०४ स्फ्याद्युपस्थानमन्त्राः, विधिश्च

विश्वेदेवा ऋषयः

विश्वास-प्रस्तुतिः

स्फ्यस्स्व॒स्तिर्वि॑घ॒नस्स्व॒स्तिᳶ पर्शु॒र्वेदिᳶ॑ पर॒शुर्न॑स्स्व॒स्तिः ।
य॒ज्ञिया॑ यज्ञ॒कृत॑स्स्थ॒ ते मा॒स्मिन्य॒ज्ञ उप॑ ह्वयध्वम् ।

मूलम्

स्फ्यस्स्व॒स्तिर्वि॑घ॒नस्स्व॒स्तिᳶ पर्शु॒र्वेदिᳶ॑ पर॒शुर्न॑स्स्व॒स्तिः ।
य॒ज्ञिया॑ यज्ञ॒कृत॑स्स्थ॒ ते मा॒स्मिन्य॒ज्ञ उप॑ ह्वयध्वम् ।

भट्टभास्कर-टीका

1स्फ्यविघनादि यजमानमुपस्थापयति - स्फ्यस्स्वस्तिरिति ॥ बृहतीविशेषोयम् ‘बृहती द्वादशाक्षरा त्रयश्चाष्टाक्षरा’ इति ॥ स्फ्यः स्वस्तिः अविनाशहेतुरस्माकमयम् । अयं स्वस्तिशब्दो निपातो गुणमात्रे अविनाशे वर्तते । सोयमिदानीं मतुब्लोपादभेदोपचाराद्वा शुक्लादिवद्गुणिन्यपि अविनाशहेतौ वर्त ते । विघनश्चास्माकं स्वस्तिः अविनाशहेतुः । विहन्यते भूमिरनेनेति विघनः । व्यत्ययेन अपि घत्वं च, थाथादिनोत्तरपदान्तोदात्तत्वम् । एवं पर्श्वादयः अविनाशहेतवः । पर्शुः पार्श्ववक्रः तृणादिच्छेदनः । परशुः वृक्षवृश्चनः । ते यूयं यज्ञिया यज्ञसंपादनार्हाः यज्ञकृतश्च स्थ यूयमेव यज्ञं संपादितवन्तस्स्थ । ते यूयं मां विशेषकरणार्थं अस्मिन् यज्ञे उपह्वयध्वं अनुजानीत यन्मया कर्तव्यं तदहमेव करोमि तदनुज्ञातुमर्हथेति । ‘निसमुपविभ्यो ह्वः’ इत्यात्मनेपदम् ॥

विश्वास-प्रस्तुतिः

उप॑ मा॒ द्यावा॑पृथि॒वी ह्व॑येताम् ।

मूलम्

उप॑ मा॒ द्यावा॑पृथि॒वी ह्व॑येताम् ।

भट्टभास्कर-टीका

2द्यावापृथिवी उपतिष्ठते - उप मेति ॥ द्यावापृथिवी उप मा ह्वयेताम् । ‘द्यावापृथिव्योर्हि यज्ञः’ इति तदनुज्ञानं प्रार्थयते । द्यावापृथिव्योः स्वर उक्तः ॥

विश्वास-प्रस्तुतिः

उपा॑ऽऽस्ता॒वः +++(ह्वयताम्)+++ ।

मूलम्

उपा॑ऽऽस्ता॒वः +++(ह्वयताम्)+++ ।

भट्टभास्कर-टीका

3बहिष्पवमानास्तावमुपतिष्ठते - उपास्ताव इति ॥ ह्वयतामित्यनुषज्यते । उपास्तावो ह्वयतामिति । यत्र वचनभेदस्तत्रोपसर्गावृत्तिः ॥

