१६-२०, २४-२५ त्रिष्टुप् , २२-२३ जगती. २९ अनुष्टुप् । विश्वेदेवा ऋषयः
होतॄणां संतर्पणमन्त्राः
विश्वास-प्रस्तुतिः
श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॑ ।
वट्त्स्व॒यम॑भिगूर्ताय ।
मूलम्
श्ये॒नाय॒ पत्व॑ने॒ स्वाहा॑ ।
वट्त्स्व॒यम॑भिगूर्ताय ।
भट्टभास्कर-टीका
1अथ - होतॄणां संतर्पणमन्त्राः - क्रमेण श्येनायेत्यादयः ॥ तत्र सप्तधिष्ण्याः गायत्र्यादिसप्तच्छन्दोरूपेणोच्यन्ते । नमस्कारान्ते वषट्कृते जुहोति । ‘तृम्पन्तां होत्राः’ इत्यनुवषट्कृते । श्येनाय श्येनवपुषे पत्वने पतनकुशलाय गायत्र्यात्मने स्वाहा स्वाहुतमिदमस्तु हविः । ‘अन्येभ्योपि दृश्यते’ इति क्वनिप् । वडिति सत्यनाम । स्वयमभिगूर्ताय स्वयमेव सोमपार्श्वं गन्तुमुद्युक्ताय नमः नमस्कारोयम् । नम इति पूजानाम । गुरी उद्यमने, ‘श्विदितो निष्ठायाम्’ इतीट्प्रतिषेधः, ‘स्वयं क्तेन’ इति समासः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
नमो॑ विष्ट॒म्भाय॒ धर्म॑णे॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
मूलम्
नमो॑ विष्ट॒म्भाय॒ धर्म॑णे॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
भट्टभास्कर-टीका
2विष्टम्भाय विष्टम्भयित्रे शत्रूणाम् । धर्मणे धारयित्रे आत्मीयानाम् । तेनैव मनिन्प्रत्ययः । शेषं समानम् ॥
विश्वास-प्रस्तुतिः
नमᳶ॑ परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
मूलम्
नमᳶ॑ परि॒धये॑ जन॒प्रथ॑नाय॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
भट्टभास्कर-टीका
3परिधये परितो धात्रे सर्वतो रक्षित्रे जनानाम् । जनप्रथनाय जनैः प्रथनीयाय जनानां वा प्रथयित्रे ॥
विश्वास-प्रस्तुतिः
नम॑ ऊ॒र्जे होत्रा॑णाँ॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
मूलम्
नम॑ ऊ॒र्जे होत्रा॑णाँ॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
भट्टभास्कर-टीका
4ऊर्जे अन्नभूताय होत्राणामन्नहेतवे वा ॥
विश्वास-प्रस्तुतिः
नम॒ᳶ पय॑से॒ होत्रा॑णाँ॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
मूलम्
नम॒ᳶ पय॑से॒ होत्रा॑णाँ॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
भट्टभास्कर-टीका
5पयसे पयस्स्थानीयाय पयसो हेतवे वा ॥
विश्वास-प्रस्तुतिः
नमᳶ॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
मूलम्
नमᳶ॑ प्र॒जाप॑तये॒ मन॑वे॒ स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
भट्टभास्कर-टीका
