१ ककुप्, २ उष्णिक् , ३-६, ९-१० त्रिष्टुप्, ७-८ जगती,
विश्वेदेवा ऋषयः ।
विश्वास-प्रस्तुतिः
प्र सो अ॑ग्ने॒ तवो॒तिभि॑स्सु॒वीरा॑भिस्तरति॒ वाज॑कर्मभिः ।
यस्य॒ त्वँ स॒ख्यमावि॑थ ।
मूलम्
प्र सो अ॑ग्ने॒ तवो॒तिभि॑स्सु॒वीरा॑भिस्तरति॒ वाज॑कर्मभिः ।
यस्य॒ त्वँ स॒ख्यमावि॑थ ।
भट्टभास्कर-टीका
1अस्ति त्रैधातवीयेष्टिः । ‘सर्वाणि छन्दांस्येतस्यामिष्ट्यामनूच्यानीत्याहुः’ इति । तस्यां धाय्ये द्वे - प्र सो अग्ने इति प्रथमा ककुबुष्णिक्; द्वितीयस्य पादस्य द्वादशाक्षरत्वात् ॥ हे अग्ने तवोतिभिः रक्षाभिः । ‘ऊतियूति’ इति क्तिन उदात्तत्वं निपात्यते । सुवीराभिः शोभनपुत्राद्यपत्यहेतुभिः । ‘वीरवीर्यौ च’ इत्युत्तरपदाद्युदात्तत्वम् । वाजकर्मभिः वाजस्यान्नस्य साधनानि कर्माणि भवन्ति यासु सतीषु तादृशीभिः त्वत्कर्तृकाभिरूतिभिः प्रतरति प्रकर्षेण तरति सामर्थ्याद्दुःखं संसारदुःखं वा स पुरुषः । कः? यस्य सख्यं समानख्यानतां समानभोजनतां तेन यष्टव्यतां त्वं आविथ आरक्षितवानसि गतवानित्यर्थः । ‘थलि च सेटीडन्तो वा’ इत्याद्युदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
प्र होत्रे॑ पू॒र्व्यव्ँवचो॒ऽग्नये॑ भरता बृ॒हत् ।
वि॒पाञ्ज्योतीँ॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ।
मूलम्
प्र होत्रे॑ पू॒र्व्यव्ँवचो॒ऽग्नये॑ भरता बृ॒हत् ।
वि॒पाञ्ज्योतीँ॑षि॒ बिभ्र॑ते॒ न वे॒धसे॑ ।
भट्टभास्कर-टीका
अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था॑ ति॒स्रस्ते॑ जि॒ह्वा ऋ॑तजात पू॒र्वीः ।
2अथ द्वितीया - प्र होत्र इति परोष्णिक्; तृतीयस्य द्वादशाक्षरत्वात् ॥ होत्रे दैव्यायाग्नये पूर्व्यं ‘पूर्वैः कृतमिनयौ च’ इति यत् । यादृशं पूर्वैः कृतं तादृशं बृहत् महत् वचस्तुतिलक्षणं प्रभरत प्रकर्षेण कुरुत । ‘अन्येषामपि दृश्यते’ इति संहितायां दीर्घत्वम् । अग्निर्विशेष्यते - विपां विविधं रक्षितुं शीलवतां आदित्यचन्द्रग्रहादीनां ज्योतींषि बिभ्रते न बिभ्रत इव महातेजसे वेधसे विधात्रे विश्वस्य । बिभ्रतेश्शतरि ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम्, विपूर्वात्पातेः ‘अन्येषामपि दृश्यते’ इति विचि कृदुत्तरपदप्रकृतिस्वरत्वे आतो लोपे च कृते उदात्तनिवृतिस्वरेणाम उदात्तत्वम् । विदधेरसुनि नब्विषयत्वाभावादुदात्तत्वाभावः ॥
विश्वास-प्रस्तुतिः
ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स्ताभि॑र्नᳶ पाहि॒ गिरो॒ अप्र॑युच्छन् ।
मूलम्
ति॒स्र उ॑ ते त॒नुवो॑ दे॒ववा॑ता॒स्ताभि॑र्नᳶ पाहि॒ गिरो॒ अप्र॑युच्छन् ।
