१० प्रवृत्तहोमादिमन्त्राभिधानम्

२ गायत्री, ३-५ त्रिष्टुप्, ९ अनुष्टुप् ।

भास्करोक्त-विनियोगः

1अथ प्रवृताहुती जुहोति - जुष्टो वाचः, ऋचा स्तोममिति द्वाभ्याम् । प्रथमाऽनुष्टुप् विषमपादा, द्वितीया गायत्री ॥

विश्वास-प्रस्तुतिः ...{Loading}...

जुष्टो॑ वा॒चो भू॑यास॒ञ्
जुष्टो॑ वा॒चस्-पत॑ये॒, देवि॑ वाक्! ।
यद् वा॒चो मधु॑म॒त् तस्मि॑न्
मा धा॒स् स्वाहा॒ सर॑स्वत्यै ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

जुष्टो॑ वा॒चो भू॑यास॒ञ्जुष्टो॑ वा॒चस्पत॑ये॒ देवि॑ वाक् ।
यद्वा॒चो मधु॑म॒त्तस्मि॑न्मा धा॒स्स्वाहा॒ सर॑स्वत्यै ।

भट्टभास्कर-टीका

जुष्टः इष्टः वाचः भूयासम् । वाचस्पतये मनसे प्राणाय जुष्टः भूयासमित्येव । षष्ठ्यर्थे चतुर्थी । ‘सावेकाचः’ इति वाचः षष्ठ्या उदात्तत्वम् । ‘षष्ठ्याः पतिपुत्र’ इति सत्वम् । ‘नित्यं मन्त्रे’ इति जुष्टशब्द आद्युदात्तः । हे देवि वाक् यद्वाचः पदं वास्तवं मधुमत् मधुरं तस्मिन् मा धाः धेहि स्थापय । सरस्वत्यै तुभ्यं स्वाहुतमिदमस्तु । दधातेर्लोटि ‘बहुलं छन्दसि’ इति शपो लुक् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

ऋ॒चा स्तोमँ॒ सम॑र्धय
गाय॒त्रेण॑ +++(साम्ना)+++ रथन्त॒रम् ।
बृ॒हद् +++(साम)+++ गा॑य॒त्र-व॑र्तनि ।

सर्वाष् टीकाः ...{Loading}...

मूलम्

ऋ॒चा स्तोमँ॒ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रम् ।
बृ॒हद्गा॑य॒त्रव॑र्तनि ।

भट्टभास्कर-टीका

2अथ द्वितीया - ऋचा योनिभूतया स्तोमं स्तोत्रं समर्धय समृद्धिं कुरु । गायत्रेण साम्ना रथन्तरं समर्धय । बृहच्च साम गायत्रवर्तनि गायत्रपदभक्तिकं समर्धय तदनुगतं कुर्विति समर्धय हे वाक् ।
प्रवृतेषु ऋत्विक्षु सम्यग्यज्ञप्रवृत्तौ यथोक्तसमृद्धिकं सर्वं भवतीति ॥

भास्करोक्त-विनियोगः

8द्रप्साननुमन्त्रयते - यस्ते इति तिसृभिस्त्रिष्टुभिः ।

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते॑ द्र॒प्सस् स्कन्द॑ति॒, यस् ते॑ अँ॒शुर्
बा॒हु-च्यु॑तो धि॒षण॑योर् उ॒पस्था॑त्
अ॒ध्व॒र्योर् वा॒ परि॒ यस् ते॑ प॒वित्रा॒त्
स्वाहा॑कृत॒म् इन्द्रा॑य॒ तञ् जु॑होमि

सर्वाष् टीकाः ...{Loading}...

