विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तय॒त्युक्थ॑शा॒ इत्या॑ह प्रातस्सव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नङ्गा॑यत्रि॒यैव प्रा॑तस्सव॒ने वज्र॑म॒न्तर्ध॑त्त
विश्वास-प्रस्तुतिः
यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑ते ।
वज्र॑मेनम॒भि प्र व॑र्तयति ।
मूलम्
यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑ते ।
वज्र॑मेनम॒भि प्र व॑र्तयति ।
भट्टभास्कर-टीका
1यद्वै होतेत्यादि ॥ अध्वर्युमाभिमुख्येन यदाह्वयते आह्वानं प्रयुङ्क्ते ‘शोंसावोम्’ इति होता, तेनायमध्वर्युमभि वज्रं प्रवर्तयति ।
विश्वास-प्रस्तुतिः
उक्थ॑शा॒ इत्या॑ह ।
प्रा॒त॒स्स॒व॒नम्प्र॑ति॒गीर्य॑ ।
मूलम्
उक्थ॑शा॒ इत्या॑ह ।
प्रा॒त॒स्स॒व॒नम्प्र॑ति॒गीर्य॑ ।
भट्टभास्कर-टीका
तत्परिहारं सवनत्रयेऽपि क्रमेणाह - उक्थशा इत्यादि । प्रातस्सवनं प्रातस्सवनविषयं उक्थं प्रातस्सवनं च प्रतिगीर्य उक्थशा इत्याहाध्वर्युः । उक्थानि शंसति उक्थैर्वा शंसतीत्युक्थशाः अयमभूदिति । ‘मन्त्रे श्वेतवहोक्थशस्’ इत्यादिना ण्विन् । शंसितुः प्रोत्साहनं प्रतिगरः ।
विश्वास-प्रस्तुतिः
त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नङ्गा॑यत्रि॒यैव प्रा॑तस्सव॒ने वज्र॑म॒न्तर्ध॑त्ते ।
मूलम्
त्रीण्ये॒तान्य॒क्षरा॑णि त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नङ्गा॑यत्रि॒यैव प्रा॑तस्सव॒ने वज्र॑म॒न्तर्ध॑त्ते ।
भट्टभास्कर-टीका
कथं पुनरेतेन उक्थदोषः परिह्रियते इत्याह - त्रीण्येतानीत्यदि । अनेन गायत्रात्मना त्र्यक्षरेणोच्चारीतेन गायत्रे प्रातस्सवने आत्मानमभि प्रवर्तितं वज्रमन्तर्धत्ते अन्तर्हितं करोति निवारयतीत्यर्थः ॥
मूलम् (संयुक्तम्)
उ॒क्थव्ँवा॒चीत्या॑ह॒ माध्य॑न्दिनँ॒ सव॑नम्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑नन्त्रि॒ष्टुभै॒व माध्य॑न्दिने॒ सव॑ने॒ वज्र॑म॒न्तर्ध॑त्ते [35]
विश्वास-प्रस्तुतिः
उ॒क्थव्ँवा॒चीत्या॑ह॒ माध्य॑न्दिनँ॒ सव॑नम्प्रति॒गीर्य॑ ।
च॒त्वार्ये॒तान्य॒क्षरा॑णि॒, चतु॑ष्पदा त्रि॒ष्टुप् , त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑नन् , त्रि॒ष्टुभै॒व माध्य॑न्दिने॒ सव॑ने॒ वज्र॑म॒न्तर्ध॑त्ते ।

