२ बृहती । विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
म॒ही॒नाम्पयो॑ऽसि॒ विश्वे॑षान्दे॒वाना॑न्त॒नूर्ऋ॒ध्यास॑म॒द्य पृ॑षतीना॒ङ्ग्रह॒म्पृष॑तीना॒ङ्ग्रहो॑ऽसि॒ विष्णो॒र्हृद॑यम॒स्येक॑म्
विश्वास-प्रस्तुतिः
म॒ही॒नाम्पयो॑ऽसि ।
विश्वे॑षान्दे॒वाना॑न्त॒नूर्ऋ॒ध्यास॑म् ।
अ॒द्य पृ॑षतीना॒ङ्ग्रह॒म्पृष॑तीना॒ङ्ग्रहो॑ऽसि ।
मूलम्
म॒ही॒नाम्पयो॑ऽसि ।
विश्वे॑षान्दे॒वाना॑न्त॒नूर्ऋ॒ध्यास॑म् ।
अ॒द्य पृ॑षतीना॒ङ्ग्रह॒म्पृष॑तीना॒ङ्ग्रहो॑ऽसि ।
भट्टभास्कर-टीका
1पृषदाज्यं गृह्णाति - महीनामिति ॥ महीनां महनीयानां गवां पयोसि विश्वेषां देवानां तनूः शरीरं; तत्स्थितिहेतुत्वात् । अद्येदानीं ऋध्यासं वर्धयामि त्वाम् । ऋध्रोतेः ण्यन्तादाशिषि लिङ् । ‘बहुलमन्यत्रापि’ इति णिलुक् । पृषतीनां ग्रहं मरुतामश्वाः पृषत्यः । श्तृवद्भावात् ङीप् । तासां गृहस्थानीयं त्वाम् । पृषतीनां ग्रहोसि; ग्राहकोसि प्रियतरत्वात् । यद्वा - पृषतीशब्देन मरुतस्स्वोपात् [रुतां स्वा ये] तद्वन्तो मरुत उच्यन्ते । मरुतां स्वभतो ग्रहस्त्वमसीति ॥
विश्वास-प्रस्तुतिः
विष्णो॒र्हृद॑यम॒स्येक॑म् इष॒ ..
विष्णु॒स्त्वानु॒ वि च॑क्रमे ।
मूलम्
विष्णो॒र्हृद॑यम॒स्येक॑म् इष॒ ..
विष्णु॒स्त्वानु॒ वि च॑क्रमे ।
भट्टभास्कर-टीका
2विष्णोरिति विराड्गायत्री जागतगायत्री वा ‘इष’ इति प्रथमपादान्तः ॥ विष्णोः यज्ञात्मनः हृदयमिम प्रियोसि । कुत इत्याह - हे इष अन्नवन् । इच्छब्दात् अर्शआदिलक्षणोच्प्रत्ययः । एकं प्रधानं त्वामनु त्वया हेतुना विष्णुर्भगवान् त्रैलोक्यं विचक्रमे । ‘अनुर्लक्षणे’ इति कर्मप्रवचनीयत्वम् ॥
विश्वास-प्रस्तुतिः
भू॒तिर्द॒ध्ना घृ॒तेन॑ वर्धता॒न्तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑ण॒मा ग॑म्याः ।
मूलम्
भू॒तिर्द॒ध्ना घृ॒तेन॑ वर्धता॒न्तस्य॑ मे॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑ण॒मा ग॑म्याः ।
भट्टभास्कर-टीका
3तस्य स्कन्नस्य स्वधासंभरणमन्त्रः - भूतिरिति । इयमपि विराड्गायत्री द्विपदान्ता ॥ भूतिः तवैश्वर्यं दध्ना घृतेन वर्धताम् । तस्य तादृशस्य उद्भूतैश्वर्यस्य इष्टस्य देवानां प्रियस्य देवेभ्यो हुतस्य वीतस्य भक्षितस्य च यद्द्रविणं फलं तन्मां आगम्यात् आगच्छतु वृधा स्कन्नं मा भूदिति ॥
विश्वास-प्रस्तुतिः
ज्योति॑रसि वैश्वान॒रम्पृश्ञि॑यै दु॒ग्धय्ँयाव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः ।