मूलम्

यस्ते॑ द्र॒प्सस्स्कन्द॑ति॒ यस्ते॑ अँ॒शुर्बा॒हुच्यु॑तो धि॒षण॑योरु॒पस्था॑त् ।
अ॒ध्व॒र्योर्वा॒ परि॒ यस्ते॑ प॒वित्रा॒त्स्वाहा॑कृत॒मिन्द्रा॑य॒ तञ्जु॑होमि ।

भट्टभास्कर-टीका

तत्र प्रथमा - यस्ते इति ॥ ‘अंशुः’ इति प्रथमपादान्तः । हे सोम यस्तेऽभिषूयमाणस्य द्रप्सो रसस्स्कन्दति । यो वा तवांशुः सूक्ष्मलतावयवः बाहुच्युतः बाह्वोर्हस्तयोश्च्युतः निपतितः संलग्नः । थाथादिस्वरं बाधित्वा व्यत्ययेन सप्तमीपूर्वपदप्रकृतिस्वरत्वम् । धिषणयोरुपस्थात् - अधिषवणफलके धिषणे । दृश्यते हि ‘धिषाणे वीडू’ इति । तयोरुपस्थादुत्सङ्गात् हस्तयोश्च्युतः । अध्वर्योरिति । यद्वा यो वा तव रसः पवित्रात् दशापवित्रात् विततात्पतितः सर्वतस्स्कन्दति तं सर्वं स्वाहाकृतं स्वाहाकारेण प्रक्षिप्तं स्वाहाकृतवदवृधानिपतितं कृत्वा इन्द्राय जुहोमि स्वाहुतमेव करोमि । स्वाहाशब्दस्योर्यादित्वेन गतित्वात् ‘गतिरनन्तरः’ इति पूर्वपदप्रकृतिस्वरत्वम् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यो द्र॒प्सो अँ॒शुᳶ प॑ति॒तᳶ पृ॑थि॒व्याम्
प॑रिवा॒पात्+++(=लाजात्)+++ [32], पुरो॒डाशा॑त्, कर॒म्भात् +++(=gruel)+++।
धा॒ना॒-सो॒मान्, म॒न्थिन॑ +++(ग्रहात्)+++, इन्द्र शु॒क्राथ् +++(ग्रहात्)+++,
स्वाहा॑कृत॒म् इन्द्रा॑य॒ तञ् जु॑होमि

सर्वाष् टीकाः ...{Loading}...

मूलम्

यो द्र॒प्सो अँ॒शुᳶ प॑ति॒तᳶ पृ॑थि॒व्याम्प॑रिवा॒पात् [32] पु॒रो॒डाशा॑त्कर॒म्भात् ।
धा॒ना॒सो॒मान्म॒न्थिन॑ इन्द्र शु॒क्रात्स्वाहा॑कृत॒मिन्द्रा॑य॒ तञ्जु॑होमि ।

भट्टभास्कर-टीका

4अथ द्वितीया - यो द्रप्स इति ॥ सोमात् यो द्रप्सो वा अंशुर् वा पृथिव्यां पतितः परिवापादिभ्यश्च । हे इन्द्र तं स्वाहाकृतं इन्द्रायेश्वराय तुभ्यं जुहोमि हुतमेव करोमि ।
परिवापाः व्रीहिप्रभवा लाजाः ।
पुरोडाशः पिष्टमयः ।
करम्भः सक्त्व्-आज्य-संयोग-विशेषः । धानाश्च सोमश्च धानासोमम् । ‘जातिरप्राणिनाम्’ इत्येकवद्भावः ।
धानाः तण्डुलप्रभवाः लाजप्रकाराः ।
सोमो लतात्मा ।
यद्वा - सवनीयैः साहचर्यात् पारिशेष्याच्च सोमविषया मैत्रावरुणी पयस्या सोमशब्देनोच्यते ।
यथा धानाः करम्भः परिवापः पुरोडाशः पयस्या पङ्क्तिराप्यत इति ।
मन्थी शुक्रश्च ग्रहौ ॥

विश्वास-प्रस्तुतिः ...{Loading}...

