विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
प॒रि॒भूर॒ग्निम्प॑रि॒भूरिन्द्र॑म्परि॒भूर्विश्वा॑न्दे॒वान्प॑रि॒भूर्माँ स॒ह ब्र॑ह्मवर्च॒सेन॒ स नᳶ॑ पवस्व॒ शङ्गवे॒ शञ्जना॑य॒ शमर्व॑ते॒ शँ रा॑ज॒न्नोष॑धी॒भ्योऽच्छि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तार॑स्स्याम । तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।
विश्वास-प्रस्तुतिः
प॒रि॒भूर॒ग्निम् , प॑रि॒भूरिन्द्र॑म्, परि॒भूर्विश्वा॑न्दे॒वान् , प॑रि॒भूर्माँ स॒ह ब्र॑ह्मवर्च॒सेन॒ ।
मूलम्
प॒रि॒भूर॒ग्निम् , प॑रि॒भूरिन्द्र॑म्, परि॒भूर्विश्वा॑न्दे॒वान् , प॑रि॒भूर्माँ स॒ह ब्र॑ह्मवर्च॒सेन॒ ।
भट्टभास्कर-टीका
1समस्तं राजानमुपतिष्ठते - परिभूरिति संकृत्यैकादशपदया ॥ परितस्सर्वतो भविता परिभूः । नेमिवदराणां सर्वतोग्नेः रक्षिता त्वमसि हे सोम । यद्वा - परितोग्नेर्भावयिता प्रवर्तयिता परिभूः । भवतेर्ण्यन्तात्क्विपि ‘बहुलमन्यत्रापि’ इति णिलुक्, ‘पर्यभिभ्यां च’ इति तसिः, तस्य गतार्थत्वादप्रयोगः, ‘अभितःपरितस्समया’ इत्यादिना द्वितीया । एवमिन्द्रादीनां ब्रह्मवर्चसेन सह मां परितो भावयति । ब्रह्मणो वर्चो बलं ब्रह्मवर्चसम् ‘ब्रह्महस्तिभ्याम्’ इत्यच् ।
विश्वास-प्रस्तुतिः
स नᳶ॑ पवस्व॒ शङ्गवे॒ शञ्जना॑य॒ शमर्व॑ते ।
शँ रा॑ज॒न्नोष॑धी॒भ्यः ।
मूलम्
स नᳶ॑ पवस्व॒ शङ्गवे॒ शञ्जना॑य॒ शमर्व॑ते ।
शँ रा॑ज॒न्नोष॑धी॒भ्यः ।
भट्टभास्कर-टीका
तादृशः त्वं नः अस्मदर्थं पवस्व शुन्धस्व । पूङ् पवने, भौवादिकः । किमर्थम्? शं गवे । जातावेकवचनम् । यथा गोभ्यः शं सुखं भवति । जनाय जनेभ्यः । अर्वते अर्वद्भ्यः । ओषधीभ्यश्च ।
विश्वास-प्रस्तुतिः
अच्छि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तार॑स्स्याम ।
तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।
मूलम्
अच्छि॑न्नस्य ते रयिपते सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तार॑स्स्याम ।
तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।
भट्टभास्कर-टीका
हे राजन् दीप्तिमन् । किंच - हे रयिपते धनानां पालयितः ते त्वयि तस्य अच्छिन्नस्यानुपरतरूपस्य सुवीर्यस्य शोभनवीर्यस्य निमित्तस्य रायस्पोषस्य धनपुष्टेः पुष्टस्य धनस्य ददितारः दातारस्स्याम । दद दाने । तदर्थं तस्य तादृशस्य धनस्य मे मह्यं रास्व देहि । व्यत्ययेनात्मनेपदम् । पूर्ववत्कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । तस्य ते तादृशं त्वां भक्षीय भजे । यद्वा - तादृशं त्वदीयं धनं भक्षीय । तस्य तादृशस्य तव प्रसादात् तादृशस्य धनस्य लाभाद्वा । इदं ब्राह्मणोक्तानां कामानां अन्यतममिष्टं उन्मृजे उन्मार्ज्मि साधयामीत्यर्थः । के पुनस्ते कामाः? ‘स एनं तृप्तो भूत्याऽभिपवते’ इत्यादिप्रीसद्धा भूत्यादयः, ते चास्मिन्नेवानुवाके वक्ष्यन्ते । इदमिति तेषां सामान्य निर्देशः । तं काममादित्यस्योन्मार्ष्टि - भूतिमुन्मृजे, ब्रह्मवर्चसमुन्मृजे इति ॥