मूलम्
ज्योति॑रसि वैश्वान॒रम्पृश्ञि॑यै दु॒ग्धय्ँयाव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः ।
भट्टभास्कर-टीका
4दधिधर्ममवेक्षते - ज्योतिरिति ॥ अग्निस्त्वमसि; प्रवर्ग्यभक्तित्वात् वैश्वानरं विश्वेषां नराणां हितत्वेन स्वामित्वेन वा सम्बन्धी वैश्वानरः; आदित्यः तस्य स्वभूतमसि । अभेदेनोच्यते । पृश्नियै पृश्न्याः गोर्दुग्धं पयः । षष्ठ्यर्थे चतुर्थी ॥
विश्वास-प्रस्तुतिः
याव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः ।
ताव॑न्तमिन्द्र ते [23] ग्रहँ॑ स॒होर्जा गृ॑ह्णा॒म्यस्तृ॑तम् ।
मूलम्
याव॑ती॒ द्यावा॑पृथि॒वी म॑हि॒त्वा याव॑च्च स॒प्त सिन्ध॑वो वित॒स्थुः ।
ताव॑न्तमिन्द्र ते [23] ग्रहँ॑ स॒होर्जा गृ॑ह्णा॒म्यस्तृ॑तम् ।
भट्टभास्कर-टीका
5अथ तस्य ग्रहणमन्त्रः - यावती इति चातुष्पदा बृहती ॥ यावती यावत्यौ यत्प्रमाणे यत्प्रमाणकाले वा द्यावापृथिवी द्यावापृथिव्यौ । उभयत्रापि ‘वा छन्दसि’ इति पूर्वसवर्णदीधत्वम्, ‘देवताद्वद्वे च’ इति द्यावापृथिवीशब्द आद्युदात्तः । महित्वा महत्त्वेन । तृतीयाया आजादेशः । यावच्च यावत्कालं सप्त सिन्धवः समुद्राः वितस्थुः विभक्ताः स्थास्यन्ति । छान्दसो वा लिट्, आत्मनेपदाभावश्च । तावन्तं तावत्प्रमाणं तावत्कालस्थायिनं तावत्कालस्थितिहेतुं वा लोकानाम्, हे इन्द्र तव ग्रहं एतं अस्तृतं अहिंसितं ऊर्जा अन्नेन सह गृह्णामि । स्तृ इति ह्रस्वान्तं धात्वन्तरं, स्तृणातेर्वा ह्रस्वत्वम् ॥
मूलम् (संयुक्तम्)
यत्कृ॑ष्णशकु॒नᳶ पृ॑षदा॒ज्यम॑वमृ॒शेच्छू॒द्रा अ॑स्य प्र॒मायु॑कास्स्यु॒र्यच्छ्वाऽव॑मृ॒शेच्चतु॑ष्पादोऽस्य प॒शवᳶ॑ प्र॒मायु॑कास्स्यु॒र्यत्स्कन्दे॒द्यज॑मानᳶ प्र॒मायु॑कस्स्यात्प॒शवो॒ वै पृ॑षदा॒ज्यम्प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति॒ यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति प्रा॒णो वै पृ॑षदा॒ज्यम्प्रा॒णो वै [24] ए॒तस्य॑ स्कन्दति॒ यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति॒ यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ प्रा॒णमे॒वास्मै॒ पुन॑र्गृह्णाति॒
विश्वास-प्रस्तुतिः
यत्कृ॑ष्णशकु॒नᳶ पृ॑षदा॒ज्यम॑वमृ॒शेत् ।
मूलम्
यत्कृ॑ष्णशकु॒नᳶ पृ॑षदा॒ज्यम॑वमृ॒शेत् ।
भट्टभास्कर-टीका
6अथ विकृतपृषदाज्यब्राह्मणं - यत्कृष्णशकुन इत्यादि ॥ कृष्णवर्णशकुनः पक्षी कृष्णशकुनः । पृषद्वर्णमाज्यं पृषदाज्यं पृषद्बिन्दुवन्नानावर्णम् । अवमर्शनं पद्भ्यां स्पर्शनम् ।
