०७ स्तुतशस्त्रयोरभिधानम्

विश्वेदेवा ऋषयः

मूलम् (संयुक्तम्)

देव॑ सवितरे॒तत्ते॒ प्राह॒ तत्प्र च॑ सु॒व प्र च॑ यज॒ बृह॒स्पति॑र्ब्र॒ह्मायु॑ष्मत्या ऋ॒चो मा गा॑त तनू॒पात्साम्न॑स्स॒त्या व॑ आ॒शिष॑स्सन्तु स॒त्या आकू॑तय ऋ॒तञ्च॑ स॒त्यञ्च॑ वदत स्तु॒त दे॒वस्य॑ सवि॒तुᳶ प्र॑स॒वे

विश्वास-प्रस्तुतिः

देव॑ सवितरे॒तत्ते॒ प्राह ।

मूलम्

देव॑ सवितरे॒तत्ते॒ प्राह ।

भट्टभास्कर-टीका

1यत्र हि ‘ब्रह्मन् स्तोष्यामः प्रशास्तः’ इति, तद्ब्रह्मा प्रसौति - देव सवितरिति ॥ हे देव सवितः एतत्तवायं प्राह ब्रवीति स्तोष्याम इति ।

विश्वास-प्रस्तुतिः

तत्प्र च॑ सु॒व ।

मूलम्

तत्प्र च॑ सु॒व ।

भट्टभास्कर-टीका

तत्प्रसुव च अनुजानीहि ।

विश्वास-प्रस्तुतिः

प्र च॑ यज ।

मूलम्

प्र च॑ यज ।

भट्टभास्कर-टीका

प्रयज च प्रकर्षेण यागं निर्वर्तय च । ‘च वा योगे प्रथमा’ इति तिङ्विभक्तिर्न निहन्यते ।

विश्वास-प्रस्तुतिः

बृह॒स्पति॑र्ब्र॒ह्मायु॑ष्मत्या ऋ॒चो मा गा॑त ।

मूलम्

बृह॒स्पति॑र्ब्र॒ह्मायु॑ष्मत्या ऋ॒चो मा गा॑त ।

भट्टभास्कर-टीका

हे उद्गातारः बृहस्पतिरेवाहं ब्रह्मा, न मनुष्यमात्रः, सोहं वो ब्रवीमि । आयुष्मत्या अविनष्टया ऋचा योनिभूतया मा गात मा अपगमत ।

विश्वास-प्रस्तुतिः

तनू॒पात्साम्न॑स्स॒त्या व॑ आ॒शिष॑स्सन्तु ।
स॒त्या आकू॑तयः +++(सन्तु)+++।

मूलम्

तनू॒पात्साम्न॑स्स॒त्या व॑ आ॒शिष॑स्सन्तु ।
स॒त्या आकू॑तयः +++(सन्तु)+++।

भट्टभास्कर-टीका

कीदृश्या? तनुपात्साम्नः साम्नो गीतेश्शरीरं रक्षन्त्या ऋचा हि साम्नः शरीरं रक्ष्यते । छान्दसो लिङ्गव्यत्ययः । यद्वा - ऋचस्तनुं पालयतस्साम्नश्च मा गात तस्या ऋचश्शरीरमवलम्बमानादित्यर्थः । सत्या अवितथाः युष्माकमाशिषः प्रार्थनास्सन्तु । आकूतयस्संकल्पाश्च सत्या यथासंकल्पसमाप्तयः सन्त्वित्येव ।

विश्वास-प्रस्तुतिः

ऋ॒तञ्च॑ +++(वदत)+++ ..
स॒त्यञ्च॑ वदत ।

मूलम्

ऋ॒तञ्च॑ +++(वदत)+++ ..
स॒त्यञ्च॑ वदत ।

भट्टभास्कर-टीका

ऋतं च वदत । मानसं तथ्यमृतम् । यथा मनसाऽभिसंहितं तथा वदत । सत्यं च वदत । वाचिकं सत्यं तथ्यम् । यथा वाचा प्रतिज्ञातं तथा वदत ।

विश्वास-प्रस्तुतिः

स्तु॒त दे॒वस्य॑ सवि॒तुᳶ प्र॑स॒वे ।

मूलम्

स्तु॒त दे॒वस्य॑ सवि॒तुᳶ प्र॑स॒वे ।

भट्टभास्कर-टीका

स्तुत गीत्या स्तुतिं निर्वर्तयतः देवस्य सवितुः प्रसवे अनुज्ञां लब्ध्वा स्तुतिं कुरुत । अत्र प्रातस्सवने - ‘भूरिन्द्रवन्तः स्तुत’ इति विशेषमाहुः । ‘भुव इन्द्रवन्तस्स्तुत’ इति माध्यन्दिने । ‘सुवरिन्द्रवन्तस्स्तुत’ इति तृतीयसवने ॥