विश्वास-प्रस्तुतिः

+++( उप॑ मा )+++ क॒लशः॑ +++(ह्वयताम्)+++ ।

मूलम्

+++( उप॑ मा )+++ क॒लशः॑ +++(ह्वयताम्)+++ ।

भट्टभास्कर-टीका

4द्रोणकलशमुपतिष्ठते - कलश इति ॥ शिष्टमनुषज्यते - उप मा कलशो ह्वयतामिति ॥

विश्वास-प्रस्तुतिः

+++( उप॑ मा )+++ सोमः॑ +++(ह्वयताम्)+++ ।

मूलम्

+++( उप॑ मा )+++ सोमः॑ +++(ह्वयताम्)+++ ।

भट्टभास्कर-टीका

5सर्वं सोममुपतिष्ठते - उप मा सोमो ह्वयतामिति ॥

विश्वास-प्रस्तुतिः

+++( उप॑ मा )+++अ॒ग्निः +++(ह्वयताम्)+++ ।

मूलम्

+++( उप॑ मा )+++अ॒ग्निः +++(ह्वयताम्)+++ ।

भट्टभास्कर-टीका

6अग्निमुपतिष्ठते - अग्निरिति ॥ उप माऽग्निर्ह्वयतामिति ॥

विश्वास-प्रस्तुतिः

+++( उप॑ मा )+++उप॑ दे॒वाः +++(ह्वयन्ताम्)+++ ।

मूलम्

+++( उप॑ मा )+++उप॑ दे॒वाः +++(ह्वयन्ताम्)+++ ।

भट्टभास्कर-टीका

7देवानुपतिष्ठते - उप देवा इति ॥ उप मा देवा ह्वयन्तामिति । पूर्ववद्वचनभेदादुपसर्गावृत्तिः ॥

विश्वास-प्रस्तुतिः

+++( उप॑ मा )+++ उप॑ य॒ज्ञः +++(ह्वयताम्)+++ ।

मूलम्

+++( उप॑ मा )+++ उप॑ य॒ज्ञः +++(ह्वयताम्)+++ ।

भट्टभास्कर-टीका

8यज्ञमुपातिष्ठते - उप यज्ञ इति ॥ उप मा यज्ञो ह्वयता- मिति । पूर्ववदुपसर्गावृत्तिः ॥

विश्वास-प्रस्तुतिः

उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्ताम् ।

मूलम्

उप॑ मा॒ होत्रा॑ उपह॒वे ह्व॑यन्ताम् ।

भट्टभास्कर-टीका

9होत्रकानुपतिष्ठते - उप मा होत्रा इति ॥ होत्रा धिष्ण्यवन्तः । ‘सप्त होत्राः प्राचीर्वषट्कुर्वन्ति’ इति । तेषामुपहवे ह्वयन्तामिति । उपहूयन्ते अस्मिन्नित्युपहवो यज्ञः । यद्वा - उपहवेऽनुज्ञाने कर्तव्ये यत्रयत्र उपहवमिच्छामि, तत्रतत्र मामुपह्वयन्तामिति ॥

विश्वास-प्रस्तुतिः

नमो॒ऽग्नये॑ मख॒घ्ने म॒खस्य॑ मा॒ यशः॑ ।

अ॒र्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते ।

मूलम्

नमो॒ऽग्नये॑ मख॒घ्ने म॒खस्य॑ मा॒ यशः॑ ।

अ॒र्या॒दित्या॑हव॒नीय॒मुप॑ तिष्ठते ।

भट्टभास्कर-टीका

10अथाहवनीयस्य समन्त्रमुपस्थानं ब्राह्मणमेव विदधाति - नम इति ॥ अनया द्विपदया गायत्र्या आहवनीयमुपतिष्ठते ।

विश्वास-प्रस्तुतिः

य॒ज्ञो वै म॒खः ।
य॒ज्ञव्ँ वाव स तद॑हन् ।

मूलम्

य॒ज्ञो वै म॒खः ।
य॒ज्ञव्ँ वाव स तद॑हन् ।

भट्टभास्कर-टीका

अथोपस्थाने कारणमाह - यज्ञो वा इत्यादि । सोग्निः तत् तदानीं सदःप्रसर्पणकाले अहन् आर्तिमार्पयति अनमस्कृतः ।

विश्वास-प्रस्तुतिः

तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै ।

मूलम्

तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै ।

भट्टभास्कर-टीका

तस्मात् तस्मै नमस्कृत्य सदः प्रसर्पत्यात्मनोनार्त्यै यज्ञविनाशेन आत्मन आर्तिर्मा भूदिति । मन्त्रार्थस्तु - अग्नये मखघ्ने मखस्य यज्ञस्य अनमस्कारकारिणो नाशयित्रे तुभ्यं नमः । उदात्तनिवृत्तिस्त्वरेण चतुर्थ्या उदात्तत्वम् । मखस्य यशः फलं मा अर्यात्प्राप्नोतु तद्विघातश्च त्वया न कर्तव्य इति ॥

