त्रिष्टुुप्, १,५,७,११-१२, २२,३३-३५ गायत्री,
१५-१६ २५ अनुष्टुप् ।
विश्वेदेवा ऋषयः
विश्वास-प्रस्तुतिः
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
य॒शसव्ँ॑वी॒रव॑त्तमम् ॥
मूलम्
अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
य॒शसव्ँ॑वी॒रव॑त्तमम् ॥
भट्टभास्कर-टीका
1अथौपानुवाक्यामध्ये याज्यानुवाक्याः । अस्ति चित्रा नाम यागः । ‘चित्रया यजेत पशुकामः’ इति । तत्राग्नेयदीनि सप्तहवींषि भवन्ति । तेषां ‘प्रैवाग्नेयेन वापयति’ इत्यस्याग्नेयस्य पुरोनुवाक्या - अग्निना रयिमश्नवदिति गायत्री ॥ अग्निना हि रयिं धनं पशुलक्षणं अश्नवत् अश्नुते । पोषं चैव तस्य धनस्य अश्नुते अग्निना दिवेदिवे दिनेदिने । अश्नोतेर्लेटि व्यत्ययेन परस्मैपदम् इतश्च लोपः, ‘लेटोडाटौ’ इत्यडागमः । रयिर्विशेष्यते - यशसं यशस्विनम् । मत्वर्थीयो लुप्यते, तेनानब्विषयत्वादाद्युदात्तत्वं निवर्तते, अर्शआदित्वादचि व्यत्ययेन प्रत्ययात्पूर्वस्योदात्तत्वम् । वीरवत्तमं अतिशयेन वीरैः पुरुषैस्तद्वन्तम् । यस्मादीदृशं रयिं अग्निना सर्वो जनः अश्नुते तस्मादहमप्यग्निना ईदृशं रयिं अश्नुवीयेति ॥
विश्वास-प्रस्तुतिः
गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः ।
इडा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिᳶ पृ॑थुबु॒ध्नस्स॒भावा॑न् ॥
मूलम्
गोमाँ॑ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः ।
इडा॑वाँ ए॒षो अ॑सुर प्र॒जावा॑न्दी॒र्घो र॒यिᳶ पृ॑थुबु॒ध्नस्स॒भावा॑न् ॥
भट्टभास्कर-टीका
2तत्रैव याज्या - गोमानिति त्रिष्टुप् ॥ व्याख्यातेयम् ‘अगन्म सुवः’ इत्यत्र । गोमत्त्वादिगुणविशिष्टस्सर्वदैवाप्रमृष्यो यज्ञो ममास्तु इति ॥
विश्वास-प्रस्तुतिः
आ प्या॑यस्व॒ …
मूलम्
आ प्या॑यस्व॒ …
भट्टभास्कर-टीका
3अथ ‘रेतस्सौम्येन दधाति’ इत्यस्य पुरोनुवाक्या याज्या च - आप्यायस्व सं ते इति गायत्रीत्रिष्टुभौ ॥ एते च ‘मा नो हिंसीज्जनिता’ इत्यत्र व्याख्यास्येते यत्राम्नेयेते । इह तु प्रतीकग्रह्णमेतयोः । हे सोम आप्यायस्व वर्धस्व । ते तव विश्वतः वृष्णियं वीर्यं समेतु । तत्र आप्यायितस्त्वं वाजस्यान्नस्य क्षीरादेः संगथे संगमने अस्माकं भवेति ॥
-
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑स्सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे । -
सोमाय वाजिने श्यामाकं चरुं निर्वपेद्यः क्लैब्यात् बिभीयात्’ इत्यस्य पुरोनुवाक्या - आप्यायस्वेति गायत्री ॥ इयमग्निकाण्डे व्याख्यास्यते यत्राम्नायते प्रकृतौ हि हीयुः [‘मा नो हिंसीः’ ] इत्यत्र । इह तु प्रतीकग्रहणम् । हे सोम तव प्रसादात् वृष्णियं वीर्यं विश्वतः समेतु समागच्छताम् । त्वदर्थं च मामाप्यायस्व द्यध्यात् [दध्यादिना] । किञ्च - वाजस्यान्नस्य सङ्गथे सङ्गमनार्थं भवेति ॥
-
अथ ‘रेतस्सौम्येन दधाति’ इत्यस्य पुरोनुवाक्या याज्या च - आप्यायस्व सं ते इति गायत्रीत्रिष्टुभौ ॥ एते च ‘मा नो हिंसीज्जनिता’ इत्यत्र व्याख्यास्येते यत्राम्नेयेते । इह तु प्रतीकग्रह्णमेतयोः । हे सोम आप्यायस्व वर्धस्व । ते तव विश्वतः वृष्णियं वीर्यं समेतु । तत्र आप्यायितस्त्वं वाजस्यान्नस्य क्षीरादेः संगथे संगमने अस्माकं भवेति ॥
-
अथ पत्नीसंयाजानां याज्यानुवाक्याः - आ प्यायस्वेत्याद्याः ॥ ‘आ प्यायस्व समेतु ते, संते पयांसि’ इति त्रिष्टुभौ ‘मा नो हिंसीत्’ इत्यत्र व्याख्याते ।
-
3अथ सौम्यस्य पुरोऽनुवाक्या - आप्यायस्व समेतु त इति गायत्री ॥ इयञ्चाग्निकाण्डे ‘मा नो हिंसीत्’ इत्यत्र व्याख्यास्यते यत्राम्नायते । हे सोम आप्यायस्व वर्धस्व त्वत्प्रसादात् विश्वतः वृष्ण्यं शुक्लं समेतु समागच्छतु । भव च वाजस्यान्नस्य सङ्गथे सङ्गमनायैवेति ॥
- कल्पः—“आ प्यायस्व समेतु त इति सिकता व्यूहत्युत्तरया त्रिष्टुभा राज-न्यस्य” इति । तत्र प्रथममन्त्रमाह— आ प्यायस्वेति । हे सोम त्वमाप्यायस्व सर्वतो वर्धयस्य । वे तव वृष्णियं रेतो विश्वतः सर्वस्माद्वृष्णियादाहारात्समेतु संप्राप्नोतु । वाजस्यान्नस्य संगथे संगमने त्वं निमित्तं भव ।
विश्वास-प्रस्तुतिः
सन्ते॑ ..
मूलम्
सन्ते॑ ..
भट्टभास्कर-टीका
4अथ द्वितीया - हे सोम तवाभिमातीनां पाप्मनां हन्तुः पयांसि पातव्यानि क्षीरादीनि संयन्तु संगच्छन्तां, वाजा अन्नानि च संयन्तु, वृष्णियानि वीर्याणि च संयन्तु । ततश्चाप्यायमानः अमरणत्वायास्माकं उत्तमानि श्रेयांसि अन्नानि धिष्व धारय देवार्थमस्मदर्थं वा ॥
-
सन्ते॒ पयाँ॑सि॒ समु॑ यन्तु॒ वाजा॒स्सव्ँवृष्णि॑यान्यभिमाति॒षाहः॑ ।
आ॒प्याय॑मानो अ॒मृता॑य सोम दि॒वि श्रवाँ॑स्युत्त॒मानि॑ धिष्व ॥ [32]- अथोत्तरां त्रिष्टुभमाह— सं ते पयाँ सीति । हे सोम ते तव पयांसि पातव्यानि क्षीरादीनि समु[सं]- यन्तु संप्राप्नुवन्तु । तथा वाजा अन्नान्यपि संयन्तु । वृष्णियानि रेतांस्यापि संयन्तु । कीदृशस्य तव। अभिमातिषाहः अभिमातिं पाम्मोनं सहते तिरस्करो तीत्यभिमातिषाट् तस्य । क्षीरादिसंपत्तौ सत्यां त्वमाप्यायमानो वर्धयमानोऽमृताय यजमानस्यामृतत्वाय देवताभावाय दिवि द्युलोके श्रवांसि श्रोतुं प्रियाण्युत्तमानि विचित्राण्यन्नानि धिष्व धारय संपादयेत्यर्थः ।
तदेतदृग्द्वयं सामान्याकारेण विनियुङ्के— “सौम्या व्यूहति सोमो वै रेतोधा रेत एव तद्दधाति” [सं. का. ५ प्र. २ अ. ६] इति।
सोमो देवता यस्यामृचि प्रतीयते सेयमृक्सौमी । विश्वतः सोमेत्याद्यायामृ-च्यसौ प्रतीयते । अमृताय सोमेत्युत्तरस्यामृचि प्रतीयते । तया सौम्मा पूर्वं न्युप्ताः सिकता विविधं प्रसारयेत् । तथा सति सोमस्य रेतोधारकत्वात्तन्मत्रनिष्पाद्यव्यूहनेन यजमानो रेतो धारयति ।
मन्त्रद्वयस्य पुरुषभेदेन व्यवस्थां विधत्ते— “गायत्रिया ब्राह्मणस्य गायत्रो हि ब्राह्मणस्रिष्टुभा राजन्यस्य त्रैष्टुभो हि राजन्यः” (सं. का. ५ प्र. २ अ. ६) इति।
