१-५ त्रिष्टुप्
विश्वेदेवा ऋषयः
विश्वास-प्रस्तुतिः
ए॒तय्ँयुवा॑न॒म्परि॑ वो ददामि॒ तेन॒ क्रीड॑न्तीश्चरत प्रि॒येण॑ ।
मा न॑श्शाप्त ज॒नुषा॑ सुभागा रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ।
मूलम्
ए॒तय्ँयुवा॑न॒म्परि॑ वो ददामि॒ तेन॒ क्रीड॑न्तीश्चरत प्रि॒येण॑ ।
मा न॑श्शाप्त ज॒नुषा॑ सुभागा रा॒यस्पोषे॑ण॒ समि॒षा म॑देम ।
भट्टभास्कर-टीका
1अथर्षभे जीर्णे गोष्वन्यं जीर्णादृषभमपिसृजति - एतं युवानमिति त्रिष्टुभा ॥ हे गावः एतं युवानं जीर्णादन्यमृषभं वो युष्मभ्यं परिददामि, तेनानेन क्रीडन्तीः क्रीडन्त्यः चरत वर्तध्वम्, प्रियेण इष्टेन युवत्वात् नः अस्मान् मा शाप्त, अपि त्वनुगृह्णीत तरुणं ददातीति । हे जनुषा सुभागाः कल्याण्यः । यद्वा - सुभगाः सुष्ठु भाग्यवत्यः । प्रकृत्यादितृतीया, तेनाकारकत्वात्पराङ्गवद्भावाभावः; ‘षष्ठ्यामन्त्रितकारकवचनम्’ इत्युक्तत्वात् । ततश्च युष्मत्प्रसादात् रायो धनस्य पोषेण पुष्ट्या इषा अन्नेन च वयं संमदेम मोदेमहि । माद्यतेः व्यत्ययेन शप् । रायष्षष्ठ्यास्सत्वोदात्तत्वे उक्ते ॥
विश्वास-प्रस्तुतिः
नमो॑ महि॒म्न उ॒त चक्षु॑षे ते॒ मरु॑ताम्पित॒स्तद॒हङ्गृ॑णामि ।
अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्ट॑न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् ।
मूलम्
नमो॑ महि॒म्न उ॒त चक्षु॑षे ते॒ मरु॑ताम्पित॒स्तद॒हङ्गृ॑णामि ।
अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्ट॑न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् ।
भट्टभास्कर-टीका
2इतरं त्वाष्ट्रं वैन्द्रं वा प्राजापत्यं वा पशुमालभते एतानि साङ्गस्य देवताः । तस्योपाकरणमन्त्रः - नमो महिम्न इति त्रिष्टुप् ॥ आदित्यात्मना स्तूयते - नमो महिम्ने महते उत अपि च चक्षुषे सर्वेषां दर्शनभूताय हे मरुतां रश्मीनां पितः पालयितः । षष्ठ्यामन्त्रितसमुदायस्य पराङ्गवद्भावात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । नमस्कृत्य त्वां तदहं गृणामि तत्तुभ्यं ब्रवीमि, तच्च त्वमनुमन्यस्व अनुजानीहि । किं ब्रवीषीति चेदाह – सुयजा शोभनयागस्य कर्त्राऽनेन प्रवृद्धेन यजाम इदमाशास्महे । सुपूर्वाद्यजतेर्विचि कृदुत्तरपदप्रकृतिस्वरत्वम् । सुयट् शोभनयष्टृकः, ‘सुयजोर्ङ्वनिप्’ इति बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । कीदृशमस्य सुयट्त्वम्? यत्त्वया प्रार्थ्यते इति चेत् जुष्टं प्रियं देवानामिदमस्तु हव्यम्, एतत्ते ब्रवीमीति एतदनुमन्यस्व, एतस्मै प्रयोजनाय नमस्कुर्म इति । ‘नित्यं मन्त्रे’ इति जुष्टशब्द आद्युदात्तः । हवमर्हतीति, ‘छन्दसि च’ इति यः ॥
