विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑ध्यते॒ यस्य॑ ह॒विर॑ति॒रिच्य॑ते॒ सूर्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह॒ बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति
विश्वास-प्रस्तुतिः
वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑ध्यते ।
यस्य॑ ह॒विर॑ति॒रिच्य॑ते ।
सूर्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह ।
मूलम्
वि वा ए॒तस्य॑ य॒ज्ञ ऋ॑ध्यते ।
यस्य॑ ह॒विर॑ति॒रिच्य॑ते ।
सूर्यो॑ दे॒वो दि॑वि॒षद्भ्य॒ इत्या॑ह ।
भट्टभास्कर-टीका
1अथ ‘सूर्यो देवः’ इत्यादीनां मन्त्राणां ब्राह्मणम् - वि वा एतस्येत्यादि ॥ एतस्य यज्ञो व्यृद्ध्यते ऋद्ध्या विहीनः क्रियते यस्य हविरतिरिच्यते । देवताविशेषमुद्दिश्य उपाकृतस्य पशोः गर्भसंभवेन वपाद्याधिक्यमतिरकेः । अतिरेकाद्धविष्ट्वहानिः, तां देवतामतिव्याप्यावस्थितत्वात् । तस्मात्तत्परिहारार्थं ‘सूर्यो देवः’ इति मन्त्रेण तस्या गर्भवपावसां जुहोति ।
विश्वास-प्रस्तुतिः
बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति ।
मूलम्
बृह॒स्पति॑ना चै॒वास्य॑ प्र॒जाप॑तिना च य॒ज्ञस्य॒ व्यृ॑द्ध॒मपि॑ वपति ।
भट्टभास्कर-टीका
बृहस्पतिनेत्यादि । गतम् । व्यृद्धं विहीनं अपि वपति आपूरयति अतिरेकान्निवर्तयति ।
+++( अत्र मूलं किम् )+++
हविष इति । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वेन उदात्तत्वे ‘उदात्तस्वरितयोः’ इति ऋकारस्स्वर्यते ॥
मूलम् (संयुक्तम्)
रक्षाँ॑सि॒ वा ए॒तत्प॒शुँ स॑चन्ते॒ यदे॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न्भव॑ति॒ यस्या॑स्ते॒ हरि॑तो॒ गर्भ॒ इत्या॑ह देव॒त्रैवैना॑ङ्गमयति॒ रक्ष॑सा॒मप॑हत्यै
विश्वास-प्रस्तुतिः
रक्षाँ॑सि॒ वा ए॒तत्प॒शुँ स॑चन्ते ।
मूलम्
रक्षाँ॑सि॒ वा ए॒तत्प॒शुँ स॑चन्ते ।
भट्टभास्कर-टीका
2रक्षांसीत्यादि ॥ पशुं सचन्ते समवयन्ति समनुप्रविशन्ति एतत् एतेन हेतुना । केन? यत् येन एकदेवत्स आलब्धः एकस्यै देवतायै आलब्धः । देवतान्तात्तादर्थ्ये यत् ।
विश्वास-प्रस्तुतिः
यदे॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न्भव॑ति ।
यस्या॑स्ते॒ हरि॑तो॒ गर्भ॒ इत्या॑ह ।
मूलम्
यदे॑कदेव॒त्य॑ आल॑ब्धो॒ भूया॒न्भव॑ति ।
यस्या॑स्ते॒ हरि॑तो॒ गर्भ॒ इत्या॑ह ।
भट्टभास्कर-टीका
भूयान् भवति अतिरिच्यते, तस्मात् ‘यस्याः’ इत्यनुमन्त्रणेन एतां वशां देवत्रैव देवानेव गमयति । ‘देवैस्समजीगमम्’ इति दर्शनात् ।
विश्वास-प्रस्तुतिः
दे॒व॒त्रैवैना॑ङ्गमयति॒ रक्ष॑सा॒मप॑हत्यै ।
मूलम्
दे॒व॒त्रैवैना॑ङ्गमयति॒ रक्ष॑सा॒मप॑हत्यै ।