विश्वास-प्रस्तुतिः
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
2अथावकाशैश्चरन्ति । तत्रोपांशुपात्रमवेक्षते - प्राणायेति ॥ ऊर्ध्वप्रवृत्तिः प्राणः । प्राणाय प्राणार्थं मे मम वर्चोदाः वर्चसो दीप्तेर्दाता त्वं वर्चसे दीप्तये तव मम वा पवस्व शुन्धस्व शोधय वा पीतो मदीयं शरीरम् । ‘तस्य मे रास्व’ इत्यादि पूर्वप्रकृतं सर्वत्रानुषज्यते । ‘प्राणापानाभ्यामेवोपांश्वन्तर्यामौ निरमिमीत’ इत्यादि ब्राह्मणम् ॥
विश्वास-प्रस्तुतिः
अ॒पा॒नाय॑ +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
अ॒पा॒नाय॑ +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
3अन्तर्यामपात्रमवेक्षते - अपानायेति ॥ अपानोधोवृत्तिः । ‘मे वर्चोदाः’ इत्यादि मध्ये द्वितीयोनुषङ्गः सर्वत्र ॥
विश्वास-प्रस्तुतिः
व्या॒नाय॑ +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
व्या॒नाय॑ +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
4उपांशुसवनमवेक्षते - व्यानायेति ॥ विष्वग्वृत्तिः व्यानः । छान्दसमुत्तरपदादेर्दीर्घत्वम् ॥
विश्वास-प्रस्तुतिः
वा॒चे [7] +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
वा॒चे [7] +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
5ऐन्द्रवायवमवेक्षते - वाचे इति ॥ ‘सावेकाचः’ इति विभक्तेरुदात्तत्तम् ॥
विश्वास-प्रस्तुतिः
द॒क्ष॒क्र॒तुुभ्या॑म् +++(मे वर्चो॒दा वर्च॑से पवस्व )+++ {तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
द॒क्ष॒क्र॒तुुभ्या॑म् +++(मे वर्चो॒दा वर्च॑से पवस्व )+++ {तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
6मैत्रावरुणमवेक्षते - दक्षक्रतुभ्यामिति ॥
विश्वास-प्रस्तुतिः
चक्षु॑र्भ्याम्मे वर्चो॒दौ वर्च॑से पवेथाम् ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
चक्षु॑र्भ्याम्मे वर्चो॒दौ वर्च॑से पवेथाम् ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
7शुक्रामन्थिनाववेक्षते - चक्षुर्भ्यामिति ॥ मे वर्चोदाविति । द्वितीयानुषङ्गापवादः ॥
विश्वास-प्रस्तुतिः
श्रोत्रा॑य +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
श्रोत्रा॑य +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
8आश्वीनमवेक्षते - श्रोत्रायेति ॥ पूर्वकावेवानुषङ्गौ । अत्र ‘श्रोत्रादाश्विनम् । चक्षुषश्शुक्रामन्थिनौ इति शुक्रामन्थिभ्यां पूर्वमेवाश्विनोत्पत्तिश्रुतेः आश्विनावेक्षणं पूर्वमेव कार्यमित्याहुः ॥
विश्वास-प्रस्तुतिः
आ॒त्मने॑+++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
आ॒त्मने॑+++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
9आग्रयणमवेक्षते - आत्मन इति ॥
विश्वास-प्रस्तुतिः
अङ्गे॑भ्यः +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
अङ्गे॑भ्यः +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
10उक्थ्यमवेक्षते - अङ्गेभ्य इति ॥
विश्वास-प्रस्तुतिः