यस् ते॑ द्र॒प्सो मधु॑माँ इन्द्रि॒यावा॒न्त्
स्वाहा॑-कृत॒ᳶ पुन॑र् अ॒प्य् एति॑ दे॒वान् ।
दि॒वᳶ पृ॑थि॒व्याᳶ पर्य्-अ॒न्तरि॑क्षा॒त्
स्वाहा॑-कृत॒म् इन्द्रा॑य॒ तञ् जु॑होमि

सर्वाष् टीकाः ...{Loading}...

मूलम्

यस्ते॑ द्र॒प्सो मधु॑माँ इन्द्रि॒यावा॒न्त्स्वाहा॑कृत॒ᳶ पुन॑र॒प्येति॑ दे॒वान् ।
दि॒वᳶ पृ॑थि॒व्याᳶ पर्य॒न्तरि॑क्षा॒त्स्वाहा॑कृत॒मिन्द्रा॑य॒ तञ्जु॑होमि ।

भट्टभास्कर-टीका

5अथ तृतीया - यस्ते इति ॥ हे सोम यस्ते द्रप्सो मधुमान् मधुररसवान् इन्द्रियावान् वीर्यवांश्च भूत्वा स्वाहाकृतः पुनर्देवानप्येति गच्छति । दिवो वा पृथिव्या वा अन्तरिक्षाद्वा यत्र यत्र स्कन्नः ततस्सर्वस्मादागत्य पुनरपि देवान्प्राप्नोति मम स्वाहाकारेण तमहमिन्द्राय स्वाहाकृतं कृत्वा जुहोमि साऽपि तथा करोत्विति । ‘मन्त्रे सोमाश्व’ इतीन्द्रियशब्दस्य दीर्घत्वम् । ‘ऊडिदम्’ इति दिवो विभक्तिरुदात्ता । ‘उदात्तयणः’ इति पृथिव्याः ॥

मूलम् (संयुक्तम्)

अ॒ध्व॒र्युर्वा ऋ॒त्विजा॑म्प्रथ॒मो यु॑ज्यते॒ तेन॒ स्तोमो॑ योक्त॒व्य॑ इत्या॑हु॒र्वाग॑ग्रे॒गा अग्र॑ एत्वृजु॒गा दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णान्प॒शुषु॑ प्र॒जाम्मयि॑ [33] च॒ यज॑माने॒ चेत्या॑ह॒ वाच॑मे॒व तद्य॑ज्ञमु॒खे यु॑नक्ति॒ वास्तु॒ वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद्ग्रहा॑न्गृही॒त्वा ब॑हिष्पवमा॒नँ सर्प॑न्ति

विश्वास-प्रस्तुतिः - ब्राह्मणम्

अ॒ध्व॒र्युर् वा ऋ॒त्विजा॑म् प्रथ॒मो यु॑ज्यते
+++(अतस्)+++ तेन॒ स्तोमो॑ योक्त॒व्य॑

इत्य् आ॑हुः

मूलम्

अ॒ध्व॒र्युर्वा ऋ॒त्विजा॑म्प्रथ॒मो यु॑ज्यते ।
तेन॒ स्तोमो॑ योक्त॒व्य॑ इत्या॑हुः ।

भट्टभास्कर-टीका

6अथ ‘वागग्रेगाः’ इत्यस्य वक्ष्यमाणस्य मन्त्रस्य ब्राह्मणं - अध्वर्युर्वा इत्यादि ॥
ऋत्विजां मध्ये अध्वर्युः प्रथमः बहिष्पवमानाय संसर्पणे युज्यते
अथ तस्य प्राथम्यात्तेनैव प्रथमं स्तोमो योक्तव्य इत्याहुः ।

विश्वास-प्रस्तुतिः - ब्राह्मणम्

“वाग् अ॑ग्रे॒गा” +++(इति यजुर्)+++ अग्र॑ +++(बहिष्पवमानम्)+++ एतु
“ऋ॒जु॒-गा दे॒वेभ्यो॒ यशो॒,
मयि॒ दध॑ती प्रा॒णान्,
प॒शुषु॑ प्र॒जाम्,
मयि॑ च॒ यज॑माने॒ चे"त्या॑ह ।
वाच॑म् ए॒व तद् य॑ज्ञ-मु॒खे यु॑नक्ति