2उक्थं वाचीति ॥ अनेन चतुरक्षरेण त्रिष्टुभात्मना माध्यन्दिने सवने आत्मानमभि प्रवर्तितं वज्रमन्तर्धत्ते । उक्थं शस्त्रं सम्यक्प्रवृत्तं अस्य वाचीति । त्रिष्टुच्छब्दादुत्सादित्वादञ् । ‘सावेकाचः’ इति वाचो विभक्तिरुदात्ता ॥
विश्वास-प्रस्तुतिः
उ॒क्थव्ँवा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि, स॒प्तप॑दा॒ शक्व॑री ,शाक्व॒रो वज्रो॒, वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म॒न्तर्ध॑त्ते ।
मूलम्
उ॒क्थव्ँवा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि, स॒प्तप॑दा॒ शक्व॑री ,शाक्व॒रो वज्रो॒, वज्रे॑णै॒व तृ॑तीयसव॒ने वज्र॑म॒न्तर्ध॑त्ते ।
भट्टभास्कर-टीका
3उक्थं वाचीन्द्रायेत्यादि ॥ अनेन सप्ताक्षरेण शक्वर्यात्मना वज्रभूतेन तृतीयसवने यथोक्तं वज्रमन्तर्धत्ते उक्थं सम्यक्प्रवृत्तमिन्द्रार्थमस्य वाचीति । अत्र सवर्णदीर्घत्वं न कर्तव्यं सप्ताक्षरत्वायेत्याहुः ॥
मूलम् (संयुक्तम्)
ब्रह्मवा॒दिनो॑ वदन्ति स त्वा अ॑ध्व॒र्युस्स्या॒द्यो य॑थासव॒नम्प्र॑तिग॒रे छन्दाँ॑सि सम्पा॒दये॒त्तेजᳶ॑ प्रातस्सव॒न आ॒त्मन्दधी॑तेन्द्रि॒यम्माध्य॑न्दिने॒ सव॑ने प॒शूँस्तृ॑तीयसव॒न इति॑
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
स त्वा अ॑ध्व॒र्युस्स्याद् ..
यो य॑थासव॒नम्प्र॑तिग॒रे छन्दाँ॑सि सम्पा॒दये॒त् ।
तेजᳶ॑ प्रातस्सव॒न आ॒त्मन्दधी॑त ।
इ॒न्द्रि॒य॒म्माध्य॑न्दिने॒ सव॑ने प॒शूँस्तृ॑तीयसव॒न इति॑ ।

4ब्रह्मवादिन इत्यादि ॥ यथासवनं सवनानुरूपं प्रातस्सवने गायत्रीं माध्यन्दिनसवने त्रिष्टुभं तृतीयसवने जगतीमिति प्रतिगरे विविक्तरूपाणि छन्दांसि योध्वर्युः संपादयेत्, यो वा तेजः प्रातस्सवने आत्मन् दधीत आत्मनि तेजो दधीत माध्यन्दिने इद्रियमात्मनि दधीत तृतीयसवने पशूनात्मनि दधीत धारयितुं शक्नुयात् सोध्वर्युस्स्यात् भवितुमर्हतीति ब्रह्मवादिन आहुः ॥
मूलम् (संयुक्तम्)
उक्थ॑शा॒ इत्या॑ह प्रातस्सव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि [36] त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नम्प्रा॑तस्सव॒न ए॒व प्र॑तिग॒रे छन्दाँ॑सि॒ सम्पा॑दय॒त्यथो॒ तेजो॒ वै गा॑य॒त्री तेजᳶ॑ प्रातस्सव॒नन्तेज॑ ए॒व प्रा॑तस्सव॒न आ॒त्मन्ध॑त्ते ।