6प्रजापतये स्रष्ट्रात्मने प्रजानाम् । मनवे यस्येमा मानव्यः प्रजाः तदात्मने ॥
विश्वास-प्रस्तुतिः
नम॑ ऋ॒तमृ॑तपास्सुवर्वा॒ट्त्स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
मूलम्
नम॑ ऋ॒तमृ॑तपास्सुवर्वा॒ट्त्स्वाहा॒ वट्त्स्व॒यम॑भिगूर्ताय ।
भट्टभास्कर-टीका
7ऋतं यज्ञात्मा । हे ऋतपाः यज्ञस्य पालयितः । हे सुवर्वाट् अग्नेरादित्यस्य स्वर्गिणां वा वोढः यस्त्वमृतात्मा तस्मै स्वाहा स्वाहुतमस्तु । ‘वहेश्च’ इति ण्विः ।
विश्वास-प्रस्तुतिः
नम॑स्तृ॒म्पन्ताँ॒ होत्रा॒ मधो॑र्घृ॒तस्य॑ ।
मूलम्
नम॑स्तृ॒म्पन्ताँ॒ होत्रा॒ मधो॑र्घृ॒तस्य॑ ।
भट्टभास्कर-टीका
तृम्पन्तां तृप्यन्तु । होत्रास्सप्ताप्येता अनुक्रान्ताः । मधोः मधुरसस्य घृतस्य च । ‘चतुर्थी चाशिषि’ इत्यादिना षष्ठी, सुहितयोगलक्षणा वा । तृम्प तृप्तौ, तौदादिकः व्यत्ययेनात्मनेपदम् ॥
विश्वास-प्रस्तुतिः
य॒ज्ञप॑ति॒मृष॑य॒ एन॑सा [29] आ॒हुः॒ ।
प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ॑ स्तो॒कावप॒ तौ र॑राध ।
सन्न॒स्ताभ्याँ॑ सृजतु वि॒श्वक॑र्मा ।
मूलम्
य॒ज्ञप॑ति॒मृष॑य॒ एन॑सा [29] आ॒हुः॒ ।
प्र॒जा निर्भ॑क्ता अनुत॒प्यमा॑ना मध॒व्यौ॑ स्तो॒कावप॒ तौ र॑राध ।
सन्न॒स्ताभ्याँ॑ सृजतु वि॒श्वक॑र्मा ।
भट्टभास्कर-टीका
8पञ्च वैश्वकर्मणानि जुहोति - यज्ञपतिमित्यादि ॥ सर्वाश्चैतास्त्रिष्टुभः पूर्वयापूर्वया परा अनुषक्ता भवन्ति, नान्त्याः । प्रथमतृतीयौ पादौ द्वितीयचतुर्थाभ्यां न युज्यते, द्वितीयस्तु तृतीयेन युजाते, चतुर्थ उत्तरस्याद्येन युज्यते, अन्त्या त्वविकृतैव । ‘घोरा ऋषयः’ इति द्वितीया । ‘अनन्यान् सोमपान्’ इति तृतीया । ‘ये भक्षयन्तः’ इति चतुर्थी । ‘नमः पितृभ्यः’ इति पञ्चमी ।
तत्र प्रथमा - यज्ञपतिं यजमानमृषय आहुः एनसा । इत्थंभूतलक्षणे तृतीया । एनस्स्विनमित्यर्थः । किं सर्वदा? नेत्याह - यदा प्रजा निर्भक्ता निर्भागा दुर्गता अनुतप्यमाना हीनैश्वर्या भवन्ति प्रजा इति ऋषय आहुः । तप ऐश्वर्यं दैवादिकः, अनुशब्दो धात्वर्थहानिं द्योतयति, व्यत्ययेन श्यन उदात्तत्वम् । यद्वा - तप सन्तापे इत्यस्य भौवादिकस्य कर्मणि यक् । यदा प्रजा निर्भक्ता दुःख्यमाना पापेन भवन्तीति । अधुना तमेवास्यापराधं स्वयमेव दर्शयति - यस्मादयं मधव्यौ तौ मासौ स्तोकौ स्तोतव्यौ ज्योतिष्टोमकालत्वात्प्रशस्तौ अपरराध अपराद्धवान् । तत्र यागस्याकरणमेव तयोरपराधः । मधुः वसन्त ऋतुः ; मधुभूयिष्ठत्वात् । तस्यावयवौ मासौ मधव्यौ चैत्रवैशाखौ । ‘मये च’, ‘मधोः’ इति मुधुशब्दात् मयडर्थे अवयवे यत्प्रत्ययः । यस्मादेवं तस्मात्ताभ्यां मधव्याभ्यां मासाभ्यां नः अस्मान् संसृजतु संपृक्तान् करोतु विश्वकर्मा विश्वं करणीयं यस्य स प्रजानां पतिः वसन्तेवसन्ते ज्योतिष्टोमेन यष्टॄन् अस्मान् करोत्वित्यर्थः । तत्रत्येन यागेन संसर्गः ताभ्यां संसर्ग इत्युच्यते ॥