भट्टभास्कर-टीका
‘देवमनुष्य’ इत्यादिना त्रप्रत्ययः । तत् रक्षसामपहत्यै देवगतत्वात्पशौ निराशानि रक्षांसि भवन्ति ॥
मूलम् (संयुक्तम्)
आ व॑र्तन वर्त॒येत्या॑ह [1] ब्रह्म॑णै॒वैन॒मा व॑र्तयति
विश्वास-प्रस्तुतिः
आ व॑र्तन वर्त॒येत्या॑ह ।
मूलम्
आ व॑र्तन वर्त॒येत्या॑ह ।
भट्टभास्कर-टीका
3आवर्तनेत्यादि ॥ गर्भे विस्रस्यमाने अनुमन्त्रणमिदम्, यथा यजुर्वदति निवृत्तमानं तदनुमन्त्रणमन्त्रोयम् ।
विश्वास-प्रस्तुतिः
ब्रह्म॑णै॒वैन॒मा व॑र्तयति ।
मूलम्
ब्रह्म॑णै॒वैन॒मा व॑र्तयति ।
भट्टभास्कर-टीका
एवं ब्रह्मणा परमात्मनैवैनमावर्तयति जन्मान्तरे । ‘ताभिरावर्तय’ इति दर्शनात् । यद्वा - ब्रह्मणा मन्त्रेणैनं जनयति ॥
मूलम् (संयुक्तम्)
वि ते॑ भिनद्मि तक॒रीमित्या॑ह यथाय॒जुरे॒वैतत्
विश्वास-प्रस्तुतिः
वि ते॑ भिनद्मि तक॒रीमित्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
मूलम्
वि ते॑ भिनद्मि तक॒रीमित्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
4वि ते भिनद्मीत्यादि ॥ उल्बाद्गर्भे विस्रस्यमानेऽनुमन्त्रणम् । यथा यजुर्वदति तदनुरूपमेवैतद्भवति । ‘बहिस्ते अस्तु बालिति’ परमात्मभावेन पशुप्राणस्य संपत्तिरस्त्विति । यजुर्वेदाम्नातत्वात् यजुः, मन्त्रमात्राभिधानं वा ॥
मूलम् (संयुक्तम्)
उ॑रुद्र॒प्सो वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह प्र॒जा वै प॒शव॒ इन्दुᳶ॑ प्र॒जयै॒वैन॑म्प॒शुभि॒स्सम॑र्धयति
विश्वास-प्रस्तुतिः
उ॒रु॒द्र॒प्सो वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह ।
प्र॒जा वै प॒शव॒ इन्दुᳶ॑ प्र॒जयै॒वैन॑म्प॒शुभि॒स्सम॑र्धयति ।
मूलम्
उ॒रु॒द्र॒प्सो वि॒श्वरू॑प॒ इन्दु॒रित्या॑ह ।
प्र॒जा वै प॒शव॒ इन्दुᳶ॑ प्र॒जयै॒वैन॑म्प॒शुभि॒स्सम॑र्धयति ।
भट्टभास्कर-टीका
5उरुद्रप्स इत्यादि ॥ उरु शुक्रं यतोयं गर्भस्संजातः । तत्प्रभवत्वात् प्रजाः पशवश्च इन्दुः । तस्मादनेन गर्भावदानहोमेन एनं यजमानं प्रजया पशुभिश्च समृद्धं करोति ॥
मूलम् (संयुक्तम्)
दिवव्ँ॒ वै य॒ज्ञस्य॒ व्यृ॑द्धङ्गच्छति पृथि॒वीमति॑रिक्त॒न्तद्यन्न श॒मये॒दार्ति॒मार्च्छे॒द्यज॑मानो म॒ही द्यौᳶ पृ॑थि॒वी च॑ न॒ इति॑ [2] आ॒ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒ञ्चाति॑रिक्तञ्च शमयति॒ नार्ति॒मार्च्छ॑ति॒ यज॑मानः
विश्वास-प्रस्तुतिः
दिवव्ँ॒ वै य॒ज्ञस्य॒ व्यृ॑द्धङ्गच्छति ।
पृ॒थि॒वीमति॑रिक्तम् ।
मूलम्
दिवव्ँ॒ वै य॒ज्ञस्य॒ व्यृ॑द्धङ्गच्छति ।
पृ॒थि॒वीमति॑रिक्तम् ।
भट्टभास्कर-टीका
6दिवमित्यादि ॥ यज्ञस्य व्यृद्धं व्यृद्धदोषः दिवं गच्छति दिविस्थान् पीडयति, अतिरिक्तदोषः पृथिवीस्थान् बाधते । पूर्ववद्गतेः स्वरः ।