विश्वास-प्रस्तुतिः
उक्थ॑शा॒ इत्या॑ह ।
प्रातस्सव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि ,
त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नम्, प्रा॑तस्सव॒न ए॒व प्र॑तिग॒रे छन्दाँ॑सि॒ सम्पा॑दयति ।
मूलम्
उक्थ॑शा॒ इत्या॑ह ।
प्रातस्सव॒नम्प्र॑ति॒गीर्य॒ त्रीण्ये॒तान्य॒क्षरा॑णि ,
त्रि॒पदा॑ गाय॒त्री गा॑य॒त्रम्प्रा॑तस्सव॒नम्, प्रा॑तस्सव॒न ए॒व प्र॑तिग॒रे छन्दाँ॑सि॒ सम्पा॑दयति ।
भट्टभास्कर-टीका
5उक्थशा इत्यादि ॥ प्रातस्सवनस्य गायत्रत्वात् गायत्र्यास्सवनानुकूलत्वमिति । छन्दांसीति सवनत्रयापेक्षं बहुवचनम् । प्रातस्सवने गायत्रीसंपादनेन यथासवनं छन्दांसि संपादयति एतत्संपादयतीति । वचनव्यत्ययोपि । प्रातस्सवने गायत्री छन्दस्संपादयतीति ।
विश्वास-प्रस्तुतिः
अथो॒ तेजो॒ वै गा॑य॒त्री तेजᳶ॑ प्रातस्सव॒नन्तेज॑ ए॒व प्रा॑तस्सव॒न आ॒त्मन्ध॑त्ते ।
मूलम्
अथो॒ तेजो॒ वै गा॑य॒त्री तेजᳶ॑ प्रातस्सव॒नन्तेज॑ ए॒व प्रा॑तस्सव॒न आ॒त्मन्ध॑त्ते ।
भट्टभास्कर-टीका
अथो अपि च तेजोरूपे प्रातस्सवने आत्मनि तेजो धत्ते उक्थशा इति तेजोरूपगायत्र्यात्मकत्र्यक्षरोच्चारणात् ॥
मूलम् (संयुक्तम्)
उ॒क्थव्ँवा॒चीत्या॑ह॒ माध्य॑न्दिनँ॒ सव॑नम्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒ चतु॑ष्पदा त्रि॒ष्टुप्त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑न॒म्माध्य॑न्दिन ए॒व सव॑ने प्रतिग॒रे छन्दाँ॑सि॒ सम्पा॑दय॒त्यथो॑ इन्द्रि॒यव्ँ वै त्रि॒ष्टुगि॑न्द्रि॒यम्माध्य॑न्दिनँ॒ सव॑नम् [37] इ॒न्द्रि॒यमे॒व माध्य॑न्दिने॒ सव॑न आ॒त्मन्ध॑त्ते
विश्वास-प्रस्तुतिः
उ॒क्थव्ँवा॒चीत्या॑ह । माध्य॑न्दिनँ॒ सव॑नम्प्रति॒गीर्य॑ च॒त्वार्ये॒तान्य॒क्षरा॑णि॒, चतु॑ष्पदा त्रि॒ष्टुप् , त्रैष्टु॑भ॒म्माध्य॑न्दिनँ॒ सव॑न॒म् , माध्य॑न्दिन ए॒व सव॑ने प्रतिग॒रे छन्दाँ॑सि॒ सम्पा॑दयति ।
अथो॑ इन्द्रि॒यव्ँ वै त्रि॒ष्टुगि॑न्द्रि॒यम्माध्य॑न्दिनँ॒ सव॑नम् , इ॒न्द्रि॒यमे॒व माध्य॑न्दिने॒ सव॑न आ॒त्मन्ध॑त्ते ।

6एवं माध्यन्दिने सवने त्रिष्टुभस्सवनानुरूप्यं, इन्द्रियरूपत्रिष्टुभात्मकचतुरक्षरोच्चारणादिन्द्रियमात्मनि धत्ते ॥
मूलम् (संयुक्तम्)