विश्वास-प्रस्तुतिः
घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः ।
चक्षु॑ष एषा॒म्मन॑सश्च स॒न्धौ ।
बृह॒स्पत॑ये॒ महि॒ षद्द्यु॒मन्नमः॑ ।
नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान्॑ ।
मूलम्
घो॒रा ऋष॑यो॒ नमो॑ अस्त्वेभ्यः ।
चक्षु॑ष एषा॒म्मन॑सश्च स॒न्धौ ।
बृह॒स्पत॑ये॒ महि॒ षद्द्यु॒मन्नमः॑ ।
नमो॑ वि॒श्वक॑र्मणे॒ स उ॑ पात्व॒स्मान्॑ ।
भट्टभास्कर-टीका
9अथ द्वितीया - ये घोरा ऋषयः एभ्यो नमोस्तु । प्राणावा ऋषयः । किं च - एषामृषीणां चक्षुषो मनसश्च सन्धौ सन्धाने महि महति महनीये वा यत् सत् सीदन् भवति द्युमत् दीप्तिमत् यथा तथा सीदति यस्तत्र तस्मै बृहस्पतये नमः । द्युमते वा । बृहतां पतिः बृहस्पतिः परमात्मा । सुट्स्वरावुक्तौ । चक्षुर्ग्रहणमुपलक्षणमिन्द्रियार्थम् । मनसा संयोजने यस्सीदतीति नमस्कारविशेषां वा । महि, सत्, द्युमत् इति पदत्रयं, महत् शोभनं दीप्तिमच्च नमस्कुर्म इति । किं च – नमस्तस्मै विश्वकर्मणे स एव पात्वस्मान् ॥
विश्वास-प्रस्तुतिः
अ॒न॒न्यान्त्सो॑म॒पान्मन्य॑मानः ।
प्रा॒णस्य॑ वि॒द्वान्त्स॑म॒रे न धीरः॑ ।
एन॑श्चकृ॒वान्महि॑ ब॒द्ध ए॑षाम् ।
तव्ँवि॑श्वकर्मन्न् [30] प्र मु॑ञ्चा स्व॒स्तये॑ ।
मूलम्
अ॒न॒न्यान्त्सो॑म॒पान्मन्य॑मानः ।
प्रा॒णस्य॑ वि॒द्वान्त्स॑म॒रे न धीरः॑ ।
एन॑श्चकृ॒वान्महि॑ ब॒द्ध ए॑षाम् ।
तव्ँवि॑श्वकर्मन्न् [30] प्र मु॑ञ्चा स्व॒स्तये॑ ।
भट्टभास्कर-टीका
10अथ तृतीया - अनन्यान् आत्मनोपृथग्भूतानस्मान्त्सोमपान् पीतसोमान् मन्यमानः प्राणस्यात्मनो विद्वान् । कर्मणस्सम्प्रदानत्वात्पूर्ववत् षष्ठी । यद्वा - प्राणस्यानन्यान्मन्यमानः । एवं तत्पुरुषपक्षे अव्ययपूर्वपदप्रकृतिस्वरत्वं प्राप्नोति, तस्माद्बहुव्रीहिर्व्याख्येयः । अनन्यानन्यरहितान् मद्व्यतिरेकेणान्य एषां नास्तीति मन्यमानः प्राणस्यात्मनो बलस्य ज्ञाता समरे न सङ्ग्राम इव धीरः शूरः पुरुषः स यथा पाति तथाऽस्मान् पातु । यद्वा - समरेण धीरो यथा बद्धो भवति तथा एनः पापं चकृवान् कृतवान् पुरुषः एषां भूतेन्द्रियाणां संघट्टने समरस्थानीये महि महत् बद्धो भवति ततो निर्गन्तुं न शक्नोति । तं हे विश्वकर्मन् प्रमुञ्च तेनैनसा मुक्तं कुरु स्वस्तये अविनाशाय । ‘द्व्यचोतस्तिङः’ इति दीर्घत्वम् ॥
