विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
उ॒प॒या॒मगृ॑हीतोऽसि वाक्ष॒सद॑सि वा॒क्पाभ्या॑न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णाम्युपया॒मगृ॑हीतोऽस्यृत॒सद॑सि चक्षु॒ष्पाभ्या॑न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णाम्युपया॒मगृ॑हीतोऽसि
विश्वास-प्रस्तुतिः
उ॒प॒या॒मगृ॑हीतोऽसि ।
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि ।
भट्टभास्कर-टीका
1द्विदेवत्यानां प्रतिनिर्ग्रह्यग्रहणमन्त्राः क्रमेण । ऐन्द्रवायवस्य - उपयामगृहीत इति ॥ ‘इयं वा उपयामः’ इत्युक्तं, तयैव गृहीतोसि ।
विश्वास-प्रस्तुतिः
वा॒क्ष॒सद॑सि वा॒क्पाभ्या॑न्त्वा ।
मूलम्
वा॒क्ष॒सद॑सि वा॒क्पाभ्या॑न्त्वा ।
भट्टभास्कर-टीका
वाक्षसदसि वाक् क्षियति निवस्यत्यनयोरिति वाक्षौ इन्द्रवायू, तयोर्ग्रहो वाक्षः । यथोक्तां - ‘वाग्वा ऐन्द्रवायवः’ इति । छान्दसो डः । तद्ग्रहं सीदतीति वाक्षसत् । यद्वा - ‘वचिपचिभ्यो डश्च’ इति वचेरसुन्, णाविति तत्रानुवर्तते वाक्षो वागिन्द्रियं तत्र सीदतीति वाक्षसत्, बर्हिषदादिवत्सलोपः ।
विश्वास-प्रस्तुतिः
क्र॒तु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णामि ।
मूलम्
क्र॒तु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णामि ।
भट्टभास्कर-टीका
ईदृशस्त्वमसि, तं त्वां वाक्पाभ्यां वाचः पालयितृर्भ्यां क्रतुपाभ्यां क्रतोर्यज्ञस्य पालयितृभ्यां अस्य यज्ञस्य ध्रुवस्य अविनाशिफलस्य अध्यक्षाभ्यां स्वामिभ्यां इन्द्रवायुभ्यां गृह्णामि ॥
विश्वास-प्रस्तुतिः
उ॒प॒या॒मगृ॑हीतोऽसि ।
ऋ॒त॒सद॑सि चक्षु॒ष्पाभ्या॑न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णाम्युपया॒मगृ॑हीतोऽसि ।
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि ।
ऋ॒त॒सद॑सि चक्षु॒ष्पाभ्या॑न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णाम्युपया॒मगृ॑हीतोऽसि ।
भट्टभास्कर-टीका
2मैत्रावरुणस्य - ऋतं सत्यं, ‘चक्षुर्वै सत्यम्’ ‘चक्षुर्मैत्रावरुणः’ इति चोक्तम् । मित्रावरुणाभ्यां गृह्णामि । गतमन्यत् ॥
मूलम् (संयुक्तम्)
श्रुत॒सद॑सि श्रोत्र॒पाभ्या॑न्त्वा क्रतु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णामि
विश्वास-प्रस्तुतिः
श्रु॒त॒सद॑सि श्रोत्र॒पाभ्या॑न्त्वा ।
क्र॒तु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णामि ।
मूलम्
श्रु॒त॒सद॑सि श्रोत्र॒पाभ्या॑न्त्वा ।
क्र॒तु॒पाभ्या॑म॒स्य य॒ज्ञस्य॑ ध्रु॒वस्याध्य॑क्षाभ्याङ्गृह्णामि ।
भट्टभास्कर-टीका
3आश्विनस्य - श्रुतं श्रवणम् । ‘श्रोत्रमाश्विनः’ इत्युक्तम् । ताभ्यामश्विभ्यां गृह्णामीति ॥
विश्वास-प्रस्तुतिः
