विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
यो वै पव॑मानानामन्वारो॒हान्वि॒द्वान्यज॒तेऽनु॒ पव॑माना॒ना रो॑हति॒ न पव॑माने॒भ्योऽव॑च्छिद्यते
विश्वास-प्रस्तुतिः
यो वै पव॑मानानामन्वारो॒हान्वि॒द्वान् यज॑ते ।
अनु॒ पव॑माना॒ना रो॑हति ।
न पव॑माने॒भ्योऽव॑च्छिद्यते ।
मूलम्
यो वै पव॑मानानामन्वारो॒हान्वि॒द्वान् यज॑ते ।
अनु॒ पव॑माना॒ना रो॑हति ।
न पव॑माने॒भ्योऽव॑च्छिद्यते ।
भट्टभास्कर-टीका
1यो वै पवमानानामित्यादि ॥ पवमानाः बहिष्पवमानादयः । ‘पूङ्यजोश्शानन्’ । तेषामन्वारोहाः तान् । यैरन्वारुह्यन्ते अनुक्रमेण प्राप्यन्ते तेषामन्वारोहाः मन्त्राः । तान् विद्वान्यजमानः पवमानानन्वारोहति । न पवमानेभ्योवच्छिद्यते ।
विश्वास-प्रस्तुतिः
श्ये॒नो॑ऽसि गाय॒त्रछ॑न्दाः ।
मूलम्
श्ये॒नो॑ऽसि गाय॒त्रछ॑न्दाः ।
भट्टभास्कर-टीका
के पुनरन्वारोहा इत्यत आह - श्येनोसीति । तत्र बहिष्पवमाने पञ्चम्यां स्तोत्रियायां प्रस्तुतायां वाचयति । श्येनः पक्षिविशेषः । स शयनीयः शीघ्रगतिः । स एव त्वमसि । गायत्रछन्दाः गायत्रछन्दस्कः । गायत्र्येव गायत्रम्, ‘छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानम्’ इत्यण् ।
विश्वास-प्रस्तुतिः
अनु॒ त्वा र॑भे ।
मूलम्
अनु॒ त्वा र॑भे ।
भट्टभास्कर-टीका
तं त्वामहमन्वारभे अनुक्रमेण रोहामि ।
विश्वास-प्रस्तुतिः
स्व॒स्ति मा॒ सम्पा॑रय।
मूलम्
स्व॒स्ति मा॒ सम्पा॑रय।
भट्टभास्कर-टीका
किंच - मा स्वस्ति अविघ्नेन संपारय समाप्तकर्माणं कुरु । पार तीर कर्मसमाप्तौ ॥
विश्वास-प्रस्तुतिः
सु॒प॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दाः ।
अनु॒ त्वा र॑भे ।
स्व॒स्ति मा॒ सम्पा॑रय।
मूलम्
सु॒प॒र्णो॑ऽसि त्रि॒ष्टुप्छ॑न्दाः ।
अनु॒ त्वा र॑भे ।
स्व॒स्ति मा॒ सम्पा॑रय।
भट्टभास्कर-टीका
2अथ माध्यन्दिने पवमाने अष्टम्यां स्तोत्रियायां प्रस्तुतायां वाचयति - सुपर्णोसीति ॥ सुपर्णः श्येनः वृद्धतरः शोभनपतनः । स एव त्वमसि । त्रिष्टुप्छन्दाः । गतमन्यत् ॥
विश्वास-प्रस्तुतिः
सघा॑सि॒ जग॑तीछन्दाः ।
अनु॒ त्वा र॑भे ।
स्व॒स्ति मा॒ सम्पा॑र॒येत्या॑ह ।
ए॒ते वै पव॑मानानामन्वारो॒हाः ।
तान्य ए॒वव्ँवि॒द्वान्यज॒ते ।
अनु॒ पव॑माना॒ना रो॑हति ।
न पव॑माने॒भ्योऽव॑च्छिद्यते ।
मूलम्
सघा॑सि॒ जग॑तीछन्दाः ।