मूलम् (संयुक्तम्)

नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पा॒हीत्याग्नी॑द्ध्र॒न्तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै

विश्वास-प्रस्तुतिः

नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पा॒हि
इत्याग्नी॑द्ध्रम् +++(उपतिष्ठते)+++

मूलम्

नमो॑ रु॒द्राय॑ मख॒घ्ने नम॑स्कृत्या मा पा॒हि
इत्याग्नी॑द्ध्रम् +++(उपतिष्ठते)+++

भट्टभास्कर-टीका

11अथाग्नीध्रस्योपस्थानं विदधाति - नमो रुद्रायेति ॥ आग्नीध्रमुपतिष्ठते इत्येव ।

विश्वास-प्रस्तुतिः

तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै ।

मूलम्

तस्मा॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै ।

भट्टभास्कर-टीका

तस्मा इत्यादि । गतम् । मन्त्रार्थोपि गतः । नमस्कृत्या प्रणिपातेनानेन मां पाहि । ऊर्यादित्वेन नमसो गतित्वात् ‘तादौ च निति’ इति प्रकृतिस्वरत्वम् । अग्नीधश्शरणमाग्नीध्रम्, ‘अग्नीधश्शरणे रण् भं च’ ॥

मूलम् (संयुक्तम्)

नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यम्मे॑ वी॒र्य॑म्मा निर्व॑धी॒रिति॑ हो॒त्रीय॑मा॒शिष॑मे॒वैतामा शा॑स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॒
या वै [12] दे॒वता॒स्सद॒स्यार्ति॑मा॒र्पय॑न्ति॒ यस्ता वि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति॒ नमो॒ऽग्नये॑ मख॒घ्न इत्या॑है॒ता वै दे॒वता॒स्सद॒स्यार्ति॒मार्प॑यन्ति॒ ता य ए॒वव्ँवि॒द्वान्प्र॒सर्प॑ति॒ न सद॒स्यार्ति॒मार्च्छ॑ति

विश्वास-प्रस्तुतिः

नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यम्मे॑ वी॒र्य॑म्मा निर्व॑धीः ।

इति॑ हो॒त्रीय॑म् +++(उपतिष्ठते)+++ ।

मूलम्

नम॒ इन्द्रा॑य मख॒घ्न इ॑न्द्रि॒यम्मे॑ वी॒र्य॑म्मा निर्व॑धीः ।

इति॑ हो॒त्रीय॑म् +++(उपतिष्ठते)+++ ।

भट्टभास्कर-टीका

12अथ होत्रीयस्योपस्थानं विदधाति - नम इन्द्रायेति ॥ होत्रियमुपतिष्ठते इत्येव । होतुर्धिष्णियं होत्रीयम्, गहादित्वाच्छः । इन्द्रियं चक्षुरादिकं वीर्यं बलं मा निर्वधीः निष्कृष्य मा वधीः ।

विश्वास-प्रस्तुतिः

आ॒शिष॑मे॒वैतामा शा॑स्ते ।
इन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॑ ।

मूलम्

आ॒शिष॑मे॒वैतामा शा॑स्ते ।
इन्द्रि॒यस्य॑ वी॒र्य॑स्यानि॑र्घाताय॑ ।

भट्टभास्कर-टीका

एतामाशिषं मा निर्वर्धीः इत्याशास्ते इन्द्रियस्य वीर्यस्य चानिर्घाताय भवति ।

विश्वास-प्रस्तुतिः

या वै दे॒वता॒स्सद॒स्यार्ति॑मा॒र्पय॑न्ति ।
यस्ता वि॒द्वान्प्र॒सर्प॑ति ।
न सद॒स्यार्ति॒मार्च्छ॑ति ।
नमो॒ऽग्नये॑ मख॒घ्न इत्या॑ह ।