मूलम्

वाग॑ग्रे॒गा अग्र॑ एतु ।
ऋ॒जु॒गा दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णान्प॒शुषु॑ प्र॒जाम्मयि॑ च॒ यज॑माने॒ चेत्या॑ह ।
वाच॑मे॒व तद्य॑ज्ञमु॒खे यु॑नक्ति ।

भट्टभास्कर-टीका

तस्मात् सर्पणकाले ‘वागग्रेगाः’ इत्यादिकं यजुर् यद् आह
तेन प्रथमम् अध्वर्युः वाचं यज्ञ-मुखे बहिष्-पवमानारम्भे युनक्ति
यद् वाचं बाहीष्पवमानं यज्ञ-मुखे ऽध्वर्युर् युनक्ति
एवं स्तोमो युक्तो योजितो भवति ।

मन्त्रार्थस्तु - वागग्रेगाः सर्वस्याग्रे गच्छन्ती अग्रे प्रथमं बहिष्पवमानम् एतु । ‘जनसन’ इति विट्’ ‘विड्वनोरनुनासिकस्स्यात्’ इत्यात्वम् ।

ईदृशी सती गच्छत्वित्याह - ऋजुगाः ऋजुमार्गेण गच्छन्ती देवेभ्यः देवार्थमवक्रगमना देवानेवं गच्छन्तीत्यर्थः । पूर्ववद्विट् । मयि यशो दधती स्थापयान्ती सुष्ठु प्रचारणात्प्राणान् पशुषु दधती सम्यग्यागनिष्पत्तेः प्रजां मयि च यजमाने दधती अग्रे गच्छत्विति ।

विश्वास-प्रस्तुतिः - ब्राह्मणम्

वास्तु॒ वा ए॒तद्
य॒ज्ञस्य॑ क्रियते॒,
यद् ग्रहा॑न् गृही॒त्वा
ब॑हिष्-पवमा॒नँ सर्प॑न्ति
+++(तस्मात् प्रथमम् एव ग्रहा गृहीतव्याः । ततो बहिष्पवमानं संसर्पेयुः।)+++

मूलम्

वास्तु॒ वा ए॒तद्य॒ज्ञस्य॑ क्रियते ।
यद्ग्रहा॑न्गृही॒त्वा ब॑हिष्पवमा॒नँ सर्प॑न्ति ।

भट्टभास्कर-टीका

वास्तु वा एतद्यज्ञस्येत्यादि ।
वास्तु-ग्रहणम् एतद् यज्ञस्य क्रियते
यद् ग्रहान् गृहीत्वा बहिष्पवमानं सर्पन्ति**
तस्मात् प्रथमम् एव ग्रहा गृहीतव्याः । ततो बहिष्पवमानं संसर्पेयुर् इति । एवं हि यज्ञो वास्तुमान् भवति ॥

मूलम् (संयुक्तम्)

परा॑ञ्चो॒ हि यन्ति॒ परा॑चीभिस्स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वाक॒र् विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उत्स॑न्दुह्रते॒ अक्षि॑त॒मित्या॑ह॒ यदे॒वास्य॒ शया॑नस्योप॒शुष्य॑ति॒ तदे॒वास्यै॒तेना प्या॑ययति ॥ [34]