भट्टभास्कर-टीका
3अथ तस्या एव परिधानीया - अग्ने त्रीति त्रिष्टुप् ॥ ‘त्रिवत्या परि दधाति’ इति च ब्राह्मणम् । हे अग्ने ते तव त्री त्रीणि वाजिना अन्नानि, अस्यामेवेष्टौ ‘त्रयः पुरोडाशा भवन्ति’ इत्युक्तत्वात् । यद्वा - सोमौषधिसान्नाय्यात्मना त्रित्वम् । ‘शेश्छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । त्री त्रीणि सधस्था सधस्थानि पृथिव्यन्तरिक्षद्युलोकाः । ‘सधमादस्थयोः’ इति सधादेशः, सांहितिकं षत्वं छान्दसं, सुषामादित्वाद्वा । तिस्रस्ते तव जिह्वाः त्रिष्वपि स्थानेषु और्ववैद्युतादित्यात्मिकाः । हे ऋतजात यज्ञार्थं जात पूर्वीः चिरन्तन्यः चौरादिर्द्रष्टव्यः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । तिस्र इति तिस्र एव तव तनुवः शरीराणि अग्निविद्युदादित्यात्मिकाः तिस्रस्तनवः अन्तस्स्थितस्य देवतात्मनः देववाताः देवैस्सर्वैरपि गताः अनुप्रविष्टाः सर्वदेवतामय इत्यर्थः । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । संभक्ता वा देवैः । परमप्यनुनासिकलोपं बाधित्वा ‘अनुनासिकस्य क्विझलोः’ इति दीर्घत्वं व्यत्ययेन प्रवर्तते, ततोनुनासिकलोपः । ताभिरनन्ताभिः नोस्माकं गिरः स्तुतिलक्षणाः पाहि रक्ष फलवतीः कुरु अप्रयुच्छन् अप्रमादयन् अविच्छेदेन अस्मान् यज्ञेषु प्रवर्तयन् । यद्वा - ताभिरस्मान्पाहि गिरो वा अस्मदीया अप्रयुच्छन्निति । युच्छ प्रमादे । यद्वा - ताभिस्सर्वैः वाजिनादिभिः । नपुंसकस्य शेषे प्राप्ते व्यत्ययेन स्त्रियाश्शेषः ॥
विश्वास-प्रस्तुतिः
सव्ँवा॒ङ्कर्म॑णा॒ समि॒षा [44] हि॒नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य ।
जु॒षेथाय्ँ॑ य॒ज्ञन्द्रवि॑णञ्च धत्त॒मरि॑ष्टैर्नᳶ प॒थिभिᳶ॑ पा॒रय॑न्ता ।
मूलम्
सव्ँवा॒ङ्कर्म॑णा॒ समि॒षा [44] हि॒नो॒मीन्द्रा॑विष्णू॒ अप॑सस्पा॒रे अ॒स्य ।
जु॒षेथाय्ँ॑ य॒ज्ञन्द्रवि॑णञ्च धत्त॒मरि॑ष्टैर्नᳶ प॒थिभिᳶ॑ पा॒रय॑न्ता ।
भट्टभास्कर-टीका
4अथ तस्यामेव पुरोनुवाक्या - सं वामिति त्रिष्टुप् ॥ हे इन्द्राविष्णू कर्मणा शारीरेण प्रणिपातादिना मानसेन भक्त्यादिना वाचिकेन स्तुतिलक्षणेन वां युवां संहिनोमि संगच्छामि । हि गतौ, यद्वा - संप्रीणयामि । हिवि प्रीणने, व्यत्ययेन प्रत्ययः, अकारश्चान्तादेशः । इषा अन्नेन हविर्लक्षणेन संहिनोमीत्येव । किमर्थम् । अस्यापसः कर्मणः पारे पारनिमित्तं, पारस्समाप्तिः, अविघ्नसमाप्त्यर्थम् । ‘षष्ठ्याः पतिपुत्र’ इत्यादिना सत्वम् । युवामपि यज्ञमिमं जुषेथां सेवेथाम् । सेवित्वा च द्रविणं धनमस्माकं धत्तम् । अरिष्टैः अनुपहिंसितैः पथिभिर्मार्गैः नः अस्मान् पारयन्ता पारयन्तौ कर्मणः पारं प्रापयन्तौ । ‘सुपां सुलुक्’ इत्याकारः, पार तीर कर्मसमाप्तौ ॥
