०५ भक्षानुवाकः

विस्तारः (द्रष्टुं नोद्यम्)

८ गायत्री , ९ बृहती
१०, २० त्रिष्टुप् १२ अनुष्टुप् १४ द्विपदा गायत्री विश्वेदेवा ऋषयः

भास्करोक्त-विनियोगः

1अथ भक्षानुवाकः । तत्र ग्रहणावेक्षणभक्षणादिषु यथालिङ्गं विनियोगः । तत्र भक्षणायाह्रियमाणं सोमं प्रतिगृह्णाति - भक्षेहीति ॥

मूलम् (संयुक्तम्)

भक्षेहि॒ मा वि॑श दीर्घायु॒त्वाय॑ शन्तनु॒त्वाय॑ रा॒यस्पोषा॑य॒ वर्च॑से सुप्रजा॒स्त्वायेहि॑ वसो पुरोवसो प्रि॒यो मे॑ हृ॒दो॑ऽस्य॒श्विनो॑स्त्वा बा॒हुभ्याँ॑ सघ्यासम्

विश्वास-प्रस्तुतिः

भक्ष! +इहि॒, मा वि॑श
दीर्घायु॒त्वाय॑ शन्तनु॒त्वाय॑ रा॒यस्-पोषा॑य॒ वर्च॑से सु-प्रजा॒स्त्वाय॑ ।

Keith

Food come hither, enter me for long life, for health, for increase of wealth, for splendour, for good offspring.

मूलम्

भक्षेहि॒ मा वि॑श दीर्घायु॒त्वाय॑ शन्तनु॒त्वाय॑ रा॒यस्पोषा॑य॒ वर्च॑से सुप्रजा॒स्त्वाय॑ ।

भट्टभास्कर-टीका

भक्ष्यत इति भक्षः । हे भक्ष । षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । एहि आगच्छ । गुणे कृते, ‘अन्तादिवच्च’ इति तस्य आङ्ग्रहणेन ग्रहणात् ‘ओमाङोश्च’ इति पररूपत्वम् । स त्वं मामाविश भक्षितोन्तः प्रविश दीर्घायुत्वाय । तादर्थ्ये चतुर्थी । मम दीर्घमायुर्यथा स्यादिति । बहुव्रीहौ छान्दसोन्त्यलोपः । शन्तनुत्वाय आरोग्याय रायो धनस्य पोषाय पुष्ट्यर्थम् । पूर्ववत्सत्वम् । वर्चसे दीप्तये बलाय वा । सुप्रजास्त्वाय शोभनापत्यत्वार्थं मामाविशेति ।

विश्वास-प्रस्तुतिः

एहि॑ वसो! पुरो-वसो!
प्रि॒यो मे॑ हृ॒दो॑ऽसि ।

Keith

Come hither, O Vasu, preceded by wealth; thou art dear to my heart.

मूलम्

एहि॑ वसो पुरोवसो प्रि॒यो मे॑ हृ॒दो॑ऽसि ।

भट्टभास्कर-टीका

एहि वसो वासहेतो सर्वेषां, आगच्छ हे पुरोवसो पुरस्ताद्वसो वासयितॄणां पूर्वधनानां वा, प्रथमं मे मम हृदयस्य प्रियोसि, प्रीणयिताऽसि उपकारकत्वात् ।

विश्वास-प्रस्तुतिः

अ॒श्विनो॑स् त्वा बा॒हुभ्याँ॑ सघ्यासम्+++(←ग्रहणे)+++ ।

Keith

May I grasp thee with the arms of the Aśvins.

मूलम्

अ॒श्विनो॑स्त्वा बा॒हुभ्याँ॑ सघ्यासम् ।

भट्टभास्कर-टीका

अश्विनोर्बाहुभ्यां त्वां सघ्यासं गृह्लामि । आत्मनस्स्वातन्त्र्यनिवृत्यर्थमेवमुक्तम् । सघिः ग्रहणकर्मा छान्दसः ॥

भास्करोक्त-विनियोगः

2अवेक्षते - नृचक्षसमिति ॥

विश्वास-प्रस्तुतिः

+++(नृ-वीक्षणेन)+++ नृ॒-चक्ष॑सन् त्वा देव सोम
सु॒-चक्षा॒ अव॑ ख्येषम्+++(=वीक्षेयम्)+++ ।

Keith

With clear sight may I gaze’ upon thee, O god Soma, who regardest men.

मूलम्

नृ॒चक्ष॑सन्त्वा देव सोम सु॒चक्षा॒ अव॑ ख्येषम् ।

भट्टभास्कर-टीका

नॄन् चष्टे पश्यतीति नृचक्षाः । ‘गतिकारकयोरपि’ इत्यसुन्, कृदुत्तरपदप्रकृतिस्वरत्वम् । ईदृशं त्वां हे देव सोम त्वत्प्रसादात् सुचक्षाः सुष्ठु द्रष्टा अहम् । पूर्ववदसुन् । अवख्येषम् । अवचष्टेराशिषि लिङ्, ख्यादेशः, लिङ्याशिष्यङ्, अतो येयः ॥

भास्करोक्त-विनियोगः

3मन्द्राऽभिभूतिरिति प्रातस्सवने सर्वानैन्द्रान् भक्षयति ।

मूलम् (संयुक्तम्)

म॒न्द्राभिभू॑तिᳵ के॒तुर्य॒ज्ञानाव्ँ॒वाग्जु॑षा॒णा सोम॑स्य तृप्यतु म॒न्द्रा स्व॑र्वा॒च्यदि॑ति॒रना॑हतशीर्ष्णी॒ वाग्जु॑षा॒णा सोम॑स्य तृप्य॒त्वेहि॑ विश्वचर्षणे [16] श॒म्भूर्म॑यो॒भूस्स्व॒स्ति मा॑ हरिवर्ण॒ प्र च॑र॒ क्रत्वे॒ दक्षा॑य रा॒यस्पोषा॑य सुवी॒रता॑यै

विश्वास-प्रस्तुतिः ...{Loading}...

म॒न्द्रा ऽभिभू॑तिᳵ, के॒तुर् य॒ज्ञानाव्ँ॒
वाग् जु॑षा॒णा सोम॑स्य तृप्यतु
म॒न्द्रा स्व्-अ॑र्वा॒च्य् अदि॑ति॒र् अना॑हत-शीर्ष्णी॒
वाग् जु॑षा॒णा सोम॑स्य तृप्यतु

सर्वाष् टीकाः ...{Loading}...

Keith

Gentle control, banner of the sacrifices, may speech accept and delight in the Soma; I may Aditi, gentle, propitious, with head inviolable, as speech, accept and delight in the Soma.

मूलम्

म॒न्द्राभिभू॑तिᳵ के॒तुर्य॒ज्ञानाव्ँ॒वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ।
म॒न्द्रा स्व॑र्वा॒च्यदि॑ति॒रना॑हतशीर्ष्णी॒ वाग्जु॑षा॒णा सोम॑स्य तृप्यतु ।

भट्टभास्कर-टीका

नराशंसपीतस्येति नराशंसान् - मन्द्रा मदकरी, अभिभूतिः अभिभवित्री सर्वशरीरस्य, केतुः प्रधानभूता यज्ञानां; तदधीनत्वात्सर्वप्रवृत्तीनाम् । ईदृशी वाक् जुषाणा प्रीयमाणा सोमस्य तृप्यतु सोमेन पीतेन तृप्ता भवतु । यद्वा - सोमस्य जुषाणा सेवमाना सोममाप्रियमाणा वाक् तृप्यतु ।

मन्द्रा स एवार्थः । स्वर्वाची सुष्ठु अस्मदाभिमुख्येन प्रवर्तमाना । अव्ययपूर्वपदप्रकृतिस्वरत्वम्, ‘उदात्तस्वरितयोर्यणः’ इति संहितायामकारस्स्वर्यते । अदितिः अखण्डनीया । कर्मणि क्तिन् । अनाहतशीर्ष्णी अप्रतिबद्धप्रारम्भा । ‘शीर्षन् छन्दसि’ इति शिरसश्शीर्षन्भावः, ‘अन उपधालोपिनः’ इति ङीष् ।

वाग्जुषाणेत्यादि । गतम् ।

विश्वास-प्रस्तुतिः ...{Loading}...

एहि॑ विश्वचर्षणे श॒म्भूर् म॑यो॒-भूः
स्व॒स्ति मा॑ हरि-वर्ण॒ प्र च॑र
क्रत्वे॒ दक्षा॑य रा॒यस्पोषा॑य सुवी॒रता॑यै ।

सर्वाष् टीकाः ...{Loading}...