विश्वास-प्रस्तुतिः
ये भ॒क्षय॑न्तो॒ न वसू॑न्यानृ॒हुः ।
यान॒ग्नयो॒ऽन्वत॑प्यन्त॒ धिष्णि॑याः ।
इ॒यन्तेषा॑मव॒या दुरि॑ष्ट्यै ।
स्वि॑ष्टिन्न॒स्ताङ्कृ॑णोतु वि॒श्वक॑र्मा ।
मूलम्
ये भ॒क्षय॑न्तो॒ न वसू॑न्यानृ॒हुः ।
यान॒ग्नयो॒ऽन्वत॑प्यन्त॒ धिष्णि॑याः ।
इ॒यन्तेषा॑मव॒या दुरि॑ष्ट्यै ।
स्वि॑ष्टिन्न॒स्ताङ्कृ॑णोतु वि॒श्वक॑र्मा ।
भट्टभास्कर-टीका
11अथ चतुर्थी - ‘धिष्णियाः’इति द्वितीयपादान्तः । ये वयं भक्षयन्तो न भक्षयन्त इव अदन्त इव वसूनि धनानि आनृहुः पूजितवन्तः न तैरिष्टवन्तः, अपि तु कुक्षिस्थानीयायां पृथिव्यां संचित्य निहितवन्तः । यद्वा - वसूनि भक्षयन्तः यागार्थेन व्ययेन नाशं युञ्जन्तः नानृहुः यागार्थं न संगृहीतवन्तः अर्हा न बभूवुः वसूनाम् । ‘अपस्पृधेथाम् ’ इत्यादौ अर्हेः निपात्यते । यांश्चास्मान् धिष्णिया अग्नयः अन्वतप्यन्त अस्मद्विषये अनुतापं कृतवन्तः अहो शोच्या एते मिथ्याकारिण इति । एवं ये अयष्टारः दुर्यष्टारश्च तेषामस्माकं संभाव्यमानप्रमादानां संबन्धिनी इयमिष्टिर्यागः अवया विनाशयित्री । कस्य? द्वुरिष्ट्यै दुरिष्ट्याः । षष्ठ्यर्थे चतुर्थी । उपलक्षणत्वादयागस्य च । अयागनिमित्तस्य दुरिष्टिनिमित्तस्य च एनसो विनाशायायं यागः क्रियते इति । ‘अवे यजः’ इति ण्विन्प्रत्ययः । ‘सुपां सुलुक्’ इति सोर्डादेशः, उत्तरपदस्यानच्त्वान्नोपहन्यते । यथा प्राची प्रतीची । स्विष्टिमिति वक्ष्यमाणत्वादियमितीष्टिरुच्यते इति गम्यते । तामिमामस्माकमिष्टिं अनिष्टिदुरिष्टिपरिहाराय कृतां स्विष्टिं शोभनामिष्टिं कृणोतु करोतु विश्वकर्मा विश्वकृद्देवः । अनिष्टिदुरिष्टिनिवारणसामर्थ्यं शोभनत्वमिष्टेः । प्रत्ययान्तविशेषणत्वे सोर्गतित्वाभावादव्ययपूर्वपदप्रकृतिस्वरत्वम्, धात्वर्थविशेषणत्वेऽपि गतित्वात् ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम्, ‘उदात्तस्वरितयोर्यणः’ इति संहितायां ततः पर इकारस्स्वर्यते ॥
विश्वास-प्रस्तुतिः
नमᳶ॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न् ..
यज्ञ॒कृतो॑ य॒ज्ञका॑मास्सुदे॒वाः ।
अ॑का॒मा वो॒ दक्षि॑णा॒न्न नी॑निम॒ ..
मा न॒स्तस्मा॒देन॑सᳶ पापयिष्ट ।
मूलम्
नमᳶ॑ पि॒तृभ्यो॑ अ॒भि ये नो॒ अख्य॑न् ..
यज्ञ॒कृतो॑ य॒ज्ञका॑मास्सुदे॒वाः ।
अ॑का॒मा वो॒ दक्षि॑णा॒न्न नी॑निम॒ ..