दे॒वेभ्य॑स्त्वा वि॒श्वदे॑वेभ्यस्त्वा॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।
मूलम्
दे॒वेभ्य॑स्त्वा वि॒श्वदे॑वेभ्यस्त्वा॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ।
भट्टभास्कर-टीका
4-6अथ द्विदेवत्यशेषाणामादित्यस्थाल्यामवनयनमन्त्राः क्रमेण - देवेभ्य इत्यादयः ॥ देवाः एकत्र इतरत्र विश्वेदेवाख्यो गणः, अपरत्र सर्वे देवाः ॥
मूलम् (संयुक्तम्)
विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्तँ र॑क्षस्व [42] तन्ते॑ दु॒श्चक्षा॒ माव॑ ख्य॒त्मयि॒ वसुᳶ॑ पुरो॒वसु॑र्वा॒क्पा वाच॑म्मे पाहि
विश्वास-प्रस्तुतिः
विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्तँ र॑क्षस्व ।
तन्ते॑ दु॒श्चक्षा॒ माव॑ ख्यत् ।
मयि॒ वसुᳶ॑ पुरो॒वसु॑र्वा॒क्पा वाच॑म्मे पाहि ।
मूलम्
विष्ण॑वुरुक्रमै॒ष ते॒ सोम॒स्तँ र॑क्षस्व ।
तन्ते॑ दु॒श्चक्षा॒ माव॑ ख्यत् ।
मयि॒ वसुᳶ॑ पुरो॒वसु॑र्वा॒क्पा वाच॑म्मे पाहि ।
भट्टभास्कर-टीका
7आदित्यस्थाल्यामपिधानमन्त्रः - विष्णविति ॥ हे विष्णो उरुक्रम महाविक्रम एष ते तव सोमः । त्वमस्य गोपयिता, तस्मात्तं रक्षस्व तं ते त्वदीयं सोमं दुश्चक्षाः पापदृष्टिः माऽवख्यत् मा द्राक्षीत् । ‘अस्यतिवक्तिख्यातिभ्योङ्’ । दुंष्टं चष्ट इति ‘गतिकारकयोरपि’ इत्यसुन्, पूर्वपदप्रकृतिस्वरस्य पाक्षिकत्वात्कृदुत्तरपदप्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
मयि॒ वसुः॑ +++(वा॒क्पा वाच॑म्मे पाहि)+++
मूलम्
मयि॒ वसुः॑ +++(वा॒क्पा वाच॑म्मे पाहि)+++
भट्टभास्कर-टीका
8त्रयाणां भक्षणमन्त्राः - मयीत्यादि ॥ मयि वर्तते वसुः धनं सोमाख्यं पुरोवसुः पुरस्कृतेतरसमस्तधनः । यद्वा - पुरस्ताद्वासयिता प्राणादीनां पुरस्सरः । स त्वं वाक्पाः वाचः पालयिता मे मम वाचं पाहि रक्षय । एवमुत्तरयोरपि ॥
विश्वास-प्रस्तुतिः
वि॒दद्व॑सुश्चक्षु॒ष्पाश् ..
चक्षु॑र्मे पाहि ।
मूलम्
वि॒दद्व॑सुश्चक्षु॒ष्पाश् ..
चक्षु॑र्मे पाहि ।
भट्टभास्कर-टीका
9विदद्वसुः भजमानवसुः । विन्दतेः छान्दसो नुमभावः । कर्मणि वा लिटि यगात्मनेपदाभावश्छान्दसः ॥
विश्वास-प्रस्तुतिः
मयि॒ वसु॑स्सय्ँ॒यद्व॑सुश्श्रोत्र॒पाश्श्रोत्र॑म्मे पाहि ।
मूलम्
मयि॒ वसु॑स्सय्ँ॒यद्व॑सुश्श्रोत्र॒पाश्श्रोत्र॑म्मे पाहि ।
भट्टभास्कर-टीका
10संयद्वसुः संगच्छद्वसुः ॥
मूलम् (संयुक्तम्)
भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम्प्रा॑ण॒पाᳶ प्रा॒णम्मे॑ पाहि॒ धूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम॑पान॒पा अ॑पा॒नम्मे॑ पाहि
विश्वास-प्रस्तुतिः
भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम् , प्रा॑ण॒पाᳶ प्रा॒णम्मे॑ पाहि ।
धूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम॑पान॒पा अ॑पा॒नम्मे॑ पाहि ।
