२-४ त्रिष्टुप् । विश्वेदेवा ऋषयः
मूलम् (संयुक्तम्)
यो वै दे॒वान्दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्या॑न्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॒ भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु॒ यान्प्रा॒चीन॑माग्रय॒णाद्ग्रहा॑न्गृह्णी॒यात्तानु॑पाँ॒शु गृ॑ह्णीया॒द्यानू॒र्ध्वाँस्तानु॑पब्दि॒मतो॑ दे॒वाने॒व तद्दे॑वयश॒सेना॑र्पयति मनु॒ष्या॑न्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॑ भवति मनुष्ययश॒सी म॑नु॒ष्ये॑षु
विश्वास-प्रस्तुतिः
यो वै दे॒वान्दे॑वयश॒सेना॒र्पय॑ति ।
म॒नु॒ष्या॑न्मनुष्ययश॒सेन॑ +++(अर्पयति)+++।
मूलम्
यो वै दे॒वान्दे॑वयश॒सेना॒र्पय॑ति ।
म॒नु॒ष्या॑न्मनुष्ययश॒सेन॑ +++(अर्पयति)+++।
भट्टभास्कर-टीका
1यो वे देवानित्यादि ॥ देवानां यशो देवयशसं स्वकीर्तिः बलं वा देवानां योग्यं यशः । ‘अनसन्तान्नपुंसकात्’ इत्यच्समासान्तः । अर्पयति प्रापयति । अर्तेर्णिचि ‘अर्तिर्ही’ इत्यादिना पुक् । एवं मनुष्ययशसेनार्पयति ।
विश्वास-प्रस्तुतिः
दे॒व॒य॒श॒स्ये॑व दे॒वेषु॒ भव॑ति ।
म॒नु॒ष्य॒य॒श॒सी म॑नु॒ष्ये॑षु ।
मूलम्
दे॒व॒य॒श॒स्ये॑व दे॒वेषु॒ भव॑ति ।
म॒नु॒ष्य॒य॒श॒सी म॑नु॒ष्ये॑षु ।
भट्टभास्कर-टीका
देवयशसीति । देवानां योग्येन यशसा देवानां मध्ये अतिशयेन तद्वान् भवति, मनुष्ययशसी च मनुष्येषु भवति । ‘चादिलोपे विभाषा’ इति प्रथमो भवतिशब्दो न निहन्यते, विभाषेति वचनात् द्वितीयो निहन्यते ।
विश्वास-प्रस्तुतिः
यान्प्रा॒चीन॑माग्रय॒णाद्ग्रहा॑न्गृह्णी॒यात् तानु॑पाँ॒शु गृ॑ह्णीयात् ।
मूलम्
यान्प्रा॒चीन॑माग्रय॒णाद्ग्रहा॑न्गृह्णी॒यात् तानु॑पाँ॒शु गृ॑ह्णीयात् ।
भट्टभास्कर-टीका
कथं पुनः क्रियमाणेन तेन तेऽर्पिता भवन्तीत्याह - यानित्यादि । आग्रयणाद्ग्रहात्प्राचीनं यान् ग्रहान् गृह्णीयात् । ‘विभाषाञ्चेरदिक्स्त्रियाम्’ इति खः । तानुपांशु अव्यक्तमन्त्रं गृह्णीयात्,
विश्वास-प्रस्तुतिः
यानू॒र्ध्वाँस्तानु॑पब्दि॒मतः॑ ।
मूलम्
यानू॒र्ध्वाँस्तानु॑पब्दि॒मतः॑ ।
भट्टभास्कर-टीका
यानूर्ध्वान् तत उपरितनान् ग्रहान् तानुपब्दिमतः किंचिदुच्चशब्दवतो गृह्णीयात् ; नात्युच्चशब्दान् । बदिर् निशमने, ‘इन् सर्वधातुभ्यः’ इत्युपपूर्वात् बदेश्छान्दस उपधालोपः । समीपस्थैर्यो निशम्यते न दूरस्थैः स उपब्दिश्शब्दविशेषः । तद्वतः उपब्दिमतः । ‘ह्रस्वनुङ्भ्यां मतुप्’ इति मतुप उदात्तत्वम् । ‘उपाद्व्यजजिनम्’ इत्युपांशुशब्दे उत्तरपदान्तोदात्तत्वम् ।