विश्वास-प्रस्तुतिः
दे॒वाना॑मे॒ष उ॑पना॒ह आ॑सीद॒पाङ्गर्भ॒ ओष॑धीषु॒ न्य॑क्तः ।
सोम॑स्य द्र॒प्सम॑वृणीत पू॒षा [28] बृ॒हन्नद्रि॑रभव॒त्तदे॑षाम् ।
मूलम्
दे॒वाना॑मे॒ष उ॑पना॒ह आ॑सीद॒पाङ्गर्भ॒ ओष॑धीषु॒ न्य॑क्तः ।
सोम॑स्य द्र॒प्सम॑वृणीत पू॒षा [28] बृ॒हन्नद्रि॑रभव॒त्तदे॑षाम् ।
भट्टभास्कर-टीका
3वपां जुहोति - देवानामिति त्रिष्टुभा ॥ देवानां इन्द्रादीनां इन्द्रियाणां वा एषः गौः उपनाहः उपनह्यते अनेनेत्युपनाहः बन्धनः । घञ्, थाथादिनोत्तरपदान्तोदात्तत्वम् । उपकारको देवानामास्तीत् अस्तु । छान्दसो लङ् । कथमित्याह – अपां गर्भः आदित्यरश्मिषु गर्भीभूतः अपां राशिः ओषधीषु ओषधिनिमित्तं न्यक्तः वृष्ट्या न्यक्पातितः सम्यग्यागनिवृत्तिहेतुत्वादयं वृष्ट्युत्पादनेन ओषधीनामभिप्रवृत्तिनिमित्तत्वात् देवानामुपनाहो भवतिति । कथं पुनरपां गर्भभाव इत्याह - सोमस्यान्नस्य पृथिव्यां द्रप्सं रसं अवृणीत पूषा सविता रश्मिभिरात्तवान् । यद्वा - सोमस्य सलिलात्मनः चन्द्रस्य द्रप्समेकदेशं पार्थिवं बलमाप्तवान् पूषा । तत एषां द्रप्सानां रसानां तद्बृन्दं गर्भीभूय रश्मिषु चिरं स्थितं बृहत् महान् अद्रिर्मेघोभवत् भवति । स एव लङ् । स एव वृष्ट्या पृथिर्वीं प्राप्नोति, तत ओषधयस्संपद्यन्ते ताश्च देवता धारयन्तीति ॥
विश्वास-प्रस्तुतिः
पि॒ता व॒त्साना॒म्पति॑रघ्नि॒याना॒मथो॑ पि॒ता म॑ह॒ताङ्गर्ग॑राणाम् ।
व॒त्सो ज॒रायु॑ प्रति॒धुक्पी॒यूष॑ आ॒मिक्षा॒ मस्तु॑ घृ॒तम॑स्य॒ रेतः॑ ।
मूलम्
पि॒ता व॒त्साना॒म्पति॑रघ्नि॒याना॒मथो॑ पि॒ता म॑ह॒ताङ्गर्ग॑राणाम् ।
व॒त्सो ज॒रायु॑ प्रति॒धुक्पी॒यूष॑ आ॒मिक्षा॒ मस्तु॑ घृ॒तम॑स्य॒ रेतः॑ ।
भट्टभास्कर-टीका
4अथास्य हविर्जुहोति - पिता वत्सानामिति त्रिष्टुभा ॥ पिता जनको वत्सानामर्भकाणामयमृषभः अघ्नियानां गवां पतिः पाता जनयिता रमयिता च । अथो अपि च महतां गर्गराणां महाशब्दानां महोक्षाणाम् । यद्वा - दध्नः पूर्णानां मथ्यमानानां महारवाणां भाजनानां पिता उत्पादयिता । गृणातेर्यङ्लुगन्तात्पचाद्यचि छान्दसमाद्युदात्तत्वम् । किंच - वत्सो गर्भस्थः, जरायु तदाधारं, प्रतिधुक् दोहनस्थं दुग्धं, पीयूष ऊधस्स्थं, आमिक्षा आतञ्चनवत्, मस्तु नवनीतं, घृतं तदेवाग्रिपाकवत्, एतानि सर्वाण्यस्य रेतः रेतसः परिणामः उपलक्षणत्वाद्दधितक्रादीन्यपि । एवं महाभागोयं देवांस्तर्पयत्विति ॥