- अथोत्तरां त्रिष्टुभमाह— सं ते पयाँ सीति । हे सोम ते तव पयांसि पातव्यानि क्षीरादीनि समु[सं]- यन्तु संप्राप्नुवन्तु । तथा वाजा अन्नान्यपि संयन्तु । वृष्णियानि रेतांस्यापि संयन्तु । कीदृशस्य तव। अभिमातिषाहः अभिमातिं पाम्मोनं सहते तिरस्करो तीत्यभिमातिषाट् तस्य । क्षीरादिसंपत्तौ सत्यां त्वमाप्यायमानो वर्धयमानोऽमृताय यजमानस्यामृतत्वाय देवताभावाय दिवि द्युलोके श्रवांसि श्रोतुं प्रियाण्युत्तमानि विचित्राण्यन्नानि धिष्व धारय संपादयेत्यर्थः ।
-
आ प्यायस्वेति गायत्री । सं त इति त्रिष्टुप् ।
-
तत्रैव याज्या - सन्त इति त्रिष्टुप् ॥ इमामपि तत्रैव व्याख्यास्यामः, इह तु प्रतीकग्रहणमस्याः । हे सोम तव प्रसादात् पयांसि वाजाः वृष्ण्यानि च मां संगच्छन्तु । अभिमातिषाहः अभिमातिः पाप्मा क्लैब्यहेतुः, तस्याभिभवितुः तव । किञ्च - अमृताय अमृतत्वार्थमाप्यायमानो दिवि श्रवांसि अन्नानि उत्तमानि धिष्व स्थापयेति ॥
-
तत्रैव (सौम्यस्य) याज्या - सं ते पयांसीति त्रिष्टुप् ॥ इयमपि तत्रैवाम्नायते । हे सोम अभिमातीनां पाप्मनामभिभवितुस्तव प्रसादात् पयांसिच वाजाश्च वृष्णियानि च संयन्तु इमं सङ्गच्छन्तु । त्वं चाप्यायमानः दिवि द्युलोके अस्यामृतत्वाय उत्तमानि श्रवांसि अन्नानि धिष्व स्थापयेति ॥
विश्वास-प्रस्तुतिः
इ॒ह त्वष्टा॑रमग्रि॒यव्ँवि॒श्वरू॑प॒मुप॑ ह्वये ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥
मूलम्
इ॒ह त्वष्टा॑रमग्रि॒यव्ँवि॒श्वरू॑प॒मुप॑ ह्वये ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥
भट्टभास्कर-टीका
5अथ ‘रेत एव हितं त्वष्टा रूपाणि वि करोति’ इत्यस्य पुरोनुवक्या - इह त्वष्टारमिति गायत्री । इहास्मिन् कर्मणि त्वष्टारं अग्रियं मुख्यम् । ‘घच्छौ च’ इति घच् । विश्वरूपं विश्वेषां रूपाणां विकरणसमर्थम् । ‘बहुव्रीहौ विश्वम्’ इति पूर्वपदान्तोदात्तत्वम् । उपह्वये आह्वयामि । ‘निसमुपविभ्यो ह्वः’ इत्यात्मनेपदम् । अस्माकमेवास्तु केवलः सम्भन्धीत्येवमर्थमुपह्वये ॥
विश्वास-प्रस्तुतिः
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णस्स्य॑स्व ।
यतो॑ वी॒रः [35] क॒र्म॒ण्य॑स्सु॒दक्षो॑ ..
यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ।
मूलम्
तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णस्स्य॑स्व ।
यतो॑ वी॒रः [35] क॒र्म॒ण्य॑स्सु॒दक्षो॑ ..
यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ।
भट्टभास्कर-टीका
6तत्रैव याज्या - तन्न इति त्रिष्टुप् ॥ ‘सुदक्षः’ इति तृतीयपादान्तः । तत् धनं तुरीपं तूर्णमाप्नोतीति तुरीपं । पृषोदरादिः । पोषयित्नु पोषयितृ । हे देव त्वष्टः रराणः दानशीलस्त्वम् । व्यत्ययेन रातोरात्मनेपदम् शपश्श्लुः । नः अस्मभ्यं अधेदानीं विष्यस्व विसृज विमुच्य देहीत्यर्थः । व्यत्ययेनात्मनेपदम् । तदित्युक्तं, किं तदित्याह - यतः यस्माद्धनाल्लब्धात् वीरः विक्रान्तः कर्मण्यः कर्मणि साधुः कुशलः सुदक्षः सुष्ठु शीघ्रः उत्साही । दक्ष शीघ्रकरणे, ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । युक्तग्रावा युक्ता ग्रावाणो यस्य तादृशः । ग्रावभिः तत्साध्यं कर्मोपलक्ष्यते कर्मशील इत्यर्थः । अत एव देवकामः । देवान् कामयते इति ‘शीलिकामि’ इत्यादिना णः पूर्वपदप्रकृतिस्वरत्वं च । देवैः काम्यते इति वा देवकामः । दासीभारादिर्द्रष्टव्यः । ईदृशः पुरुषः यस्माद्धनाज्जायते तत्पशुलक्षणं धनं देहीति ॥
विश्वास-प्रस्तुतिः
शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुᳶ पोष॑ उ॒त त्मना॑ ।
य॒ज्ञेय॑ज्ञे न॒ उद॑व ।
मूलम्
शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुᳶ पोष॑ उ॒त त्मना॑ ।
य॒ज्ञेय॑ज्ञे न॒ उद॑व ।
भट्टभास्कर-टीका
7अथापरं याज्यानुवाक्यायुगळं विकल्पार्थं अत्रैव वा अन्यत्र वा त्वाष्ट्रे विनियोज्यम् । तत्र पुरोनुवाक्या - शिव इति गायत्री ॥ हे त्वष्टः शिवः सुखकरः त्वमिहास्मिन् कर्मणि आगहि आगच्छ । शपो लुक् । विभुः व्याप्तिमान् पोषे पुष्ट्यर्थमस्मा कम् । निमित्तात्सप्तमी । उत त्मना आत्मना केवलेनाप्यात्मना अन्यनिरपेक्ष एव पोषं कर्तुं समर्थः । ‘मन्त्रेष्वाड्यादेः’ इति लोपः । किञ्च - यज्ञेयज्ञे सर्वस्मिन् यज्ञे नः अस्मान् उदव उत्कृष्टं पाहि प्रतियज्ञमुत्कृष्टं पाहीत्यर्थः । ‘अनुदातं च’ इति द्वितीयो यज्ञशब्दोनुदात्तः ॥
विश्वास-प्रस्तुतिः
पि॒शङ्ग॑रूपस्सु॒भरो॑ वयो॒धाश्श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः ।
प्र॒जान्त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ।
मूलम्
पि॒शङ्ग॑रूपस्सु॒भरो॑ वयो॒धाश्श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः ।
प्र॒जान्त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ।
भट्टभास्कर-टीका
8अथ याज्या - पिशङ्गरूपः इति त्रिष्टुप् ॥ पिशङ्गरूपः चित्ररूपः । त्रिवर्गस्य सेविता सुभरः शोभनभरणः स्वजनस्य सम्यग्भर्तेत्यर्थः । ‘आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । यद्वा - देवैस्सुखेन भरणीयः । खल्प्रत्ययात्पूर्वस्योदात्तत्वम् । वयोधाः वयसोन्नस्य दाता धाता वा । श्रुष्टी क्षिप्रकारीत्येके । सत्यवादीत्यन्ये । श्रोतृषु स्त्यायते श्रुष्टी । पृषोदरादिः । वीरो देवकामश्च इत्येवंगुणः जायते त्वष्टुः प्रसादात् । तस्मादीदृशीं प्रजां त्वष्टा अस्मे अस्मभ्यं विष्यतु विमुच्य ददातु नाभिं नहनीं कुलस्य । ‘नहोभश्च’ इति । ‘सुपां सुलुक्’ इति अस्मच्छब्दात्परस्या विभक्तेस्स्मे आदेशः । अथानन्तरं देवानामपि पाथोन्नं सामर्थ्यद्देवानामपि एतु अस्मान् प्राप्नोतु । यद्वा - कर्मणि षष्ठी । पाथोन्नं हवीरूपं देवानप्येतुप्रविशतु । यागाश्च यथोक्तमनुष्ठीयन्तामित्यर्थः ॥
विश्वास-प्रस्तुतिः
प्र णो॑ दे॒वी ..
मूलम्
प्र णो॑ दे॒वी ..
