सायणो ऽत्र।
परिचयः
अत्र सोमयागप्रशंसा। प्रसङ्गिन तत्क्रियाकलापवर्णनम्।
पाठः
दे॒वा वै यद् य॒ज्ञेऽकु॑र्वत॒, तदसु॑रा अकुर्वत।
ते दे॒वा ए॒तम् +++(सोमाख्यम्)+++ म॑हाय॒ज्ञम् अ॑पश्य॒न्।
तम् अ॑तन्वत, अग्निहो॒त्रव्ँ व्र॒तम् अ॑कुर्वत।
तस्मा॒द् +++(क्षीरपानेन)+++ द्विव्र॑तस् स्या॒द्, द्विर् ह्य॑ग्निहो॒त्रञ् जुह्व॑ति।
पौर्णमा॒सय्ँ य॒ज्ञम् अ॑ग्नीषो॒मीय॑म् प॒शुम॑कुर्वत।
दा॒र्श्यय्ँ य॒ज्ञम् आ॑ग्ने॒यम् प॒शुम॑कुर्वत।
वैश्वदे॒वम् प्रा॑तस्सव॒नम् अ॑कुर्वत।
वरुणप्रघा॒सान् माध्य॑न्दिनँ॒ सव॑नँ।
साकमे॒धान् पि॑तृय॒ज्ञन् त्र्य॑म्बकाँस् तृतीयसव॒नम॑कुर्वत।
तमे॑षा॒मसु॑रा य॒ज्ञम् अ॒न्ववा॑जिगाँस॒न्। तन् नान्ववा॑य॒न्। ते॑ऽब्रुवन्न् “अध्वर्त॒व्या+++(=अहिंस्या)+++ वा इ॒मे दे॒वा अ॑भूव॒न्नि"ति॑।
तद॑ध्व॒रस्या॑ध्वर॒त्वन्, ततो॑ दे॒वा अभ॑व॒न् परासु॑रा।
य ए॒वव्ँ वि॒द्वान्त् सोमे॑न॒ यज॑ते॒, भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥ [6]