मा न॒स्तस्मा॒देन॑सᳶ पापयिष्ट ।
भट्टभास्कर-टीका
11अथ पञ्चमी - नमः पितृभ्यः तेभ्यः ये नो ऽस्मान् अम्यख्यन् आभिमुख्येन पश्यन्ति । छान्दसो लुङ्, ‘अस्यति’ इत्यादिनाऽङ् । यज्ञकृतः यज्ञं कृतवन्तः यज्ञकामाः भूयोपि यज्ञं कर्तुमिच्छन्तः । ‘शीलिकामि’ इत्यादिना णः पूर्वपदप्रकृतिस्वरत्वं च । सुदेवाः शोभनदानाः अकामाः इच्छाद्वेषरहिताः । तेभ्यो नमः । उभयोरपि ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् ।
संप्रति प्रत्यश्चवदुच्यते - वः युष्मदर्थं दक्षिणां लक्षणया यज्ञ एवोच्यते । यन्न नीनिम न नीतवन्तः । यद्वा - अकामा वयं प्रमादात् यज्ञं कृतवन्तः । तस्मादयागनिमित्तादेनसः पापात् नो ऽस्मान्पापयिष्ट मा पापान् कर्तुमिच्च्छत । ‘छन्दसि परेच्छायामपि’ इति क्यच्, ‘न छन्दस्यपुत्रस्य’ इतीत्वाभावः, तदन्तात् लृङ् । नयतेर्लिटि द्विर्वचने धात्वभ्यासयोर्विपर्ययः ॥
वैश्वकर्मब्राह्मणम्
मूलम् (संयुक्तम्)
याव॑न्तो॒ वै स॑द॒स्या॑स्ते॒ सर्वे॑ दक्षि॒ण्या॑स्तेभ्यो॒ यो दक्षि॑णा॒न्न [31] नये॒दैभ्यो॑ वृश्च्येत॒ यद्वै॑श्वकर्म॒णानि॑ जु॒होति॑ सद॒स्या॑ने॒व तत्प्री॑णाति ।
विश्वास-प्रस्तुतिः
याव॑न्तो॒ वै स॑द॒स्या॑स्ते॒ सर्वे॑ दक्षि॒ण्या॑स् ..
तेभ्यो॒ यो दक्षि॑णा॒न्न [31] नये॑त् ।
ऐभ्यो॑ वृश्च्येत ।
यद्वै॑श्वकर्म॒णानि॑ जु॒होति॑ ।
स॒द॒स्या॑ने॒व तत्प्री॑णाति ।
मूलम्
याव॑न्तो॒ वै स॑द॒स्या॑स्ते॒ सर्वे॑ दक्षि॒ण्या॑स् ..
तेभ्यो॒ यो दक्षि॑णा॒न्न [31] नये॑त् ।
ऐभ्यो॑ वृश्च्येत ।
यद्वै॑श्वकर्म॒णानि॑ जु॒होति॑ ।
स॒द॒स्या॑ने॒व तत्प्री॑णाति ।
भट्टभास्कर-टीका
13अथ वैश्वकर्मब्राह्मणम् - यावन्त इत्यादि ॥ गतम् । दक्षिण्याः दक्षिणार्हाः । ‘कडंकरदक्षिणाच्छ च’ इति यत् ॥
विश्वास-प्रस्तुतिः
अ॒स्मे दे॑वासो॒ वपु॑षे चिकित्सत॒ यमा॒शिरा॒ दम्प॑ती वा॒मम॑श्ञु॒तः ।
पुमा॑न्पु॒त्रो जा॑यते वि॒न्दते॒ वसु॑
अथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः ।
मूलम्
अ॒स्मे दे॑वासो॒ वपु॑षे चिकित्सत॒ यमा॒शिरा॒ दम्प॑ती वा॒मम॑श्ञु॒तः ।
पुमा॑न्पु॒त्रो जा॑यते वि॒न्दते॒ वसु॑
अथ॒ विश्वे॑ अर॒पा ए॑धते गृ॒हः ।
भट्टभास्कर-टीका
14आशीरवनयति - अस्मे इति चतसृभिः ॥ अत्र द्वे जगत्यौ द्वे त्रिष्टुभौ । तत्र प्रथमा - ‘वसु’ इति तृतीयपादान्तः ॥ हे देवासः देवाः । ‘आज्जसेरसुक्’ । वपुषे शोभनाय रूपाय अस्मे अस्मान् चिकित्सत निर्दोषान् कुरुत । ‘गुप्तिज्किद्भ्यस्सन्’ व्यत्ययेव परस्मैपदम् ।