अनु॒ त्वा र॑भे ।
स्व॒स्ति मा॒ सम्पा॑र॒येत्या॑ह ।
ए॒ते वै पव॑मानानामन्वारो॒हाः ।
तान्य ए॒वव्ँवि॒द्वान्यज॒ते ।
अनु॒ पव॑माना॒ना रो॑हति ।
न पव॑माने॒भ्योऽव॑च्छिद्यते ।
भट्टभास्कर-टीका
3अथार्भवे पवमाने नवम्यां प्रस्तुतायां वाचयति - सघाऽसीति ॥ गृध्रो वा भासो वा सुपर्णादपि वृद्धतरः । स एव त्वमसि । जगतीछन्दाः । समानमन्यत् । इत्याहेति । निगदव्याख्यातम् ॥
मूलम् (संयुक्तम्)
यो वै पव॑मानस्य॒ सन्त॑तिव्ँ॒वेद॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑ष॒ᳶ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते॑ प्र॒जाम्पव॑मानस्य॒ ग्रहा॑ गृह्य॒न्तेऽथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयᳶ॑ पूत॒भृत्तान्यदगृ॑हीत्वोपाकु॒र्यात्पव॑मानव्ँ॒वि [2]
छि॒न्द्या॒त्तव्ँवि॒च्छिद्य॑मानमध्व॒र्योᳶ प्रा॒णोऽनु॒ विच्छि॑द्येतोपया॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि मृ॑शे॒दिन्द्रा॑य॒ त्वेत्या॑धव॒नीयव्ँ॒विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृत॒म्पव॑मानमे॒व तत्सन्त॑नोति॒ सर्व॒मायु॑रेति॒ न पु॒रायु॑ष॒ᳶ प्र मी॑यते पशु॒मान्भ॑वति वि॒न्दते॑ प्र॒जाम् ॥ [3]
विश्वास-प्रस्तुतिः
यो वै पव॑मानस्य॒ सन्त॑तिव्ँ॒वेद॑ ।
सर्व॒मायु॑रेति ।
मूलम्
यो वै पव॑मानस्य॒ सन्त॑तिव्ँ॒वेद॑ ।
सर्व॒मायु॑रेति ।
भट्टभास्कर-टीका
4-6यो वै पवानस्येत्यादि ॥ सन्तानः सन्ततिः अविच्छेदः । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
न पु॒रायु॑ष॒ᳶ प्र मी॑यते ।
प॒शु॒मान्भ॑वति ।
वि॒न्दते॑ प्र॒जाम् ।
मूलम्
न पु॒रायु॑ष॒ᳶ प्र मी॑यते ।
प॒शु॒मान्भ॑वति ।
वि॒न्दते॑ प्र॒जाम् ।
भट्टभास्कर-टीका
आयुषः शतर्संवत्सरप्रमाणात् पुरा प्राक् मध्ये न प्रमीयते न म्रियते, पशुमान् भवति बहुपशुर्भवति । ‘ह्रस्वनुङ्भ्यां मतुप्’ इति मतुप उदात्तत्वम् ।
विश्वास-प्रस्तुतिः
पव॑मानस्य॒ ग्रहा॑ गृह्यन्ते ।
मूलम्
पव॑मानस्य॒ ग्रहा॑ गृह्यन्ते ।
भट्टभास्कर-टीका
का पुनस्सन्ततिरित्याह - पवमानस्य ग्रहाः द्रोणकलशादयः । ते पवमानोपाकरणात्प्राक् ये गृह्यन्ते सा पवमानस्य सन्ततिः ।
विश्वास-प्रस्तुतिः
अथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयᳶ॑ पूत॒भृत् ।
तान्यदगृ॑हीत्वोपाकु॒र्यात् ।