आयु॑षे +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
आयु॑षे +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
11ध्रुवमवेक्षते - आयुष इति ॥ अत्र ‘प्रतिष्ठाया ऋतु पात्रे’ इति दर्शनात् ‘प्रतिष्ठायै मे वर्चोदाः’ इत्यादिना ऋतुपात्रयोरवेक्षणं कुर्वन्ति माध्यन्दिनसवने प्रातस्सवने च ॥
विश्वास-प्रस्तुतिः
वी॒र्या॑य +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
वी॒र्या॑य +++(मे वर्चो॒दा वर्च॑से पवस्व)+++
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
12अथातिग्राह्यं षोडशिनं वाऽवेक्षते - वीर्यायेति ॥
मूलम् (संयुक्तम्)
विष्णो॒रिन्द्र॑स्य॒ विश्वे॑षान्दे॒वाना॑ञ्ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व
विश्वास-प्रस्तुतिः
विष्णो॒ः +++(र्ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व)+++ ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
विष्णो॒ः +++(र्ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व)+++ ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
13द्रोणकलशमवेक्षते - विष्णोर्जठरमसीति ॥ वक्ष्यमाणं त्रिभिरनुषज्यते । एष तृतीयोनुषङ्गः ॥
विश्वास-प्रस्तुतिः
इन्द्र॑स्य +++(र्ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व)+++ ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
इन्द्र॑स्य +++(र्ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व)+++ ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
14आधवनीयमवेक्षते - इन्द्रस्य जठरमसीति ॥
विश्वास-प्रस्तुतिः
विश्वे॑षान्दे॒वाना॑ञ्ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
विश्वे॑षान्दे॒वाना॑ञ्ज॒ठर॑मसि वर्चो॒दा मे॒ वर्च॑से पवस्व ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
15पूतभृतमवेक्षते - विश्वेषां देवानां जठरमसीति ॥ वर्चोदा इत्यादि । व्याख्यातम् । पुनराम्नानमनुषङ्गसमाप्तिं सूचयितुम् ॥
मूलम् (संयुक्तम्)
को॑ऽसि॒ को नाम॒ कस्मै॑ त्वा॒ काय॑ त्वा॒ यन्त्वा॒ सोमे॒नाती॑तृपय्ँ॒यन्त्वा॒ सोमे॒नामी॑मदँ सुप्र॒जाᳶ प्र॒जया॑ भूयासँ सु॒वीरो॑ वी॒रैस्सु॒वर्चा॒ वर्च॑सा सु॒पोष॒ᳶ पोषै॒र्विश्वे॑भ्यो मे रू॒पेभ्यो॑ वर्चो॒दाः [8] वर्च॑से पवस्व॒ तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।
विश्वास-प्रस्तुतिः
को॑ऽसि॒ को नाम॒ कस्मै॑ त्वा॒ काय॑ त्वा॒ यन्त्वा॒ सोमे॒नाती॑तृपम् ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
को॑ऽसि॒ को नाम॒ कस्मै॑ त्वा॒ काय॑ त्वा॒ यन्त्वा॒ सोमे॒नाती॑तृपम् ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