Keith

Come hither, O thou who art of all men [1], with healing and favour; with safety come to me, O tawny-coloured, for skill, for strength, for increase of wealth, for good heroes.

मूलम्

एहि॑ विश्वचर्षणे श॒म्भूर्म॑यो॒भूः ।
स्व॒स्ति मा॑ हरिवर्ण॒ प्र च॑र॒
क्रत्वे॒ दक्षा॑य रा॒यस्पोषा॑य सुवी॒रता॑यै ।

भट्टभास्कर-टीका

हे विश्वचर्षणे विश्वचर्षणयो मनुष्याः स्वभूता यस्य स तादृशः ।
एहि आगच्छ । यद्वा - विश्वज्ञानहेतो अस्मानागच्छ । शम्भूः शान्तोर्निवृत्तिलक्षणस्य वाक्सुखस्य भावयिता मयोभूः सुखस्य भावयिता प्रवृत्तिलक्षणस्य । उभयत्रापि पूर्ववण्णिलुक् ।

ईदृशस्सन् स्वस्ति अविनाशेन ऊर्ध्वाधोगमनरहितः मां प्रचर प्रविश हे हरिवर्ण हरितवर्ण मनोहरवर्ण वा ।

क्रत्वे क्रत्वर्थम् । ‘जसादिषु वा वचनम्’ इति ‘घेर्ङिति’ इति गुणाभावः । दक्षाय उत्साहार्थं, रायसोषाय धनस्य पुष्त्यर्थं, सुवीरतायै शोभनवीर्यतायै च ॥

विश्वास-प्रस्तुतिः ...{Loading}...

मा मा॑ राज॒न् +++(सोम)+++ वि बी॑भिषो॒
मा मे॒ हार्दि॑ त्वि॒षा व॑धीः
वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ॥

सर्वाष् टीकाः ...{Loading}...

Keith

Terrify me not, O king, pierce not my heart with thy radiance, for manly strength, for life, for splendour.

मूलम्

मा मा॑ राज॒न्वि बी॑भिषो॒ मा मे॒ हार्दि॑ त्वि॒षा व॑धीः ।
वृष॑णे॒ शुष्मा॒यायु॑षे॒ वर्च॑से ॥

भट्टभास्कर-टीका

4अथ परोष्णिक्, गायत्री वा - मा मां राजन्निति ॥
हे राजन् सोम मां मा विबीभिषः मा विभीषथाः ऊर्ध्वमधो वा निर्गच्छन् भीतिं मा जीजनः । व्यत्ययेनात्मनेपदाभावः । यद्वा - ऊर्ध्वाधोगमनेन मां मा विभीषथाः । हेतुभयाभावात् आत्मनेपदाभावः, षुगागमश्छान्दसः । मा मे हार्दि त्विषा दीप्त्या त्वदीयया मा वधीः । हृदये भवा अभिप्राया हार्दाः, तद्युक्तं मनो हार्दि । ‘हृदयस्य हृल्लेख’ इति हृद्भावः । कानि पुनस्तान्यभिप्रेतानीत्याह - वृषणे सेकसामर्थ्याय सेक्त्रे वा । उपधालोपाभावश्छान्दसः । शुष्माय बलाय आयुषे संपूर्णाय वर्चसे दीप्तये ॥

विश्वास-प्रस्तुतिः

वसु॑मद्-गणस्य सोम देव
ते मति॒-विदᳶ॑
प्रातस्-सव॒नस्य॑ गाय॒त्र-छ॑न्दस॒ …

Keith

Of thee, O god Soma, who hast the Vasus for thy troop, who knowest the mind, who belongest to the first pressing, who hast the Gayatri as thy metre,

मूलम्

वसु॑मद्गणस्य सोम देव ते मति॒विदᳶ॑ प्रातस्सव॒नस्य॑ गाय॒त्रछ॑न्दस॒

भट्टभास्कर-टीका

5वसुमद्गणस्य वसुमान् गणो यस्य स तथोक्तः । अष्टौ वसवः तत्रावयवेन समुदायो गणस्तद्वानिति मत्वर्थोपपत्तिः । कश्चिदाह - वसुमान् धनवान् गण ऋत्विक्सङ्घो यस्येति । तस्य रुद्गवद्गणस्येत्यादि अघटमानं स्यात् । हे सोम देव दीप्तिमन् ते तव मति विदः सर्वेषां मतानि जानतः अभिमतानां लम्भयितुर्वा प्रातस्सवनस्य प्रातस्सूयत इति प्रातस्सवनं, कर्मणि ल्युट्, ‘अनो भावकर्मवचने’ इत्युत्तरपदान्तोदात्तत्वम् ।

गायत्रछन्दसः । गायत्र्येव गायत्रं, तदेव छन्दो यस्य स्तोत्रादिषु तादृशस्य विश्वजनादित्वात्तुगभावः ।

इन्द्र॑-पीतस्य॒ ...{Loading}...
विश्वास-प्रस्तुतिः

इन्द्र॑-पीतस्य॒ नरा॒शँस॑-पीतस्य पि॒तृ-पी॑तस्य॒
मधु॑मत॒
उप॑हूत॒स्योप॑हूतो भक्षयामि

Keith

who art drunk by Indra, who art drunk by Naraśansa, who art drunk by the fathers, who hast sweetness, and who art invited, I invited eat.

मूलम्

इन्द्र॑पीतस्य॒ नरा॒शँस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ।

भट्टभास्कर-टीका

इन्द्रपीतस्य इन्द्रेण प्रथमं पीतस्य । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्रस्य सर्वदेवतामयत्वात् सर्वत्रैवमप्यन्यदेवते ।
नराशंसपीतस्य नरैश् शंसन्ति पानं ये भक्षणे ते नराशंसाः देवताविशेषाः । यद्वा - नरैश्शंसनीया नराशंसाः तैः पीतो नराशंसपीतः तस्य । यत्तेन पदेन नराशंसानामेव भक्षणं भक्षिताप्यायिता नराशंसाश्चमसाः । पूर्ववत्स्वरः, पूर्ववदेव ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ।
पितृपीतस्य पितृभिरस्मत्पूर्वैः पीतस्य । स एव स्वरः ।
मधुमतः मधुररसवतः उपहूतस्य इन्द्रादिभिरनुज्ञातस्य ईदृशस्य तव अहं उपहूतः देवैस्सहभक्षिभिरनुज्ञातः भक्षयामि । सर्वत्र कर्मणि षष्ठी ॥

भास्करोक्त-विनियोगः

6अथ माध्यन्दिने सवने - रुद्रवद्गणस्येत्यादि ॥

विश्वास-प्रस्तुतिः

रु॒द्रव॑द्-गणस्य सोम देव
ते मति॒विदो॒ माध्य॑न्दिनस्य॒ सव॑नस्य त्रि॒ष्टुप्-छ॑न्दस॒ …

Keith

Of thee, O god Soma, who hast the Rudras for thy troop, who knowest the mind, who belongest to the midday pressing, who hast the Tristubh for thy metre,

मूलम्

रु॒द्रव॑द्गणस्य सोम देव ते मति॒विदो॒ माध्य॑न्दिनस्य॒ सव॑नस्य त्रि॒ष्टुप्छ॑न्दस॒

भट्टभास्कर-टीका

माध्यन्दिनस्येति । दिनस्य मध्यं मध्यन्दिनम् ‘मध्यो मध्यन्दिनं चास्मात्’ इति । तत्र भवं माध्यन्दिनम् । तस्य सवनस्य सूयमानस्य सोमस्य तव भक्षयामीति । एवमेतादृशसोमसंबन्धात् प्रातस्सवनादयश्शब्दाः कर्मणि वर्तन्ते । गतमन्यत् ॥

इन्द्र॑-पीतस्य॒ ...{Loading}...
विश्वास-प्रस्तुतिः

इन्द्र॑-पीतस्य॒ नरा॒शँस॑-पीतस्य पि॒तृ-पी॑तस्य॒
मधु॑मत॒
उप॑हूत॒स्योप॑हूतो भक्षयामि

Keith

who art drunk by Indra, who art drunk by Naraśansa, who art drunk by the fathers, who hast sweetness, and who art invited, I invited eat.