मूलम् (संयुक्तम्)

स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒म्मह्यँ॑ स्तु॒तन्दु॑हा॒मा मा॑ स्तु॒तस्य॑ स्तु॒तङ्ग॑म्यात् ।

विश्वास-प्रस्तुतिः

स्तु॒तस्य॑ स्तु॒तम॒सि ।
ऊर्ज॒म्मह्यँ॑ स्तु॒तन्दु॑हाम् ।

मूलम्

स्तु॒तस्य॑ स्तु॒तम॒सि ।
ऊर्ज॒म्मह्यँ॑ स्तु॒तन्दु॑हाम् ।

भट्टभास्कर-टीका

2अथ स्तुते स्तुतस्य दोहं वाचयति - स्तुतस्य स्तुतमसीति ॥ स्तुतस्य यज्ञस्य स्तुतं फलं त्वमसीति हे स्तोत्र त्वदधीनत्वात्तस्य । यद्वा - स्तुतस्यापि स्तुतं त्वमसि स्तोत्रस्यापि स्तोत्रमसि त्वत्तुल्यं स्तोत्रं नास्तीति । यथा - ब्राह्मणानामपि त्वं ब्राह्मण इति । स्तुतस्येति जातावेकवचनम् । तादृशं त्वां स्तुतं यथोक्तस्तुतरूपं मह्यं मदर्थं ऊर्जमन्नं दुहां दुहे । लेट्यामागमः, विकरणव्यत्ययेन शः ।

विश्वास-प्रस्तुतिः

आ मा॑ स्तु॒तस्य॑ स्तु॒तङ्ग॑म्यात् ।

मूलम्

आ मा॑ स्तु॒तस्य॑ स्तु॒तङ्ग॑म्यात् ।

भट्टभास्कर-टीका

ततश्च स्तुतस्य स्तुतं यथोक्तं स्तुतिफलरूपं वा विशिष्टस्तोत्ररूपं मामागम्यात् आगच्छतु ॥

मूलम् (संयुक्तम्)

श॒स्त्रस्य॑ श॒स्त्रम् [26] अ॒स्यूर्ज॒म्मह्यँ॑ श॒स्त्रन्दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रङ्ग॑म्यात्

विश्वास-प्रस्तुतिः

श॒स्त्रस्य॑ श॒स्त्रमसि ।
ऊर्ज॒म्मह्यँ॑ श॒स्त्रन्दु॑हाम् ।

मूलम्

श॒स्त्रस्य॑ श॒स्त्रमसि ।
ऊर्ज॒म्मह्यँ॑ श॒स्त्रन्दु॑हाम् ।

भट्टभास्कर-टीका

3अथ शस्त्रे शस्त्रस्य दोहं वाचयति - शस्त्रस्येति ॥ शस्त्रस्य शंसनफलं त्वमसि, शस्त्राणामपि वा शस्त्रमसि । तादृशशस्त्ररूपं त्वां ऊर्जं दुहे ।

विश्वास-प्रस्तुतिः

आ मा॑ श॒स्त्रस्य॑ श॒स्त्रङ्ग॑म्यात् ।

मूलम्

आ मा॑ श॒स्त्रस्य॑ श॒स्त्रङ्ग॑म्यात् ।

भट्टभास्कर-टीका

ततो मां यथोक्तं शस्त्रमागच्छतु । अत्र ष्टुञ् स्तुतौ, शंस स्तुतौ, इत्यर्थाविशेषेऽपि गीतिविशिष्टं स्तोत्रं, ऋक्समुदायमात्रं शस्त्रमित्यवगन्तव्यम् ॥

विश्वास-प्रस्तुतिः

इ॒न्द्रि॒याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जामिष॑म् ।
सा मे॑ स॒त्याशीर्दे॒वेषु॑ भूयाद्ब्रह्मवर्च॒सम्मा ग॑म्यात् ।

मूलम्

इ॒न्द्रि॒याव॑न्तो वनामहे धुक्षी॒महि॑ प्र॒जामिष॑म् ।
सा मे॑ स॒त्याशीर्दे॒वेषु॑ भूयाद्ब्रह्मवर्च॒सम्मा ग॑म्यात् ।

भट्टभास्कर-टीका

4एतयोरुभयोरभ्यासं वाचयति - इन्द्रियावन्त इति । इयं पथ्याबृहती ‘तृतीयश्चेद्द्वादशाक्षरः पथ्या’ इति । द्व्यक्षरोनत्वाद्विराट् ॥ इन्द्रियावन्त इन्द्रियैरविकलैस्तद्वन्तः । ‘मन्त्रे सोमाश्व’ इति दीर्घत्वम् । त्वामेव वनामहे भजामहे सर्वकालम् । ते धुक्षीमहि दोहामहे त्वाम् । किम्? प्रजां पुत्रादिकां इषमन्नं तस्याश्च जीवनम् । किं च - देवेषु मे या आशीः प्रार्थना यजामीति सा सत्या अवितथा भूयात् पुनःपुनः यज्ञ उत्पद्यतां यागश्च प्रवर्ततामिति । अवितथं च ब्रह्मवर्चसमागम्यात् आगच्छतु । यियक्षा वर्तिष्यते इति ॥