16अथ समस्तमेव राजानमुपतिष्ठते - कोसि कोनामेति पुरउष्णिहा यजुरन्तया ॥ र्वात्मत्वादनिर्धारितविशेषः प्रजापतिरेव सर्वनाम्नोच्यते - अनिर्धारितविशेषः प्रजापतिरेव स्वयं त्वमसि हे सोमेति । प्रजापत्यात्मना सोमस्स्तूयते - को नामेति । नामधेयवान् ‘को ह वै नाम प्रजापतिः’ इति । असर्वनामैवेदं संज्ञापदम् । इदानीं तादृशप्राजापत्यात्मतया यज्ञमाह । ब्राह्मणं च भवति ‘एष वै पात्रियः प्रजापतिर्यज्ञः प्रजापतिः’ इति । कस्मै त्वा काय त्वा । अनिर्धारितविशेषाय कनाम्ने प्रजापत्यात्मने यज्ञाय त्वामुपतिष्ठे इति शेषः । हे सोमलतात्मन् प्रजापते यं त्वा सोमेन रसस्वरूपेण अतीतृपं स्वयमेव तृप्यन्तं यागेन तर्पयामि । ‘उरृत्’ इति ऋकारः । यं त्वा सोमेन अमीमदं स्वयमेव माद्यन्तं यागेन मादयामि । उभयत्र छान्दसो लुङ् । एवं प्रजापत्यभेदेन सोमो निर्दिष्टः । तादृशं त्वामुपतिष्ठ इति ।
विश्वास-प्रस्तुतिः
यन्त्वा॒ सोमे॒नामी॑मदँ सुप्र॒जाᳶ प्र॒जया॑ भूयासम् ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
मूलम्
यन्त्वा॒ सोमे॒नामी॑मदँ सुप्र॒जाᳶ प्र॒जया॑ भूयासम् ।
{तस्य॑ मे रास्व॒ तस्य॑ ते भक्षीय॒ तस्य॑ त इ॒दमुन्मृ॑जे ।}
भट्टभास्कर-टीका
एवं महानुभावस्य तव प्रसादात् अहं प्रजया सुप्रजा भूयासं शोभनापत्यः । ‘नित्यमसिच्प्रजामेधयोः’ इत्यसिच्, ‘सोर्मनसी’ इत्येतद्बाधित्वा समासान्तस्वरः प्रवर्तते ।
विश्वास-प्रस्तुतिः
सु॒वीरो॑ वी॒रैः +++(भूयासम्)+++ ।
मूलम्
सु॒वीरो॑ वी॒रैः +++(भूयासम्)+++ ।
भट्टभास्कर-टीका
वीरैः विक्रान्तः पुरुषैः सुवीरः शोभनविक्रान्तपुरुषो भूयासम् । ‘वीरवीर्यौ च’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
्सु॒वर्चा॒ वर्च॑सा +++(भूयासम्)+++ ।
मूलम्
्सु॒वर्चा॒ वर्च॑सा +++(भूयासम्)+++ ।
भट्टभास्कर-टीका
वर्चसा दीप्त्या बलेन वा सुवर्चा भूयासम् । ‘सोर्मनसी’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
सु॒पोष॒ᳶ पोषैः॑ +++(भूयासम्)+++ ।
मूलम्
सु॒पोष॒ᳶ पोषैः॑ +++(भूयासम्)+++ ।
भट्टभास्कर-टीका
पोषैरन्नादिपोषैः सुपोषो भूयासम् । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः
विश्वे॑भ्यो मे रू॒पेभ्यो॑ वर्चो॒दाः वर्च॑से पवस्व ।
तस्य॑ मे रास्व ।
तस्य॑ ते भक्षीय ।
तस्य॑ त इ॒दमुन्मृ॑जे ।
मूलम्
विश्वे॑भ्यो मे रू॒पेभ्यो॑ वर्चो॒दाः वर्च॑से पवस्व ।
तस्य॑ मे रास्व ।
तस्य॑ ते भक्षीय ।
तस्य॑ त इ॒दमुन्मृ॑जे ।
भट्टभास्कर-टीका
विश्वेभ्यो रूपेभ्यः विश्वरूपार्थम् । वर्चोदा इत्यादि व्याख्यातम् , तस्य मे रास्वेत्यादि च ।
- तस्य ते तादृशं त्वां भक्षीय भजे । यद्वा - तादृशं त्वदीयं धनं भक्षीय । तस्य तादृशस्य तव प्रसादात् तादृशस्य धनस्य लाभाद्वा । इदं ब्राह्मणोक्तानां कामानां अन्यतममिष्टं उन्मृजे उन्मार्ज्मि साधयामीत्यर्थः । के पुनस्ते कामाः? ‘स एनं तृप्तो भूत्याऽभिपवते’ इत्यादिप्रीसद्धा भूत्यादयः, ते चास्मिन्नेवानुवाके वक्ष्यन्ते । इदमिति तेषां सामान्य निर्देशः । तं काममादित्यस्योन्मार्ष्टि - भूतिमुन्मृजे, ब्रह्मवर्चसमुन्मृजे इति ॥
पुनराम्नानमनुषङ्गस्याविच्छेदं दर्शयितुं समाप्तिं च द्योतयितुम् ॥
मूलम् (संयुक्तम्)