मूलम्

या वै दे॒वता॒स्सद॒स्यार्ति॑मा॒र्पय॑न्ति ।
यस्ता वि॒द्वान्प्र॒सर्प॑ति ।
न सद॒स्यार्ति॒मार्च्छ॑ति ।
नमो॒ऽग्नये॑ मख॒घ्न इत्या॑ह ।

भट्टभास्कर-टीका

या वै देवता इत्यादि । आङ्पूर्वोयमृच्छतिर्विनाशे वर्तते । तत्र ‘गोपोषं पुष्णाति’ इतिवत् धात्वर्थसामान्यवचनो द्वितीय ऋच्छतिर्वेदितव्यः । आङ्पूर्वात् क्तिनः ‘उपसगार्दृति धातौ इति वृद्धिः, ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः

ए॒ता वै दे॒वता॒स्सद॒स्यार्ति॒मार्प॑यन्ति ।
ता य ए॒वव्ँवि॒द्वान्प्र॒सर्प॑ति ।
न सद॒स्यार्ति॒मार्च्छ॑ति ।

मूलम्

ए॒ता वै दे॒वता॒स्सद॒स्यार्ति॒मार्प॑यन्ति ।
ता य ए॒वव्ँवि॒द्वान्प्र॒सर्प॑ति ।
न सद॒स्यार्ति॒मार्च्छ॑ति ।

भट्टभास्कर-टीका

एता ‘देवता इत्यादि । एतन्मन्त्रनिर्दिष्टा अग्निरुद्रेन्द्रा इत्यर्थः । एता देवता विदित्वा यस्सदः प्रसर्पति स विद्वानार्तिं न प्राप्नोति, अविद्वांसं आर्तिं प्रार्पयन्तीति ॥

विश्वास-प्रस्तुतिः

दृ॒ढे स्थ॑श्शिथि॒रे स॒मीची॒ माँह॑सस्पातम् ।

मूलम्

दृ॒ढे स्थ॑श्शिथि॒रे स॒मीची॒ माँह॑सस्पातम् ।

भट्टभास्कर-टीका

13द्यावापृथिवी उपतिष्ठते - दृढे स्थ इति ॥ दृढे स्थिरे युवां स्थः भवतं शिथिरे मे सर्पणेन शिथिलिते अपि दृढे भवतम् । यद्वा - ममांहसः शिथिलयित्र्यौ । कपिलकादिः । समीची सम्यगञ्चनहेतू । ‘चौ’ इति पूर्वपदस्य दीर्घत्वं अन्तोदात्तत्वं च । तादृश्यौ युवामागच्छतम् । अंहसः पापात्पातं रक्षतम् ॥

विश्वास-प्रस्तुतिः

सूर्यो॑ मा दे॒वो दि॒व्यादँह॑सस्पातु ।

मूलम्

सूर्यो॑ मा दे॒वो दि॒व्यादँह॑सस्पातु ।

भट्टभास्कर-टीका

14सूर्यमुपीतष्ठते - सूर्य इति ॥ दिव्यात् दिवि भवात् प्रमादकृतात्पापात् सूर्यो देवो मां पातु ॥

विश्वास-प्रस्तुतिः

वा॒युर॒न्तरि॑क्षात् [13] +++(पातु)+++ ।

मूलम्

वा॒युर॒न्तरि॑क्षात् [13] +++(पातु)+++ ।

भट्टभास्कर-टीका

15वायुमुपतिष्ठते - वायुरिति ॥ पात्वित्यनुषज्यते । अन्तरिक्षात् अन्तरिक्षनिमित्तात् पापात् पातु ॥