विश्वास-प्रस्तुतिः
दे॒वाने॒व तद्दे॑वयश॒सेना॑र्पयति ।
मनु॒ष्या॑न्मनुष्ययश॒सेन॑ ।
दे॒व॒य॒श॒स्ये॑व दे॒वेषु॑ भवति ।
म॒नु॒ष्य॒य॒श॒सी म॑नु॒ष्ये॑षु ।
मूलम्
दे॒वाने॒व तद्दे॑वयश॒सेना॑र्पयति ।
मनु॒ष्या॑न्मनुष्ययश॒सेन॑ ।
दे॒व॒य॒श॒स्ये॑व दे॒वेषु॑ भवति ।
म॒नु॒ष्य॒य॒श॒सी म॑नु॒ष्ये॑षु ।
भट्टभास्कर-टीका
देवानित्यादि । तत् तेन तथाकरणेनेत्यर्थः । गतमन्यत् ॥
मूलम् (संयुक्तम्)
स नᳶ॑ पाव॒को द्रवि॑णन्दधातु [26] आयु॑ष्मन्तस्स॒हभ॑क्षास्स्याम
विश्वास-प्रस्तुतिः
अ॒ग्निᳶ प्रा॑तस्सव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो म॑हि॒ना वि॒श्वश॑म्भूः ।
स नᳶ॑ पाव॒को द्रवि॑णन्द॒धा॒त्वायु॑ष्मन्तस्स॒हभ॑क्षास्स्याम ।
मूलम्
अ॒ग्निᳶ प्रा॑तस्सव॒ने पा॑त्व॒स्मान्वै॑श्वान॒रो म॑हि॒ना वि॒श्वश॑म्भूः ।
स नᳶ॑ पाव॒को द्रवि॑णन्द॒धा॒त्वायु॑ष्मन्तस्स॒हभ॑क्षास्स्याम ।
भट्टभास्कर-टीका
2यत्र बहिष्पवमानं साम आरब्धुमाग्नीध्रस्य पुरस्तात् प्रसृप्स्यन्तो भवन्ति तत्रान्वारब्धेषु तेषु आहवनीये स्रुवेणाहुतिं जुहोति - अग्निः प्रातस्सवने इति त्रिष्टुभा ॥ अस्मिन् प्रातस्सवने अग्निः अस्मान् पातु रक्षतु वैश्वानरः विश्वेषां नराणां स्वामित्वेन सम्बन्धी । महिना महत्त्वेन विश्वशंभूः विश्वेषां सुखस्य भावयिता । महेरिनिप्रत्ययान्तात् ‘सुपां सुलुक्’ इति तृतीयाया आकारः । स नः अस्मभ्यं द्रविणं धनं दधातु ददातु पावकः अस्माकं शोधयिता । किञ्च - वयमायुष्मन्तः दीर्घायुषः सहभक्षाः भक्षयितृभिस्सह सर्वैः सहिताश्च सर्वदा स्याम ॥
विश्वास-प्रस्तुतिः
विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः ।
आयु॑ष्मन्तᳶ प्रि॒यमे॑षाव्ँ॒वद॑न्तो व॒यन्दे॒वानाँ॑ सुम॒तौ स्या॑म ।
मूलम्
विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः ।
आयु॑ष्मन्तᳶ प्रि॒यमे॑षाव्ँ॒वद॑न्तो व॒यन्दे॒वानाँ॑ सुम॒तौ स्या॑म ।
भट्टभास्कर-टीका
3माध्यन्दिने पवमाने तथैवान्वारब्धेषु आहवनीये स्रुवाहुतिं जुहोति - विश्वे देवा इति त्रिष्टुभा ॥ विश्वे देवाः मरुतश्च इन्द्रश्चास्मानस्मिन् द्वितीये सवने न जह्युः माध्यन्दिने मा हासिषुः । ततश्च वयमपि आयुष्मन्तस्सन्तः एषां देवानां प्रियं स्तोत्रशस्त्रादिकं वदन्तः देवानां सुमतौ कल्याणायां सानुग्रहायां बुद्धौ स्याम । सुष्ठु मननं सुमतिः । कृदुत्तरपदप्रकृतिस्वरत्वम्, ‘मन्त्रे वृष’ इति क्तिन उदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