विश्वास-प्रस्तुतिः
तद्यन्न श॒मये॒दार्ति॒मार्च्छे॑त् ।
मूलम्
तद्यन्न श॒मये॒दार्ति॒मार्च्छे॑त् ।
भट्टभास्कर-टीका
तद्यदित्यादि । गतम् । आर्छेत् गच्छेत् । ‘उपसर्गादृति धातौ’ इति वृद्धिः ।
विश्वास-प्रस्तुतिः
यज॑मानो म॒ही द्यौᳶ पृ॑थि॒वी च॑ न॒ इत्या॑ह ।
मूलम्
यज॑मानो म॒ही द्यौᳶ पृ॑थि॒वी च॑ न॒ इत्या॑ह ।
भट्टभास्कर-टीका
मही द्यौरित्यादि । आहवनीयस्योत्तरार्धे भस्मना गर्भस्य अभिवासनमन्त्रोयम् । अनेन मन्त्रेण अस्मिन् क्रियमाणे यज्ञस्य दोषद्वयं द्यावापृथिवीभ्यां शमयति । ‘इमं यज्ञं मिमिक्षताम्’ इति सेचनाभिधानसामर्थ्यापादनम् ।
विश्वास-प्रस्तुतिः
द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒ञ्चाति॑रिक्तञ्च शमयति ।
मूलम्
द्यावा॑पृथि॒वीभ्या॑मे॒व य॒ज्ञस्य॒ व्यृ॑द्ध॒ञ्चाति॑रिक्तञ्च शमयति ।
भट्टभास्कर-टीका
‘दिवो द्यावा’ इति द्यावादेशः, ‘देवताद्वन्द्वे च’ इत्याद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः
नार्ति॒मार्च्छ॑ति॒ यज॑मानः ।
मूलम्
नार्ति॒मार्च्छ॑ति॒ यज॑मानः ।
भट्टभास्कर-टीका
ततो न यजमान आर्तिं गच्छति । पूर्ववद्वृद्धिः ॥
मूलम् (संयुक्तम्)
भस्म॑ना॒भि समू॑हति स्व॒गाकृ॑त्या॒ अथो॑ अ॒नयो॒र्वा ए॒ष गर्भो॒ऽनयो॑रे॒वैन॑न्दधाति
विश्वास-प्रस्तुतिः
भस्म॑ना॒ऽभि समू॑हति स्व॒गाकृ॑त्यै ।
मूलम्
भस्म॑ना॒ऽभि समू॑हति स्व॒गाकृ॑त्यै ।
भट्टभास्कर-टीका
7भस्मनेत्यादि ॥ स्वगाकृत्यै कथं नाम द्यावापृथिवीभ्यां गर्भोयमात्मसात्क्रियते इति भस्मना छादयति । स्वगा[ग]शब्दाच्छान्दसो डाच्, ‘ऊर्यादिच्विडाचश्च’ इति गतित्वात् ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
अथो॑ अ॒नयो॒र्वा ए॒ष गर्भो॒ऽनयो॑रे॒वैन॑न्दधाति ।
मूलम्
अथो॑ अ॒नयो॒र्वा ए॒ष गर्भो॒ऽनयो॑रे॒वैन॑न्दधाति ।
भट्टभास्कर-टीका
किंचेत्याह - अथो अपिच अनयोर्द्यावापृथिव्योरेष गर्भः यो वशायाः एतत्प्रभवत्वात् । तस्मादनयोरेवैनं स्थापयति अनेन अभिवासनेन ॥
मूलम् (संयुक्तम्)
यद॑व॒द्येदति॒ तद्रे॑चये॒द्यन्नाव॒द्येत्प॒शोराल॑ब्धस्य॒ नाव॑ द्येत्पु॒रस्ता॒न्नाभ्या॑ अ॒न्यद॑व॒द्येदु॒परि॑ष्टाद॒न्यत्पु॒रस्ता॒द्वै नाभ्यै॑ [3] प्रा॒ण उ॒परि॑ष्टादपा॒नो यावा॑ने॒व प॒शुस्तस्याव॑ द्यति
विश्वास-प्रस्तुतिः
यद॑व॒द्येदति॒ तद्रे॑चयेत् ।
मूलम्
यद॑व॒द्येदति॒ तद्रे॑चयेत् ।
भट्टभास्कर-टीका
8यदवद्येदित्यादि ॥ हृदयादि यदवद्येत् तद्धविरतिरेचयेत् ।
विश्वास-प्रस्तुतिः
यन्नाव॒द्येत्प॒शोराल॑ब्धस्य॒ नाव॑द्येत् ।
मूलम्
यन्नाव॒द्येत्प॒शोराल॑ब्धस्य॒ नाव॑द्येत् ।