मूलम्

इन्द्र॑पीतस्य॒ नरा॒शँस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ।

भट्टभास्कर-टीका

इन्द्रपीतस्य इन्द्रेण प्रथमं पीतस्य । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्रस्य सर्वदेवतामयत्वात् सर्वत्रैवमप्यन्यदेवते ।
नराशंसपीतस्य नरैश् शंसन्ति पानं ये भक्षणे ते नराशंसाः देवताविशेषाः । यद्वा - नरैश्शंसनीया नराशंसाः तैः पीतो नराशंसपीतः तस्य । यत्तेन पदेन नराशंसानामेव भक्षणं भक्षिताप्यायिता नराशंसाश्चमसाः । पूर्ववत्स्वरः, पूर्ववदेव ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ।
पितृपीतस्य पितृभिरस्मत्पूर्वैः पीतस्य । स एव स्वरः ।
मधुमतः मधुररसवतः उपहूतस्य इन्द्रादिभिरनुज्ञातस्य ईदृशस्य तव अहं उपहूतः देवैस्सहभक्षिभिरनुज्ञातः भक्षयामि । सर्वत्र कर्मणि षष्ठी ॥

भास्करोक्त-विनियोगः

7अथ तृतीयसवने - आदित्यवद्गणस्येति ॥

विश्वास-प्रस्तुतिः

आ॒दि॒त्यव॑द्-गणस्य सोम देव ते
मति॒-विद॑स् तृ॒तीय॑स्य॒ सव॑नस्य॒ जग॑ती-छन्दस॒ …

Keith

Of thee, O god Soma, who hast the Adityas for thy troop, who knowest the heart, who belongest to the third pressing, who hast the Jagati for thy metre,

मूलम्

आ॒दि॒त्यव॑द्गणस्य सोम देव ते मति॒विद॑स्तृ॒तीय॑स्य॒ सव॑नस्य॒ जग॑तीछन्दस॒

भट्टभास्कर-टीका

तृतीयस्य सवनस्य सूयमानस्य तव भक्षयामीति । एवं सोमविशेषणतया नीतानि दश पदानि षष्ठ्यन्तानि । इतरथा इन्द्रपीतस्येत्याद्यघटमान् स्यात् । वैयधिकरण्यं तु क्लिष्टमिति ॥

इन्द्र॑-पीतस्य॒ ...{Loading}...
विश्वास-प्रस्तुतिः

इन्द्र॑-पीतस्य॒ नरा॒शँस॑-पीतस्य पि॒तृ-पी॑तस्य॒
मधु॑मत॒
उप॑हूत॒स्योप॑हूतो भक्षयामि

Keith

who art drunk by Indra, who art drunk by Naraśansa, who art drunk by the fathers, who hast sweetness, and who art invited, I invited eat.

मूलम्

इन्द्र॑पीतस्य॒ नरा॒शँस॑पीतस्य पि॒तृपी॑तस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ।

भट्टभास्कर-टीका

इन्द्रपीतस्य इन्द्रेण प्रथमं पीतस्य । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । इन्द्रस्य सर्वदेवतामयत्वात् सर्वत्रैवमप्यन्यदेवते ।
नराशंसपीतस्य नरैश् शंसन्ति पानं ये भक्षणे ते नराशंसाः देवताविशेषाः । यद्वा - नरैश्शंसनीया नराशंसाः तैः पीतो नराशंसपीतः तस्य । यत्तेन पदेन नराशंसानामेव भक्षणं भक्षिताप्यायिता नराशंसाश्चमसाः । पूर्ववत्स्वरः, पूर्ववदेव ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ।
पितृपीतस्य पितृभिरस्मत्पूर्वैः पीतस्य । स एव स्वरः ।
मधुमतः मधुररसवतः उपहूतस्य इन्द्रादिभिरनुज्ञातस्य ईदृशस्य तव अहं उपहूतः देवैस्सहभक्षिभिरनुज्ञातः भक्षयामि । सर्वत्र कर्मणि षष्ठी ॥

भास्करोक्त-विनियोगः

8चमसान् आप्याययति - आप्यायस्वेति गायत्र्या ॥

०४ आ प्यायस्व ...{Loading}...

आ᳓ प्यायस्व स᳓मेतु ते
विश्व᳓तः सोम वृ᳓ष्ण्यम् ।
भ᳓वा वा᳓जस्य सङ्गथे᳓+++(=संगमने)+++ ॥

004 ...{Loading}...
अधिमन्त्रम् - sa
  • देवता - पवमानः सोमः
  • ऋषिः - गोतमो राहूगणः
  • छन्दः - गायत्री
Thomson & Solcum

आ᳓ प्यायस्व स᳓म् एतु ते
विश्व᳓तः सोम वृ᳓ष्णियम्
भ᳓वा वा᳓जस्य संगथे᳓

Vedaweb annotation

Strata
Normal


Pāda-label
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; repeated line
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; repeated line
genre M;; Oldenberg’s gāyatrī-corpus, cf. Oldenberg (1888: 9f.).;; repeated line


Morph
ā́ ← ā́ (invariable)

etu ← √i- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

pyāyasva ← √pyā- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:MED}

sám ← sám (invariable)

te ← tvám (pronoun)
{case:DAT, number:SG}

soma ← sóma- (nominal stem)
{case:VOC, gender:M, number:SG}

viśvátas ← viśvátas (invariable)

vŕ̥ṣṇyam ← vŕ̥ṣṇya- (nominal stem)
{case:NOM, gender:N, number:SG}

bháva ← √bhū- (root)
{number:SG, person:2, mood:IMP, tense:PRS, voice:ACT}

saṁgathé ← saṁgathá- (nominal stem)
{case:LOC, gender:M, number:SG}

vā́jasya ← vā́ja- (nominal stem)
{case:GEN, gender:M, number:SG}

पद-पाठः

आ । प्या॒य॒स्व॒ । सम् । ए॒तु॒ । ते॒ । वि॒श्वतः॑ । सो॒म॒ । वृष्ण्य॑म् ।
भव॑ । वाज॑स्य । स॒म्ऽग॒थे ॥

Hellwig Grammar
  • ā
  • [adverb]
  • “towards; ākāra; until; ā; since; according to; ā [suffix].”

  • pyāyasvapyā
  • [verb], singular, Present imperative
  • “swell; abound; swell.”

  • sam
  • [adverb]
  • “sam; together; together; saṃ.”

  • etui
  • [verb], singular, Present imperative
  • “go; travel; enter (a state); return; walk; continue; reach; ask.”

  • tetvad
  • [noun], genitive, singular
  • “you.”

  • viśvataḥviśvatas
  • [adverb]
  • “everywhere; around; about.”

  • soma
  • [noun], vocative, singular, masculine
  • “Soma; moon; soma [word]; Candra.”

  • vṛṣṇyamvṛṣṇya
  • [noun], nominative, singular, neuter
  • “manfulness; virility.”

  • bhavābhavabhū
  • [verb], singular, Present imperative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • vājasyavāja
  • [noun], genitive, singular, masculine
  • “prize; Vāja; reward; reward; Ribhus; vigor; strength; contest.”

  • saṃgathesaṃgatha
  • [noun], locative, singular, masculine

सायण-भाष्यम्

हे सोम त्वं वायुभिरद्भिश्च प्यायस्व प्रवृद्धो भव । ते त्वां विश्वतः वृष्ण्यं वर्षयोग्यं , बलं समेतु संगच्छताम् । संगथे संग्रामे वाजस्य अन्नस्य प्रापकः भव

भट्टभास्कर-टीका

हे सोम आप्यायस्व वर्धस्व मा भक्षित इति क्षेष्ठाः, समेतु संगच्छतु ते त्वाम् । कर्मणि षष्ठी । विश्वतः सर्वतः ।
वृष्णियं वीर्यम्, वृष्णिसंभवं वृष्णियं, दिगादित्वाद्यत्, ‘यतोऽनावः’ इत्याद्युदात्तत्वम् ।
वाजस्यान्नस्य संगथे संगमने अस्माकं भव तन्निमित्तं भव ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् । गमेरौणादिकः स्थन् ॥


आप्यायस्वेति गायत्री ॥ इयमग्निकाण्डे व्याख्यास्यते यत्राम्नायते प्रकृतौ हि हीयुः [‘मा नो हिंसीः’ ] इत्यत्र । इह तु प्रतीकग्रहणम् । हे सोम तव प्रसादात् वृष्णियं वीर्यं विश्वतः समेतु समागच्छताम् । त्वदर्थं च मामाप्यायस्व द्यध्यात् [दध्यादिना] । किञ्च - वाजस्यान्नस्य सङ्गथे सङ्गमनार्थं भवेति ॥


हे सोम आप्यायस्व वर्धस्व । ते तव विश्वतः वृष्णियं वीर्यं समेतु । तत्र आप्यायितस्त्वं वाजस्यान्नस्य क्षीरादेः संगथे संगमने अस्माकं भवेति ॥


आप्यायस्व समेतु त इति गायत्री ॥ इयञ्चाग्निकाण्डे ‘मा नो हिंसीत्’ इत्यत्र व्याख्यास्यते यत्राम्नायते । हे सोम आप्यायस्व वर्धस्व त्वत्प्रसादात् विश्वतः वृष्ण्यं शुक्लं समेतु समागच्छतु । भव च वाजस्यान्नस्य सङ्गथे सङ्गमनायैवेति ॥

Wilson

English translation:

“Be well nourished, Soma; may vigour come to you from all sides, be (the giver) of strength in battle.”