उ॒क्थव्ँवा॒चीन्द्रा॒येत्या॑ह तृतीयसव॒नम्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि स॒प्तप॑दा॒ शक्व॑री शाक्व॒राᳶ प॒शवो॒ जाग॑तन्तृतीयसव॒नन्तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे छन्दाँ॑सि॒ सम्पा॑दय॒त्यथो॑ प॒शवो॒ वै जग॑ती प॒शव॑स्तृतीयसव॒नम्प॒शूने॒व तृ॑तीयसव॒न आ॒त्मन्ध॑त्ते
विश्वास-प्रस्तुतिः
उ॒क्थव्ँवा॒चीन्द्रा॒येत्या॑ह ।
तृतीयसव॒नम्प्र॑ति॒गीर्य॑ स॒प्तैतान्य॒क्षरा॑णि , स॒प्तप॑दा॒ शक्व॑री, शाक्व॒राᳶ प॒शवो॒ , जाग॑तन्तृतीयसव॒नन् , तृ॑तीयसव॒न ए॒व प्र॑तिग॒रे छन्दाँ॑सि॒ सम्पा॑दयति ।
अथो॑ प॒शवो॒ वै जग॑ती प॒शव॑स्तृतीयसव॒नम्प॒शूने॒व तृ॑तीयसव॒न आ॒त्मन्ध॑त्ते ।

7तृतीयसवने जागतशक्वर्योस्सवनानुरूप्यं, जगतीशक्वर्योः पशुसाधनत्वात्पश्वात्मके तृतीयसवने पशुरूपशक्वर्यात्मकसप्ताक्षरोच्चारणात् पशूनात्मनि धत्ते ॥
मूलम् (संयुक्तम्)
यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑त आ॒व्य॑मस्मिन्दधाति॒ तद्यन्न [38] अ॒प॒हनी॑त पु॒रास्य॑ सव्ँवत्स॒राद्गृ॒ह आ वे॑वीर॒ञ्छोँसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते॒ तेनै॒व तदप॑ हते॒ यथा॒ वा आय॑ताम्प्र॒तीक्ष॑त ए॒वम॑ध्व॒र्युᳶ प्र॑तिग॒रम्प्रती॑क्षते॒ यद॑भिप्रतिगृणी॒याद्यथाय॑तया समृ॒च्छते॑ ता॒दृगे॒व तद्यद॑र्ध॒र्चाल्लुप्ये॑त॒ यथा॒ धाव॑द्भ्यो॒ हीय॑ते ता॒दृगे॒व तत्प्र॒बाहु॒ग्वा ऋ॒त्विजा॑मुद्गी॒था उ॑द्गी॒थ ए॒वोद्गा॑तृ॒णाम् [39] ऋ॒चᳶ प्र॑ण॒व उ॑क्थशँ॒सिना॑म्प्रतिग॒रो॑ऽध्वर्यू॒णाय्ँय ए॒वव्ँवि॒द्वान्प्र॑तिगृ॒णात्य॑न्ना॒द ए॒व भ॑व॒त्यास्य॑ प्र॒जायाव्ँ॑ वा॒जी जा॑यते
विश्वास-प्रस्तुतिः
यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑त ।
आ॒व्य॑मस्मिन्दधाति ।
मूलम्
यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑त ।
आ॒व्य॑मस्मिन्दधाति ।
भट्टभास्कर-टीका
8दोषान्तरमप्याह - यद्वा - इत्यादि ॥ आव्यं रोगविशेषः, समन्तात्पीड्यते येन तदाव्यम् । आङ्पूर्वाद्वीतेः ‘अचो यत्’ इति यति ‘यीवर्णयोः’ इति लोपः, द्वितीयस्वरलोपश्छान्दसः ।
विश्वास-प्रस्तुतिः
तद्यन्नाप॒हनी॑त ..
पु॒रास्य॑ सव्ँवत्स॒राद्गृ॒ह आ वे॑वीरन् ।
मूलम्
तद्यन्नाप॒हनी॑त ..