विश्वास-प्रस्तुतिः
उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ ।
इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथान्त्रे॒धा स॒हस्रव्ँ॒वि तदै॑रयेथाम् ।
मूलम्
उ॒भा जि॑ग्यथु॒र्न परा॑ जयेथे॒ न परा॑ जिग्ये कत॒रश्च॒नैनोः॑ ।
इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथान्त्रे॒धा स॒हस्रव्ँ॒वि तदै॑रयेथाम् ।
भट्टभास्कर-टीका
5तत्रैव याज्या - उभेति त्रिष्टुप् ॥ हे विष्णो त्वं चेन्द्रश्च युवामुभा उभौ जिग्यथुः सर्वदा जयथ । छान्दसो लिट्, ‘सन्लिटोर्जेः’ इति कुवम् । न कदाचिदपि पराजयेथे अन्येन न जीयेथे । ‘विपराभ्यां जेः’ इत्यात्मनेपदम् । तथाहीत्याह - एनोरिति । एनयोरिन्द्राविष्ण्वोः । एनादेशे कृते व्यत्ययेन ‘ओसि च’ इत्येत्वाभावे अतो गुणे पररूपत्वम् । एनयोर्मध्ये कतरश्चन अन्यतरोपि न पराजिग्ये न पराजयते पराजयं न प्राप्तवान् । पूर्ववदात्मनेपदम् कुत्वं च । कदेत्याह - यत् यदा अपस्पृधेथां तदा उभा जिग्यथुः । ‘अपस्पृधेथामानृचुः’ इति लिङि द्विर्वचनं संप्रसारणं च निपात्यते । यद्वा - यत् यदा अपस्पृधेथां तत् तदा सहस्रं दक्षिणाः त्रेधा व्यैरयेथां त्रेधा सहस्रं व्यभजेथाम् । ‘त्रेधा विभक्तं वै त्रिरात्रे सहस्रम्’ इति । यद्वा - यदर्थं युवां स्पर्धेथे तत्सहस्रं बहुमतं हविः त्रेधा विभजेथाम् ‘त्रयः पुरोडाशा भवन्ति’ इति ॥
विश्वास-प्रस्तुतिः
त्रीण्यायूँ॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।
ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथ॑ [45] भ॒व॒ यज॑मानाय॒ शय्ँयोः ।
मूलम्
त्रीण्यायूँ॑षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी॑रु॒षस॑स्ते अग्ने ।
ताभि॑र्दे॒वाना॒मवो॑ यक्षि वि॒द्वानथ॑ [45] भ॒व॒ यज॑मानाय॒ शय्ँयोः ।
भट्टभास्कर-टीका
6तस्यामेव याज्यास्तिस्रो विकल्प्यन्ते । तत्र प्रथमा त्रिष्टुप् । उत्तरे गायत्र्यौ । हे जातवेदः जातधन जातानां वा वेदितः तव त्रीण्यायूंषि अन्नानि त्रिषु स्थानेषु द्युवियदवनिषु आहुतितोयकाष्ठानि । किंच - हे अग्ने तव तिस्र आजानी आजानयः प्रादुर्भावाः सूर्यविद्युदग्निरूपेण । आङ्पूर्वाज्जनेरिङ् ‘अजादिभ्यः’ इति निप्रत्ययो वा । आत्वं छान्दसं, पूर्वसवर्णदीर्घत्वम् । किंच - उषसश्च तव तिस्र इत्येव त्रिप्रकारा इत्यर्थः । ताभिरनन्ताभिः