Jamison Brereton

Swell here, and let bullish power come together for you from all
sides, Soma.
Be at the gathering for the prize.

Keith

Swell up, lot thy strength be gathered
From all sides, O Soma;
Be strong in the gathering of might.

Griffith

Soma, wax great. From every side may vigorous powers unite in thee:
Be in the gathering-Place of strength.

Geldner

Quill auf! Von überall soll deine Bullenstärke zusammenkommen, o Soma! Sei dabei, wo der Gewinn sich anhäuft.

Grassmann

Schwill, Soma, an, es komme dir von allen Seiten Heldenkraft, Sei, wo die Kraft zusammenströmt.

Elizarenkova

Набухай! Пусть соберется
Со всех сторон твоя бычья сила, о сома!
Будь на месте стечения наград!

अधिमन्त्रम् (VC)
  • पवमानः सोमः
  • गोतमोः
  • निचृद्गायत्री
  • षड्जः
आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (सोम) हे सम्पूर्ण संसार के उत्पादक परमात्मन् ! (ते वृष्ण्यम्) सब कामनाओं की वर्षा करनेवाला तुम्हारा ऐश्वर्य्य (विश्वतः) सब और से (समेतु) हमको प्राप्त हो और आप (आ प्यायस्व) सब प्रकार से हमारी वृद्धि करें तथा (वाजस्य सङ्गथे) एश्वर्यनिमित्तक संग्रामों में आप (भव) हमारे संगी बने॥४॥

आर्यमुनि - भावार्थः

भावार्थभाषाः - जो लोग एकमात्र परमात्मा को अपना आधार बनाते हैं, वे सब प्रकार सेऐश्वर्य्यशाली होते हैं और संग्रामजनित विपत्तियों में परमात्मा उनकी सहायता करता है ॥४॥

आर्यमुनि - पदार्थः

पदार्थान्वयभाषाः - (सोम) हे समस्तस्य जगतः कर्तः परमात्मन् ! (ते वृष्ण्यम्) सर्वाभिलाषदं भवत ऐश्वर्य्यं (विश्वतः) सर्वतः (समेतु) अस्मान् प्राप्नोतु अथ च भवान् (आ प्यायस्व) अस्मान् सर्वप्रकारेण वर्धय तथा (वाजस्य सङ्गथे) ऐश्वर्यनिमित्तके सङ्ग्रामे (भव) नः सहायको भव ॥४॥

भास्करोक्त-विनियोगः

9भक्षयित्वा आत्मानमभिमृशति - हिन्वेति पथ्याबृहत्या ॥ तृतीयस्य द्वादशाक्षरत्वात् ।

विश्वास-प्रस्तुतिः ...{Loading}...

हिन्व॑+++(=प्रीणय)+++ मे॒ गात्रा॑ हरिवो +++(सोम)+++
ग॒णान् मे॒ मा वि ती॑तृषः +++(पुनः पानैः)+++ ।
शि॒वो मे॑ सप्त॒-र्षीन् +++(शिरो-विवर-प्राणान्)+++ उप॑ तिष्ठस्व॒
मा मेऽवा॒ङ्नाभि॒म् अति॑ गाः

सर्वाष् टीकाः ...{Loading}...

Keith

Impel my limbs, O thou with tawny steeds,
Do not distress my troops;
Propitious do thou honour for me the seven sages;
Do not go below my navel [3].

मूलम्

हिन्व॑ मे॒ गात्रा॑ हरिवो ग॒णान्मे॒ मा वि ती॑तृषः ।
शि॒वो मे॑ सप्त॒र्षीनुप॑ तिष्ठस्व॒ मा मेऽवा॒ङ्नाभि॒मति॑ [18] गाः ।

भट्टभास्कर-टीका

हे हरिवः हरितवर्ण । ‘मतुवसोः’ इति रुत्वम् । मे मम गात्रा गात्राणि हिन्व प्रीणय । हिवि प्रीणने, इदित्वान्नुम् । मे मदीयान् गणान् पुत्रादीन् मा वितीतृषः वितृष्णान् मा कार्षीः पुनःपुनः पातॄन् कुरु । किंच - शिवो भूत्वा मे मदीयान् सप्त ऋषीन् अरिषितॄन् प्राणान् शीर्षण्यान् द्वेद्वे चक्षुषी श्रोत्रे नासिके एकमास्यमिति, तानुपतिठस्व । ऋषि गतौ, औणादिक इनिप्रत्ययः । उपस्थानमुपेत्य तर्पणं तदर्थं मे मम नाभिमतीत्य अवाक् अधस्तात् मा गाः मा गमः । अवपूर्वादञ्चतेः क्विनि ‘अनिगन्तोञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् ॥

भास्करोक्त-विनियोगः

10आदित्यमुपतिष्ठते - अपामेति त्रिष्टुभा ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अपा॑म॒ सोम॑म्, अ॒मृता॑ अभूम
अद॑र्श्म॒ ज्योति॒र्, अवि॑दाम दे॒वान् ।
किम् अ॒स्मान् कृ॑णव॒द् अरा॑ति॒ᳵ
किम् उ॑ धू॒र्तिर् अ॑मृत॒! मर्त्य॑स्य ।

सर्वाष् टीकाः ...{Loading}...

Keith

We have drunk the Soma, we have become immortal,
We have seen the light, we have found the gods;
What can the enmity, what the treachery,
Of mortal man do to us, O immortal?

मूलम्

अपा॑म॒ सोम॑म॒मृता॑ अभू॒माद॑र्श्म॒ ज्योति॒रवि॑दाम दे॒वान् ।
किम॒स्मान्कृ॑णव॒दरा॑ति॒ᳵ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ।

भट्टभास्कर-टीका

अपाम सोमम् । पिबतेर्लुङि ‘गातिस्थ’ इति सिचो लुक् । अमृता अमरणाः अभूम भविष्यामः । प्रत्यक्षविरोधात् व्यत्ययेन भविष्यति लुङ् । यद्वा - ‘आशंसायां भूतवच्च’ इति भविष्यदर्थे लुङ् । अमृता भूयास्मेत्याशास्यते, तेनैव सिचो लुक् । ‘नञो जरमरमित्र’ इत्युत्तरपदान्तोदात्तत्वम् ।
अदर्श्म द्रक्ष्यामः ज्योतिः द्योतमानं वस्तु स्वर्गं आदीत्यं वा । छान्दसः सिचो लोपः । अविदाम ज्ञास्यामः देवान् । व्यत्ययेन च्लेरङ् ।
यद्वा - अविदाम लप्स्यामहे । ऌदित्वादङ् ।

अत्र प्रथमस्याख्यातस्य पादादित्वान् निघाताभावः ।
द्वितीयं निहन्यत एव ।
तृतीयं पादादित्वान् न निहन्यते ।
चतुर्थं तु +++(कात्यायनोक्तरीत्या)+++ समानवाक्ये पदात् परत्वाभावान्न निहन्यते ।

एवम् अमृतभूतान् अस्मान्
अरातिः शत्रुः मृत्युर्वा किं कृणवत् किं कुर्यात् ।
कृवि हिंसाकरणयोः, इदित्वान्नुम्, ‘धिन्विकृण्व्योरच’ इत्युप्रत्ययः, लेटोडाटौ, इत्यडागमः ।
मर्त्यस्य मरणधर्मिणो मनुष्यस्य धूर्तिः हिंसा इदानीमस्मान् किमु किमेव कुर्यात् अमृतान् अस्मान् । विभक्तेर्लुक् छान्दसः, निघातश्च ।
यद्वा - अमृतेति सोम आमन्त्र्यते ।
तेन अमन्त्रितानाम् अनुदात्तत्वं प्रवर्तते । धुर्वेः ‘क्तिच्क्तौच’ इति क्तिच् ॥

भास्करोक्त-विनियोगः

11आग्नीध्रे स्रुवाहुतिं जुहोति - यन्म आत्मन इति द्वाभ्याम्, प्रथमा त्रिष्टुप् जगती वा ।

विनियोगः बोधायन-गृह्ये

सर्वत्र स्कन्ने भिन्ने छिन्ने भग्ने नष्टे क्षामे विपर्यास उद्दाह ऊनातिरिक्ते वा “यन्म आत्मनो मिन्दाभूत्, पुनरग्निश्चक्षुरदाद्” इत्येताभ्याँ स्रुवाहुती जुहुयात्।
सर्वेष्वग्न्युपघातेषु “पुनस्त्वादित्या रुद्रा वसवः समिन्धतामि"त्येतया समिधमादध्यादेतयैव स्रुवाहुतिं जुहुयात्।

विश्वास-प्रस्तुतिः ...{Loading}...