पु॒रास्य॑ सव्ँवत्स॒राद्गृ॒ह आ वे॑वीरन् ।
भट्टभास्कर-टीका
तदस्मिन्नध्वर्योरभ्याह्वानेन होता दधाति उत्पादयति । तदध्वर्युः यदि नापहनीत नापहन्यात् । व्यत्ययेनात्मनेपदम् । संवत्सरसमाप्तेः पुरा अस्याध्वर्योर्गृहे प्रजा आवेवीरन् सर्वतो रोगादिभिः पीड्येरन् । वेवीङ् वेतिना तुल्ये ।
विश्वास-प्रस्तुतिः
शोँसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते ।
तेनै॒व तदप॑ हते ।
मूलम्
शोँसा॒ मोद॑ इ॒वेति॑ प्र॒त्याह्व॑यते ।
तेनै॒व तदप॑ हते ।
भट्टभास्कर-टीका
तत्परिहारार्थं अभ्याहूतोध्वर्युः शोंसा मोद इव शंस बाढं भो होतः मोद इव अस्माकं, मोदामह एव वयमिति प्रत्याह्वयते अभ्याह्वयमानं होतारं प्रत्याहवस्थानीयं प्रतिगरमिममुच्चारयेत्, तेन तदाव्यमपहत्येव । शोंसावोमिति द्वावोकाराकारौ । ‘प्रतिगरोध्वर्यूणाम्’ इति उद्गीथत्वं प्रतिगरस्य ।
विश्वास-प्रस्तुतिः
यथा॒ वा आय॑ताम्प्र॒तीक्ष॑ते ।
ए॒वम॑ध्व॒र्युᳶ प्र॑तिग॒रम्प्रती॑क्षते ।
मूलम्
यथा॒ वा आय॑ताम्प्र॒तीक्ष॑ते ।
ए॒वम॑ध्व॒र्युᳶ प्र॑तिग॒रम्प्रती॑क्षते ।
भट्टभास्कर-टीका
यथेत्यादि । यथा लोके आयतां आभिमुख्येन नियतां वाचं स्थाने वक्तुं प्रतीक्षते, एवमध्वर्युरपि प्रतिगरं प्रतीक्षेत न सहसा प्रतिगरितव्यम्, अपि तु होत्राभ्याहूतः अध्वर्यो इति प्रतिगृणियात्, न पूर्वमित्यर्थः । न चाभिप्रतिगृणीयादर्धर्चान्तमतिक्रम्य उपरिगत्वा न प्रतिगृणीयात् ।
विश्वास-प्रस्तुतिः
यद॑भिप्रतिगृणी॒याद् यथाऽऽय॑तया समृ॒च्छते॑ ता॒दृगे॒व तत् ।
मूलम्
यद॑भिप्रतिगृणी॒याद् यथाऽऽय॑तया समृ॒च्छते॑ ता॒दृगे॒व तत् ।
भट्टभास्कर-टीका
यद्यभिप्रतिगृणीयात् यथा लोके आयतया अस्थाने समृच्छते संगच्छते । पीड्यते इति केचित् । तादृगेव तदभिप्रतिगरणम् । तस्मान्नाभिप्रतिगृणीयात् ।
विश्वास-प्रस्तुतिः
यद॑र्ध॒र्चाल्लुप्ये॑त यथा॒ धाव॑द्भ्यो॒ हीय॑ते ता॒दृगे॒व तत् ।
प्र॒बाहु॒ग्वा ऋ॒त्विजा॑मुद्गी॒था उ॑द्गी॒थ ए॒वोद्गा॑तृ॒णाम् [39]
ऋ॒चᳶ प्र॑ण॒व उ॑क्थशँ॒सिना॑म्प्रतिग॒रो॑ऽध्वर्यू॒णाय्ँय ए॒वव्ँवि॒द्वान्प्र॑तिगृ॒णाति
अ॒न्ना॒द ए॒व भ॑व॒त्यास्य॑ प्र॒जायाव्ँ॑ वा॒जी जा॑यते

न चार्धर्चाल्लुप्येतेत्याह - यदर्धर्चाल्लुप्येतेति । यद्यर्धर्चाल्लुप्येताभिप्रतिगरः यथा धावद्भ्यः एकः धिया हीयते सामर्थ्याद्भ्रष्टो भवति तथाऽर्धर्चात्प्रतिगरं लुम्पन्तं शंसन् सामर्थ्याद्धीयते तस्मादर्धर्चयोः प्रतिगृणीयादिति । ऋचोर्धमर्धर्चं, ‘अर्धं नपुंसकम्’ इति समासः, ‘ऋक्पूरब्धूः’ इति समासान्तः । तत्र ‘शोंसावोम्’ इति यत्राह अतोर्धर्चो भवति तत्र ‘शोंसा मोद इव’ इति प्रत्याहवः प्रतिगरः क्रियते, अन्यत्रार्धर्चे ‘ओथा मोद इव’ इति शाखान्तरे प्रसिद्धं प्रतिगृणीयादिति ।
विश्वास-प्रस्तुतिः
???