भट्टभास्कर-टीका
9अथ ‘द्वौ सारस्वतौ मिथुनं सारस्वत्या करोति’ इति ब्राह्मणम् । एकस्सरस्वत्यै, इतरस्सरस्वते । तत्र सरस्वत्याः पुरोनुवाक्या याज्या च ‘प्रणो देवी सरस्वती’, ‘आ नो दिवो बृहतः’ इति च गायत्रीत्रिष्टुभौ ॥ व्याख्याते चैते ‘अग्नाविष्णू महि तद्वाम्’ इत्यत्र, इह तु प्रतीकग्रहणं तयोः । सरस्वती देवी वाजेभिरन्नैः तद्वती धीनां धियां कर्मणां बुद्धीनां वा अवित्री पालयित्री अस्मान् प्रकर्षेणावत्विति ॥
-
प्र णो॑ दे॒वी सर॑स्वती॒ वाजे॑भिर्वा॒जिनी॑वती । धी॒नाम॑वि॒त्र्य॑वतु ॥
-
तत्रैव ‘सरस्वत्याज्यभागा’ इत्यत्र पुरोनुवाक्या - प्र ण इति गायत्री ॥ देवी सरस्वती वाजेभिः वाजैः रसैर्नो ऽस्मान् प्रावतु प्रकर्षेण रक्षत्वन्नादि दत्वा । सरस्वती विशेष्यते - वाजिनीवती वाजवत्क्रियावती धीनां धियां अवित्री अभिमतप्रदानेन तर्पयित्री । यद्वा - धीनेति वाङ्नाम । अस्माकं धीनां वाचं प्रावतु, अभिमतप्रदानेन अवित्री पालयित्री तृप्ता वा अस्मदभिमतं शत्रुमारणं करोत्विति । यद्वा - अस्मद्दत्तैर्वाजैः पुरोडाशादिभिरन्नैः देवी प्रकर्षेणावतु । ‘उपसर्गाद्बहुलम्’ इति नसो णत्वम् । धीनामिति । छान्दसो नुट्, ‘नामन्यतरस्याम्’ इति नाम उदात्तत्वम् ॥
-
7अथ सारस्वतस्य पुरोनुवाक्या - प्राणो देवीति गायत्री ॥ ‘अग्नाविष्णू महि’ इत्यत्र व्याख्याता । सरस्वती देवी वाजवतीभिः क्रियाभिः तद्वती धियामवित्री अस्मान्वाजैरन्नैः प्रावत्विति । प्रकर्षेण रक्षत्विति ॥
-
विश्वास-प्रस्तुतिः
आ नो॑ दि॒वो ..
मूलम्
आ नो॑ दि॒वो ..
भट्टभास्कर-टीका
10अथ याज्या - नोस्मार्कं यज्ञं सरस्वती यजता यजनीया दिवोन्तरिक्षादागच्छतु, बृहतो वा पर्वतादागच्छतु । सर्वं हवं जुषाणा सेवमाना घृताची उदकस्याञ्चती उशती हवींषि कामयमाना नोस्माकं शग्मां शक्तां वाचं शृणोत्विति ॥
-
आ नो॑ दि॒वो बृ॑ह॒तो पर्व॑ता॒दा सर॑स्वती यज॒ता ग॑न्तु य॒ज्ञम् ।
हव॑न्दे॒वी जु॑जुषा॒णा घृ॒ताची॑ श॒ग्मान्नो॒ वाच॑मुश॒ती शृ॑णोतु ॥ -
8तत्रैव याज्या - आ नो दिव इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । यजमानस्य वाजनीया देवी सरस्वती दिवः विप्रकृष्टाद्वा देशात् बृहतो वा पर्वतात् विषमाद्देशादागच्छतु । अस्माकमिमं यज्ञं अस्माकमाह्वानं सेवमाना घृताची घृताञ्चना उदकाञ्चना वा उशती कामयमाना अस्मत्स्तोत्रं हविर्वा शग्मां शक्तां वाचं शृणोत्विति ॥
-
तत्रैव याज्या - आ न इति त्रिष्टुप् ॥ पर्वतादा इति प्रथमपादान्तः । सरस्वती देवी यजता यष्टव्या । यजेः क्तिच्[क्तः] । दिवः द्युलोकात् नः अस्माकं यज्ञमागन्तु आगच्छतु यद्यप्यनुच्छ्रिते प्रदेशे स्थिता शीघ्रमागच्च्छतु । छान्दसश्शपो लुक् ।
किञ्च - बृहतो महतः अपि पर्वतादागच्छतु प्रकृष्टाद्विषमाच्च प्रदेशादागच्छत्वित्यर्थः ।
किञ्च - हवमस्माकमाह्वानम् । ‘भावेनुपसर्गस्य’ इत्यप्, सम्प्रसारणं च । जुजुषाणा सेवमाना प्रीयमाणा वा घृताची घृतमाज्यभागं प्रत्यञ्चती । ‘चौ’ इति पूर्वपदस्य दीर्घत्वमन्तोदात्तत्त्वं च । शग्मां सुखां समर्थां वा अस्माकं स्तुतिरूपां शृणोतु उशती कामयमाना अस्मत्प्रत्तानि हवींषि स्तोत्राण्येव वा । वष्टेश्शतरि ‘शतुरनुमः’ इति नद्या उदात्तत्वम्
विश्वास-प्रस्तुतिः
पी॒पि॒वाँसँ॒ सर॑स्वत॒स्स्तनय्ँ॒यो वि॒श्वद॑र्शतः ।
धु॒क्षी॒महि॑ प्र॒जामिष॑म् ॥ [36]
मूलम्
पी॒पि॒वाँसँ॒ सर॑स्वत॒स्स्तनय्ँ॒यो वि॒श्वद॑र्शतः ।
धु॒क्षी॒महि॑ प्र॒जामिष॑म् ॥ [36]
भट्टभास्कर-टीका
11अथ सरस्वतः पुरोनुवाक्या - पीपिवांसमिति गायत्री ॥ पीपिवांसं वर्धितवन्तम् । ‘लिड्यङोश्च’ इति पीभावः । धातोर्ह्रस्वत्वम् । छान्दसस्य वा लिटः क्वसुरादेशः । वर्धयन्तमित्यर्थः । कम्? स्तनं स्तनस्थानीयं यागं यथा स्तनो बालान् वर्धयति एवं सर्वलोकं वर्धयन्तम् । कस्य स्तनम्? सरस्वतः सरस्वान्वाग्देवताविशेषः तस्य स्तनम् । कीदृशस्सः? यो विश्वदर्शतः । विश्वं दर्शनीयं यस्य । दृशेरौणादिकोतच्प्रत्ययः । तादृशो योसौ सरस्वान् तस्य स्तनस्थानीयं विश्वं वर्धयितुं पर्याप्तं यागम् । वयमपि प्रजां पुत्रादिकां तस्याश्च जीवनार्थं इषमन्नं च धुक्षीमहि । ‘लिङ्सिचावात्मनेपदेषु’ इति कित्वम् ॥
विश्वास-प्रस्तुतिः
ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ ।
तेषा॑न्ते सु॒म्नमी॑महे ।
मूलम्
ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ ।
तेषा॑न्ते सु॒म्नमी॑महे ।
भट्टभास्कर-टीका
12अत्रैव पुरोनुवाक्या विकल्प्यते । अन्यत्र वा विनियुज्यते - ये ते इति गायत्री ॥ हे सरस्वः सरस्वन् उदकवन् । ‘मतुवसोः’ इति रुत्वम् । ते तव ये ऊर्मयः उदकसंघाताः मधुमन्तः मधुररसाः । घृतश्चुतः उदकं क्षारयन्त्यः । यद्वा - ऊर्मयः अरणशीलः गावः मधुमन्तः घृतश्चुतः । तेषां सम्बन्धि यत् सुखं सुम्नं यत्तद्वतां भवति तत्ते ईमहे । कर्मणि षष्टी । त्वां याचयामहे तदस्मभ्यं देहि । ई गतौ, तत्र याच्ञायां वर्तते, ‘बहुलं छन्दसि’ इति शपो लुक् ॥
विश्वास-प्रस्तुतिः
यस्य॑ व्र॒तम्प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॒ ।
यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्तँ सर॑स्वन्त॒मव॑से हुवेम ।
मूलम्
यस्य॑ व्र॒तम्प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॒ ।
यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्तँ सर॑स्वन्त॒मव॑से हुवेम ।
भट्टभास्कर-टीका
13अथ तत्रैव याज्या - यस्येति त्रिष्टुप् ॥ यस्य सरस्वतः व्रतं कर्म सर्वे पशवो यन्ति अनुगच्छन्ति; तन्निमित्तत्वाद्वृष्टेः । यस्य च व्रतं कर्म आप उपतिष्ठन्ते; तन्निमित्तत्वाद्द्वृष्टेः । सङ्गतिकरण आत्मनेपदम् । यस्य च व्रते पुष्टिपतिः तत्तत्पोषणपतिः निविष्टः; तदधीनत्वात् वृष्टेः पुष्टेश्च । ‘परादिश्छन्दसि बहुलम्’ इति पतिशब्दस्याद्युदात्तत्वम् । ‘गतिरनन्तरः’ इति निविष्टशब्दे गतेः प्रकृतिस्वरत्वम् । तं सरस्वन्तं अवसे रक्षणाय तृप्त्यर्थं वा हुवेम आह्वयेम । ‘लिङ्याशिष्यङ्’, ‘बहुलं छन्दसि’ इति संप्रसारणम् ॥
विश्वास-प्रस्तुतिः
दि॒व्यँ सु॑प॒र्णव्ँव॑य॒सम्बृ॒हन्त॑म॒पाङ्गर्भव्ँ॑वृष॒भमोष॑धीनाम् ।
अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्त॒न्तँ सर॑स्वन्त॒मव॑से हुवेम ।
मूलम्
दि॒व्यँ सु॑प॒र्णव्ँव॑य॒सम्बृ॒हन्त॑म॒पाङ्गर्भव्ँ॑वृष॒भमोष॑धीनाम् ।
अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्त॒न्तँ सर॑स्वन्त॒मव॑से हुवेम ।
भट्टभास्कर-टीका
14अथात्रैव याज्या विकल्प्यते - दिव्यमिति त्रिष्टुप् ॥ दिव्यं दिवमर्हतीति । ‘छन्दसि च’ इति यः । सुपर्णं शोभनपतनम् । ‘नञ्सुभाम्’ इत्युत्तरपदान्तोदात्तत्वम् । वयसं अन्नवन्तं तन्निमित्तत्वात् । अर्शआदित्वादच् । बृहन्तं महान्तं अपां गर्भं मध्यगतं वृषभं वर्षितारं कामानां सेक्तारां वृद्धिकरं वा । ओषधीनामुपलक्षणमिदम् । सर्वेषामपि वृषभं, ओषधीनां गर्भमित्यन्ये । अभीपतः अभितः सर्वतः वृष्ट्या विर्श्वं तर्पयन्तम् । अभिगताः आपः अस्मिन्निति । ‘ऋक्पूरब्धूः’ इति समासान्तः, ‘द्व्यन्तरुपसर्गेभ्योप ईत्’ इतीत्, ‘आद्यादिभ्यस्तसिः’ । अन्य आह – अभिपतनशीलान् सर्वप्राणिनो वृष्ट्या तर्पयन्तम् । पततेः क्विपि छान्दसमुपसर्गस्य दीर्घत्वम्, विभक्त्युदात्तत्वं च । ‘मन्त्रे वृष’ इति क्तिन उदात्तत्वाद्वृष्टिशब्दोन्तोदात्तः, ततः ‘उदात्तयाः’ इति तृतीयाया उदात्तत्वम् । तमित्यादि । गतम् ॥
विश्वास-प्रस्तुतिः
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।
जु॒षस्व॑ ह॒व्यम् [37] आहु॑तम्प्र॒जान्दे॑वि दिदिड्ढि नः ।
मूलम्
सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा॑ ।
जु॒षस्व॑ ह॒व्यम् [37] आहु॑तम्प्र॒जान्दे॑वि दिदिड्ढि नः ।
भट्टभास्कर-टीका
15अथ ‘सिनीवाल्यै चरुर्भवति’ इत्यस्य चरोः पुरोनुवाक्या सिनीवालीत्यनुष्टुप् ॥ दृष्टचन्द्रामावास्या सिनीवाली, स्त्रीत्वेन रूप्यते । हे सिनीवालि पृथुष्टुके पृथुजघने पृथुसंहते वा । स्त्यायतेस्स्तुकः, पूर्वस्याविद्यमानत्वादिदं न निहन्यते । या त्वं देवानां स्वसा स्वयं सारिण्यसि । वृष्ट्यादीनां भगिन्येव वा; समानकार्यत्वात् । सा त्वं जुषस्व सेवस्व हव्यं आहुतम् । पूर्ववद्गतेः प्रकृतिस्वरत्वम् । किं च - हे सिनीवालि नः अस्मभ्यं प्रजां पुत्रादिकां दिदिढ्ढि उपचिनु देहीत्यर्थः । दिहेर्लेटि शपश्श्लुः ॥
भास्करोक्त-विनियोगः
16अथ तत्रैव याज्या - या सुपाणिरित्यनुष्टुप् ॥
विश्वास-प्रस्तुतिः ...{Loading}...
या सु॑पा॒णिस् स्व॑ङ्गु॒रिस्
सु॒-षूमा॑+++(←सू)+++ बहु॒-सूव॑री+++(←सू)+++ ।
तस्यै॑ वि॒श्-पत्नि॑यै ह॒विस्
सि॑नीवा॒ल्यै जु॑होतन ।
सर्वाष् टीकाः ...{Loading}...
मूलम्
या सु॑पा॒णिस्स्व॑ङ्गु॒रिस्सु॒षूमा॑ बहु॒सूव॑री ।
तस्यै॑ वि॒श्पत्नि॑यै ह॒विस्सि॑नीवा॒ल्यै जु॑होतन ।
भट्टभास्कर-टीका
या सुपाणिः शोभनहस्ता स्वङ्गुरिः शोभनाङ्गुलिः । कपिलकादित्वाल्लत्वविकल्पः, उभयत्रापि ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । सुषूमा सुष्ठु प्रसवित्री । सूतेः ‘अन्येभ्योपि दृश्यते’ इति मनिन्, गुणाभावश्छान्दसः, ‘मनः’ इति ङीप्रतिषेधः, कृदुत्तरपदप्रकृतिस्वरत्वम् । यद्वा - सूतेरौणादिको मनिन्प्रत्ययः । सुष्ठु सूमा सूतिः यस्य सुषूमा । बहुव्रीहौ ‘सोर्मनसी’ इत्युत्तरपदान्तोदात्तत्वम्, सुषामादित्वात् षत्वम् । बहुसूवरी बह्वीनां प्रजानां सवित्री । तेनैव क्वनिप्, ‘वनो रच’ ङीब्रेफौ, कृदुत्तरपदप्रकृतिस्वरत्वम् । तस्यै सिनीवाल्यै विश्पत्नियै विशां पालयित्र्यै । ‘विश्पूर्वस्य’ इति पत्युर्नकारः, ‘अयस्मयादीनि छन्दसि’ इति भत्वेन विशो जस्त्वाभावः, ‘परादिश्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वम् । हविर्जुहोतन जुहुत हे ऋत्विग्यजमानाः । ‘तप्तनप्तनधनाश्च’ इति तनबादेशः, पित्त्वेन ङित्त्वाभावाद्गुणः ॥
18अथ द्वितीया - या सुपाणिः शोभनहस्ता स्वङ्गुरिः शोभनाङ्गुळिः सुषूमा शोभनप्रसूतिः बहुसूवरी बहूनामपत्यानां सवित्री । तस्यै विश्पत्नियै विशां पालयित्र्यै सिनीवाल्यै हविर्जुहोतनेति ॥
भास्करोक्त-विनियोगः
17’ऐन्द्र उत्तमो भवति’ इत्यस्यैन्द्रस्य पुरोनुवाक्या याज्या च - इन्द्रं वो विश्वतस्परीन्द्रं नर इति गायत्रीत्रिष्टुभौ ।
विश्वास-प्रस्तुतिः
इन्द्रव्ँ॑वो वि॒श्वत॒स्परि …
मूलम्
इन्द्रव्ँ॑वो वि॒श्वत॒स्परि …
भट्टभास्कर-टीका
व्याख्याते चैते । इह तु प्रतीकग्रहणमनयोः ।
हे ऋत्विग्यजमानाः वो युष्मदर्थं विश्वेभ्यो जनेभ्यः उपरि इन्द्रं हवामहे आह्वयामः । अस्माकमेव केवलः स्वामी भवत्विति ॥
-
इन्द्रव्ँ॑वो वि॒श्वत॒स्परि॒ हवा॑महे॒ जने॑भ्यः ।
अ॒स्माक॑मस्तु॒ केव॑लः ॥-
‘ऐन्द्रं चरुं निर्वपेत्पशुकामः’ इत्यस्य पुरोनुवाक्या - इन्द्रं व इति गायत्री ॥ याजमानब्राह्मणमध्ये याज्याकाण्डं वैश्वदेवम् । हे ऋत्विग्यजमाना वो युष्माकं मम जनेभ्यः पुत्रादिभ्यः सामर्थ्याद्युष्मभ्यमस्मभ्यं च सर्वार्थमिन्द्रं विश्वतस्परि विश्वस्मादुपरि हवामहे आह्वयामः । ‘पञ्चम्याः परावध्यर्थे’ इति सत्वम् । यद्वा - विश्वतो जनेभ्य उपरिस्थितमिन्द्रं वो युष्मदर्थं हवामहे । किमर्थम्’ अस्माकमेव केवलोसाधाणोस्तु साधको नान्येषामिति ॥ हे ऋत्विग्यजमानाः वः युष्मदर्थं विश्वेभ्यो जनेभ्य उपरि इन्द्रं हवामहे आह्वयामः अस्माकमेव केवलः स्वाम्यस्त्विति ॥
-
1अथ याज्याकाण्डं वैश्वदेवमेव । तत्र ‘ऐन्द्रमेकादशकपालं निर्वपेन्मारुतं सप्तकपालं ग्रामकामः’ इत्यस्य द्विहविष इष्टेरैन्द्रस्य एकादशकपालस्य पुरोनुवाक्या - इन्द्रं व इति गायत्री ॥ व्याख्याता चेयम्, ‘इन्द्रं वो विशतस्परि हवामहे’ इत्यत्र । इह त्वस्याः प्रतीकग्रहणम् ।
-
विश्वास-प्रस्तुतिः
इन्द्र॒न्नरः॑ … ।
मूलम्
इन्द्र॒न्नरः॑ … ।
भट्टभास्कर-टीका
18द्वितीया - यदा पार्याः परलोकसाधनभूताः धियः कर्माणि युनजते युञ्जन्ति तदा मनुष्याः इन्द्रमेवाह्वयन्ति । हविषामर्धेन धार्यमाणं अर्धार्हं ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति । तस्मात् हे इन्द्र शूरः वीरः शवसो बलस्य मनुष्येभ्यः संभक्तौ चकानः दीप्यमानः । इदृशस्त्वं गोमति व्रजे गोसमूहे अस्मानाभज भागिनः कुर्विति ॥
-
2तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । इह तु प्रतीकग्रहणम् । नरो मनुष्याः इन्द्रं हवन्ते आह्वयन्ति कीदृशं ? नेमधिता अर्धेन धार्यमाणं ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति । कदा ? यदा पार्याः दुःखपारप्राप्तिहेतुभूताः धियः कर्माणि प्रज्ञा वा युनजते तदा इन्द्रमाह्वयन्ति । स त्वं शूरो नृषाता नृभिस्सम्भजनीयः शवसः बलाद्धेतोः चकानस्तृप्तिशीलः ईदृशस्त्वमस्मान् गोमति व्रजे गोष्ठे आभज स्थापयेति ॥