यन् म॑ आ॒त्मनो॑ मि॒न्दा+++(=हिंसा)+++ ऽऽभू॑द्,
अ॒ग्निस् तत् पुन॒र् आहाः॑ +++(=आहर)+++।
जा॒तवे॑दा॒ विच॑र्षणिः+++(विचक्षणः)+++॥

सर्वाष् टीकाः ...{Loading}...

मूलम्

यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा॒ विच॑र्षणिः ।

भट्टभास्कर-टीका

‘तत्’ इति प्रथमपादान्तः । त्रिपदा गायत्री । ‘अग्निस्तत्पुनराहाः’ इति द्वितीयः पादः । द्वितीयाऽनुष्टुप् ॥ मे मम आत्मनः यत्किंचित् केन चिन्निमित्तेन प्रमादादिना मिन्दा मिन्दितं गलितं क्रान्तमभूत् । ‘यद्वै यज्ञस्य न्यूनं क्रियते तच्छिद्रं तेन यज्ञः पराभवति यज्ञमनु यजमानो यजमानमनु प्रजाः पशवश्च’ इति दर्शनात् । मिदि स्नेहने । ‘गुरोश्च हलः’ इत्यकारप्रत्ययः । यदिति सामान्यविवक्षया नपुंसकत्वम्, यथा - ‘एष वै यजमानः । यद्यूपः’ इति । अग्निः जातवेदाः जातानां वेदिता विचर्षणिः विशिष्टदशर्नः तत्पुनः आहाः आहरतु । छान्दसे लिङि सिचि वृद्धौ ‘बहुलं छन्दसि’ इतीडभावे हल्ङ्यादिसंयोगान्तलोपौ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

पुन॑र् अ॒ग्निश् चक्षु॑र् अदा॒त्
पुन॒र् इन्द्रो॒ बृह॒स्पतिः॑।
पुन॑र् मे अश्विना यु॒वं
चक्षु॑र्+++(=दर्शनशक्तिम्)+++ आ धत्तम् अ॒क्ष्योः ॥

+++(अग्नीन्द्राबृहस्पत्यश्विभ्य इदं न मम॥)+++

सर्वाष् टीकाः ...{Loading}...

Keith

Whatever fault has been mine,
Agni hath put that right, all-knower, he who belongeth to all men;
Agni hath given back the eye,
Indra and Brhaspati have given it back;
Do ye two, O Aśvins,
Replace my eye within its sockets.

मूलम्

पुन॑र॒ग्निश्चक्षु॑रदा॒त्पुन॒रिन्द्रो॒ बृह॒स्पतिः॑ । पुन॑र्मे अश्विना यु॒वञ्चक्षु॒रा ध॑त्तम॒क्ष्योः ।

भट्टभास्कर-टीका

12अथ द्वितीया - पुनरिति ॥ पुनः मह्यं अग्निश्चक्षुरदात् ददातु । स एव लुङ्’ ‘गातिस्थ’ इति सिचो लुक् । इन्द्रश्च बृहस्पतिश्च पुनश्चक्षुरदादित्येव । बृहस्पतेस्सुडुदात्तत्वे उक्ते । हे अश्विना अश्विनौ युवं युवामपि पुनर्मे चक्षुर्दर्शनसामर्थ्यं अक्ष्योः अक्ष्णोः आधत्तं स्थापयतम् । ‘ई द्विवचने’ इतीकारः, स चोदात्तः, तेन ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् ॥

भास्करोक्त-विनियोगः

13अथ हारियोजने धानानां भक्षणमन्त्रः - इष्टयजुष इत्यादि यजुः ॥

विश्वास-प्रस्तुतिः - यजुः

इ॒ष्ट-य॑जुषस् ते देव सोम
स्तु॒त-स्तो॑मस्य श॒स्तोक्थ॑स्य॒
हरि॑वत॒ इन्द्र॑-पीतस्य॒ मधु॑मत॒
उप॑हूत॒स्योप॑हूतो भक्षयामि ।

Keith

Of thee, O god Soma, over whom the Yajus is spoken, the Stoma sung [4], the Uktha recited, who hast tawny steeds, who art drunk by Indra, who hast sweetness, and who art invited, I invited eat.

मूलम्

इ॒ष्टय॑जुषस्ते देव सोम स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ हरि॑वत॒ इन्द्र॑पीतस्य॒ मधु॑मत॒ उप॑हूत॒स्योप॑हूतो भक्षयामि ।

भट्टभास्कर-टीका

हे देव सोम ते तव त्वां भक्षयामि । पूर्ववत्कर्मणि षष्ठी कीदृशस्य? इष्टयजुषः । इष्टमेभिरिति छान्दसः करणे क्तः । इष्टानि यजूंषि यस्य । स्तुतस्तोमस्य स्तुताः स्तोमाः यस्य । शस्तोक्थस्य शस्तानि शस्त्राणि यस्य तादृशस्य, हरिवत इत्यादि । गतम् ॥

भास्करोक्त-विनियोगः

14धाना निर्णिज्योत्तरवेद्यां सन्निवपति - आपूर्या इति द्विपदया गायत्र्या ॥

विश्वास-प्रस्तुतिः

आ॒पूर्या॑स् स्थ,
+आ मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च ।

Keith

Ye are to be filled; fill me
With offspring and wealth.

मूलम्

आ॒पूर्या॒स्स्था मा॑ पूरयत प्र॒जया॑ च॒ धने॑न च ।

भट्टभास्कर-टीका

आपूर्याः आपूर्णा एव यूयं स्थ ।
भक्षणेन न क्षयः कश्चिद् अस्माभिः कृतः ।
कर्तरि कृत्यः । यद्वा - करणे । आपूर्यः स्थ । तस्मान्मामापूरयत प्रजया च धनेन च ॥

भास्करोक्त-विनियोगः

15-17तिस्रो धाना ददाति - एतत्ते ततेति ॥ ‘सोमाय पितृमते’ इत्यत्रैतद्व्याख्यातम् ।

एतत् ते तत ...{Loading}...
विश्वास-प्रस्तुतिः

ए॒तत् ते॑ तत॒ ये च॒ त्वाम् अनु॑।
[ए॒तत् ते॑] पितामह [ये च॒ त्वाम् अनु॑]।
[ए॒तत् ते॑] प्रपितामह॒ [ये च॒ त्वाम् अनु॑]।
अत्र॑ पितरो यथाभा॒गम्म॑न्दध्वम् ।

Keith

This for thee, O father, and for thy line;
This for thee, O grandfather, great-grandfather, and for thy line

मूलम्

ए॒तत्ते॑ तत॒ ये च॒ त्वामन्वे॒तत्ते॑ पितामह प्रपितामह॒ ये च॒ त्वामनु॑ ।

भट्टभास्कर-टीका

एनदन्नं ते तव भवतु हे तत तात ।
ये च त्वामनुगता आश्रिताः अन्ये, तेषाञ्चैतदन्नं भवतु । एतत्ते अन्नं हे पितामह, ये च त्वामनुगताः तेषां च । पितुः पिता पितामहः । एवमेतत्ते अन्नं हे प्रपितामह, ये चान्ये त्वामनुगताः, तेषाञ्च । पितामहस्य पिता प्रपितामहः ।


हे तत तात एतदशनं तव ये चान्ये त्वामनुगताः । एतत्ते पितामह, ये च त्वामनुगताः । एतत्ते प्रपितामह, ये च त्वामनुगताः ।

विश्वास-प्रस्तुतिः

अत्र॑ पितरो यथाभा॒गम् म॑न्दध्वम् ।

Keith

Do ye Pitrs rejoice in your portions.