मूलम्
???
भट्टभास्कर-टीका
प्रबाहुग्वा इत्यादि । प्रबाहुक्सममित्यर्थः । सर्वेषामृत्विजामप्युद्गीथाः उद्गानानि समानीत्यर्थः । तत्रोद्गातॄणां उद्गीथः प्रसिद्धः एव । उक्थशंसिनां होतॄणामृचोन्ते यः प्रणवस्स उद्गीथः । अध्वर्यूणां तु प्रतिगरः उद्गीथः ।
विश्वास-प्रस्तुतिः
???
मूलम्
???
भट्टभास्कर-टीका
य एवमित्यादि । गतम् । वजी अन्नवान् जायते ॥
मूलम् (संयुक्तम्)
इ॒यव्ँ वै होता॒साव॑ध्व॒र्युर्यदासी॑न॒श्शँस॑त्य॒स्या ए॒व तद्धोता॒ नैत्यास्त॑ इव॒ हीयमथो॑ इ॒मामे॒व तेन॒ यज॑मानो दुहे॒ यत्तिष्ठ॑न्प्रतिगृ॒णात्य॒मुष्या॑ ए॒व तद॑ध्व॒र्युर्नैति॑ [40] तिष्ठ॑तीव॒ ह्य॑सावथो॑ अ॒मूमे॒व तेन॒ यज॑मानो दुहे
विश्वास-प्रस्तुतिः
इ॒यव्ँ वै होता॒साव॑ध्व॒र्युर् यदासी॑न॒श्शँस॑त्य॒स्या ए॒व तद्धोता॒ नैत्यास्त॑ इव॒ हीयमथो॑ इ॒मामे॒व तेन॒ यज॑मानो दुहे
यत्तिष्ठ॑न्प्रतिगृ॒णाति , अ॒मुष्या॑ ए॒व तद॑ध्व॒र्युर्नैति॑ ।
तिष्ठ॑तीव॒ ह्य॑सावथो॑ अ॒मूमे॒व तेन॒ यज॑मानो दुहे ।

9इयं वा इत्यादि ॥ आसित्वा शंसनादधोभावादियं पृथिवी होता, स्थित्वा प्रतिगरणादुपरिभावादसौ द्यौरध्वर्युः । एतदेव प्रतिपादयति - यदित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
???
मूलम्
???
भट्टभास्कर-टीका
अस्या नैति न पृथग्भवति पृथिव्येव भवति । तदपि कुत इत्याह - आस्त इव हीयं पृथिवी अथो अपि च तेनानेन होत्रा आसीनां पृथिवीं दुहे दुग्धे यजमानः ।
विश्वास-प्रस्तुतिः
???
मूलम्
???