कीदृशायेत्याह - यमिति । लिङ्गव्यत्ययः । वामं कमनीयं कल्याणं आशिरा अवनीयमानया दम्पती जायापती पत्नीयजमानौ । दासीभारादिः । अश्नुतः । व्यत्ययेन परस्मैपदम् । तादृशाय वपुषे अस्मान् चिकित्सत अस्माकं वपुषे चिकित्सया गुणोत्कर्षं कुरुत । कीदृशं यत् वामं वननीयं आशिरा दम्पती अश्नुत इति । घोळा नाम दधिविशेषः आशीः दोहनपात्रस्थमेव घनीभवति । न शीर्यत इत्याशीः । ‘अपस्पृधेथाम्’ इत्यादौ निपात्यते । किं च - युष्मच्चिकित्सया अस्माकं पुमान् पुत्रो जायते जायताम् । द्वयोरुपादानं प्रशंसार्थम् । वसु चास्मान्विन्दते विन्दतां प्राप्नोतु । अथ अनन्तरं विश्वे । व्यत्ययेन बहुवचनम् । विश्वोपि गृहः गृहवासी जनः अरपाः अपापः एधते वर्धताम् । यद्वा - अथशब्दो यथेत्यस्यार्थे । यथा चिकित्सिते दम्पती वाममश्नुतः, पुमान्पुत्रो जायते, वसु च विन्दते, गृहजनश्चापाप एधते तथा चिकित्सतेति ॥
विश्वास-प्रस्तुतिः
आ॒शी॒र्दा॒या दम्प॑ती वा॒मम॑श्ञुता॒मरि॑ष्टो॒ राय॑स्सचताँ॒ समो॑कसा ।
य आसि॑च॒त्सन्दु॑ग्धङ्कु॒म्भ्या स॒हेष्टेन॒ याम॒न्नम॑तिञ्जहातु॒ सः ।
मूलम्
आ॒शी॒र्दा॒या दम्प॑ती वा॒मम॑श्ञुता॒मरि॑ष्टो॒ राय॑स्सचताँ॒ समो॑कसा ।
य आसि॑च॒त्सन्दु॑ग्धङ्कु॒म्भ्या स॒हेष्टेन॒ याम॒न्नम॑तिञ्जहातु॒ सः ।
भट्टभास्कर-टीका
15अथ द्वितीया - आशीर्दायेति ॥ ‘सह’ इति तृतीयपादान्तः । आशीर्दाया आशिरं दत्त इत्याशीर्दाया दम्पती पत्नीयजमानौ वामं कल्याणं अश्नुताम् । दय दानगतिरक्षणेषु; ‘कर्मण्यण्’, ‘सुपां सुलुक्’ इत्यकारः । दधातेरेव वा विजन्तात्तेनैव सूत्रेण याजादेशः । दानं चावनयनमेव । यज्ञो वा आशिरा लक्ष्यते । किं च - अरिष्टः अहिंसितः रायो धनम् । रातेर्घञ्, रायः । बहुवचनं, व्यत्ययो वा । सचतां दम्पती समोकसा एकगृहौ अवियुक्तौ । किं च - योयं यजमान आसिचत् आसिक्तवान् संदुग्धं एकत्र सहितं दुग्धं आशीराख्यम् । पूर्ववद्गतिस्वरः । कुम्भ्या आसिचत् प्रभूतमित्यर्थः । सहेष्टेन संपद्यमानेन यागेन सहासिचत् । क्व यामन् यामनि सारभूते सोमे य आसिचत् । ‘लिपि सिचि ह्वश्च’ इत्यङ् । सः अमतिं शरीरमरोगम् । अमेरतिप्रत्ययः, मतिविपर्यासो वा अमतिः, तां जहातु त्यजतु अरोगशरीरो यागकृतबुद्धिर्वा भवत्वित्यर्थः ॥
विश्वास-प्रस्तुतिः
स॒र्पि॒र्ग्री॒वी [32] पीव॑र्यस्य जा॒या पीवा॑नᳶ पु॒त्रा अकृ॑शासो अस्य ।
स॒हजा॑नि॒र्यस्सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒शिरँ॑ स॒ह कु॒म्भ्यादा॑त् ।
मूलम्
स॒र्पि॒र्ग्री॒वी [32] पीव॑र्यस्य जा॒या पीवा॑नᳶ पु॒त्रा अकृ॑शासो अस्य ।
स॒हजा॑नि॒र्यस्सु॑मख॒स्यमा॑न॒ इन्द्रा॑या॒शिरँ॑ स॒ह कु॒म्भ्यादा॑त् ।