Rejoice therein, O fathers, according to your shares.

मूलम्

अत्र॑ पितरो यथाभा॒गम्म॑न्दध्वम् ।

भट्टभास्कर-टीका

अधुना सर्वेपि सामान्येनोच्यन्ते । अत्र अस्मिन् कर्मणि हे पितरः पातारः पितृप्रभृतयो वा पितृपितामहप्रपितामहाः यथाभागं योयो यस्य भागः तेनतेन । ‘यथाऽसादृश्ये’ इत्यव्ययीभावः । यूयं मन्दध्वं मोदध्वम् । मदि स्तुतिमोदमदस्वप्नगतिषु ॥

नमो वः ...{Loading}...
भास्करोक्त-विनियोगः

18षद्भिर्नमस्कारैरुपतिष्ठते - नमो व इति ॥

मूलम् (संयुक्तम्)

नमो॑ वᳶ पितरो॒ रसा॑य॒ नमो॑ वᳶ पितर॒श्शुष्मा॑य॒ नमो॑ वᳶ पितरो जी॒वाय॒ नमो॑ वᳶ पितरः [20] स्व॒धायै॒ नमो॑ वᳶ पितरो म॒न्यवे॒ नमो॑ वᳶ पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मिल्ँ॑ लो॒के स्थ यु॒ष्माँस्तेऽनु॒ ये॑ऽस्मिल्ँ लो॒के मान्तेऽनु॒ य ए॒तस्मिल्ँ॑ लो॒के स्थ यू॒यन्तेषाव्ँ॒वसि॑ष्ठा भूयास्त॒ ये॑ऽस्मिल्ँ लो॒के॑ऽहन्तेषाव्ँ॒वसि॑ष्ठो भूयासम्

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो॒ रसा॑य । [पित॑रो॒ नमो॑ वः।],

Keith

Homage to your taste, O fathers;

मूलम्

नमो॑ वᳶ पितरो॒ रसा॑य । [पित॑रो॒ नमो॑ वः।],

भट्टभास्कर-टीका

हे पितरः युष्मभ्यं नमः नमस्करोमि रसाय रसार्थं रसवान् भूयासमिति । ‘पितरो नमो वः’ इत्यादिकं षट्स्वप्यजुषज्यते ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितर॒श् शुष्मा॑य +++(पित॑रो॒ नमो॑ वः )+++,,

Keith

homage to your birth, O fathers;

मूलम्

नमो॑ वᳶ पितर॒श्शुष्मा॑य +++(पित॑रो॒ नमो॑ वः )+++,,

भट्टभास्कर-टीका

शुष्मो बलम् ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो जी॒वाय । [पित॑रो॒ नमो॑ वः।],

Keith

homage to your life, O fathers;

मूलम्

नमो॑ वᳶ पितरो जी॒वाय । [पित॑रो॒ नमो॑ वः।],

भट्टभास्कर-टीका

जीवः प्राणः ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पि॒त॒र॒स् स्व॒धायै॑ । [पित॑रो॒ नमो॑ वः।],,

Keith

homage to your [5] custom, O fathers;

मूलम्

नमो॑ वᳶ पि॒त॒र॒स्स्व॒धायै॑ । [पित॑रो॒ नमो॑ वः।],,

भट्टभास्कर-टीका

स्वधा अन्नम् ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो म॒न्यवे॑ । [पित॑रो॒ नमो॑ वः।],,

Keith

homage to your anger, O fathers;

मूलम्

नमो॑ वᳶ पितरो म॒न्यवे॑ । [पित॑रो॒ नमो॑ वः।],,

भट्टभास्कर-टीका

मन्युर्दीप्तिः, क्रोधो वा ।

विश्वास-प्रस्तुतिः

नमो॑ वᳶ पितरो घो॒राय॑ ,
पित॑रो॒ नमो॑ वः ।

Keith

homage to your terrors, O fathers; O fathers, homage to you.

मूलम्

नमो॑ वᳶ पितरो घो॒राय॑ ,
पित॑रो॒ नमो॑ वः ।

भट्टभास्कर-टीका

घोरः क्रूरम् । एतयोः स्थाने प्राधान्यं प्रार्थ्यते । हे पितरः युष्मभ्यं नमः । फलमनपेक्ष्य सप्तमोयं नमस्कारः क्रियते । पुनर्वचनं फलनिरपेक्षया नमस्कारार्थम् । अन्य आहुः - पितृसंबन्धिभ्यो रसादिभ्यः प्रथमं षण्णमस्काराः, ततः पितृभ्य एव सप्तम इति ।

विश्वास-प्रस्तुतिः

य ए॒तस्मिल्ँ॑ लो॒के स्थ यु॒ष्माँस्तेऽनु॑ ।

Keith

Ye that are in that world, may they follow you;

मूलम्

य ए॒तस्मिल्ँ॑ लो॒के स्थ यु॒ष्माँस्तेऽनु॑ ।

भट्टभास्कर-टीका

ये एतस्मिन् लोके पितरः स्थ । एतस्मिन्निति पितृलोकं व्यपदिशति । स्थेति सर्वपित्रभिप्रायेणोक्तम् । ते सर्वे युष्माननुसन्तु युष्मत्प्रधाना भवन्तु । ‘हीने’ इत्यनोः कर्मप्रवचनीयत्वम् । युष्मानिति पित्रादित्रयं व्यपदिशति ।

विश्वास-प्रस्तुतिः

ये॑ऽस्मिल्ँ लो॒के मान् तेऽनु॑ ।

Keith

ye that are in this world, may they follow me.

मूलम्

ये॑ऽस्मिल्ँ लो॒के मान्तेऽनु॑ ।

भट्टभास्कर-टीका

अस्मिन् मनुष्यलोके मनुष्याः स्थ, ते सर्वे मामनु सन्तु मत्प्रधाना भवन्तु ।

विश्वास-प्रस्तुतिः

य ए॒तस्मिल्ँ॑ लो॒के स्थ यू॒यन् तेषाव्ँ॒ वसि॑ष्ठा भूयास्त ।

Keith

Ye that are in that world, of them be ye the most fortunate;

मूलम्

य ए॒तस्मिल्ँ॑ लो॒के स्थ यू॒यन्तेषाव्ँ॒वसि॑ष्ठा भूयास्त ।

भट्टभास्कर-टीका

ये यूयमेतस्मिन् लोके स्थ तेषां पितॄणां यूयं वसिष्ठाः वसुमत्तमा भूयास्त ।

विश्वास-प्रस्तुतिः

ये॑ऽस्मिल्ँ लो॒के॑ ऽहन् तेषाव्ँ॒वसि॑ष्ठो भूयासम् ।

Keith

ye that are in this world, of these may I be the most fortunate.

मूलम्

ये॑ऽस्मिल्ँ लो॒के॑ऽहन्तेषाव्ँ॒वसि॑ष्ठो भूयासम् ।

भट्टभास्कर-टीका

येऽस्मिन् लोके सन्ति मनुष्यास्तेषां मनुष्याणामहं वसिष्ठो वसुमत्तमो भूयासम् । वसुशब्दादिष्ठनि ‘विन्मतोर्लुक्’ इति लुक्, ‘टेः’ इति टिलोपः ॥

भास्करोक्त-विनियोगः

19प्राजापत्यया त्रैष्टुभा गार्हपत्यमुपतिष्ठते - प्रजापत इति ॥ व्याख्याता चेयं ‘सोमस्य त्विषिरसि’ इत्यत्र ।

१० प्रजापते न ...{Loading}...

प्र᳓जापते न᳓ त्व᳓द् +++(विश्वा जातानि→)+++ एता᳓न्य् अन्यो᳓
वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव
य᳓त्-कामास् ते जुहुम᳓स् त᳓न् नो अस्तु
वयँ᳓ स्याम प᳓तयो रयीणा᳓म्॥

010 ...{Loading}...