भट्टभास्कर-टीका
अतिरेकदोषप्रसंगतः ततो यज्ञः व्यृद्धस्स्यात्, तद्दोषपरिजिहीर्षया यत् नावद्येत् पशोरालब्धस्य हृदयाद्यवदानं न कृतं स्यात् ततो हविरभावात् यज्ञ एव न निर्वर्त्यते ।
विश्वास-प्रस्तुतिः
पु॒रस्ता॒न्नाभ्या॑ अ॒न्यद॑व॒द्येदु॒परि॑ष्टाद॒न्यत् ।
मूलम्
पु॒रस्ता॒न्नाभ्या॑ अ॒न्यद॑व॒द्येदु॒परि॑ष्टाद॒न्यत् ।
भट्टभास्कर-टीका
एवमुभयथाऽपि दोषसंभवे कथं कर्तव्यमित्याह - पुरस्तादित्यादि । नाभ्याः पुरस्ताद्गर्भस्यैकस्यावदानमवद्येत्, उपरिष्टाच्चैकम् । ‘एकान्याभ्याम्’ इत्युपसंख्यानान्न निहन्यते ।
विश्वास-प्रस्तुतिः
पु॒रस्ता॒द्वै नाभ्यै॑ प्रा॒णः ,+ उ॒परि॑ष्टादपा॒नः , + यावा॑ने॒व प॒शुस्तस्याव॑ द्यति ।
मूलम्
पु॒रस्ता॒द्वै नाभ्यै॑ प्रा॒णः ,+ उ॒परि॑ष्टादपा॒नः , + यावा॑ने॒व प॒शुस्तस्याव॑ द्यति ।
भट्टभास्कर-टीका
हेतुं चाह - पुरस्ताद्वा इत्यादि । तिरश्चां हि एवं प्राणापानौ वर्तेते । अन्येषां तु पुरस्तात् प्राणः अवाङपानः । तस्मादेवं क्रियमाणे यावान् पशुर्भवति तस्यावद्यति प्राणापानवृत्त्त्याश्रयत्वात्पशोः । एवं ह्यवत्तं च भवति, हृदयाद्यवदानाभावादनवत्तं च । तस्माद्यथोक्तदोषप्रसंग इति ॥
मूलम् (संयुक्तम्)
विष्ण॑वे शिपिवि॒ष्टाय॑ जुहोति॒ यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते॒ यᳶ प॒शोर्भू॒मा या पुष्टि॒स्तद्विष्णु॑श्शिपिवि॒ष्टोऽति॑रिक्त ए॒वाति॑रिक्तन्दधा॒त्यति॑रिक्तस्य॒ शान्त्यै
विश्वास-प्रस्तुतिः
विष्ण॑वे शिपिवि॒ष्टाय॑ जुहोति ।
मूलम्
विष्ण॑वे शिपिवि॒ष्टाय॑ जुहोति ।
भट्टभास्कर-टीका
9विष्णव इत्यादि ॥ शिपयो रश्मयः, तत्र प्रविष्टः शिपिविष्टः, विष्णुरादित्यः, तस्मै हविर्जुहोति ।
विश्वास-प्रस्तुतिः
यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते ।
यᳶ प॒शोर्भू॒मा या पुष्टि॒स्तद्विष्णु॑श्शिपिवि॒ष्टः ।
मूलम्
यद्वै य॒ज्ञस्या॑ति॒रिच्य॑ते ।
यᳶ प॒शोर्भू॒मा या पुष्टि॒स्तद्विष्णु॑श्शिपिवि॒ष्टः ।
भट्टभास्कर-टीका
गर्भावदाने हेतुमाह - यद्वा - इत्यादि । यदेव यज्ञस्य हविरतिरिच्यते गर्भाधिक्यात् यो वा पशोर्भूमा बहुत्वं हविराधिक्यहेतुः, या च पुष्टिः पशोर्गर्भस्य चाभिवृद्धिः तत्सर्वमादित्याधीनमित्यर्थः; तद्गत्यधीनत्वात्सर्वप्रवृत्तीनाम् ।
विश्वास-प्रस्तुतिः
अति॑रिक्त ए॒वाति॑रिक्तन्दधाति ।
अति॑रिक्तस्य॒ शान्त्यै॑ ।
मूलम्
अति॑रिक्त ए॒वाति॑रिक्तन्दधाति ।
अति॑रिक्तस्य॒ शान्त्यै॑ ।
भट्टभास्कर-टीका
तस्मादेवं क्रियमाणे अतिरेकहोमे अतिरिक्त एव अतिरिक्तं स्थापितं भवति, अतिरेकदोषस्य शान्त्यै भवतीति ॥