भट्टभास्कर-टीका
16अथ तृतीया - सर्पिर्ग्रीवीति ॥ अस्य यजमानस्य सर्पिर्ग्रीवी स्निग्धकण्ठी मृष्टभोजना वा जाया भवति । ‘स्वाङ्गाच्चोपसर्जनात्’ इति ङीप् । पीवरी प्यायनशीला अकृपणाङ्गी । प्यायतेः ‘अन्येभ्योपि दृश्यते’ इति क्वनिप्, ‘प्यायः पी’ इति पीभावः, ‘वनो र च’ इति ङीब्रेफौ । पुत्राश्च पीवानः प्यायनशीलाः पुष्टाङ्गाः अकृशासः विद्याधनादिभिरकृशाः अस्य भवन्ति । ‘आज्जेसरसुक्’ । कस्येत्याह - यो यजमानः सहजानिः सभार्यः । जायाया निङादेशः । सुमखस्यमानः शोभनं यज्ञं आत्मन इच्छन् । असुगागमश्छान्दसः, व्यत्ययेनात्मनेपदम्, भृशादिर्वा द्रष्टव्यः । सुमखो भवतीति क्यङ् । इन्द्रायाशिरं कुम्भ्या सहादात् प्रभूतं ददाति दास्यति । छान्दसो लुङ्, ‘गातिस्था’ इति सिचो लुक् ॥
विश्वास-प्रस्तुतिः
आ॒शीर्म॒ ऊर्ज॑मु॒त सु॑प्रजा॒स्त्वमिष॑न्दधातु॒ द्रवि॑णँ॒ सव॑र्चसम् ।
स॒ञ्जय॒न्क्षेत्रा॑णि॒ सह॑सा॒हमि॑न्द्र कृण्वा॒नो अ॒न्याँ अध॑रान्त्स॒पत्ना॑न् ।
मूलम्
आ॒शीर्म॒ ऊर्ज॑मु॒त सु॑प्रजा॒स्त्वमिष॑न्दधातु॒ द्रवि॑णँ॒ सव॑र्चसम् ।
स॒ञ्जय॒न्क्षेत्रा॑णि॒ सह॑सा॒हमि॑न्द्र कृण्वा॒नो अ॒न्याँ अध॑रान्त्स॒पत्ना॑न् ।
भट्टभास्कर-टीका
17अथ चतुर्थी - आशीरिति ॥ आशीरियमवनीयमाना मे ममोर्जं क्षीरादि उत अपि च सुप्रजास्त्वं शोभनापत्यत्वम् । ‘नित्यमसिच्प्रजामेधयोः’ इत्यस्च्, छान्दसं दीर्घत्वम् । इषमन्नं ददातु द्रविणं धनं च ददातु सुवर्चसं बलसहितं दीप्तिसहितं वा । लिङ्गव्यत्ययश्छान्दसः । इषो वा विशेषणम् - यथाऽहं संजयन् सहसा बलेन क्षेत्राणि शत्रुसंबन्धीन्यन्यान् सपत्नान् शत्रूनधरान् अधरीभूतान् आज्ञाविधेयान् कृण्वानः कुर्वाणः स्यां तथा मे ऊर्जादि ददात्विति । पदकारमते आशीरिति प्रार्थनापदम् । इयं … प्रार्थना दद्याशिर [मह्यमाशिर] ऊर्जादि ददात्विति ॥
विश्वास-प्रस्तुतिः
भू॒तम॑सि भू॒ते मा॑ धाः ।
मुख॑मसि॒ मुख॑म्भूयासम् ।
मूलम्
भू॒तम॑सि भू॒ते मा॑ धाः ।
मुख॑मसि॒ मुख॑म्भूयासम् ।
भट्टभास्कर-टीका
18पश्यति - भूतमिति ॥ भूतं सर्वदा न जातं जन्यं त्वमसि । भूते सर्वदा यद्भूतं न जायते न च जनिष्यते तत्र परस्मिन् नित्ये वस्तुनि मा धाः स्थापय । किंच मुखं प्रधानं त्वसि । तादृशेन त्वया अहं मुखं प्रधानभूतः सर्वेषां भूयासम् ॥
विश्वास-प्रस्तुतिः
द्यावा॑पृथि॒वीभ्या॑न्त्वा॒ परि॑ गृह्णामि ।
मूलम्
द्यावा॑पृथि॒वीभ्या॑न्त्वा॒ परि॑ गृह्णामि ।
भट्टभास्कर-टीका
19परिगृह्णाति - द्यावापृथिवीभ्यां त्वा परिगृह्णामि नाहमेव । ‘देवताद्वन्द्वे च’ इति द्यावापृथिवीशब्द आद्युदात्तः ॥