अधिमन्त्रम् - sa
  • देवता - कः
  • ऋषिः - हिरण्यगर्भः प्राजापत्यः
  • छन्दः - त्रिष्टुप्
Thomson & Solcum

प्र᳓जापते न᳓ त्व᳓द् एता᳓नि अन्यो᳓
वि᳓श्वा जाता᳓नि प᳓रि ता᳓ बभूव
य᳓त्कामास् ते जुहुम᳓स् त᳓न् नो अस्तु
वयं᳓ सियाम प᳓तयो रयीणा᳓म्

मूलम् - तैत्तिरीयम्

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यः । विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव । यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु । व॒यँ स्या॑म॒ पत॑यो रयी॒णाम्॥

Vedaweb annotation

Strata
Popular for linguistic reasons, and possibly also for non-linguistic reasons


Pāda-label
popular
popular
popular
popular;; repeated line


Morph
anyáḥ ← anyá- (nominal stem)
{case:NOM, gender:M, number:SG}

etā́ni ← eṣá (pronoun)
{case:ACC, gender:N, number:PL}

ná ← ná (invariable)

prájāpate ← prajā́pati- (nominal stem)
{case:VOC, gender:M, number:SG}

tvát ← tvám (pronoun)
{case:ABL, number:SG}

babhūva ← √bhū- (root)
{number:SG, person:3, mood:IND, tense:PRF, voice:ACT}

jātā́ni ← √janⁱ- (root)
{case:ACC, gender:N, number:PL, non-finite:PPP}

pári ← pári (invariable)

tā́ ← sá- ~ tá- (pronoun)
{case:ACC, gender:N, number:PL}

víśvā ← víśva- (nominal stem)
{case:ACC, gender:N, number:PL}

astu ← √as- 1 (root)
{number:SG, person:3, mood:IMP, tense:PRS, voice:ACT}

juhumáḥ ← √hu- (root)
{number:PL, person:1, mood:IND, tense:PRS, voice:ACT}

naḥ ← ahám (pronoun)
{case:ACC, number:PL}

tát ← sá- ~ tá- (pronoun)
{case:NOM, gender:N, number:SG}

te ← tvám (pronoun)
{case:DAT, number:SG}

yátkāmāḥ ← yátkāma- (nominal stem)
{case:NOM, gender:M, number:PL}

pátayaḥ ← páti- (nominal stem)
{case:NOM, gender:M, number:PL}

rayīṇā́m ← rayí- ~ rāy- (nominal stem)
{case:GEN, gender:M, number:PL}

syāma ← √as- 1 (root)
{number:PL, person:1, mood:OPT, tense:PRS, voice:ACT}

vayám ← ahám (pronoun)
{case:NOM, number:PL}

पद-पाठः

प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ ।
यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

Hellwig Grammar
  • prajāpateprajāpati
  • [noun], vocative, singular, masculine
  • “Prajapati; Brahma; Dakṣa.”

  • na
  • [adverb]
  • “not; like; no; na [word].”

  • tvadtvattvad
  • [noun], ablative, singular
  • “you.”

  • etānyetānietad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); etad [word].”

  • anyoanyaḥanya
  • [noun], nominative, singular, masculine
  • “other; another(a); remaining; different; anya [word]; other than; more(a); fresh; any(a).”

  • viśvāviśva
  • [noun], accusative, plural, neuter
  • “all(a); whole; complete; each(a); viśva [word]; completely; wholly.”

  • jātānijan
  • [verb noun], accusative, plural
  • “become; originate; be born; transform; happen; result; grow; beget; produce; create; conceive; separate; cause; give birth; grow; produce; generate; be; become; arise; come on.”

  • pari
  • [adverb]
  • “from; about; around.”

  • tad
  • [noun], accusative, plural, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • babhūvabhū
  • [verb], singular, Perfect indicative
  • “become; be; originate; transform; happen; result; exist; be born; be; be; come to life; grow; elapse; come to mind; thrive; become; impend; show; conceive; understand; stand; constitute; serve; apply; behave.”

  • yatkāmāsyad
  • [noun]
  • “who; which; yat [pronoun].”

  • yatkāmāskāmāḥkāma
  • [noun], nominative, plural, masculine
  • “wish; desire; sexual love; sexual desire; desire; Kama; sensuality; love; purpose; sexual arousal; pleasure; enjoyment; licentiousness; kāma [word]; sexual intercourse; thorn apple; wish.”

  • tetvad
  • [noun], dative, singular
  • “you.”

  • juhumasjuhumaḥhu
  • [verb], plural, Present indikative
  • “sacrifice; offer; pour; worship.”

  • tantattad
  • [noun], nominative, singular, neuter
  • “this; he,she,it (pers. pron.); respective(a); that; nominative; then; particular(a); genitive; instrumental; accusative; there; tad [word]; dative; once; same.”

  • nonaḥmad
  • [noun], dative, plural
  • “I; mine.”

  • astuas
  • [verb], singular, Present imperative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • vayaṃvayammad
  • [noun], nominative, plural
  • “I; mine.”

  • syāmaas
  • [verb], plural, Present optative
  • “be; exist; become; originate; happen; result; be; dwell; be born; stay; be; equal; exist; transform.”

  • patayopatayaḥpati
  • [noun], nominative, plural, masculine
  • “husband; overlord; king; deity; īśvara; ruler; pati [word]; commanding officer; leader; owner; mayor; lord.”

  • rayīṇāmrayi
  • [noun], genitive, plural, masculine
  • “wealth; property.”

सायण-भाष्यम्

हे प्रजापते त्वत् त्वत्तोऽन्यः कश्चित् एतानि इदानीं वर्तमानानि विश्वा विश्वानि सर्वाणि ॥ ‘ शेश्छन्दसि बहुलम् ’ इति शेर्लोपः ॥ जातानि प्रथमविकारभाञ्जि ता तानि सर्वाणि भूतजातानि परि बभूव न परिगृह्णाति । न व्याप्नोति । त्वमेवैतानि परिगृह्य स्रष्टुं शक्नोषीति भावः । परिपूर्वो भवतिः परिग्रहार्थः । वयं च यत्कामाः यत्फलं कामयमानाः ते तुभ्यं जुहुमः हवींषि प्रयच्छामः तत् फलं नः अस्माकम् अस्तु भवतु । तथा वयंरयीणां धनानां पतयः ईश्वराः स्याम भवेम ॥ नामन्यतरस्याम् ’ इति नाम उदात्तत्वम् ॥ ॥ ४ ॥


हे प्रजापते! त्वदन्यः कश्चिदपि जातानि उत्पन्नानि यान्येतानि विश्वानि लोकजातानि सन्ति ता तानि परिबभूव परितो व्याप्तुं त्वत् त्वत्तोऽन्यः कोऽपि न समर्थः । वयं यत्कामा येन फलकामेन युक्ताः सन्तस्ते तुभ्यं जुहुमः तत्फलं नोऽस्माकमस्तु सिध्यतु । वयं त्यत्प्रसादाद्रयीणां धनानां पतयः स्याम ॥

हरदत्तः

प्रजापत इति ॥ हे प्रजापते त्वत् त्वत्तः अन्यः एतानि विश्वा विश्वानि जातानि जनिमन्ति वस्तूनि कश्चिदपि न परिबभूव । परिपूर्वो भवतिः परिग्रहे वर्तते । वर्तमाने लिट्, परिगृह्वाति । न त्वदन्यः परिग्रहीतुं समर्थ इत्यर्थःस । ता तान्येतानि प्रसिद्धानि भुवनादीनीत्यर्थः यत्कामा यत् कामयमाना वयं ते तुभ्यं जुहुमः तन्नः अस्माकं अस्तु संपद्यताम् । कि पुनस्तत्? वयं रयीणां पतयः स्याम ॥

भट्टभास्कर-टीका

हे प्रजापते तान्येतानि विश्वानि जातानि भूतानि त्वत्तोन्यः कश्चिदपि परिभवति निजेन महिम्ना व्याप्नोति । यत्कामास्ते जुहुमो वयं तदस्माकमस्तु । किं च - वयं रयीणां पतयः स्याम भूयास्मेति ॥


हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यद्वा - त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः पीरबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति ; अतो यत्कामा यत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । ‘शीलिकामिभिक्षाचरिभ्यः’ इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह - वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥


हे प्रजापते न खलु कश्चित् त्वत्तोन्यः तान्येतानि विश्वानि जातानि भूतानि परिबभूव परिभवति । तस्माद्यत्कामा वयं जुहुमस्तन्नोस्माकमस्तु । किञ्च - वयं रयीणां पतयस्स्वामिनश्च स्यामेति ॥


हे प्रजापते त्वदन्य एतानि विश्वानि जातानि भुवनानि परिबभूव सर्वतो व्याप्नोति । तस्माद्यद्यत्कामयमानास्ते जुहुमो वयं तत्तथैवास्माकमस्तु वयं रयीणां पतयस्स्यामेति ॥

Wilson

English translation:

“No other than you, Prajāpati, has given existence to all these beings; may that object of our desiresfor which we sacrifice to you be ours, may we be the possessors of riches.”