उषोभिः सर्वैरनुक्रान्तैः आयुरादिभिः । पूर्ववद्व्यत्ययेन स्त्रियाश्शेषः । देवानां अवः तृप्तिं अन्नं वा हविर्लक्ष्णं यक्षि यज संगमय । यजेर्लेटि शपो लुक् । कर्मणर्स्संप्रदानत्वाद्देवानामिति चतुर्थ्यर्थे षष्ठी । विद्वान् तत्प्रकारज्ञः । अथ अनन्तरं च भव यजमानाय शं शमयिता रोगाणामागतानां योः यावयिता पृथक्कर्ता च भयानाम् । शाम्यतेः यौतेश्च विच् । ‘निपातस्य च’ इत्यथशब्दस्य दीर्घत्वम् ॥
विश्वास-प्रस्तुतिः
अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः ।
स त्रीँ॑रेकाद॒शाँ इ॒ह ।
मूलम्
अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे॑ति वि॒दथा॑ क॒विः ।
स त्रीँ॑रेकाद॒शाँ इ॒ह ।
भट्टभास्कर-टीका
7अथ द्वितीया - अग्निस्त्रीणीति ॥ त्रीणि तानि द्युवियदवनिरूपाणि । कीदृशानि? त्रिधातूनि देवानां हविर्धारणपरंपरया सर्वस्य लोकस्य त्रिधात्वात्मकानि । आक्षेति आगच्छति आवसति वा अग्निः । ‘त्रयः पुरोडाशा भवन्ति त्रय इमे लोका एषां लोकानामाप्त्या उत्तरौत्तरो ज्यायान्भवत्येवमिव हीमे लोका यवमयो मध्ये’ इति त्रि प्रकारत्वं तेषाम् । त्रिचक्रादित्वादुत्तरपदाद्युदात्तत्वम्, क्षि निवासगत्योः, शपो लुक् । विदथा विदथेषु यज्ञेषु । विदेरथच्प्रत्ययः, ‘सुपां सुलुक्’ इत्याकारः । स त्रीनप्येकादशान् गणान् इह पृथिवीस्थाने एव तत्तत्स्थानस्थितानाक्षेति च । ‘ये देवा दिव्येकादश स्थ’ इत्युक्तत्वात् ‘त्रिंशत्रयश्च गणिनः’ इति । उभयत्रापि ‘दीर्घादटि समानपादे’ इति रुत्वम्, अनुनासिकश्च । एकादशपूरणा एकादशाः । कविः क्रान्तदर्शनः नोस्माकं अभिप्रेतं साधयत्विति ॥
विश्वास-प्रस्तुतिः
यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तᳶ परि॑ष्कृतः ।
नभ॑न्तामन्य॒के स॑मे ।
मूलम्
यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो॑ दू॒तᳶ परि॑ष्कृतः ।
नभ॑न्तामन्य॒के स॑मे ।
भट्टभास्कर-टीका
8अथ तृतीया - यक्षदिति ॥ यक्षत् यजतु देवान् । यजेर्लेटि ‘सिब्बहुलं लेटि’ इति सिप् । पिप्रयच्च तर्पयतु च नः अस्मान्, सम्यम्यागनिर्वृत्त्या देवांश्च । प्रीञ् तर्पणे, लेटि शपश्श्लुः, ‘लेटोडाटौ’ इत्यडागमः, समानवाक्ये निघातविधानेन पदात्परत्वाभावान्निघाताभावः । विप्रः मेधावी अग्निः दूतः देवानां परिष्कृतः अङ्गीकृतः समवेतो वा । ‘संपर्युपेभ्यः’ इति, ‘समवाये च’ इति सुट्, गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । अन्यके अरयः । कुत्सायां कः । समे सर्वेऽप्यस्मदीयाः नभन्तां नश्यन्तु । नभ हिंसायां, व्यत्ययेन शबात्मनेपदत्वम् । ‘समसिमेत्यनुच्चानि ’ ॥