बुभू॑ष॒न्नवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नन्तृ॒प्तो भूत्या॒ऽभि प॑वते ब्रह्मवर्च॒सका॒मोऽवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नन्तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वते
विश्वास-प्रस्तुतिः
बुभू॑ष॒न्नवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति।
मूलम्
बुभू॑ष॒न्नवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति।
भट्टभास्कर-टीका
17बुभूषन्नित्यादयः काम्याः अवेक्षणविधयः - बुभूषन् भूतिमिच्छन् । ‘इदमुन्मृजे’ इति सामान्येन यदुक्तं तस्यैते विशेषा भूत्यादयः ब्राह्मणेन प्रदर्श्यन्ते । पात्रियः पात्रार्हः सोमात्मा प्रजापतिः । ‘पात्राद्घः’ इति घः । यज्ञश्चायं प्रजापतिः । तस्मादनेन अवेक्षणेन तमेव यज्ञात्मानं प्रजापतिं तर्पयति ।
विश्वास-प्रस्तुतिः
स ए॑नन्तृ॒प्तो भूत्या॒ऽभि प॑वते ।
मूलम्
स ए॑नन्तृ॒प्तो भूत्या॒ऽभि प॑वते ।
भट्टभास्कर-टीका
स च तृप्त एनं भूत्या अभिपवते यथाऽयं भूतिमान् भवति तथा एतदाभिमुख्येन पवते ।
विश्वास-प्रस्तुतिः
ब्र॒ह्म॒व॒र्च॒सकामोऽवे॑क्षेत ।
ए॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति ।
स ए॑नन्तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वते।
मूलम्
ब्र॒ह्म॒व॒र्च॒सकामोऽवे॑क्षेत ।
ए॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति ।
स ए॑नन्तृ॒प्तो ब्र॑ह्मवर्च॒सेना॒भि प॑वते।
भट्टभास्कर-टीका
एवं ब्रह्मवर्चसादिष्वपि द्रष्टव्यम् ।
विश्वास-प्रस्तुतिः
आ॒म॒या॒व्यवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति ।
स ए॑नन्तृ॒प्त आयु॑षा॒भि प॑वते ।
मूलम्
आ॒म॒या॒व्यवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति ।
स ए॑नन्तृ॒प्त आयु॑षा॒भि प॑वते ।
भट्टभास्कर-टीका
18आमयावी रोगवान् । आयुरर्थं सोवेक्षेत । ‘बहुलं छन्दसि’ इति विनिः, ‘अन्येषामपि दृश्यते’ इति दीर्घत्वम् ।
मूलम् (संयुक्तम्)
अभि॒चर॒न्नवे॑क्षेतै॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति॒ स ए॑नन्तृ॒प्तᳶ प्रा॑णापा॒नाभ्याव्ँ॑ वा॒चो द॑क्षक्र॒तुभ्या॒ञ्चक्षु॑र्भ्याँ॒ श्रोत्रा॑भ्यामा॒त्मनोऽङ्गे॑भ्य॒ आयु॑षो॒ऽन्तरे॑ति ता॒जक्प्र ध॑न्वति ॥ [10]
विश्वास-प्रस्तुतिः
अभि॒चर॒न्नवे॑क्षेत ।
ए॒ष वै पात्रि॑यᳶ प्र॒जाप॑तिर्य॒ज्ञᳶ प्र॒जाप॑ति॒स्तमे॒व त॑र्पयति ।
स ए॑नन्तृ॒प्तᳶ प्रा॑णापा॒नाभ्याव्ँ॑ वा॒चो द॑क्षक्र॒तुभ्या॒ञ्चक्षु॑र्भ्याँ॒ श्रोत्रा॑भ्यामा॒त्मनोऽङ्गे॑भ्य॒ आयु॑षो॒ऽन्तरे॑ति ।

19अभिचरन् आनिष्टं जनं मारयन् । यत्सिद्ध्यर्थमुपांशुपात्रादीनां अवेक्षणं क्रियते, तेभ्यः प्राणादिभ्यः एनमभिचर्यमाणमन्तरेति अन्तरितं करोति तत्सम्बन्धमस्य निवर्तयति ।
विश्वास-प्रस्तुतिः
ता॒जक्प्र ध॑न्वति ॥ [10]
मूलम्
ता॒जक्प्र ध॑न्वति ॥ [10]
भट्टभास्कर-टीका
ततश्च ताजक् तदानीमेव अयं प्रधन्वति प्रगच्छति म्रियते इत्यर्थः । धवि गतौ, इदित्वान्नुम् ॥
इति तृतीये द्वितीये तृतीयः ॥