-
इन्द्र॒न्नरो॑ ने॒मधि॑ता हवन्ते॒ यत्पार्या॑ यु॒नज॑ते॒ धिय॒स्ताः ।
शूरो॒ नृषा॑ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वन्नः॑ ॥ -
[ तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ नरो मनुष्या इन्द्रं हवन्ते आह्वयन्ति । कीदृशम् ? नेमधिता, नेम इत्यर्धस्य नाम । ‘यत्सर्वेषामर्धमिन्द्रः प्रति’ इति सर्वेषां भागार्धेन इन्द्रो धीयते धार्यत इति नेमधितः । निष्ठायां ‘सुधितवसुधितनेमधित’ इति धिभावो निपात्यते, ‘सुपां सुलुक्’ इति द्वितीयैकवचनस्याकारः, ‘तृतीया कर्मणि’ इति पूर्वपदप्रकृतिस्वरत्वम् । कदा पुनरसौ नेमेन धार्यत इत्याह - यद्यदा । तेनैव सप्तम्या लुक् । पार्याः परलोके साधवः । छान्दसो ञ्यः । यद्वा - दुःखानां पारं समाप्तिः । तत्र सध्वीर्धियः कर्माणि ता यदर्थमिन्द्रमाह्वयन्ति । ता यदा युनजते युञ्जते अनुतिष्ठन्ति तदा नेमधितेति । ‘छन्दस्युभयथा’ इत्यार्धधातुकत्वेन श्नमो ङित्त्वाभावात्, ‘श्नसोरल्लोपः’ इति न प्रवर्तते । अथेन्द्रः प्रत्यक्षमुच्यते - शूरः वीरः । नृषाता नृभिर्मनुष्यैः साता सातः सम्भक्तः आश्रितः नृषातः । पूर्ववदाकारः, ‘जनसनखनां सञ्झलोः’ इत्यात्वं, पूर्ववत्पूर्वपदप्रकृतिस्वरत्वं, सुषामादित्वात्षत्वम् । यद्वा - नरो मनुष्याः सनितारस्सम्भक्तारः दातारो वा यस्य नृषाता । छान्दसमात्वं, ‘ऋतश्छन्दसि’ इति कबभावः । शवसो बलस्य नेतारो यस्य दातारो यजमाना[यजना]धीनबलत्वात् । यद्वा - शवसो बलस्य नृभ्यो दाता । छान्दसमात्वम्, पूर्वपदप्रकृतिस्वरत्वं च । चकानस्तृप्तिशीलः । चक तृप्तौ, भौवादिकः उदात्तेत्, ताच्छीलिकश्चानश्, ‘बहुलं छन्दसि’ इति शपो लुक् । ईदृशस्त्वं नो ऽस्मान् गोमति व्रजे गोजाविमनुष्यादिमति सङ्घाते । यद्वा - व्रजे गोष्ठे भूयिष्ठगोभिर्युक्ते आभन आभिमुख्येनास्मान्योजय पशुमन्तं मां कुरु । ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् ॥]
विश्वास-प्रस्तुतिः
असि॑तवर्णा॒ हर॑यस्सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मुत्प॑तन्ति ।
त आऽव॑वृत्र॒न्त्सद॑नानि कृ॒त्वादित्पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते ।
मूलम्
असि॑तवर्णा॒ हर॑यस्सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मुत्प॑तन्ति ।
त आऽव॑वृत्र॒न्त्सद॑नानि कृ॒त्वादित्पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते ।
भट्टभास्कर-टीका
19अथ कारीर्यां पिण्डीर्हुत्वा धूममन्वीक्षते - असितवर्णा इति त्रिष्टुभा ॥ असितवर्णाः कृष्णवर्णाः; उदकपूर्णत्वात् । हरयः रसहरणशीलाः रश्मयः सुपर्णाः शोभनपतनाः । ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । मिहः आपः । मिह्यन्ते सिच्यन्ते इति कर्मणि क्विप् । वसानाः आच्छादयन्त्यः । अनुदात्तत्वाल्लसार्वधातुकानुदात्तत्वम् । दिवमादित्यमण्डलं उत्पतन्ति उत्क्रम्यो परिगच्छन्ति । उत्तरायणे आपस्तत्र गर्भभूताः वर्तन्ते । ते च रश्मयः तत्र सदनानि कृत्वा अष्टौ मासानतिवाह्य पक्वमुदकं गृहीत्वा दक्षिणायने आववृत्रन् आवर्तन्ते मध्यमस्थानं प्रतियन्तः असितवर्णा उदपतन् । वृतेर्लेटि व्यत्ययेन परस्मैपदम्, शपश्श्लुः, ‘बहुलं छन्दसि’ इति रुट् । यद्वा - छान्दसो लुङ् । ‘द्युद्भ्यो लुङि’ इति परस्मैपदं, व्यत्ययेन च्लेश्चङ्, ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः । अथ यदा ते आवृत्ता भवन्ति आदित् अनन्तरमेव पृथिवी घृतैः उदकैः व्युद्यते विशेषेण क्लिद्यते । उन्दी क्लेदने ॥
विश्वास-प्रस्तुतिः
हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् ।
शुचि॑भ्राजा उ॒षसः॑ [38] नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ।
मूलम्
हिर॑ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् ।
शुचि॑भ्राजा उ॒षसः॑ [38] नवे॑दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ।
भट्टभास्कर-टीका
20वर्षाभूस्तम्बमग्नौ प्रहरति - हिरण्यकेश इति त्रिष्टुभा ॥ आदित्यात्मना अग्निस्स्तूयते - हिरण्यकेशः रसहरणशीलरश्मिः हिरण्य वर्णरश्मिर्वा आदित्यः रजसः उदकस्य विसारे निस्सारणे निस्सारणार्थं अहिः आगत्य हन्ता मेघानाम् । आङ्पूर्वाद्धन्तेः डिप्रत्ययः, उपसर्गस्य ह्रस्वत्वम् । धुनिः कम्पयिता मेघानाम् । धुनेतेरौणादिको निप्रत्ययः । वात इव ध्रजीमान् गतिमान् । धृजेः ‘इन्सर्वधातुभ्यः’ इतीन् । शीघ्रमुदकं निस्सारयतीत्यर्थः । शुचिभ्राजाः निर्मलदीप्तिः उषसः अह्नः नवेदाः न विन्दतीति नवेदाः । पचाद्यच्, ‘नभ्राण्नपान्नवेदा’ इति नञो नलोपाभावः । हिरण्यकेश एव रजसो निस्सारणं वेत्ति उषस्तु न विन्दति । यशस्वतीः यशस्वत्यः साध्येनान्नेन तद्वत्यः अपस्युवो न उदकमिच्छन्त्य इव भवन्ति सत्याः अमोघारम्भाः । अप इच्छन्तीति क्यच्, द्वितीयाबहुवचनस्य लुक्, ‘क्याच्छन्दसि’ इत्युप्रत्ययः, तन्वादित्वादुवङ् । तस्माद्धिरण्यकेशः सर्वं जानाति, अस्माकमुदकं निस्सारयति ॥
विश्वास-प्रस्तुतिः
आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः॑ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् ।
शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिह॑स्स्त॒नय॑न्त्य॒भ्रा ।
मूलम्
आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः॑ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् ।
शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत॑न्ति॒ मिह॑स्स्त॒नय॑न्त्य॒भ्रा ।
भट्टभास्कर-टीका
21स्तम्बस्य धूममन्वीक्षते - आ ते सुपर्णा इति त्रिष्टुभा ॥ हे आदित्यात्मन् अग्ने ते तव सुपर्णाः शोभनपतनाः रश्मयः अमिनन्त आमिन्वते आनयन्ति वृष्टिम् । डुमिञ् प्रक्षेपणे, व्यत्ययेन श्ना, अन्तादेशश्च, संहितायां परेण वृद्ध्यभावश्च । एवैः अयैनैः इत उदकमादाय मण्डलं यान्ति, ततो मध्यमस्थानं यान्ति । एरवमयनैर्वृष्ठिमानयन्ति । अथ यदीदं रश्मयः कुर्वन्ति तदा कृष्णो मेघः वृषभः वर्षिता मध्यमस्थानमागत्य नोनाव प्रशस्तं शब्दं भृशं करोति । नौतेर्यङ्लुगन्ताच्छान्दसो लिट् । तदनीं शिवाभिर्न सानुग्रहाभिरिव स्मयमानाभिः हसन्तीभिरिव फेनवत्तया अद्भिस्सह आगात् आगच्छति वर्षन् मेघः । एतेः छान्दसो लुङ् । स्मयतेर्ङित्त्वात्सार्वधातुकानुदात्तत्वम् । तदनन्तरं मिहः आपः पतन्ति सर्वतः पृथिव्याम्, स्तनयन्तिच समन्तात् अभ्रा अभ्राणि । ‘शेश्छन्दसि’ इति लोपः ॥