विश्वास-प्रस्तुतिः
इन्द्रा॑विष्णू दृँहि॒ताश्शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिञ्च॑ श्ञथिष्टम् ।
श॒तव्ँव॒र्चिन॑स्स॒हस्र॑ञ्च सा॒कँ ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ।
मूलम्
इन्द्रा॑विष्णू दृँहि॒ताश्शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तिञ्च॑ श्ञथिष्टम् ।
श॒तव्ँव॒र्चिन॑स्स॒हस्र॑ञ्च सा॒कँ ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ।
भट्टभास्कर-टीका
9पुनरपि हविषः पुरोनुवाक्या, याज्या च विकल्पार्थे - इन्द्राविष्णू इति त्रिष्टुभौ ॥ तत्र पुरोनुवाक्या - हे इन्द्राविष्णू युवां शम्बरस्य असुरस्य नव नवतिं च पुरः नगरीः दृंहिताः दृढाः श्नथिष्टं नाशितवन्तौ । श्नथ हिंसायां, लुङि ‘बहुलं छन्दसि’ इत्यडभावः । किञ्च - तासु वर्चिनः दीप्तिशीलान् शतं सहस्रं च असुरस्य शम्बरस्य वीरान् प्रधानभूतान् साकं एकेन प्रहारेण हथः नाशितवन्तौ युवाम्, अप्रति अप्रतिपक्षौ यथा भवति तथा । ‘नञ्सुभ्याम् इत्युत्तरपदान्तोदात्तत्वम् । एवं महाप्रभावौ युवां अस्मदभिप्रेतं साधयतमिति ॥
विश्वास-प्रस्तुतिः
उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः ।
अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रव्ँवि क्र॑मस्व ॥ [46]
मूलम्
उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा॑ जहति पुत्र दे॒वाः ।
अथा॑ब्रवीद्वृ॒त्रमिन्द्रो॑ हनि॒ष्यन्त्सखे॑ विष्णो वित॒रव्ँवि क्र॑मस्व ॥ [46]
भट्टभास्कर-टीका
10अथ याज्या - उतेति ॥ उत अपि च माता देवमाता महिषं महनीयं महान्तं वा पुत्रं अन्ववेनत् अनुक्रमेण उद्दीपितवती ज्ञापितवतीत्यर्थः । माता विज्ञापितवती स्वयं च ज्ञातवानित्यर्थः । वेनतिः कान्तिकर्मा । अथ माता पुत्रमब्रवीत् - हे पुत्र अमी देवाः त्वां जहति त्यजन्ति त्वया तूष्णीमास्यते इति । अथानन्तरं विदितार्थाभिमुखो भूत्वा पुत्रं हनिष्यन् इन्द्रो विष्णुमब्रवीत् । एवं विदितार्थं वा विष्णुं इन्द्रोब्रवीत् । किमब्रवीत्? हे सखे विष्णो वितरं विक्रान्ततरं विक्रमस्व जहि शिघ्रं शत्रुमिति । ‘अमु च छन्दसि’ इत्यमुप्रत्ययः । तौ वाऽस्मदभिमतं साधयतमिति । एवं शत्रुमारणख्यापनप्रधानमिदं युगळं अभिचरतोभिचर्यमाणस्य वा युक्तमिति लक्ष्यते यथा - ‘त्रैधातवीयेन यजेताभिचरन्’ इत्यादि ॥
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीयकाण्डे द्वितीयप्रश्ने एकादशोनुवाकः ॥
समाप्तश्च प्रपाठकः ॥