विश्वास-प्रस्तुतिः

अ॒ग्निᳶ पृ॑थि॒व्याः +++(पातु)+++ ।

मूलम्

अ॒ग्निᳶ पृ॑थि॒व्याः +++(पातु)+++ ।

भट्टभास्कर-टीका

16अग्निमुपतिष्ठते - अग्निरिति ॥

विश्वास-प्रस्तुतिः

य॒मᳶ पि॒तृभ्यः॑ +++(पातु)+++ ।

मूलम्

य॒मᳶ पि॒तृभ्यः॑ +++(पातु)+++ ।

भट्टभास्कर-टीका

17यममुपतिष्ठते - यम इति ॥ पितृभ्यः पित्रपचारनिमित्तात्पापात्पातु ॥

विश्वास-प्रस्तुतिः

्सर॑स्वती मनु॒ष्ये॑भ्यः +++(पातु)+++ ।

मूलम्

्सर॑स्वती मनु॒ष्ये॑भ्यः +++(पातु)+++ ।

भट्टभास्कर-टीका

18सरस्वतीमुपतिष्ठते - सरस्वतीति ॥ मनुष्यद्रोहनिमित्तात्पापात्पातु ॥

विश्वास-प्रस्तुतिः

देवी॑ द्वारौ॒ मा मा॒ सन्ता॑प्तम् ।

मूलम्

देवी॑ द्वारौ॒ मा मा॒ सन्ता॑प्तम् ।

भट्टभास्कर-टीका

19पूर्वे द्वारौ सदसस्संमृशति - देवी इति ॥ हे देव्यौ द्वारौ मा मा सन्ताप्तं मा कार्ष्टम् ॥

भास्करोक्त-विनियोगः

20सदः प्रपद्यते - नम इति ॥

नमस् सदसे ...{Loading}...
मूलम् (संयुक्तम्)

नम॒स्सद॑से॒ नम॒स्सद॑स॒स्पत॑ये॒ नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चक्षु॑षे॒ नमो॑ दि॒वे नमᳶ॑ पृथि॒व्यै

विश्वास-प्रस्तुतिः

नम॒स् सद॑से॥
नम॒स् सद॑स॒स्-पत॑ये॥
नम॒स् सखी॑नाम् पुरो॒गाणा॒ञ् चक्षु॑षे॥
नमो॑ दि॒वे॥
नमᳶ॑ पृथि॒व्यै॥

मूलम्

नम॒स्सद॑से
नम॒स्सद॑स॒स्पत॑ये
नम॒स्सखी॑नाम्पुरो॒गाणा॒ञ्चक्षु॑षे
नमो॑ दि॒वे
नमᳶ॑ पृथि॒व्यै

भट्टभास्कर-टीका

‘ऐन्द्रं हि देवतया सदः’ इति इन्द्रः सदसस्पतिः पालयिता तस्मै नमः । ‘षष्ठयाः पतिपुत्र’ इति सत्वम् । सखीनां समानख्यानानामृत्विजां पुरोगाणामग्रतो गन्तृणां प्रधानानां सर्वेषामपि चक्षुषे चक्षुसथानीयाय दर्शनहेतवे सवित्रे च नमः । गतमन्यत् ॥

विश्वास-प्रस्तुतिः

अहे॑ दैधिष॒व्योदत॑स्तिष्ठा॒न्यस्य॒ सद॑ने सीद॒ यो॑ऽस्मत्पाक॑तरः ।

मूलम्

अहे॑ दैधिष॒व्योदत॑स्तिष्ठा॒न्यस्य॒ सद॑ने सीद॒ यो॑ऽस्मत्पाक॑तरः ।

भट्टभास्कर-टीका

21आसनाद्बहिस्सदसस्तृणं निरस्यति - अहे इति ॥ आगत्य हन्तीत्यहिः, अनिष्टकृत् । हे अहे तृण दैधिषव्य दिधिषु आसनधारणसमर्थम् । दधातेः कुप्रत्यये द्विर्वचनं, इषुगागमश्च निपात्यते, तस्यापत्यं दैधिषव्यम्; तत्प्रभवत्वात् । ‘द्युप्रागवाक्’ इति यत्प्रत्ययः । तादृशस्त्वं अतोस्मादासनादुत्तिष्ठ अन्यस्य सदने सीद मा अत्र स्थाः । कस्यान्यस्य? योस्मत् अस्मत्तः पाकतरः बालतरः अज्ञः तस्य सदने सीद माऽत्र सीद ॥

विश्वास-प्रस्तुतिः

उन्नि॒वत॒ उदु॒द्वत॑श्च गेषम् ।

मूलम्

उन्नि॒वत॒ उदु॒द्वत॑श्च गेषम् ।

भट्टभास्कर-टीका

22उपविशति - उदिति ॥ निवतः न्यग्गतान् येऽस्मत्तो न्यग्भूताः तानुद्गेषम् । किंच - उद्वतश्च येऽस्मत्तः उद्गता उद्भूताः, तानपि उद्गेषं उत्क्रम्योल्लङ्घ्य उपरि गम्यासम् । ‘उपसर्गाच्छन्दसि धात्वर्थे’ इति वतिः । इणः आशिषि लिङ्, आदेशश्छान्दसः, लिङ्याशिष्यङ्, अतो येयः, आर्धधातुकत्वात्सलोपाभावः ॥