मूलम्
भूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम् , प्रा॑ण॒पाᳶ प्रा॒णम्मे॑ पाहि ।
धूर॑सि॒ श्रेष्ठो॑ रश्मी॒नाम॑पान॒पा अ॑पा॒नम्मे॑ पाहि ।
भट्टभास्कर-टीका
11-12उपांश्वन्तर्यामयोरनुमन्त्रणमन्त्रः - भूरिति ग्रहात्मा सोम उच्यते । भावयिता सुखानामसि । धूः हिंसिता दुःखानामसि ॥
मूलम् (संयुक्तम्)
यो न॑ इन्द्रवायू मित्रावरुणावश्विनावभि॒दास॑ति॒ भ्रातृ॑व्य उ॒त्पिपी॑ते शुभस्पती इ॒दम॒हन्तमध॑रम्पादयामि॒ यथे॑न्द्रा॒हमु॑त्त॒मश्चे॒तया॑नि ॥
विश्वास-प्रस्तुतिः
यो न॑ इन्द्रवायू +++(अभिदासति)+++ ।
+++(यो न)+++ मि॒त्रा॒व॒रु॒णौ॒ +++(अभिदासति)+++ ।
+++(यो न)+++अ॒श्वि॒ना॒व॒भि॒दास॑ति।
मूलम्
यो न॑ इन्द्रवायू +++(अभिदासति)+++ ।
+++(यो न)+++ मि॒त्रा॒व॒रु॒णौ॒ +++(अभिदासति)+++ ।
+++(यो न)+++अ॒श्वि॒ना॒व॒भि॒दास॑ति।
भट्टभास्कर-टीका
13-15द्विदेवत्यानां होममन्त्राः क्रमेण - यो न इति तिस्रो जगत्यः । त्रिष्टुब्वा तृतीया । तत्र त्रयाणां देवतापदानां भेदेन शेष इतरः । तेन ‘यो न इन्द्रवायू अभिदासति’ इति प्रथमा । ‘यो नो मित्रावरुणावभिदासति’ इति द्वितीया । ‘यो न अश्विनावभिदासति’ इति तृतीया । तत्र प्रथमा ॥ हे इन्द्रवायू यो नः अभिदासति हिनस्ति । दासृ दाने, अभिपूर्वो साकर्मा । यद्वा - दसु अपक्षये, व्यत्ययेन शप्, स्वरविकारश्छान्दसः ।
विश्वास-प्रस्तुतिः
भ्रातृ॑व्य उ॒त्पिपी॑ते ।
मूलम्
भ्रातृ॑व्य उ॒त्पिपी॑ते ।
भट्टभास्कर-टीका
भ्रातृव्यश्शत्रुः । ‘व्यन्सपत्ने’ । उत्पिपीते उत्क्रम्यामार्गेण सोमं पिबति । पीङ् पाने दैवादिकः, ‘बहुलं छन्दसि’ इति शपश्श्लुः । पिबतेरेव वा पूर्ववत् श्लुः, व्यत्ययेनात्मनेपदम्, ‘ईहल्यघोः’ इतीत्वम्, ‘बहुलं छन्दसि’ इत्यभ्यासस्येत्वम्, ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वं अनजादावपि व्यत्ययेन ।
विश्वास-प्रस्तुतिः
शु॒भ॒स्प॒ती॒ इ॒दम॒हन्तमध॑रम्पादयामि ।
मूलम्
शु॒भ॒स्प॒ती॒ इ॒दम॒हन्तमध॑रम्पादयामि ।
भट्टभास्कर-टीका
शुभस्पती शुभस्य कर्मणः पालयिता । क्विबन्तात् षष्ठी, ‘षष्ठ्याः पतिपुत्र’ इति सत्वम्, छान्दसष्षष्ठ्या अलुक् । इदमिति क्रियाविशेषणम् । तं भ्रातृव्यं अधरं पादयामि अपकृष्टतां नयामि यथाकृते अहमुत्तम उद्गततमश्चेतयानि जानाम्यात्मानं हे इन्द्र । यद्वा - यथा अधरं पादयामि तथा हे इन्द्र त्वमपि कुरु, अहमुत्तमश्चेतयानि चेतयिता भूयासमिति प्रार्थयते । एवमुत्तरयोरपि द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
यथे॑न्द्रा॒हमु॑त्त॒मश्चे॒तया॑नि ॥ [43]
मूलम्
यथे॑न्द्रा॒हमु॑त्त॒मश्चे॒तया॑नि ॥ [43]
भट्टभास्कर-टीका
उत्तमशब्द उत्सादित्वादन्तोदात्तः ॥
इति तृतीये द्वितीये दशमोनुवाकः ॥