विश्वास-प्रस्तुतिः
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सन्न मा॒ता सि॑षक्ति ।
यदे॑षाव्ँवृ॒ष्टिरस॑र्जि ।
मूलम्
वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सन्न मा॒ता सि॑षक्ति ।
यदे॑षाव्ँवृ॒ष्टिरस॑र्जि ।
भट्टभास्कर-टीका
22वक्ष्यमाणस्य मारुतस्य पुरोनुवाक्या याज्या च – वाश्रेव, पर्वतश्चिदिति गायत्रीत्रिष्टुर्भौ ॥ केचित्तु - ‘आ ते सुपर्णाः’ इत्यादय ऋचस्तिस्रोपि धूमान्वीक्षणमन्त्रा इत्याहुः । वाश्रेव वाश्यमानेव मरुतः प्रति । यथा प्रस्नवनी माता वत्सं प्रति वाश्यमाना भवति; तथा विद्युत् मरुतः प्रति वाश्यमाना मिमाति मिमेति । माङ् माने, जौहोत्यादिकः, अत्र तु सेचनकर्मा, व्यत्ययेन परस्मैपदम् । सिषक्ति सेवते च माता वत्समिव । षञ्जेः शपः श्लुः ‘बहुलं छन्दसि’ इत्यभ्यासस्येत्यम् । यत् यदा वृष्टिः असर्जी सृज्यते । छान्दसो लुङ् । एषां मरुतां सम्बन्धिनी वृष्टिः तदारम्भे इत्थं विद्युन्मरुतो मिमाति सिषक्ति चेति । तस्मादस्माकमेवं भवत्वित्याशास्यते ॥
विश्वास-प्रस्तुतिः
पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ ।
यत्क्रीड॑थ मरुतः [39] ऋ॒ष्टि॒मन्त॒ आप॑ इव स॒ध्रिय॑ञ्चो धवध्वे ।
मूलम्
पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ ।
यत्क्रीड॑थ मरुतः [39] ऋ॒ष्टि॒मन्त॒ आप॑ इव स॒ध्रिय॑ञ्चो धवध्वे ।
भट्टभास्कर-टीका
23पर्वतश्चिदित्यादि ॥ अप्यर्थे चिच्छब्दः । महि महत् वृद्धः पर्वतो बिभाय बिभेति वः स्वने गर्जिते । किं च - दिवोप्युपरिगतस्य पर्वतस्य सानु रेजत रेजते कम्पते स्वने युष्माकम् । रेजृ कम्पने, टेरेत्वाभावश्छान्दसः । छान्दसे वा लङि ‘बहुलं छन्दस्यमाङ्योगेऽपि’ इत्यडभावः । कदेत्याह - यदा हे मरुतः ऋष्टिमन्तः वज्रायुधवन्तः यूयं क्रीडथ । तदानीं युष्माकं गर्जितं श्रुत्वा पर्वतोपि बिभेति सान्वपि कम्पते इति । ‘ह्रस्वनुङ्ग्भ्यां मतुप्’ इति मतुपः उदात्तत्वम् । किं च - तस्मिन् काले यूयं आप इव व्यापका इव सध्रियञ्चः सहाञ्चन्त्यः ‘सहस्य सध्रिः’ इति सध्र्यादेशः । अध्रिसध्र्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । धवध्वे धावत छान्दसं ह्रस्वत्वम् । धुनोतिर्वा गतिकर्मा, व्यत्ययेन शप् । तस्मादस्माकं वृष्ट्यर्थं गर्जन्तः क्रीडन्तश्च धावध्वमिति ॥
विश्वास-प्रस्तुतिः
अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।
दृतिँ॒ सु क॑र्ष॒ विषि॑त॒न्न्य॑ञ्चँ स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः ।
मूलम्
अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न ।
दृतिँ॒ सु क॑र्ष॒ विषि॑त॒न्न्य॑ञ्चँ स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः ।
भट्टभास्कर-टीका
24अथाश्वं वाससा अभिवेष्टयति - अभिक्रन्देति त्रिष्टुभा ॥ अभिक्रन्द अभितस्सर्वतः शब्दं कुरु स्तनय उच्चैर्गर्ज । तिङः परत्वान्न निहन्यते । ततश्च गर्भं मेघस्योदकं आधाः गर्भमाधेहि । लेटि शपो लुक् । किंच - उदन्वता उदकवता रथेन रंहणेन परिदीय सर्वतो गच्छ, दीयतिः छान्दसो गतिकर्मा । उदकस्योदन्भावश्छान्दसः, ‘ह्रस्वनुङ्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । ततस्तं मेघं चर्ममयो जलाधारविशेषो दृतिः तद्वत्सुकर्ष सुखेन कर्ष विषितं विमुक्तद्वारम् । ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम् । न्यञ्चं अवाङ्मुखीकृतम् । ‘न्यधी च’ इति गतेः प्रकृतिस्वरत्वम् । ततश्चैवं त्वया कृते समा भवन्तु तुल्या भवन्तु । उद्वता उन्नतेन स्थलेन निपादाः निम्नाः उदकेन सर्वं समीकृतमस्तु । पदेर्घञ्, थाथादिनोत्तरपदान्तोदात्तत्वम् । एवमश्वात्मनाऽग्निस्स्तूयते ‘उपसर्गाच्छन्दसि’ इति उच्छब्दाद्वतिः ॥
विश्वास-प्रस्तुतिः
त्वन्त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से ।
धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ।
मूलम्
त्वन्त्या चि॒दच्यु॒ताग्ने॑ प॒शुर्न यव॑से ।
धामा॑ ह॒ यत्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ।
भट्टभास्कर-टीका
25अथ ‘अग्नये धामच्छदे पुरोडाशमष्टाकपालं निर्वपेन्मारुतं सप्तकपालं सौर्यमेककपालम्’ इत्येतेषां त्रयाणां हविषां याज्यानुवाक्याः । तत्राग्नेयस्य पुरोनुवाक्या - त्वं त्या चिदच्युतेत्यनुष्टुप् ॥ ‘अचूत’ इति प्रथमपादान्तः । अग्ने इति पादादित्वान्न निहन्यते । हे अग्ने त्वमेव त्याचीत् तान्यपि वना वनानि उदकानि अच्युत अच्युतानि अविनाशीनि । उभयत्रापि ‘शेश्छन्दसि’ इति लोपः । तानि यानि वनानि तव शिक्वसः अर्चींषि वृश्चन्ति भक्षयन्ति तानि त्वमेव भूत्वा अच्युतानि तिष्ठन्ति । अत्र दृष्टान्तमाह - पशुर्न यवसे । यथा यवसे घासे भक्षिते पशुरेव भवति सोपि पश्वात्मना अवतिष्ठते । यद्वा - तान्यपि त्वमेव यवसे मिश्रयसि स्थापयसि । विकरणादिव्यत्ययः ‘चनचिदिव’ इति निघाताभावः । तस्मात्तवैवात्र धाम जन्मस्थानं वा त्वमेव तत्तदात्मना जायसे तिष्ठसि वा । हे अजर विनाशरहित त्वं खलु अविनाशः उदकात्मना वर्षकाले जायसे । अन्यथा तान्यप्युपसंहृत्य स्वरूपेणावतिष्ठसे इति ‘अन्येषामपि दृश्यते’ इति धामशब्दस्य संहितायां दीर्घत्वम् । स त्वमस्मदर्थं वर्षेति ॥
विश्वास-प्रस्तुतिः
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑ ।
याश्च॑ [40] मा॒या मा॒यिनाव्ँ॑विश्वमिन्व॒ त्वे पू॒र्वीस्स॑न्द॒धुᳶ पृ॑ष्टबन्धो ।
मूलम्
अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ धाम॑ ।
याश्च॑ [40] मा॒या मा॒यिनाव्ँ॑विश्वमिन्व॒ त्वे पू॒र्वीस्स॑न्द॒धुᳶ पृ॑ष्टबन्धो ।
भट्टभास्कर-टीका
26तत्रैव याज्या - अग्ने इति त्रिष्टुप् ॥ हे अग्ने जातवेदः जातप्रज्ञ । यद्वा - जातानां वेदितः देव देवनशील स्वधावः अन्नवन् । ‘मतुवसोः’ इति रुत्वम् । तवामृतस्यामरणस्य भूरीणि बहूनि धाम धामानि तेजांसि ‘सुपां सुलुक्’ इति लुक् । याश्च मायाः कर्माणि मायिनां कर्मिणां यजमानानां सम्बन्धिनीः पूर्वीः पुरातनीः । गौरादित्वात् ङीष् । त्वे त्वयि सन्दधुः स्थापितवन्तः पूर्वे यजमानाः । ताश्च त्वयि भूरयः त्वामेवेष्टवन्तः सर्वे तेन त्वमेव सर्वाणि तेजांसीति । हे विश्वमिन्व विश्वस्य प्रीणयितः । इवि प्रीणने, छान्दसः खश्, ‘अरुद्विषदजन्तस्य मुम्’ । हे पृष्टबन्धो स्पर्शवतां बन्धो । स्पृशेश्छान्दसस्सलोपः, धात्वन्तरं वा द्रष्टव्यम् । व्रीह्यादित्वान्मायाशब्दादिनिः । त्वे इति ‘सुपां सुलुक्’ इति शे आदेशः । ईदृशर्स्त्वं अस्मान्वर्षेण रक्षेति ॥