Commentary by Sāyaṇa: Ṛgveda-bhāṣya

Yajus. 10.20; Nirukta 10.43

Jamison Brereton

O Prajāpati! No one other than you has encompassed all these things that have been born.
Let what we desire as we make oblation to you be ours. We would be lords of riches.

Keith

O Prajapati, none other than thou
Hath encompassed all these beings;
Be that ours for which we sacrifice to thee
May we be lords of wealth.


O Prajapati, none other than thou
Comprehendeth all these creatures [6].
What we seek when we sacrifice to thee, let that be ours;
May we be lords of riches.

Griffith

Prajapati! thou only comprehendest all these created things, and none beside thee.
Grant us our hearts’ desire when we invoke thee: may we have store of riches in possession.

Geldner

Prajapati, kein anderer als du umspannt schützend alle diese Geschöpfe. Mit welchem Wunsche wir dir opfern, der werde uns zuteil! Wir möchten Gebieter von Reichtümern sein!

Grassmann

Pradschāpati, kein anderer als du nur hält alle diese Wesen hier umschlungen, Um was wir heischend flehn, das mög’ uns werden; wir mögen sein die Herren reicher Schätze.

Elizarenkova

О Праджапати! Никто, кроме тебя,
Не охватил все эти существа.
С каким желанием мы совершаем тебе возлияния, да сбудется оно для нас!
Какого бога мы почтили жертвенным возлиянием?

अधिमन्त्रम् (VC)
  • कः
  • हिरण्यगर्भः प्राजापत्यः
  • विराट्त्रिष्टुप्
  • धैवतः
ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (प्रजापते) हे उत्पन्नमात्र के पालक स्वामी ! (त्वत्-अन्यः) तुझसे भिन्न (विश्वा जातानि) सब उत्पन्न हुईं (ता-एता) उन पूर्व की इन वर्तमान की वस्तुओं को (न परि बभूव) न परिभव करता है-अधिकृत करता है (यत्कामाः) जिस कामना को रखते हुए हम (ते जुहुमः) तेरे लिये अपने भाव को समर्पित करते हैं (तत्-नः अस्तु) वह हमारे लिये होवे, (वयम्) हम (रयीणाम्) विविध धनों के (पतयः स्याम) स्वामी होवें ॥१०॥

ब्रह्ममुनि - भावार्थः

भावार्थभाषाः - जो वस्तुएँ पूर्व उत्पन्न हुईं या वर्तमान में होती हैं, उन सबका परमात्मा अधिष्ठाता है, अन्य नहीं, जिस-जिस कामना को लेकर मनुष्य भावना प्रस्तुत करते हैं, वह पूरी होती है, मनुष्य आवश्यक धनों के स्वामी बन जाते हैं ॥१०॥

ब्रह्ममुनि - पदार्थः

पदार्थान्वयभाषाः - (प्रजापते) हे प्रजायमानानां पालयितः स्वामिन् ! (त्वत्-अन्यः) त्वत्तो भिन्नः (ता-एतानि विश्वा जातानि न परि बभूव) सर्वाणि खलूत्पन्नानि तानि पूर्वाणि तथेमानि सम्प्रत्युत्पन्नानि वस्तूनि न परि भवति-नाधिकरोति (यत्कामाः-ते जुहुमः) यः कामो येषां ते तुभ्यं स्वात्मभावं समर्पयेम (तत्-नः-अस्तु) तदभीष्टमस्मभ्यं भवतु (वयं रयीणां पतयः स्याम) वयं सर्वविधधनानां स्वामिनो भवेम ॥१०॥

दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि ...{Loading}...
भास्करोक्त-विनियोगः

20-22शकलैश् चरन्ति - देवकृतस्येति ॥

विश्वास-प्रस्तुतिः

दे॒वकृ॑त॒स्यैन॑सो ऽव॒यज॑नम् असि
म॒नु॒ष्य॑कृतस्यैन॑सोऽव॒यज॑नमसि ।
पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि ।

Keith

Thou art the expiation of sin committed by the gods, thou art the expiation of sin committed by men, thou art the expiation of sin committed by the fathers.

मूलम्

दे॒व-कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि ।
म॒नु॒ष्य॑-कृतस्यैन॑सोऽव॒यज॑नमसि ।
पि॒तृ-कृ॑त॒स्यैन॑सोऽव॒यज॑नमसि ।

भट्टभास्कर-टीका

देवादिविषये यदस्माभिः कृतमेनः अधर्मः तस्यावयजनं नाशनं असि । ‘क्षेपे’ इति सप्तम्यास्समासः, सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । यद्वा - देवादिभिरस्मद्विषये, यत्कृतमेनःफलं दुखं तस्यावयजनमसि । ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्ववम् । एतेनोभे व्याख्याते ॥

अवभृथभक्षमन्त्रः

अ॒प्सु धौ॒तस्य॑ ...{Loading}...
भास्करोक्त-विनियोगः

23अथावभृथभक्षमन्त्रः - अप्सु धौतस्येत्यादि ॥

मूलम् (संयुक्तम्)

अ॒प्सु धौ॒तस्य॑ सोम देव ते॒ नृभि॑स्सु॒तस्ये॒ष्टय॑जुषस्स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒क्षो अ॑श्व॒सनि॒र्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒क्षङ्कृ॑त॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि ॥

विश्वास-प्रस्तुतिः

अ॒प्सु धौ॒तस्य॑ सोम देव ते॒
नृभि॑स् सु॒तस्य॑+
इ॒ष्ट-य॑जुषस् स्तु॒त-स्तो॑मस्य श॒स्तोक्थ॑स्य॒
यो भ॒क्षो अ॑श्व॒-सनि॒र् यो गो॒-सनि॒स्
तस्य॑ ते पि॒तृभि॑र् भ॒क्षङ् कृ॑त॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि

Keith

Of thee, O god Soma, that art purified in the waters, that art pressed by men, over whom the Yajus is spoken, the Stoma sung, the Śastra recited, who art made by the fathers into food to win horses and cows, and who art invited, I invited eat.

मूलम्

अ॒प्सु धौ॒तस्य॑ सोम देव ते॒ नृभि॑स्सु॒तस्ये॒ष्टय॑जुषस्स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य॒ यो भ॒क्षो अ॑श्व॒सनि॒र्यो गो॒सनि॒स्तस्य॑ ते पि॒तृभि॑र्भ॒क्षङ्कृ॑त॒स्योप॑हूत॒स्योप॑हूतो भक्षयामि ॥

भट्टभास्कर-टीका

अप्सु धौतस्य प्रक्षालितस्य नृभिः मनुष्यैः चेतनैः अभिषुतस्य ।

इष्टयजुष इत्यादि । व्याख्यातम् ।
(इष्टयजुषः अध्वर्युभिर्यज्ञे इष्टानि विनियुक्तानि सर्वाणि यजूंषि प्रायोगत्वत्संस्कारार्थानीति इष्टयजुष्ट्वम् ।
स्तुतस्तोमस्य उद्गातृभिश्च स्तुतास्सोमाः स्तोत्राणि त्वदर्थमिति स्तुतस्तोमत्वम् ।
शस्तोक्थस्य होतृभिश्शस्तान्युक्थानि शस्त्राणि त्वदर्थमिति शस्तोक्थत्वम् ।)

हे सोम देव तवेदृशस्य यो भक्षः भक्षणं अश्वसनिः अश्वानां संभक्ता । यो गोसनिः गवां संभक्ता । ‘छन्दसि वनसन’ इतीन्प्रत्ययः । तस्य ते तव पितृभिः भक्षंकृतस्य । ‘च्वौ’ इतीत्वापवादः पूर्वपदस्य छान्दसो मुमागमः, ‘ऊर्यादिच्विडाचश्च’ इति गतित्वात् ‘गतिरन्तरः’ इति तस्य प्रकृतिस्वरत्वम् ।

उपहूतस्येत्यादि । गतम् ॥ (उपहूतस्य इन्द्रादिभिरनुज्ञातस्य ईदृशस्य तव अहं उपहूतः देवैस्सहभक्षिभिरनुज्ञातः भक्षयामि । )

इति तृतीये द्वितीये पञ्चमोनुवाकः ॥