मूलम् (संयुक्तम्)
अ॒ष्टाप्रू॒ड्ढिर॑ण्य॒न्दक्षि॑णा॒ऽष्टाप॑दी॒ ह्ये॑षात्मा न॑व॒मᳶ प॒शोराप्त्या॑ अन्तरको॒श उ॒ष्णीषे॒णावि॑ष्टितम्भवत्ये॒वमि॑व॒ हि प॒शुरुल्ब॑मिव॒ चर्मे॑व माँ॒समि॒वास्थी॑व॒ यावा॑ने॒व प॒शुस्तमा॒प्त्वाव॑ रुन्द्धे॒ यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिᳵ क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान्भवति ॥ [4]
विश्वास-प्रस्तुतिः
अ॒ष्टाप्रू॒ड्ढिर॑ण्य॒न्दक्षि॑णा ।
अ॒ष्टाप॑दी॒ ह्ये॑षात्मा न॑व॒मᳶ प॒शोराप्त्यै॑ ।
मूलम्
अ॒ष्टाप्रू॒ड्ढिर॑ण्य॒न्दक्षि॑णा ।
अ॒ष्टाप॑दी॒ ह्ये॑षात्मा न॑व॒मᳶ प॒शोराप्त्यै॑ ।
भट्टभास्कर-टीका
10 अष्टाप्रूडित्यादि ॥ अष्टाप्रूडष्टफलकमित्याचार्याः । अष्टबिन्दुकमित्येके । अष्टौ निष्कमित्यपरे । अष्टापदी ह्येषा वशा प्रजा पदैस्सह । तस्मादात्मना नवमेन सहायवान् पशुस्तस्य आप्त्यै भवति ।
विश्वास-प्रस्तुतिः
अ॒न्त॒र॒को॒श उ॒ष्णीषे॒णावि॑ष्टितम्भवति ।
मूलम्
अ॒न्त॒र॒को॒श उ॒ष्णीषे॒णावि॑ष्टितम्भवति ।
भट्टभास्कर-टीका
अष्टाप्रूढ्ढिरण्यम् । तच्चान्तरकोशे उष्णीषेणाविष्टितं भवति । छान्दसो वर्णवीकारः । अत्रैवं कर्तव्यम् - इदमष्टाप्रुड्ढिरण्यं वाससा अपनह्य उष्णीषेण विगृध्येदभ्रे कोशे अवधाय महति कोशे अवदधाति । एतच्च कोशमिश्रमध्वर्यवे देयमिति ।
विश्वास-प्रस्तुतिः
ए॒वमि॑व॒ हि प॒शुरुल्ब॑मिव॒ चर्मे॑व माँ॒समि॒वास्थी॑व ।
मूलम्
ए॒वमि॑व॒ हि प॒शुरुल्ब॑मिव॒ चर्मे॑व माँ॒समि॒वास्थी॑व ।
भट्टभास्कर-टीका
एवमिव हि पशुर्भवति । कथमिव? आह - उल्बमिवेत्यादि । कोशे चतुष्टयमुल्बादिचतुष्टयस्थानीयमस्येति ।
विश्वास-प्रस्तुतिः
यावा॑ने॒व प॒शुस्तमा॒प्त्वाव॑ रुन्द्धे।
मूलम्
यावा॑ने॒व प॒शुस्तमा॒प्त्वाव॑ रुन्द्धे।
भट्टभास्कर-टीका
यावानित्यादि । यावानन्यूतातिरिक्तः पृशुः तमाप्त्वा वशायागफलमवरुन्धे ।
विश्वास-प्रस्तुतिः
यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिᳵ क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान्भवति ॥ [4]
मूलम्
यस्यै॒षा य॒ज्ञे प्राय॑श्चित्तिᳵ क्रि॒यत॑ इ॒ष्ट्वा वसी॑यान्भवति ॥ [4]
भट्टभास्कर-टीका
कः? यस्यैषा यज्ञे प्रायश्चित्तिः क्रियते । वशाया गर्भनिरीक्षणे इष्ट्वा च वसीयान् भवति वसुमत्तरो भवति, न केवलं वशायागफलभाग्येव, अपि तु वसीयांश्च भवतीति प्राय इति साकल्यस्य न्यूनत्वमुच्यते, चित्तिस्तद्विषयज्ञानं, तद्दोषापनोदनं यत्क्रियते तत्प्रायश्चित्तम् । दासीभारादिदं द्रष्टव्यम् । वसुमच्छब्दादीयसुनि ‘विन्मतोः’ इति लुक्, ‘टेः’ इति टिलोपः ॥
इति तृतीये चतुर्थे प्रथमोनुवाकः ॥