विश्वास-प्रस्तुतिः
दि॒वो नो॑ वृ॒ष्टिम्म॑रुतो ररीध्व॒म्प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ ।
अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुतेह्य॒पो नि॑षि॒ञ्चन्नसु॑रᳶ पि॒ता नः॑ ।
मूलम्
दि॒वो नो॑ वृ॒ष्टिम्म॑रुतो ररीध्व॒म्प्र पि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः॑ ।
अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुतेह्य॒पो नि॑षि॒ञ्चन्नसु॑रᳶ पि॒ता नः॑ ।
भट्टभास्कर-टीका
27अथ मारुतस्य चतस्रो याज्यानुवाक्या विकल्प्यन्ते । तत्र प्रथमा - दिवो न इति त्रिष्टुप् ॥ हे मरुतः नः अस्मदर्थं दिवो वृष्टिं ररीध्वं स्रावयत । री स्रवणे, व्यत्ययेन शपश्श्लुः, वर्णव्यत्ययेनाभ्यासस्येत्वम् । वृष्णः वर्षितुः इन्द्रस्य अश्वस्य व्याप्तिमतः धाराः वर्षधाराः प्रपिन्वत प्रकर्षेण आसिञ्चत । पिवि मिवि सेचने, चङ् । हे वृषन् इन्द्र त्वमपि अर्वाङ् अस्मदभिमुखं याहि आगच्छ । एतेन मेघेन स्तनयित्नुना शब्दयता सहागच्छ । ‘ओमाङोश्च’ इति पररूपत्वम् । अपो निषिञ्चन् वर्षन् असुरः आसनकुशलः । असेरुरन् । असुमान्वा, असुप्रदो वा । प्रजानां नोस्माकं पिता पाता ॥
विश्वास-प्रस्तुतिः
पिन्व॑न्त्य॒पो म॒रुत॑स्सु॒दान॑व॒ᳶ पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ ।
अत्य॒न्न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्स॑न्दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ।
मूलम्
पिन्व॑न्त्य॒पो म॒रुत॑स्सु॒दान॑व॒ᳶ पयो॑ घृ॒तव॑द्वि॒दथे॑ष्वा॒भुवः॑ ।
अत्य॒न्न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्स॑न्दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ।
भट्टभास्कर-टीका
28अथ द्वितीया - पिन्वन्तीति जगती ॥ पिन्वन्ति सिञ्चन्ति क्षारयन्ति अपः । ‘ऊडिदम्’ इति शप उदात्तत्वम् । मरुतस्सुदानवः शोभनदानाः । आद्युदात्तं द्व्यच्छन्दसि’ इत्युत्तरपदाद्युदात्तत्वन् । पयः पयस्सदृशीरपः पिन्वन्ति घृतवत् घृतमिव विदथेषु यज्ञेषु आभुवः आभुवन्तीत्याभुवः ऋत्विजः ते यदा यज्ञेषु घृतं पिन्वन्ति एवमपो मरुतः पिन्वन्ति ।
हेतुमाह - अत्यं न अश्वमिव यथा अश्वमश्वसादिनो विनयन्ति शिक्षयन्ति एवं मरुतोपि मिहे उदकार्थं वर्षार्थं वाजिनं वेगवन्तं मेघं विनयन्ति विधेयीकुर्वन्ति, ‘सावेकाचः’ इति मिहश्चतुर्थ्या उदात्तत्वम् । ततस्तं विधेयीकृत्य उत्सीं उन्दनशीलं स्तनयन्तं गर्जन्तं अक्षितं अनुपक्षयं दुहन्ति मरुतः, यस्मादेवमेते कुर्वन्ति तस्मादुच्यते पिन्वन्त्यप इति । एवं अस्माकमपि पिन्वन्त्यपो मरुत इति । स्तन शब्दे, चुरादिः अदन्तः ॥
विश्वास-प्रस्तुतिः
उ॒द॒प्रुतो॑ मरुत॒स्ताँ इ॑यर्त॒ वृष्टि॑म् [41] ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ ।
क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरु॑न्तुञ्जा॒ना पत्ये॑व जा॒या ।
मूलम्
उ॒द॒प्रुतो॑ मरुत॒स्ताँ इ॑यर्त॒ वृष्टि॑म् [41] ये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ ।
क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरु॑न्तुञ्जा॒ना पत्ये॑व जा॒या ।
भट्टभास्कर-टीका
29अथ तृतीया - उदप्रुत इति त्रिष्टुप् ॥ उदप्रुतः उदकस्य प्रापयितॄन् । च्युङ् ज्युङ् प्रुङ् पुङ् गतौ । तानास्माकीनान् मरुतः इयर्त गच्छत भजत यजमानार्थं हे ऋत्विजः । ऋ गतौ, जौहोत्यादिकः, ‘तप्तनप्तनधनाश्च’ इति तस्य तनबादेशः, ‘अर्तीपिपर्त्येश्च’ इति अभ्यासस्येत्वम् । ये यूयं विश्वे वृष्टिं जुनन्ति प्रार्थयन्ते मरुतः ते यूयमास्माकीनान् मरुतः इयर्त । तानित्यस्य संहितायां ‘दीर्घादटि समानपादे’ इति रुत्वम् । अत्र प्रार्थयितुः प्रदातुश्च द्वौ दृष्टान्तौ दर्शयति - यथा गर्दा निगरणशीला कन्या तुन्ना बुभुक्षया पीडिता क्रोशाति क्रोशति । लेट्याडागमः । अभ्यवहार्यं प्रार्थयमाना रोदितीत्यर्थः । एवं वृष्टिं प्रार्थयमाना ऋत्विजः मरुत आह्वयन्तीति भावः । यथा च तां कन्यां पेरुं पातुकामां, उपलक्षणत्वाद्बुभुक्षितां च, सामर्थ्यात् क्रोशन्तीं तुञ्जाना भाषमाणा मा रोदीः किं ते अभिलषितमिति वदन्ती पत्या सह जाया तस्या अभिमतं प्रयच्छति अभिप्रेतदानेन मातापितरौ तां प्रीणयत इत्यर्थः । एवं वृष्टिं प्रार्थयमानेभ्यो ऋत्विग्भ्यः तां मरुतः प्रयच्छन्तीति । तस्मादास्माकीनान् ऋत्विजः वर्षदानेन मरुतः प्रीणयतेति । ‘मापोरिरुन्’ इति पिबतेरिरुन्प्रत्यये पेरुः । तुजि भाषायाम्, चुरादिः, ‘बहुलं छन्दसि’ इति शपो लुक्, ‘छन्दस्युभयथा’ इति शानच्, आर्धधातुकत्वाण्णिलोपः ॥
विश्वास-प्रस्तुतिः
घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीᳵ कृणु॒ताप॒ ओष॑धीः ।
ऊर्ज॑ञ्च॒ तत्र॑ सुम॒तिञ्च॑ पिन्वथ॒ यत्रा॑ नरो मरुतस्सि॒ञ्चथा॒ मधु॑ ।
मूलम्
घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीᳵ कृणु॒ताप॒ ओष॑धीः ।
ऊर्ज॑ञ्च॒ तत्र॑ सुम॒तिञ्च॑ पिन्वथ॒ यत्रा॑ नरो मरुतस्सि॒ञ्चथा॒ मधु॑ ।
भट्टभास्कर-टीका
30अथ चतुर्थी - घृतेनेति अतिजगती विवृद्धपादा । ‘घृतेन’ इति त्रिभिरक्षरैः प्रथमः पादो विवृद्धः । हे नरः नेतारः मरुतः ‘नयतेर्डिच्च’ इति ऋप्रत्ययः । घृतेनोदकेन मधुना रसेन मधुरसेन द्यावापृथिवी समुक्षत सिञ्चत । ‘दिवो द्यावा’ इति द्यावादेशः, ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । ततस्तस्य मधुरसस्योदकस्य उपर्युक्षणेन आपः पूर्वस्थिताः पयस्वतीः पानार्हरसवतीः कृणुत कुरुत । विभक्तिव्यत्ययेन द्वितीयास्थाने प्रथमा । ओषधीश्च पयस्वतीः कृणुतेत्येव । इदं चाप्यस्तु - यूयं मधु मधुरं उदकं सिञ्चथ । तत्र ऊर्जमन्नं बलं वा सुमतिं च कल्याणीं मतिं पिन्वथ सिञ्चथ दत्तेत्यर्थः । अबहुव्रीहेरपि ‘नञ्सुभ्याम्’ इत्युत्तरपदान्तोदात्तत्वम् । बहुव्रीहिर्वा, सुमतिं च प्रजामिति । यत्रसिंचथशब्दयोः ‘अन्येषामपि दृश्यते’ इति सांहितिकं दीर्घत्वम् ॥
विश्वास-प्रस्तुतिः
उदु॒ त्यम् ..
मूलम्
उदु॒ त्यम् ..
