विस्तारः (द्रष्टुं नोद्यम्)
२-३ त्रिष्टुप्, विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
अथ॑ तृ॒तीयँ॒ सव॑न॒मव॑ लुम्पन्त्यनँ॒शु कु॒र्वन्त॑ उपाँ॒शुँ हु॒त्वोपाँ॑शुपा॒त्रेऽँ॑शुम॒वास्य॒ तन्तृ॑तीयसव॒ने॑ऽपि॒सृज्या॒भि षु॑णुया॒द्यदा॑प्या॒यय॑ति॒ तेनाँ॑शु॒मद्यद॑भिषु॒णोति॒ तेन॑र्जी॒षि सर्वा॑ण्ये॒व तत्सव॑नान्यँशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति
विश्वास-प्रस्तुतिः
त्रीणि॒ वाव सव॑नानि
Keith
There are three pressings.
मूलम्
त्रीणि॒ वाव सव॑नानि
भट्टभास्कर-टीका
1त्रीणि वाव सवनानीत्यादि ॥ त्रीण्येतानि सवनानि प्रातस्सवनादीनि तैः त्रिभिर् अपि सवनैः सवनवद्भिर् भवितव्यम् ।
विश्वास-प्रस्तुतिः
अथ॑ तृ॒तीयँ॒ सव॑न॒मव॑ लुम्पन्त्य् अन्-अँ॒शु+++(=अ-[सोम-]नालं)+++ कु॒र्वन्तः॑।
Keith
Now they spoil the third pressing if there are no stalks of the Soma in it.
मूलम्
अथ॑ तृ॒तीयँ॒ सव॑न॒मव॑ लुम्पन्त्यनँ॒शु कु॒र्वन्तः॑
भट्टभास्कर-टीका
अथैवं सति तृतीयसवनं अनंशु कुर्युः।
इदं लुम्पेयुर् विनाशयेयुः, सवन-स्वभाववैधुर्यात् ।
विश्वास-प्रस्तुतिः
उ॒पाँ॒शुँ हु॒त्वा +
+उपाँ॑शु-पा॒त्रे ऽँ॑शुम् अ॒वास्य॒
तन् तृ॑तीय-सव॒ने॑ ऽपि॒सृज्य+
+अ॒भिषु॑णुयात् ।
Keith
Having offered the silent cup, he puts a shoot in the vessel which holds it, and placing it with the third pressing he should press it out.
मूलम्
उपाँ॒शुँ हु॒त्वोपाँ॑शुपा॒त्रेऽँ॑शुम॒वास्य॒ तन्तृ॑तीयसव॒ने॑ऽपि॒सृज्या॒भि षु॑णुयात् ।
भट्टभास्कर-टीका
तस्मात् उपांशु हुत्वा
उपांशुपात्रे प्राग् एव प्रातस्-सवन एव योंशुः
तं तृतीय-सवने माध्यन्दिनीये ऋजीषे अपिसृज्य
प्रक्षिप्य
अभिषुणुयात् ।
विश्वास-प्रस्तुतिः
यद् आ॑प्या॒यय॑ति॒
तेनाँ॑शु॒मद् यद् अ॑भिषु॒णोति॒
तेन॑र्जी॒षि सर्वा॑ण्ये॒व तत्सव॑नान्यँशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति ।
मूलम्
यदा॑प्या॒यय॑ति॒ तेनाँ॑शु॒मद्यद॑भिषु॒णोति॒
तेन॑र्जी॒षि सर्वा॑ण्ये॒व तत्सव॑नान्यँशु॒मन्ति॑ शु॒क्रव॑न्ति स॒माव॑द्वीर्याणि करोति ।
भट्टभास्कर-टीका
यदाप्याययतीत्यादि । केचिदाहुः - अंशोः प्रक्षेप आप्यायनमिति । अन्ये आहुः - अद्भिराप्यायनं कर्तव्यमिति । तेनाप्यायनेन अंशुमद्भवति । तृतीयसवनस्याभिषवणे च ऋजीषवत्त्वं, तेन सर्वाणि सवनानि अंशुमन्ति शुक्रवन्ति रसवन्ति च भवन्ति । अतस्सर्वाणि सवनानि समावद्वीर्याणि तुल्यवीर्याणि च करोति । समादावतुप् ॥
विश्वास-प्रस्तुतिः
द्वौ स॑मु॒द्रौ वित॑तावजू॒र्यौ प॒र्याव॑र्तेते ज॒ठरे॑व॒ पादाः॑ ।
तयो॒ᳶ पश्य॑न्तो॒ अति॑ यन्त्य॒न्यमप॑श्यन्तः [4] सेतु॒नाति॑ यन्त्य॒न्यम् ।