विश्वास-प्रस्तुतिः

य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे ।
स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्माँ अधि॑पतीन्करोतु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।

मूलम्

य॒ज्ञो ब॑भूव॒ स आ ब॑भूव॒ स प्र ज॑ज्ञे॒ स वा॑वृधे ।
स दे॒वाना॒मधि॑पतिर्बभूव॒ सो अ॒स्माँ अधि॑पतीन्करोतु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ।

भट्टभास्कर-टीका

5यज्ञस्य पुनरालम्भं जपति - यज्ञो बभूवेति ॥ इयं जगती पञ्चविधा । व्याख्याता चेयम् ‘अगन्म सुवः’ इत्यत्र । यज्ञस्सम्पद्यतां, स विश्वमभिभवतु, स पजनयतु स प्रजास्संवर्धताम्, स देवानामधिकं पालयिता भूयात् । वयं च रयीणां धनानां स्वामिनः स्यामेति ॥

  • य॒ज्ञो ब॑भूव॒ स आ [19] ब॒भू॒व॒
    स प्र ज॑ज्ञे॒ स वा॑वृधे ।

    • 14यज्ञस्य पुनरालम्भं जपति - यज्ञो बभूवेति । इयं पञ्चपदा जगती ॥ यज्ञोयं बभूव निवृत्तोभूत् । स आबभूव स निर्वृत्तोस्माकमावृत्त्या भवतु पुनःपुनर्भवतु । छान्दसो लिट् । स प्रजज्ञे प्रजातः प्रज्ञातो वास्तु प्रसिद्धोस्तु । स वावृधे स प्रसिद्धो वर्धताम् । ‘तुजादीनाम्’ इत्यभ्यासस्य दीर्घत्वम् ।
  • स दे॒वाना॒मधि॑पतिर्बभूव ।

    • स च प्रसिद्धो देवानामधिपतिहेतुत्वादधिपतिः अधिकं पालयिता भवतु ।
  • सो अ॒स्माँ अधि॑पतीन्करोतु ।

  • स तादृशस्सन्नस्मानप्यधिपतीन् मनुष्याणामधिकं पालयितॄन् करोतु ।

  • व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥

    • तदर्थं वयं रयीणां धनानां पतयस्स्वामिनस्स्याम भवेम । पूर्व्ववन्नाम उदात्तत्वम् ॥
मूलम् (संयुक्तम्)

य॒ज्ञो वा॒ वै [27] य॒ज्ञप॑तिन्दु॒हे य॒ज्ञप॑तिर्वा य॒ज्ञन्दु॑हे॒ स यस्स्तु॑तश॒स्त्रयो॒र्दोह॒मवि॑द्वा॒न्यज॑ते॒ तय्ँ य॒ज्ञो दु॑हे स इ॒ष्ट्वा पापी॑यान्भवति

विश्वास-प्रस्तुतिः

य॒ज्ञो वा॒ वै य॒ज्ञप॑तिन्दु॒हे ।
य॒ज्ञप॑तिर्वा य॒ज्ञन्दु॑हे ।

मूलम्

य॒ज्ञो वा॒ वै य॒ज्ञप॑तिन्दु॒हे ।
य॒ज्ञप॑तिर्वा य॒ज्ञन्दु॑हे ।

भट्टभास्कर-टीका

6अथ स्तुतशस्त्रयोर्दोहस्य ब्राह्मणं - यज्ञो वा वा इत्यादि ॥ यद्द्वयमत्र भवति यज्ञो वा यज्ञपतिं दुहे, यज्ञपतिर्वा यज्ञं दुहे इति । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । ‘वै वा वेति च छन्दसि’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते ।

विश्वास-प्रस्तुतिः

स यस्स्तु॑तश॒स्त्रयो॒र्दोह॒मवि॑द्वा॒न्यज॑ते ।

मूलम्

स यस्स्तु॑तश॒स्त्रयो॒र्दोह॒मवि॑द्वा॒न्यज॑ते ।

भट्टभास्कर-टीका

कस्तयोः प्रथम इत्याह - स इत्यादि । गतम् ।

विश्वास-प्रस्तुतिः

तय्ँ य॒ज्ञो दु॑हे ।
स इ॒ष्ट्वा पापी॑यान्भवति ।

मूलम्

तय्ँ य॒ज्ञो दु॑हे ।
स इ॒ष्ट्वा पापी॑यान्भवति ।

भट्टभास्कर-टीका

यज्ञो दुह इति । तं रेचयति । यथा गौर्दुह्यमाना क्षीरशून्या भवति, एवमयं यज्ञेन दुह्यमानो रिक्तात्मा भवेत्, ततस्स इष्ट्वा पापीयान् भवति । अत्र दुह प्रपूरणे इति प्रशब्दः पूरणप्रतिपक्षमाह यथा प्रस्मरणं प्रस्थानमिति, एवं प्रपूरणं रेचनमिति जानीयात् ॥