भट्टभास्कर-टीका
यत्तिष्ठन्नित्यादि समानं पूर्वेण । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । एवमाभ्यां द्यावापृथिव्यौ दुग्धे यजमानः ॥
मूलम् (संयुक्तम्)
यदासी॑न॒श्शँस॑ति॒ तस्मा॑दि॒तᳶप्र॑दानन्दे॒वा उप॑ जीवन्ति॒ यत्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑द॒मुतᳶ॑प्रदानम्मनु॒ष्या॑ उप॑ जीवन्ति॒ यत्प्राङासी॑न॒श्शँस॑ति प्र॒त्यङ्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीयते प्र॒तीचीः॑ प्र॒जा जा॑यन्ते
विश्वास-प्रस्तुतिः
यदासी॑न॒श्शँस॑ति॒ तस्मा॑दि॒तᳶप्र॑दानन्दे॒वा उप॑ जीवन्ति ।
मूलम्
यदासी॑न॒श्शँस॑ति॒ तस्मा॑दि॒तᳶप्र॑दानन्दे॒वा उप॑ जीवन्ति ।
भट्टभास्कर-टीका
10यदासीन इत्यादि ॥ इतःप्रदानं अनया पृथिव्या प्रदत्तं हविरादि देवा उपजीवन्ति ।
विश्वास-प्रस्तुतिः
यत्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑द॒मुतᳶ॑प्रदानम्मनु॒ष्या॑ उप॑ जीवन्ति ।
मूलम्
यत्तिष्ठ॑न्प्रतिगृ॒णाति॒ तस्मा॑द॒मुतᳶ॑प्रदानम्मनु॒ष्या॑ उप॑ जीवन्ति ।
भट्टभास्कर-टीका
अमुतःप्रदानं अमुना द्युलोकेन प्रदत्तं वृष्ट्यादिकं मनुष्या उपजीवन्ति । सार्वविभक्तिकस्तसिः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । इतः प्रदानं यस्येति वा बहुव्रीहिः ।
विश्वास-प्रस्तुतिः
यत्प्राङासी॑न॒श्शँस॑ति प्र॒त्यङ्तिष्ठ॑न्प्रतिगृ॒णाति ।
मूलम्
यत्प्राङासी॑न॒श्शँस॑ति प्र॒त्यङ्तिष्ठ॑न्प्रतिगृ॒णाति ।
भट्टभास्कर-टीका
यत्प्राङित्यादि । प्राचीनं प्रकृष्टगमनं क्षेत्राधीनं रेतो धीयते निपातितं तत्रास्ते । ‘विभाषाञ्चेरदिक्स्त्रियाम्’ इति खः ।
विश्वास-प्रस्तुतिः
तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीयते प्र॒तीचीः॑ प्र॒जा जा॑यन्ते ।
मूलम्
तस्मा॑त्प्रा॒चीनँ॒ रेतो॑ धीयते प्र॒तीचीः॑ प्र॒जा जा॑यन्ते ।
भट्टभास्कर-टीका
प्रतीचीः प्रतिकूलगतिकाः प्रजाः ज्ञात्वा उत्तिष्ठन्ति । ‘चौ’ इति पूर्वपदस्यान्तोदात्तत्वम् दीर्घत्वं च ॥
मूलम् (संयुक्तम्)
यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑ते॒ वज्र॑मेनम॒भि प्र व॑र्तयति॒ परा॒ङा व॑र्तते॒ वज्र॑मे॒व तन्नि क॑रोति ॥ [41]
विश्वास-प्रस्तुतिः
यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑ते
वज्र॑मेनम॒भि प्र व॑र्तयति ।
परा॒ङा व॑र्तते
वज्र॑मे॒व तन्नि क॑रोति ॥
मूलम्
यद्वै होता॑ध्व॒र्युम॑भ्या॒ह्वय॑ते
वज्र॑मेनम॒भि प्र व॑र्तयति ।
परा॒ङा व॑र्तते
वज्र॑मे॒व तन्नि क॑रोति ॥
भट्टभास्कर-टीका
11दोषान्तरं दर्शयितुं तृतीयं पठति - यद्वा इति ॥ पराङ् पराचीनगतिः आवर्तते यत आगतस्ततो गच्छति, तेन वज्रं निकरोति न्यक्करोति । ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् ॥
इति तृतीये द्वितीये नवमोनुवाकः ॥