पव॑मानव्ँ॒वि च्छि॑न्द्यात् ।
तव्ँवि॒च्छिद्य॑मानमध्व॒र्योᳶ प्रा॒णोऽनु॒ विच्छि॑द्येत।
मूलम्
अथ॒ वा अ॑स्यै॒तेऽगृ॑हीता द्रोणकल॒श आ॑धव॒नीयᳶ॑ पूत॒भृत् ।
तान्यदगृ॑हीत्वोपाकु॒र्यात् ।
पव॑मानव्ँ॒वि च्छि॑न्द्यात् ।
तव्ँवि॒च्छिद्य॑मानमध्व॒र्योᳶ प्रा॒णोऽनु॒ विच्छि॑द्येत।
भट्टभास्कर-टीका
तर्हि कस्य ते गृह्यन्तामित्यत आह - अथेति । एते खलु पवमानस्य ग्रहास्स्युः अस्य पवमानस्य सम्बन्धितया गृहीता एव ग्रहा भवन्ति । के पुनस्ते इत्यत आह - द्रोणकलश इत्यादि । तर्हि ते मा ग्राहिषतेत्यत आह - तान्यदित्यादि । यद्येवं का गतिः, यदि गृह्यन्ते पवमानग्रहास्स्युः, यदि न गृह्यन्ते पवमानो विच्छिद्येत । नहि भवन्ति गृह्यन्ते न गृह्यन्ते चेति ।
विश्वास-प्रस्तुतिः
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि मृ॑शेत् ।
+++(उ॒प॒या॒मगृ॑हीतोऽसि )+++इन्द्रा॑य॒ त्वेत्या॑ध॒व॒नीय॑म् +++(अभिमशेत् )+++ ।
+++(उ॒प॒या॒मगृ॑हीतोऽसि)+++विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृत॑म् +++(अभिमशेत्)+++ ।
पव॑मानमे॒व तत्सन्त॑नोति ।
मूलम्
उ॒प॒या॒मगृ॑हीतोऽसि प्र॒जाप॑तये॒ त्वेति॑ द्रोणकल॒शम॒भि मृ॑शेत् ।
+++(उ॒प॒या॒मगृ॑हीतोऽसि )+++इन्द्रा॑य॒ त्वेत्या॑ध॒व॒नीय॑म् +++(अभिमशेत् )+++ ।
+++(उ॒प॒या॒मगृ॑हीतोऽसि)+++विश्वे॑भ्यस्त्वा दे॒वेभ्य॒ इति॑ पूत॒भृत॑म् +++(अभिमशेत्)+++ ।
पव॑मानमे॒व तत्सन्त॑नोति ।
भट्टभास्कर-टीका
तत्राह - उपयामगृहीतोसि प्रजापतये त्वेत्यादि । इयं वा उपयामः तयैव गृहीतस्त्वमसीति व्याख्यातम् । तं त्वां प्रजापतये प्रजापत्यर्थं अभिमृशामीति शेषः । अनेन मन्त्रेण द्रोणकलशमभिमृशेत् उपयामगृहीतोसीति त्रयाणामनुषङ्गः । उपयामगृहीतोसीन्द्राय त्वेत्याधवनीयमभिमृशेत् । उपयामगृहीतोसि विश्वेभ्यस्त्वा देवेभ्य इति पूतभृतमभिमृशेत् । सर्वे पुरस्तादुपयामाः । एतेनाभिमर्शनेन ग्रहपर्यायेण ते गृहीता भवन्ति । तेन पवमानं सन्तनोति ।
विश्वास-प्रस्तुतिः
सर्व॒मायु॑रेति ।
न पु॒रायु॑ष॒ᳶ प्र मी॑यते ।
प॒शु॒मान्भ॑वति ।
वि॒न्दते॑ प्र॒जाम् ॥
मूलम्
सर्व॒मायु॑रेति ।
न पु॒रायु॑ष॒ᳶ प्र मी॑यते ।
प॒शु॒मान्भ॑वति ।
वि॒न्दते॑ प्र॒जाम् ॥
भट्टभास्कर-टीका
सर्वमायुरेतीत्यादि । गतम् ॥
इति तृतीये द्वितीये प्रथमोनुवाकः ॥