इ॒दन्तृ॒तीयँ॒ सव॑नङ्कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त ।
ते सौ॑धन्व॒नास्सुव॑रानशा॒नास्स्वि॑ष्टिन्नो अ॒भि वसी॑यो नयन्तु ।
मूलम्
इ॒दन्तृ॒तीयँ॒ सव॑नङ्कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त ।
ते सौ॑धन्व॒नास्सुव॑रानशा॒नास्स्वि॑ष्टिन्नो अ॒भि वसी॑यो नयन्तु ।
भट्टभास्कर-टीका
4आर्भवे पवमाने तथैव समन्वारब्धेषु आहवनिये स्रुवाहुतिं जुहोति - इदं तृतीयमिति त्रिष्टुभा ॥ इदं तृतीयं सवनं कवीनां मेधाविनामृत्विजां सम्बन्धि ‘वसीयो नयन्तु’ इति वक्ष्यमाणेन सम्बध्यते । नः अस्मान् अस्मदाभिमुख्येन इदं सवनं वसीयः वसुमत्तरं कृत्वा अस्मान् नयन्तु प्रापयन्तु । ते के ? ये ऋतेन सत्येन चमसं चमसान् । जातावेकवचनम् । ऐरयन्त प्रेरितवन्तः कृतवन्त इत्यर्थः । ते सौधन्वनाः सुधन्वनः इन्द्रस्य सम्बन्धिनो देवाः ऋभुनामानः सुवः स्वर्गं आनशानाः व्याप्नुवन्तः इदं सवनं वसीयः कुर्वन्तु स्विष्टिं शोभनं च यागमस्माकं कुर्वन्तु । शोभना इष्टिः स्विष्टिः इति प्रादिसमासः, अव्ययपूर्वपदप्रकृतिस्वरत्वम् । गतिसमासे ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । ‘उदात्तस्वरितयोर्यणः’ इति संहितायां ततः परः इकारस्स्वर्यते । अश्नोतेर्लिटः कानजादेशः, ‘अश्नोतेश्च’ इति नुट् । वसीयश्शब्दो व्याख्यातः ॥
मूलम् (संयुक्तम्)
आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ऽनायत॒ना अ॒न्या या आ॑घा॒रव॑ती॒स्ता आ॒यत॑नवती॒र्याः [27] सौ॒म्यास्ता अ॑नायत॒ना ऐ॑न्द्रवाय॒वमा॒दाया॑घा॒रमा घा॑रयेदध्व॒रो य॒ज्ञो॑ऽयम॑स्तु देवा॒ ओष॑धीभ्यᳶ प॒शवे॑ नो॒ जना॑य॒ विश्व॑स्मै भू॒ताया॑ध्व॒रो॑ऽसि॒ स पि॑न्वस्व घृत॒व॑द्देव सो॒मेति॑ सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीᳵ करोत्या॒यत॑नवान्भवति॒ य ए॒वव्ँ वेदाथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति॒ ते व्यु॑त्ते उपजीव॒नीये॑ भवत उपजीव॒नीयो॑ भवति [28] य ए॒वव्ँ वेद
विश्वास-प्रस्तुतिः
आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ ।
अ॒ना॒य॒त॒ना अ॒न्याः ।
मूलम्
आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑ ।
अ॒ना॒य॒त॒ना अ॒न्याः ।
भट्टभास्कर-टीका
5आयतनवतीरित्यादि ॥ आयतनवतीः आयतनवत्यः विभक्तावकाशं स्थानमायतनं तद्वत्यः अन्याः काश्चिदाहुतयः हूयन्ते, काश्चिदनायतना एव हूयन्ते । ‘एकान्याभ्यां समर्थाभ्याम्’ इति प्रथमा तिङ्विभक्तिर्न निहन्यते ।
विश्वास-प्रस्तुतिः
या आ॑घा॒रव॑ती॒स्ता आ॒यत॑नवतीः
यास्सौ॒म्यास्ता अ॑नायत॒नाः ।
ऐ॒न्द्र॒वा॒य॒वमा॒दाया॑घा॒रमा घा॑रयेत् ।
मूलम्
या आ॑घा॒रव॑ती॒स्ता आ॒यत॑नवतीः
यास्सौ॒म्यास्ता अ॑नायत॒नाः ।
ऐ॒न्द्र॒वा॒य॒वमा॒दाया॑घा॒रमा घा॑रयेत् ।
भट्टभास्कर-टीका
काः पुनस्ता उभय्य इत्याह - या इत्यादि । आघारवतीः आघारोक्ष्णया होमः, तद्वत्यो या आहुतयः आज्यपुरोडाशादीनां ता आयतनवत्यः ।
यास्सौम्याः सोमाहुतयः ता अनायतनाः, अघाराभावात् । ‘सोमाट्ट्यण्’ ।
विश्वास-प्रस्तुतिः
अध्व॒रो य॒ज्ञो॑ऽयम॑स्तु देवा॒ ओष॑धीभ्यᳶ प॒शवे॑ नो॒ जना॑य ।
विश्व॑स्मै भू॒ताया॑ध्व॒रो॑ऽसि स पि॑न्वस्व घृत॒व॑द्देव सो॒मेति॑ ।
सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीᳵ करोति ।
आ॒यत॑नवान्भवति।
य ए॒वव्ँ वेद॑ ।
मूलम्
अध्व॒रो य॒ज्ञो॑ऽयम॑स्तु देवा॒ ओष॑धीभ्यᳶ प॒शवे॑ नो॒ जना॑य ।
विश्व॑स्मै भू॒ताया॑ध्व॒रो॑ऽसि स पि॑न्वस्व घृत॒व॑द्देव सो॒मेति॑ ।
सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीᳵ करोति ।
आ॒यत॑नवान्भवति।
य ए॒वव्ँ वेद॑ ।
भट्टभास्कर-टीका
तत्र ऐन्द्रवायवमादाय जुहोति - अध्वरो यज्ञ इति त्रिष्टुभा । आघारे दक्षिणं परिधिसन्धिमन्ववहृत्य प्राञ्चमुदञ्चमाघारयेत् । तेन सौम्या अप्याहुतीरायतनवतीः करोति । य एवं वेदिता आयतनवान् गृहवान् भवति ।
मन्त्रार्थस्तु - अयं यज्ञः अध्वरः हिंसकरहितः अस्तु हे देवाः । किमर्थम् ? ओषधीभ्यः पशवे पशुभ्यः । जातावेकवचनम् । नः अस्माकं जनाय पुत्रादये । किं बहुना - विश्वस्मै भूताय सर्वस्मै भूतजाताय ।
किं च – अध्वरस्त्वमसि । हे देव सोम त्वं घृतवत् घृतार्हं घृतयुक्तं वा अस्मान् पिन्वस्य प्रीणय । पिवि प्रणिने, इदित्त्वान्नुम् ।
विश्वास-प्रस्तुतिः
अथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति ।
ते व्यु॑त्ते उपजीव॒नीये॑ भवतः ।
उपजीव॒नीयो॑ भवति [28] ए॒वव्ँ वेद ।
मूलम्
अथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति ।
ते व्यु॑त्ते उपजीव॒नीये॑ भवतः ।