विश्वास-प्रस्तुतिः

पा॒तम्मा॑ द्यावापृथिवी अ॒द्याह्नः॑ ।

मूलम्

पा॒तम्मा॑ द्यावापृथिवी अ॒द्याह्नः॑ ।

भट्टभास्कर-टीका

23द्यावापृथिव्यौ समीक्षते - पातमिति ॥ हे द्यावापृथिव्यौ मां पातं रक्षतं अद्याह्नः अस्मादह्नः । यद्वा - अस्मिन् कर्मणि अह्नः अहर्निमित्तात्पापात्पातं रक्षतम् । ‘सद्यःपरुत्’ इत्यादिना इदमोद्येति निपात्यते ॥

मूलम् (संयुक्तम्)

सदो॒ वै प्र॒सर्प॑न्तम् [14] पि॒तरोऽनु॒ प्र स॑र्पन्ति॒ त ए॑नमीश्व॒रा हिँसि॑तो॒स्सदᳶ॑ प्र॒सृप्य॑ दक्षिणा॒र्धम्परे॑क्षे॒ताग॑न्त पितरᳶ पितृ॒मान॒हय्ँयु॒ष्माभि॑र्भूयासँ सुप्र॒जसो॒ मया॑ यू॒यम्भू॑या॒स्तेति॒ तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै ॥ [15]

विश्वास-प्रस्तुतिः

सदो॒ वै प्र॒सर्प॑न्तम् पि॒तरोऽनु॒ प्र स॑र्पन्ति ।
त ए॑नमीश्व॒रा हिँसि॑तो॒स्सदᳶ॑ प्र॒सृप्य॑ दक्षिणा॒र्धम्परे॑क्षे॒त ।

मूलम्

सदो॒ वै प्र॒सर्प॑न्तम् पि॒तरोऽनु॒ प्र स॑र्पन्ति ।
त ए॑नमीश्व॒रा हिँसि॑तो॒स्सदᳶ॑ प्र॒सृप्य॑ दक्षिणा॒र्धम्परे॑क्षे॒त ।

भट्टभास्कर-टीका

24सद इत्यादि ॥ एनं हिंसितोः हिंसितुं पितरः ईश्वराः अनमस्कृताः । तस्मात्सदः प्रसृप्य दक्षिणार्धं परेक्षेत ‘आगन्त’ इत्यादिना यजुषा । ततस्तेभ्यो नमस्कृत्य प्रसर्पणं कृतं भवति आत्मन आर्त्यभावाय ।

विश्वास-प्रस्तुतिः

आग॑न्त पितरᳶ पितृ॒मान॒हय्ँयु॒ष्माभि॑र्भूयासम्।
सु॒प्र॒जसो॒ मया॑ यू॒यम्भू॑या॒स्तेति॑ ।

तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै ॥ [15]

मूलम्

आग॑न्त पितरᳶ पितृ॒मान॒हय्ँयु॒ष्माभि॑र्भूयासम्।
सु॒प्र॒जसो॒ मया॑ यू॒यम्भू॑या॒स्तेति॑ ।

तेभ्य॑ ए॒व न॑म॒स्कृत्य॒ सद॒ᳶ प्र स॑र्पत्या॒त्मनोऽना॑र्त्यै ॥ [15]

भट्टभास्कर-टीका

मन्त्रार्थस्तु - हे पितरः आगन्त आगच्छत । शपो लुक्, ‘तप्तनप्तनधनाश्च’ इति तादेशः । युष्माभिरागतैः पितृमानहं भूयासं, यूयमपि मया युष्मदागमनोपलब्धसाधुत्वेन सुप्रजसो भूयास्तेति । ‘नित्यमसिच्प्रजामेधयोः’ इति समासान्तोसिच् ॥

इति तृतीये द्वितीये चतुर्थोनुवाकः ॥