मूलम्
द्वौ स॑मु॒द्रौ वित॑तावजू॒र्यौ प॒र्याव॑र्तेते ज॒ठरे॑व॒ पादाः॑ ।
तयो॒ᳶ पश्य॑न्तो॒ अति॑ यन्त्य॒न्यमप॑श्यन्तः [4] सेतु॒नाति॑ यन्त्य॒न्यम् ।
भट्टभास्कर-टीका
2आधवनीये दीर्णे प्रवृत्ते [अपवृत्ते] वा पात्र्यां चतुर्गृहीतं गृहीत्वा आहवनीये प्रायश्चित्तं जुहोति अन्वारब्धे यजमाने - द्वौ समुद्राविति त्रिष्टुभा ॥ द्वौ समुद्रौ समुद्रसदृशौ आनन्त्यसाम्यात् अहोरात्रावुच्येते । तौ विततौ विस्तीर्णौ । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । अजूर्यौ अहिंस्यौ अप्रतिबद्धौ । जुरी हिंसाहान्योः, ‘ययतोश्चातदर्थे’ इत्युत्तरपदान्तोदात्तत्वम् । पर्यावर्तेते पर्यायेणावर्तेते जठरा जठरे । ‘सुपां सुलुक्’ इति सप्तम्या आकारः । यथा समुद्रस्य जठरे उदरे इव पादाः ऊर्मिप्रवाहाः पर्यावर्तन्ते उपर्युपरि पर्यायेणापतन्ति; एवमेतौ समुद्रौ पर्यावर्तेते । तयोरिति निर्धारणे । तयोर्मध्ये अन्यमेकमहरात्मकं समुद्रं पश्यन्तः अतियन्ति अहनि वृत्तं प्रेक्षमाणाः जनास्तदतिवाहयन्ति । अन्यमेकं रात्र्यात्मकं समुद्रं अपश्यन्तोतियन्ति, अदर्शने हेतुमाह - सेतुना । यथा उदकरोधकृता सेतुना समुद्रान्तर्गतमुदकं न पश्यन्ति, एवं प्रबोधनिरोधकारिणा स्वप्नेन रात्रिवृत्तमपश्यन्तः अतियन्ति । इत्थं महानुभावौ तावेव प्रमादकृतमेतत्समृद्धं कुरुतामिति ॥
विश्वास-प्रस्तुतिः
द्वे द्रध॑सी स॒तती॑ वस्त॒ एक॑ᳵ के॒शी विश्वा॒ भुव॑नानि वि॒द्वान् ।
ति॒रो॒धायै॒त्यसि॑तव्ँ॒वसा॑नश्शु॒क्रमा द॑त्ते अनु॒हाय॑ जा॒र्यै ।
मूलम्
द्वे द्रध॑सी स॒तती॑ वस्त॒ एक॑ᳵ के॒शी विश्वा॒ भुव॑नानि वि॒द्वान् ।
ति॒रो॒धायै॒त्यसि॑तव्ँ॒वसा॑नश्शु॒क्रमा द॑त्ते अनु॒हाय॑ जा॒र्यै ।
भट्टभास्कर-टीका
3अथ पूतभृति दीर्णे प्रवृत्ते [अपवृत्ते] वा तथैव पात्र्यां चतुर्गृहीतं गृहीत्वा आहवनीये जुहोत्यन्वारब्धे यजमाने - द्वे द्रधसी इति त्रिष्टुभा ॥ द्वे द्रधसी वाससी अहोरात्रात्मके । द्रोणे विधार्येते इति द्रधसी, द्रधतिर्वा छान्दसो धातुराच्छादनकर्मा । सतती सविस्तारे सन्तते वा अन्योन्यानुषक्ते ते वासस्थानीये द्वे । एकः अयनशीलः आदित्यः वस्ते आच्छादयति । केशी रश्मिवान् । विश्वा विश्वानि भुवनानि भूतजातानि विद्वान् जानन् । तयोरसितं कृष्णं रात्र्यात्मकं वासो वसानः स आत्मा तिरोधाय अन्तर्हितं कृत्वा एति गच्छति । शुक्रं शुक्लं अहरात्मकं वास आदत्ते धारयति अनुहाय जीर्णाया रात्रेः पश्चादागत्य । यद्वा - जीर्णां वासस्थानीयां रात्रिं अनुक्रमणे हित्वा शुक्रमभिनवं वास आदत्ते तद्वसानः प्रकाशं गच्छतीति । ‘नञञादिभ्यः’ इति जीर्यतेरिन्प्रत्ययः, ‘कृदिकारादक्तिनः’ इति ङीष् ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम्, ‘क्रियाग्नहाणं कर्तव्यम्’ इति कर्मणस्संप्रदानत्वाच्चतुर्थी । एवमहोरात्रयोरपि प्रवर्तयिता देवः इदं समृद्धं करोत्विति ॥