उपजीव॒नीयो॑ भवति [28] ए॒वव्ँ वेद ।
भट्टभास्कर-टीका
अथो अपि च अनेनाघारेण द्यावापृथिवी एव घृतेन उदकेन व्युनत्ति विविधं क्लेदयति । ते व्युत्ते क्लेदिते उपजीवनीये सर्वेषां भवतः । उन्दी क्लेदने, ‘श्वीदितो निष्ठायाम्’ इतीट्प्रतिषेधः, ‘गतिरनन्तरः’ इति गतेः प्रकृतिस्वरत्वम्, ‘उदात्तस्वरितयोर्याणः’ इति ततः परस्य संहितायां स्वरितत्वम् । एवं वेदिता उपजीवनीयो भवति बन्धूनामीति ॥
मूलम् (संयुक्तम्)
ए॒ष ते॑ रुद्र भा॒गो यन्नि॒रया॑चथा॒स्तञ्जु॑षस्व वि॒देर्गौ॑प॒त्यँ रा॒यस्पोषँ॑ सु॒वीर्यँ॑ सव्ँवत्स॒रीणाँ॑ स्व॒स्तिम् ।
विश्वास-प्रस्तुतिः
ए॒ष ते॑ रुद्र भा॒गो यन्नि॒रया॑चथाः ।
तञ्जु॑षस्व , वि॒देः
मूलम्
ए॒ष ते॑ रुद्र भा॒गो यन्नि॒रया॑चथाः ।
तञ्जु॑षस्व , वि॒देः
भट्टभास्कर-टीका
6प्रतिप्रस्थाता उत्तरार्धे आहवनीयस्य मन्थिनस्संस्रावं जुहोति - एष ते रुद्र भाग इति ॥ हे रुद्र एष संस्रावभागः । यं त्वं निरयाचथाः निष्कृष्य देवेभ्यः स्वतन्त्रमयाचथाः ‘यज्ञे माऽऽभजाथ ते पशून्नाभि मंस्ये’ इति ।
सोयं त्वदीयो भागः, तं जुषस्व सेवस्व विदेः वेदय लम्भय । विदेरन्तर्भावितण्यन्ताल्लिङि छान्दसो नुमभावः । ण्यन्तादेव वा लिङि ‘बहुलं संज्ञाछन्दसोः’ इति णिलुक् । यद्वा - विदेः विद्याः । वेत्तेर्विकरणव्यत्ययेन शः ।
विश्वास-प्रस्तुतिः
र्गौ॑प॒त्यँ रा॒यस्पोषँ॑ सु॒वीर्यँ॑ सव्ँवत्स॒रीणाँ॑ स्व॒स्तिम् ।
मूलम्
र्गौ॑प॒त्यँ रा॒यस्पोषँ॑ सु॒वीर्यँ॑ सव्ँवत्स॒रीणाँ॑ स्व॒स्तिम् ।
भट्टभास्कर-टीका
गौपत्यादिकमस्मान् लम्भय । गौपत्यादिलक्षणं वा आत्मीयं माहात्म्यं अनेन होमेन वेदितुमर्हसीति । गौपत्यं गवां स्वामित्वम् । पतिलक्षणो ण्यत् । रायो धनस्य पश्वादेः पोषं पुष्टिं कीदृशं ? सुवीर्यं शोभनपुत्रादि बलम् । पूर्ववत्सत्वम्, स्वरश्च । संवत्सरीणां संवत्सरभाविनीं स्वस्तिं अविनाशम् । ‘संपरिपूर्वात्ख च’ इति खः ॥
मूलम् (संयुक्तम्)
मनुᳶ॑ पु॒त्रेभ्यो॑ दा॒यव्व्ँय॑भज॒त्स नाभा॒नेदि॑ष्ठम्ब्रह्म॒चर्यव्ँ॒वस॑न्त॒न्निर॑भज॒त्स आग॑च्छ॒त्सो॑ऽब्रवीत्क॒था मा॒ निर॑भा॒गिति॒ न त्वा॒ निर॑भाक्ष॒मित्य॑ब्रवीत्
विश्वास-प्रस्तुतिः
मनुᳶ॑ पु॒त्रेभ्यो॑ दा॒यव्व्ँय॑भजत् ।
मूलम्
मनुᳶ॑ पु॒त्रेभ्यो॑ दा॒यव्व्ँय॑भजत् ।
भट्टभास्कर-टीका