विश्वास-प्रस्तुतिः
त्वाङ्गावो॑ऽवृणत रा॒ज्याय॒ त्वाँ ह॑वन्त म॒रुत॑स्स्व॒र्काः ।
वर्ष्म॑न्क्ष॒त्रस्य॑ क॒कुभि॑ शिश्रिया॒णस्ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ।
मूलम्
त्वाङ्गावो॑ऽवृणत रा॒ज्याय॒ त्वाँ ह॑वन्त म॒रुत॑स्स्व॒र्काः ।
वर्ष्म॑न्क्ष॒त्रस्य॑ क॒कुभि॑ शिश्रिया॒णस्ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ।
भट्टभास्कर-टीका
5गोश्वपिसृष्टमपियन्तमनुमन्त्रयते - त्वां गाव इति त्रिष्टुभा । अपिसर्जनादनन्तरमिदं द्रष्टव्यम् ॥ हे वृषभ त्वां गावोऽवृणत वृतवत्यः राज्याय राजभावाय राजा भूयादयं न इति । पुरोहितादित्वाद्यक् ।
किञ्च - त्वां हवन्त हवन्ते इत आरभ्य त्वामेवाह्वयन्ति मरुतः स्वर्काः शोभनगमनाः शोभनस्तुतयो वा । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - मरुतः देवाः स्वर्काः सुपूजनाः त्वया वृद्ध्युत्पादनाय षडावृत्त्याऽऽह्वयन्ते । छान्दसे लङि ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । स त्वं क्षत्रस्य बलस्य वर्ष्मन् वर्ष्मणि उच्छ्राये ककुभि प्रधाने शिश्रियाणः श्रयमाणः स्थितः । शपः श्लुः । यद्वा - क्षत्रस्य राजन्यस्य वर्ष्मन् महति ककुभि प्रधाने । किंपुनस्तत्? बलं रक्षकत्वं वा, तत्र स्थितो ह्यसि त्वम् । यत एवं ततो नोस्माकं उग्रः उद्गूर्णस्त्वं वसूनि धनानि गोरूपाणि विभज विविधं भज रक्षकभावेन गोषु वर्तस्वेत्यर्थः । ‘द्व्यचोतस्तिङः’ इति दीर्घत्वम् ॥
मूलम् (संयुक्तम्)
व्यृ॑द्धेन॒ वा ए॒ष प॒शुना॑ यजते॒ यस्यै॒तानि॒ न क्रि॒यन्त॑ ए॒ष ह॒ त्वै समृ॑द्धेन यजते॒ यस्यै॒तानि॑ क्रि॒यन्ते॑ ॥ [29]
विश्वास-प्रस्तुतिः
व्यृ॑द्धेन॒ वा ए॒ष प॒शुना॑ यजते ।
यस्यै॒तानि॒ न क्रि॒यन्ते॑ ।
ए॒ष ह॒ त्वै समृ॑द्धेन यजते ।
यस्यै॒तानि॑ क्रि॒यन्ते॑ ॥
मूलम्
व्यृ॑द्धेन॒ वा ए॒ष प॒शुना॑ यजते ।
यस्यै॒तानि॒ न क्रि॒यन्ते॑ ।
ए॒ष ह॒ त्वै समृ॑द्धेन यजते ।
यस्यै॒तानि॑ क्रि॒यन्ते॑ ॥
भट्टभास्कर-टीका
6अथात्रैव ब्राह्मणम् - व्यृद्धेनेति ॥ यस्य यजमानस्यैतानि कर्माणि ‘एतं युवानम्’ इति मन्त्रसाध्यानि न क्रियन्ते, एषः व्यृद्धेन ऋद्धिहीनेन पशुना यजते । तत्करणे तु पशुयागस्समृद्धिहेतुरिति । उभयत्रापि ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् । पूर्वत्र ‘उदात्तस्वरितयोर्यणः’ इति संहितायामृकारस्स्वर्यते । संहितायां तुशब्दस्यान्त्यलोपश्छान्दसः । ततःपरस्य वा वैशब्दस्यादिलोपः ॥
इति तृतीये तृतीये नवमोनुवाकः ॥