विश्वास-प्रस्तुतिः
शू॒द्रा अ॑स्य प्र॒मायु॑कास्स्युः ।
यच्छ्वाऽव॑मृ॒शेत् ।
चतु॑ष्पादोऽस्य प॒शवᳶ॑ प्र॒मायु॑कास्स्युः ।
यत्स्कन्दे॒द्यज॑मानᳶ प्र॒मायु॑कस्स्यात् ।
मूलम्
शू॒द्रा अ॑स्य प्र॒मायु॑कास्स्युः ।
यच्छ्वाऽव॑मृ॒शेत् ।
चतु॑ष्पादोऽस्य प॒शवᳶ॑ प्र॒मायु॑कास्स्युः ।
यत्स्कन्दे॒द्यज॑मानᳶ प्र॒मायु॑कस्स्यात् ।
भट्टभास्कर-टीका
अस्य यजमानस्य शूद्राः प्रमाणशीलाः मरणशीलाः म्रियतेश्छान्दस उकञ् ।
विश्वास-प्रस्तुतिः
प॒शवो॒ वै पृ॑षदा॒ज्यम्प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति ।
यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति ।
यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ ।
प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति ।
मूलम्
प॒शवो॒ वै पृ॑षदा॒ज्यम्प॒शवो॒ वा ए॒तस्य॑ स्कन्दन्ति ।
यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति ।
यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ ।
प॒शूने॒वास्मै॒ पुन॑र्गृह्णाति ।
भट्टभास्कर-टीका
पशवो वै पृषदाज्यमिति । तद्धेतुत्वात्ताच्छब्द्यम् । यथोक्तेन पुनर्ग्रहणेन स्कन्नस्योपलक्षणत्वात्सर्वामेध्यत्वान्निवृत्तिः।
विश्वास-प्रस्तुतिः
प्रा॒णो वै पृ॑षदा॒ज्यम् ।
प्रा॒णो वा ए॒तस्य॑ स्कन्दति ।
यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति ।
यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ ।
प्रा॒णमे॒वास्मै॒ पुन॑र्गृह्णाति ।
मूलम्
प्रा॒णो वै पृ॑षदा॒ज्यम् ।
प्रा॒णो वा ए॒तस्य॑ स्कन्दति ।
यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति ।
यत्पृ॑षदा॒ज्यम्पुन॑र्गृ॒ह्णाति॑ ।
प्रा॒णमे॒वास्मै॒ पुन॑र्गृह्णाति ।
भट्टभास्कर-टीका
प्राणो वै पृषदाज्यमिति । पूर्ववत्ताच्छब्द्यम् ।
मूलम् (संयुक्तम्)
हिर॑ण्यमव॒धाय॑ गृह्णात्य॒मृतव्ँ॒ वै हिर॑ण्यम्प्रा॒णᳶ पृ॑षदा॒ज्यम॒मृत॑मे॒वास्य॑ प्रा॒णे द॑धाति श॒तमा॑नम्भवति श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठ॒ति ।
विश्वास-प्रस्तुतिः
हिर॑ण्यमव॒धाय॑ गृह्णाति ।
अ॒मृतव्ँ॒ वै हिर॑ण्यम्प्रा॒णᳶ पृ॑षदा॒ज्यम् ,
अ॒मृत॑मे॒वास्य॑ प्रा॒णे द॑धाति ।
मूलम्
हिर॑ण्यमव॒धाय॑ गृह्णाति ।
अ॒मृतव्ँ॒ वै हिर॑ण्यम्प्रा॒णᳶ पृ॑षदा॒ज्यम् ,