मूलम् (संयुक्तम्)
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसु॑रा अकुर्वत॒ ते दे॒वा ए॒तम्म॑हाय॒ज्ञम॑पश्य॒न्तम॑तन्वताऽग्निहो॒त्रव्व्ँर॒तम॑कुर्वत॒ तस्मा॒द्द्विव्र॑तस्स्या॒द्द्विर्ह्य॑ग्निहो॒त्रञ्जुह्व॑ति पौर्णमा॒सय्ँ य॒ज्ञम॑ग्नीषो॒मीय॑म् [5] प॒शुम॑कुर्वत दा॒र्श्यय्ँ य॒ज्ञमा॑ग्ने॒यम्प॒शुम॑कुर्वत वैश्वदे॒वम्प्रा॑तस्सव॒नम॑कुर्वत वरुणप्रघा॒सान्माध्य॑न्दिनँ॒ सव॑नँ साकमे॒धान्पि॑तृय॒ज्ञन्त्र्य॑म्बकाँस्तृतीयसव॒नम॑कुर्वत॒ तमे॑षा॒मसु॑रा य॒ज्ञम॒न्ववा॑जिगाँस॒न्तन्नान्ववा॑य॒न्ते॑ऽब्रुवन्नध्वर्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्निति॒ तद॑ध्व॒रस्या॑ध्वर॒त्वन्ततो॑ दे॒वा अभ॑व॒न्परासु॑रा॒ य ए॒वव्ँवि॒द्वान्त्सोमे॑न॒ यज॑ते॒ भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥ [6]
विश्वास-प्रस्तुतिः
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत ।
तदसु॑रा अकुर्वत ।
ते दे॒वा ए॒तम्म॑हाय॒ज्ञम॑पश्य॒न्तम॑तन्वत ।
मूलम्
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत ।
तदसु॑रा अकुर्वत ।
ते दे॒वा ए॒तम्म॑हाय॒ज्ञम॑पश्य॒न्तम॑तन्वत ।
भट्टभास्कर-टीका
4देवा वा इत्यादि ॥ यन्नाम यत्किंचित्कर्म देवा असुरजयार्थं यज्ञे विषये अकुर्वत, तत्सर्वं असुरा अप्यकुर्वत । ततोसुरान् जेतुमशक्नुवन्तः तद्विजयोपायमन्विच्छन्तो देवा एतं वक्ष्यमाणं महायज्ञमपश्यन् । ततस्तमतन्वत अतिष्ठन् ।
विश्वास-प्रस्तुतिः
अ॒ग्नि॒हो॒त्रव्व्ँर॒तम॑कुर्वत ।
मूलम्
अ॒ग्नि॒हो॒त्रव्व्ँर॒तम॑कुर्वत ।
भट्टभास्कर-टीका
कः पुनस्स महायज्ञ इत्याह - अग्निहोत्रमित्यदि । अत्रोक्तमाचार्येण – ‘तत्पृच्छति कः पुनस्स महायज्ञ इति । अयमेवैष चातुर्मास्यः सोम उक्तो भवति इति । अथ खलु य एव कश्चन सौम्योध्वरस्स महायज्ञः’ इति । अग्निहोत्रादिरूपेण प्रच्छन्नं व्रतोपाकरणादि कुवर्न्तः सोममाहरन् । यथाधिगतपरमार्था असुरास्स्वयमनुष्ठातुं न शक्नुयुः, यथा चाग्निहोत्रादिकमेवैते कर्म कुर्वन्तीति मन्येरन् तथा प्रच्छन्नं सोममाहरन्निति । द्वयोः कालयोः व्रतं यस्य स द्विव्रतः ।
विश्वास-प्रस्तुतिः
तस्मा॒द्द्विव्र॑तस्स्या॒द्द्विर्ह्य॑ग्निहो॒त्रञ्जुह्व॑ति ।
मूलम्
तस्मा॒द्द्विव्र॑तस्स्या॒द्द्विर्ह्य॑ग्निहो॒त्रञ्जुह्व॑ति ।
भट्टभास्कर-टीका
जुह्वतीति । ‘हि च’ इति निघातप्रतिषेधः ‘अभ्यस्तानामादिः’ इत्याद्युदात्तत्वम् ।