विश्वास-प्रस्तुतिः - ब्राह्मणम्

परा॑ञ्चो॒+++(→अपुनरावृत्ता)+++ हि यन्ति॒, परा॑चीभिस् स्तु॒वते॑

मूलम्

परा॑ञ्चो॒ हि यन्ति॒ परा॑चीभिस्स्तु॒वते॑ ।

भट्टभास्कर-टीका

7पराञ्चो हीत्यादि ॥ हि यस्मादर्थे । यस्मात्पराञ्चो ऽपुनरावृत्ता बहिष्पवमानाय यन्ति सर्पन्ति तस्मादानुरूप्याय पराचीभिः अनावृत्ताभिः त्रिवृत्त्वान्नवभिः ऋग्भिस् स्तुवते । अकर्त्रभिप्रायत्वाद्व्यत्ययेनात्मनेपदम्, परापूर्वादञ्चतेः क्विपि ‘अनिगन्तादञ्चतौ’ इति गतेः प्रकृतिस्वरत्वम् ।

विश्वास-प्रस्तुतिः - ब्राह्मणम्

वै॒ष्ण॒व्यर्चा पुन॒र् एत्योप॑ तिष्ठते
य॒ज्ञो वै विष्णु॑र्, य॒ज्ञम् ए॒वाकः॑+++(=करोति)+++ ।

मूलम्

वै॒ष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते ।
य॒ज्ञो वै विष्णु॑र्य॒ज्ञमे॒वाकः॑ ।

भट्टभास्कर-टीका

वैष्णव्येत्यादि । पुनरेत्यागत्य वैष्णव्यर्चा वक्ष्यमाणया अनुष्टुभा राजानमुपतिष्ठते - तस्मादनेनोपस्थानेन यज्ञमेवाकः करोति । करोतेः छान्दसे लुङि ‘मन्त्रे घस’ इति च्लेर्लुक् ।

विश्वास-प्रस्तुतिः ...{Loading}...

विष्णो॒ त्वन् नो॒ अन्त॑म॒श्
शर्म॑ यच्छ, +++(हे)+++ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श्-चुत॒
उत्स॑न् दुह्रते॒ अक्षि॑तम्॥

सर्वाष् टीकाः ...{Loading}...

मूलम्

विष्णो॒ त्वन्नो॒ अन्त॑म॒श्शर्म॑ यच्छ सहन्त्य ।
प्र ते॒ धारा॑ मधु॒श्चुत॒ उत्स॑न्दुह्रते॒ अक्षि॑तम्॥

भट्टभास्कर-टीका

मन्त्रार्थस्तु - हे विष्णो यज्ञात्मन् सोम त्वं नः अस्माकं अन्तिमः अन्तिकतमः प्रत्यासन्नतमः । ‘तमेतादेश्च’ इति कलोपः । सः त्वमस्मभ्यं शर्म सुखं यच्छ देहि । हे सहन्त्य परेषामभिभवितः महाप्रभाव । सहतेरौणादिको झच् । सहन्ताः सोढारः, ततस्स्वार्थिको यः । सहन्त्य ते तव धाराः रसप्रवाहाः मधुश्चुतः मधुरं रसं क्षरन्त्यः उत्सं कूपभूतं अक्षितं अनुपक्षीणं सोमरसं प्रदुह्रते प्रकर्षेण दुहताम् । तेन यच्छुष्यति तदाप्यायितं भवति । दुहेश्छान्दसे लेटि ‘बहुलं छन्दसि’ इति रुडागमः ॥

विश्वास-प्रस्तुतिः - ब्राह्मणम्

इत्य् आ॑ह -
यद् ए॒वास्य॒ शया॑नस्योप॒शुष्य॑ति,
तद् ए॒वास्यै॒तेनाप्या॑ययति ॥ [34]

मूलम् इत्या॑ह यदे॒वास्य॒ शया॑नस्योप॒शुष्य॑ति तदे॒वास्यै॒तेना प्या॑ययति ॥ [34]
भट्टभास्कर-टीका

किं च - यदेव यत्किंचित् अपि शयानस्योपशुष्यति तत्सर्वमप्यस्यानेनोपस्थानेन आप्याययति आपूरयति अक्षितं दुह्रते इति दर्शनात् ।

इति तृतीये प्रथमे दशमोनुवाकः ॥