भट्टभास्कर-टीका
31अथ सौम्यस्य पुरोनुवाक्या याज्या चा - ‘उदु त्यं जात्वेदसम्’, ‘चित्रं देवानाम्’ इति गायत्रीत्रिष्टुभौ ॥ व्याख्याते चैते । अत्र प्रतीकग्रहणम् । तमिमं जातवेदसं जातप्रज्ञानं सूर्यं देवं केतवः उद्वहन्ति यथा सर्वेषां द्रष्टुं योग्यो भवतीति ॥
-
[ उदु॒ त्यञ्जा॒तवे॑दसन्दे॒वव्ँव॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥ -
अथ दाक्षिणं काण्डं सौम्यमेव । तत्र शौरीभ्यामृग्भ्यां गार्हपत्ये जुहोति - उदुत्यमिति प्रथमा गायत्री, द्वितीया त्रिष्टुप् ॥
तत्र प्रथमा - ‘उदायुषा’ इत्यत्र व्याख्याता । त्यं तं इमं देवं जातवेदसं जातप्रज्ञं जातानां वेदितारं केतवो रश्मय उद्वहन्ति ऊर्ध्वं वहन्ति दृशे द्रष्टुं विश्वाय विश्वार्थं, विश्वो लोको यथैनं पश्येदिति । ‘सुवर्गाय वा एतानि लोकाय हुयन्ते यद्दाक्षिणानि’ इत्यादि ब्राह्मणम् ॥] -
[5’यो ब्रह्मवर्चसकामस्स्यात्तस्मा एतं सौर्यं चरुं निर्वपेत्’ इत्यस्याः पुरोनुवाक्या - उदु त्यमिति गायत्री ॥ व्याख्यातेयं ग्रहेषु , अस्या इदं प्रतीकग्रहणम् । तमिमं जातवेदसं देवं सूर्यं केतवो रश्मय उद्वहन्ति विश्वस्य लोकस्य दर्शनार्थमिति ॥]
-
[ सौर्यर्चा कृष्णाजिनं पुरस्तात्प्रत्यानह्यत्यूर्ध्वग्रीवम् - उदुत्यमिति गायत्र्या ॥ त्यं तं जातवेदसं जातानां वेदितारम् । ‘गतिकारकयोरपि’ इत्यसुन्प्रत्ययः । जातप्रज्ञानं वा सूर्यं देवं देवनादिगुणयुक्तं उद्वहन्ति ऊर्ध्वं वहन्ति केतवो रश्मयः दृशे द्रष्टुम् । ‘दृशे विख्ये च’ इति निपात्यते । विश्वाय विश्वार्थं विश्वं लोको यथा एनं पश्येत् तदनुरूपमुद्वहन्ति । स्मैभावाभावश्छान्दंसः । क्रियमाणेन का सङ्गतिः? उच्यते - एतस्य कर्मणस्सामर्थ्यादेतदेवं भवतीति ॥]
विश्वास-प्रस्तुतिः
चि॒त्रम् ..
मूलम्
चि॒त्रम् ..
भट्टभास्कर-टीका
32द्वितीया - चित्रं चायनीयं देवानां सर्वेषामनीकं अनीकभूतं मित्रस्य वरुणस्य च अग्नेश्चक्षुस्थानीयं जङ्गमस्य स्थावरस्य आत्मभूतः सूर्य उदगात् उदेति । उदेत्य च द्यावापृथिवी अन्तरिक्षं च रश्मिभिरापूरयतीति ॥ 6तत्रैव याज्या - चित्रमिति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । प्रतीकग्रहणमेवेदम् । चित्रं चायनीयं देवानामनीकं चमूस्थानीयं मित्रादीनामपि चक्षुस्स्थानीयमुदगादुद्गच्छति । उदुत्यं च द्यावापृथिवी अन्तरिक्षं च आप्रा आप्रात् आपूरयन्ति । जगतः जङ्गमस्य तस्थुषः स्थावरस्य चात्मा सूर्य इति ॥
-
चि॒त्रन्दे॒वाना॒मुद॑गा॒दनी॑क॒ञ्चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आऽप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षँ॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥ -
अथ द्वितीया - चित्रं चायनीयं देवानामनीकं सङ्घातरूपम्मण्डलम् । यद्वा - देवानां रश्मीनां अनीकं मुखं समुदायस्थानं वा । मित्रादीनां देवानामपि चक्षुस्स्थानं , तेपि हि तेन प्रकाशितं पश्यन्ति । यद्वा - मित्रत्वादिपदप्राप्तिहेतुत्वाच्चक्षुरित्युपचर्यते । उपलक्षणं चैतत्, सर्वदेवतापदलाभहेतुत्वात्; भवति मण्डलोपासनमिति । इर्दृशमण्डलमुदगात् उदेति । छान्दसो लुङ्, ‘गातिस्था’ इति सिचो लुक् । यदा ईदृशम्मण्डलमुदेति तदा तन्मण्डलान्तर्गतो भगवान् सूर्यः जगतो जङ्गमस्य तस्थुषः स्थावरस्य च विश्वस्यात्मा द्यावापृथिवी द्यावापृथिव्यौ अन्तरिक्षं च रश्मिभिराप्राः आपूरयति । प्रा पूरणे पुरुषव्यत्ययः, अदादित्वाच्छपो लुक् । द्यौश्च पृथिवी च द्यावापृथिव्यौ । ‘दिवो द्यावा’ इति द्यावादेशः, ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घः’, ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरयोर्युगपत्प्रकृतिस्वरत्वम्, पृथिवीशब्दो ङीषन्तोन्तोदात्तः । ईदृशो भगवाननेन होमेनास्माकमभिमतं साधयत्विति ॥
विश्वास-प्रस्तुतिः
औ॒र्व॒भृ॒गु॒वच्छुचि॑म् ..
अप्नवान॒वदा हु॑वे ।
अ॒ग्निँ स॑मु॒द्रवा॑ससम् ।
मूलम्
औ॒र्व॒भृ॒गु॒वच्छुचि॑म् ..
अप्नवान॒वदा हु॑वे ।
अ॒ग्निँ स॑मु॒द्रवा॑ससम् ।
भट्टभास्कर-टीका
33अथोपहोमार्थाः तिस्रो गायत्र्यः - और्वभृगुवदित्याद्याः तत्र ॥ प्रथमा । ‘शुचिम्’ इति प्रथमपादान्तः । और्वाप्नवानौ भार्गवावृषी । यथोक्तं भृगूणां पञ्चार्षेयप्रवरे - ‘जमदग्निवदौर्ववदप्नवानवच्च्यवनवद्भृगुवत्’ इति । और्वश्चासौ भृगुश्च और्वभृगुः । भृगुरिति भार्गवोऽभेदेनोच्यते । यथा और्वो भार्गवोग्निमाह्वयत् यथा चाप्नवानोग्निं तद्वदहमपि अग्निं शुचिं समुद्रवाससं आह्वये आह्वयामि आजुहोमि वा । शपो लुक् । समुद्रे वासो यस्य स समुद्रवासाः । अन्तरिक्षे वसतीति के चित् । अपामाच्छादयितेत्यन्ये ॥
विश्वास-प्रस्तुतिः
आ स॒वँ स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिँ हु॑वे ।
अ॒ग्निँ स॑मु॒द्रवा॑ससम् ।
मूलम्
आ स॒वँ स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिँ हु॑वे ।
अ॒ग्निँ स॑मु॒द्रवा॑ससम् ।
भट्टभास्कर-टीका
34द्वितीया - यथा सवितुस्सवमनुज्ञां आह्वयामि प्रार्थये, यथा च भगस्यादित्यस्य भुजिं भोगं प्रार्थये, तद्वदग्निं समुद्रवाससं हुवे । ‘जवसवौ छन्दसि ’ इत्यजन्तौ निपात्येते । भुजेरौणादिकः किप्रत्ययः, भुजिरिति । यद्वा - ‘इक्स्तिपौ’ इति धातुनिर्देशे विधीयमानोर्थनिर्देशेपि प्रवर्तते ॥
विश्वास-प्रस्तुतिः
हु॒वे वात॑स्वनङ्क॒विम्प॒र्जन्य॑क्रन्द्यँ॒ सहः॑ ।
अ॒ग्निँ स॑मु॒द्रवा॑ससम् ॥ [42]
मूलम्
हु॒वे वात॑स्वनङ्क॒विम्प॒र्जन्य॑क्रन्द्यँ॒ सहः॑ ।
अ॒ग्निँ स॑मु॒द्रवा॑ससम् ॥ [42]
भट्टभास्कर-टीका
35तृतीया - वातस्वनं वातस्वनवन्तं कविं क्रान्तदर्शनं पर्जन्यक्रन्द्यं पर्जन्यवत्सर्वैराह्वातव्यं सर्वेषां प्रियं । उभयत्राप्युपमानपूर्वपदप्रकृतिस्वरत्वम् । सहः सर्वेषां बलं; तद्धेतुत्वात् । यद्वा - सहस्वन्तम् । मत्वर्थीयो लुप्यते । ईदृशमग्निं समुद्रवाससं हुवे आह्वयामीति ॥
भट्टभास्कर-टीका
इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये तृतीयकाण्डे प्रथमप्रपाठके एकादशोनुवाकः ॥ समाप्तश्च प्रपाठकः ॥