विश्वास-प्रस्तुतिः
पौ॒र्ण॒मा॒सय्ँ य॒ज्ञम॑ग्नीषो॒मीय॑म्प॒शुम॑कुर्वत ।
मूलम्
पौ॒र्ण॒मा॒सय्ँ य॒ज्ञम॑ग्नीषो॒मीय॑म्प॒शुम॑कुर्वत ।
भट्टभास्कर-टीका
अग्नीषोमीयमिति । द्यावापृथिव्यादिना छः, ‘अग्नेस्तुत्स्तोमसोमाः’ इति षत्वम्, ‘ईदग्नेस्सोमवरुणयोः’ इतीकारः । दर्शे भवो दार्श्यः, छान्दसो ण्यः ।
विश्वास-प्रस्तुतिः
दा॒र्श्यय्ँ य॒ज्ञमा॑ग्ने॒यम्प॒शुम॑कुर्वत ।
वै॒श्व॒दे॒वम्प्रा॑तस्सव॒नम॑कुर्वत ।
व॒रु॒ण॒प्र॒घा॒सान्माध्य॑न्दिनँ॒ सव॑नँ साकमे॒धान्पि॑तृय॒ज्ञन्त्र्य॑म्बकाँस्तृतीयसव॒नम॑कुर्वत ।
मूलम्
दा॒र्श्यय्ँ य॒ज्ञमा॑ग्ने॒यम्प॒शुम॑कुर्वत ।
वै॒श्व॒दे॒वम्प्रा॑तस्सव॒नम॑कुर्वत ।
व॒रु॒ण॒प्र॒घा॒सान्माध्य॑न्दिनँ॒ सव॑नँ साकमे॒धान्पि॑तृय॒ज्ञन्त्र्य॑म्बकाँस्तृतीयसव॒नम॑कुर्वत ।
भट्टभास्कर-टीका
आग्नेयमिति । अग्नेर्ढक् । वैश्वदेवादयः चातुर्मास्ययागाः । साकमेधादित्रयं तृतीयसवनमकुर्वत ।
विश्वास-प्रस्तुतिः
तमे॑षा॒मसु॑रा य॒ज्ञम॒न्ववा॑जिगाँस॒न्तन्नान्ववा॑यन् ।
मूलम्
तमे॑षा॒मसु॑रा य॒ज्ञम॒न्ववा॑जिगाँस॒न्तन्नान्ववा॑यन् ।
भट्टभास्कर-टीका
तमेषामित्यादि । एषां देवानां तादृशं यज्ञं महायज्ञात्मकं असुरा अन्ववाजिगांसन् अन्ववैतुमनुष्ठातुमैच्छन् । ‘सनि च’ इति गमिरादेशः, ‘अज्झनगमां सनि’ इति दीर्घत्वम् । तमन्वेतुं नाशक्नुवन् ।
विश्वास-प्रस्तुतिः
ते॑ऽब्रुवन् ।
अ॒ध्व॒र्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्निति॑ ।
मूलम्
ते॑ऽब्रुवन् ।
अ॒ध्व॒र्त॒व्या वा इ॒मे दे॒वा अ॑भूव॒न्निति॑ ।
भट्टभास्कर-टीका
तेऽब्रुवन्नसुराः अध्वर्तव्या अस्माभिबार्धीतुमशक्याः इमे देवा अभूवन्निति । ‘कृत्योकेष्णुच्चार्वादयश्च’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
तद॑ध्व॒रस्या॑ध्वर॒त्वम् ।
मूलम्
तद॑ध्व॒रस्या॑ध्वर॒त्वम् ।
भट्टभास्कर-टीका
तदध्वरस्येत्यादि । अध्वर्तव्या अनेन देवा अभूवन्नित्यध्वरः । ध्वररहितत्वादध्वरः । ध्वरतेः पचाद्यच्, बहुव्रीहौ ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । यद्वा - कर्मणि छान्दसोच्, ‘अच्कावशक्तौ’ इत्युत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
ततो॑ दे॒वा अभ॑व॒न् , परासु॑राः ।
य ए॒वव्ँवि॒द्वान्त्सोमे॑न॒ यज॑ते ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥ [6]
मूलम्
ततो॑ दे॒वा अभ॑व॒न् , परासु॑राः ।
य ए॒वव्ँवि॒द्वान्त्सोमे॑न॒ यज॑ते ।
भव॑त्या॒त्मना॒ परा॑स्य॒ भ्रातृ॑व्यो भवति ॥ [6]
भट्टभास्कर-टीका
ततो देवा अभवन् भूतिमन्तस्सम्पन्नाः । अस्रुराश्च पराभवन् । य एवमित्यादि । गतम् ॥
इति तृतीये द्वितीये द्वितीयोनुवाकः ॥