विश्वास-प्रस्तुतिः
विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः [33] प्र च्या॑वयन्तु ।
दि॒वि दे॒वान्दृँ॑ह ।
अ॒न्तरि॑क्षे॒ वयाँ॑सि +++(दृंह)+++ ।
पृ॒थि॒व्याम्पार्थि॑वान् +++(दृंह)+++ ।
मूलम्
विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः [33] प्र च्या॑वयन्तु ।
दि॒वि दे॒वान्दृँ॑ह ।
अ॒न्तरि॑क्षे॒ वयाँ॑सि +++(दृंह)+++ ।
पृ॒थि॒व्याम्पार्थि॑वान् +++(दृंह)+++ ।
भट्टभास्कर-टीका
20प्राच्यावयति - विश्वे इति ॥ विश्वेदेवाः इन्द्रादयः वैश्वानराः विश्वेषां नराणां हितत्वेन संबन्धिनोग्निरूपाश्च प्रच्यावयन्त्यस्मात् स्थानात् न वयं शक्ताः । प्रच्याव्यमानश्च त्वं दिवि देवान् दृंह दृढान् कुरु, अन्तरिक्षे वयांसि पक्षिणो दृंह; पृथिव्यां च पार्थिवान् पृथिव्यां भवान् पर्वतपादपादीन् दृंह । ‘पृथिव्या ञाञौ’ इति ञः ॥
विश्वास-प्रस्तुतिः
ध्रु॒वन्ध्रु॒वेण॑ ह॒विषा ..
व॒ सोम॑न्नयामसि ।
यथा॑ न॒स्सर्व॒मिज्जग॑द् ..
अय॒क्ष्मँ सु॒मना॒ अस॑त् ।
यथा॑ न॒ इन्द्र॒ इद्विश॒ᳵ ..
केव॑ली॒स्सर्वा॒स्सम॑नस॒ᳵ कर॑त् ।
यथा॑ न॒स्सर्वा॒ इद्दिशो॒ ..
ऽस्माक॒ङ्केव॑लीरस॑न्न् ॥
मूलम्
ध्रु॒वन्ध्रु॒वेण॑ ह॒विषा ..
व॒ सोम॑न्नयामसि ।
यथा॑ न॒स्सर्व॒मिज्जग॑द् ..
अय॒क्ष्मँ सु॒मना॒ अस॑त् ।
यथा॑ न॒ इन्द्र॒ इद्विश॒ᳵ ..
केव॑ली॒स्सर्वा॒स्सम॑नस॒ᳵ कर॑त् ।
यथा॑ न॒स्सर्वा॒ इद्दिशो॒ ..
ऽस्माक॒ङ्केव॑लीरस॑न्न् ॥
भट्टभास्कर-टीका
21होतृचमसेऽवनयति - ध्रुवमिति । इयमत्यष्टिरष्टपदा । अष्टाक्षरास्सर्वे पादाः, षष्ठस्तु द्वादशाक्षरः ॥ ध्रुवं नित्यं अविचलितं असि सोमं होतृचमसस्थं त्वया ध्रुवेण नित्येन हविषा अवनयामसि अवनयामः अधस्तान्नयामः । तस्योपरि त्वां सिञ्चामः । ‘इदन्तो मसि’ । किमर्थं? यथा नः अस्माकं सर्वमित् सर्वमेव जगत् जङ्गमं गवादि अयक्ष्मं अरोगं सुमनस्कं च असत् । छान्दसो लिङ्गव्यत्ययः, अस्तेर्लेट्यडागमः । यथा चास्माकं सर्वा विशः प्रजाः सर्वा अपि केवलीः रोगादिरहिताः समनसः अनाकुलमनसश्च इन्द्र इत् इन्द्र एव करत् कुर्यात् । करोतेर्लेटि शपो लुक्, पूर्ववदडागमः । ‘कः करत्करति’ इति सत्वम् । ‘केवलमामक’ इति केवलशद्वात् ङीप् । यथा चास्माकं सर्वा एव दिशः दिक्षु स्थिताः नोस्माकं प्रजाः केवलीः केवल्यः । पूर्ववर्त्पूवसवर्णदीर्घत्वम् । अस्माकमेव स्वभूताः नान्यगामिन्यः भवन्ति तथा अवनयामीति । अस्तेर्लेटि व्यत्ययेन शप्, लुकि हि आद्युदात्तत्वं न स्यात् ॥
इति तृतीये द्वितीये अष्टमोनुवाकः ॥