अ॒मृत॑मे॒वास्य॑ प्रा॒णे द॑धाति ।
भट्टभास्कर-टीका
7हिरण्यमिति ॥ एतां स्रुचमप्सु प्रवेश्य अन्यस्यां स्रुचि हिरण्यमवधाय तत्पृषदाजं गृह्णाति । नित्यग्रहणमिति केचित् ।
विश्वास-प्रस्तुतिः
श॒तमा॑नम्भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।
मूलम्
श॒तमा॑नम्भवति ।
श॒तायु॒ᳶ पुरु॑षश्श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति ।
भट्टभास्कर-टीका
शतमानमिति शतं मानमस्येति । शतायुः शतसंवत्सरायुः । शतेन्द्रियः शतवीर्यः । शतत्वसंख्यायोगादायुरिन्द्रियलाभः ॥
मूलम् (संयुक्तम्)
अश्व॒मव॑ घ्रापयति प्राजाप॒त्यो वा अश्वᳶ॑ प्राजाप॒त्यᳶ प्रा॒णस्स्वादे॒वास्मै॒ योनेः॑ प्रा॒णन्निर्मि॑मीते॒ वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते॒ यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति वैष्ण॒व्यर्चा पुन॑र्गृह्णाति य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञँ सन्त॑नोति ॥ [25]
विश्वास-प्रस्तुतिः
अश्व॒मव॑ घ्रापयति ।
प्रा॒जा॒प॒त्यो वा अश्वᳶ॑ प्राजाप॒त्यᳶ प्रा॒णस्स्वादे॒वास्मै॒ योनेः॑ प्रा॒णन्निर्मि॑मीते ।
वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते ।
यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति ।
मूलम्
अश्व॒मव॑ घ्रापयति ।
प्रा॒जा॒प॒त्यो वा अश्वᳶ॑ प्राजाप॒त्यᳶ प्रा॒णस्स्वादे॒वास्मै॒ योनेः॑ प्रा॒णन्निर्मि॑मीते ।
वि वा ए॒तस्य॑ य॒ज्ञश्छि॑द्यते ।
यस्य॑ पृषदा॒ज्यँ स्कन्द॑ति ।
भट्टभास्कर-टीका
8अश्वमिति ॥ अपोद्धृत्य हिरण्यमश्वमवघ्रापयति । अश्वप्राणयोः प्राजापत्यत्वादन्यतरस्यान्वये इदमभिसन्धापयतीति प्राणसिद्धिः ॥
विश्वास-प्रस्तुतिः
वै॒ष्ण॒व्यर्चा पुन॑र्गृह्णाति ।
य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञँ सन्त॑नोति ॥
मूलम्
वै॒ष्ण॒व्यर्चा पुन॑र्गृह्णाति ।
य॒ज्ञो वै विष्णु॑र्य॒ज्ञेनै॒व य॒ज्ञँ सन्त॑नोति ॥
भट्टभास्कर-टीका
9वैष्णव्यर्चेति ॥ ‘विष्णो त्वं नो अन्तमः’ इत्येतामृचमनुवर्तयन् गृह्णाति पृषदाज्यम् विच्छिन्नं यज्ञं यज्ञात्मना विष्णुना सन्तनोति संहितं करोति । बैष्णव्येत्युदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वं, ‘उदात्तयणः’ इति तृतीयाया उदात्तत्वम्, ‘स्वरितो वाऽनुदात्ते पदादौ’ इति संहितायामेकादेशस्स्वर्यते । ‘सावेकाचः’ इति ऋचस्तृतीयाया उदात्तत्वम् ॥
इति तृतीये द्वितीये षष्ठोनुवाकः ॥