान्) कर्म से किये या बुद्धि से किये (ज्योतिष्मतः पथः-रक्ष) बहुत न्याययुक्त मार्गों का पालन कर (जोगुवाम्-अनुल्बणम्-अपः-वयत) उत्तम उपदेश करनेवालों के दोषरहित कर्म को जीवन में बढ़ा (मनुः-भव) मननशील हो (दैव्यं जनं जनय) दिव्यगुणवाले को उत्पन्न कर तथा शिष्य को तैयार कर ॥६॥
ब्रह्ममुनि - भावार्थः
भावार्थभाषाः - मानव को चाहिए श्रेष्ठ सन्तान और श्रेष्ठ शिष्य का विस्तार करे। अपने जीवन में धर्म्य मार्गों का आलम्बन करते हुए मननशील होकर उत्तम गुणयुक्त पुत्र और शिष्य के निर्माण में यत्न करता रहे ॥६॥
ब्रह्ममुनि - पदार्थः
पदार्थान्वयभाषाः - (तन्तुं तन्वन् रजसः-भानुम्-अन्विहि) हे गृहस्थस्य कुले पितृकुले गुरुकुले जातो निष्णातो विद्वन् त्वं सन्ततिक्रमं शिष्यक्रमं विस्तारयन्-विस्तारयितुं मनोरञ्जनस्याध्यात्मरञ्जनस्य भानुं परम्परया प्रसिद्धं ज्ञानमनुगच्छानुतिष्ठ (धिया कृतान्) कर्मणा कृतान् “धीः कर्मनाम” [निघ० २।१] “धीः प्रज्ञानाम” [निघ० ३।९] यद्वा बुद्ध्या कृतान् (ज्योतिष्मतः पथः-रक्ष) बहुन्याययुक्तान् मार्गान् “ज्योतिष्मत्-बहुन्याययुक्तम्” [ऋ० १।१३६।३ दयानन्दः] रक्ष-आचर (जोगुवाम्-अनुल्बणम्-अपः-वयत) भृशमुपदेष्टॄणां दोषरहितं कर्म “अपः कर्मनाम” [निघ० २।१] प्रतानय (मनुः-भव) मननशीलो भव (दैव्यं जनं जनय)दिव्यगुणयुक्तं पुत्रं शिष्यं वा उत्पादय सम्पादय वा ॥६॥
मूलम् (संयुक्तम्)
मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र्वर्णो॒ गात्रा॑णान्ते गात्र॒भाजो॑ भूयास्म ॥ [6]
विश्वास-प्रस्तुतिः
मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र्वर्णः॑ ।
मूलम्
मन॑सो ह॒विर॑सि प्र॒जाप॑ते॒र्वर्णः॑ ।
भट्टभास्कर-टीका
7हविर्जुहोति - मनस इति ॥ ‘मनो वै प्रजापतिः’ इति मनश्शब्देनाभेदात्प्रजापतिरुच्यते प्रजापतेर्हविस्त्वमसीति । तस्मात्प्रजापतेः वर्णः प्रजापतेस्सर्वदेवतामयत्वात् सर्वदेवतास्त्वमसीति स्तुतिः । वक्ष्यति हि ‘सा वा एषा सर्वदेवत्या यदजा’ इति । यद्वा - या वक्ष्यमाणा अस्या देवता अग्न्यादयः तासां प्रजापतिरुपलक्षणः ॥
विश्वास-प्रस्तुतिः
गात्रा॑णान्ते गात्र॒भाजो॑ भूयास्म ॥ [6]
मूलम्
गात्रा॑णान्ते गात्र॒भाजो॑ भूयास्म ॥ [6]
भट्टभास्कर-टीका
8अथास्या अवदानानि प्राश्नाति - गात्राणामिति ॥ त्वदीयानां गात्राणां संबन्धिनो वयं गात्रभाजो भूयास्म त्वत्संबन्धात् पुनरपि कर्मकृतो भूयास्म । यद्वा - अविकलाङ्गा भूयास्मेत्याशास्ते ॥
इति तृतीये चतुर्थे द्वितीयोनुवाकः ॥