मूलम् (संयुक्तम्)

य ए॑नयो॒र्दोहव्ँ॑वि॒द्वान्यज॑ते॒ स य॒ज्ञन्दु॑हे॒ स इ॒ष्ट्वा वसी॑यान्भवति स्तु॒तस्य॑ स्तु॒तम॒स्यूर्ज॒म्मह्यँ॑ स्तु॒तन्दु॑हा॒मा मा॑ स्तु॒तस्य॑ स्तु॒तङ्ग॑म्याच्छ॒स्त्रस्य॑ श॒स्त्रम॒स्यूर्ज॒म्मह्यँ॑ श॒स्त्रन्दु॑हा॒मा मा॑ श॒स्त्रस्य॑ श॒स्त्रङ्ग॑म्या॒दित्या॑है॒ष वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तय्ँ॒य ए॒वव्ँवि॒द्वान्यज॑ते दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑यान्भवति ॥ [28]

विश्वास-प्रस्तुतिः

य ए॑नयो॒र्दोहव्ँ॑वि॒द्वान्यज॑ते ।
स य॒ज्ञन्दु॑हे ।

मूलम्

य ए॑नयो॒र्दोहव्ँ॑वि॒द्वान्यज॑ते ।
स य॒ज्ञन्दु॑हे ।

भट्टभास्कर-टीका

7य एनयोरित्यादि ॥ यज्ञोनेन दुह्यमानः पुनःपुनरुपचीयमानः सदा गौरिव दोग्धुरस्योपकरोति ।

विश्वास-प्रस्तुतिः

स इ॒ष्ट्वा वसी॑यान्भवति ।

मूलम्

स इ॒ष्ट्वा वसी॑यान्भवति ।

भट्टभास्कर-टीका

ततश्च स इष्ट्वा यज्ञवान् भूत्वा वसीयान् वसुमत्तरो भवति ‘विन्मतोर्लुक्’ इति लुक्, ‘टेः’ इति टिलोपः ।

विश्वास-प्रस्तुतिः

स्तु॒तस्य॑ स्तु॒तम॒सि ।
ऊर्ज॒म्मह्यँ॑ स्तु॒तन्दु॑हाम् ।
आ मा॑ स्तु॒तस्य॑ स्तु॒तङ्ग॑म्यात् ।
श॒स्त्रस्य॑ श॒स्त्रम॑सि ।
ऊर्ज॒म्मह्यँ॑ श॒स्त्रन्दु॑हाम् ।
आ मा॑ श॒स्त्रस्य॑ श॒स्त्रङ्ग॑म्या॒दित्या॑ह ।

ए॒ष वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तय्ँ॒य ए॒वव्ँवि॒द्वान्यज॑ते ।
दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑यान्भवति ॥

मूलम्

स्तु॒तस्य॑ स्तु॒तम॒सि ।
ऊर्ज॒म्मह्यँ॑ स्तु॒तन्दु॑हाम् ।
आ मा॑ स्तु॒तस्य॑ स्तु॒तङ्ग॑म्यात् ।
श॒स्त्रस्य॑ श॒स्त्रम॑सि ।
ऊर्ज॒म्मह्यँ॑ श॒स्त्रन्दु॑हाम् ।
आ मा॑ श॒स्त्रस्य॑ श॒स्त्रङ्ग॑म्या॒दित्या॑ह ।

ए॒ष वै स्तु॑तश॒स्त्रयो॒र्दोह॒स्तय्ँ॒य ए॒वव्ँवि॒द्वान्यज॑ते ।
दु॒ह ए॒व य॒ज्ञमि॒ष्ट्वा वसी॑यान्भवति ॥

भट्टभास्कर-टीका

कः पुनरेतयोः दोह इत्याह - स्तुतस्येत्यादि । गतम् । दोहमजानन्तं गोकल्पं यज्ञो दुग्धे । दोहवित्तु यज्ञमेव गोस्थानीयं सर्वाण्यभिमतानि दुग्धे । इत्थं यज्ञवांश्च भूत्वा वसीयान् भवति गोमानिव समृद्धो भवतीत्यर्थः ॥

इति तृतीये द्वितीये सप्तमोनुवाकः ॥