7अथैतस्य मन्थिसंस्रावहोमस्य ब्राह्मणम् - मनुः पुत्रेभ्य इत्यादि ॥ मनुः प्रजापतिः आत्मीयेभ्यः पुत्रेभ्यो दायं व्यभजत् । क्रयादिभिर्विनाऽपि पित्रादिसकाशात्पुत्रादिभिः प्राप्यं धनं दायः । स पुत्रेभ्यः तद्व्यभजत् मनुः ।
विश्वास-प्रस्तुतिः
स नाभा॒नेदि॑ष्ठम्ब्रह्म॒चर्यव्ँ॒वस॑न्त॒न्निर॑भजत् ।
मूलम्
स नाभा॒नेदि॑ष्ठम्ब्रह्म॒चर्यव्ँ॒वस॑न्त॒न्निर॑भजत् ।
भट्टभास्कर-टीका
नाभानेदिष्ठं नाम पुत्रं ब्रह्मचर्यं वसन्तं ब्रह्म वेदः तदर्थानां व्रतानां चरणं ब्रह्मचर्यम् । ‘गद मदचर’ इति यत् । तदुपसंप्राप्य वसन्तम् । यद्वा - ब्रह्मचर्यं निषेवमाणं निरभजत् निर्भागमकरोत् । भानां नेदिष्ठः प्रत्यासन्नतमः भानेदिष्ठः न भानेदिष्ठः अभानेदिष्ठः, तद्विपरीतः नाभानेदिष्ठः तेजस्वितमः । व्युत्पत्तिमात्रमिदम् । संज्ञैषा तत्रभवतः । अत एव नावगृह्यते । ‘अयं नाभा वदति’ इत्यत्र तु एकदेशस्य ग्रहणं यथा भीमसेनो भीम इति । तत्र व्यत्ययेन पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । वनस्पत्यादिर्वा द्रष्टव्यः ।
विश्वास-प्रस्तुतिः
स आऽग॑च्छत् ।
मूलम्
स आऽग॑च्छत् ।
भट्टभास्कर-टीका
सः नाभानेदिष्ठः समाप्तब्रह्मचर्य आगच्छत्,
विश्वास-प्रस्तुतिः
सो॑ऽब्रवीत् ।
मूलम्
सो॑ऽब्रवीत् ।
भट्टभास्कर-टीका
आगत्य च सोब्रवीत् पितरम् ।
विश्वास-प्रस्तुतिः
क॒था मा॒ निर॑भा॒गिति॑ ।
मूलम्
क॒था मा॒ निर॑भा॒गिति॑ ।
भट्टभास्कर-टीका
कथा केन हेतुना मां निरभाक् निर्भागमकार्षीः इति । ‘था हेतौ च छन्दसि’ इति थाप्रत्ययः । भजेर्लङि ‘वदव्रज’ इति वृद्धौ ‘बहुलं छन्दसि’ इतीडभावे इतश्च लोपः, हल्ङ्यादिसंयोगान्तलोपे अभागिति रूपम् ।
विश्वास-प्रस्तुतिः
न त्वा॒ निर॑भाक्ष॒मित्य॑ब्रवीत् ।
मूलम्
न त्वा॒ निर॑भाक्ष॒मित्य॑ब्रवीत् ।
भट्टभास्कर-टीका
अथ न त्वा निरभाक्षं निर्भागमकार्षमिति पिताऽब्रवीत् ॥
मूलम् (संयुक्तम्)
अङ्गि॑रस इ॒मे स॒त्त्रमा॑सते ते [29] सु॒व॒र्गल्ँ लो॒कन्न प्र जा॑नन्ति॒ तेभ्य॑ इ॒दम्ब्राह्म॑णम्ब्रूहि॒ ते सु॑व॒र्गल्ँ लो॒कय्ँयन्तो॒ य ए॑षाम्प॒शव॒स्ताँस्ते॑ दास्य॒न्तीति॒ तदे॑भ्योऽब्रवी॒त्ते सु॑व॒र्गल्ँ लो॒कय्ँयन्तो॒ य ए॑षाम्प॒शव॒ आस॒न्तान॑स्मा अददुः
विश्वास-प्रस्तुतिः
अङ्गि॑रस इ॒मे स॒त्त्रमा॑सते ।
ते सु॑व॒र्गल्ँ लो॒कन्न प्र जा॑नन्ति ।
मूलम्
अङ्गि॑रस इ॒मे स॒त्त्रमा॑सते ।
ते सु॑व॒र्गल्ँ लो॒कन्न प्र जा॑नन्ति ।
भट्टभास्कर-टीका
8कस्तर्हि मम भाग इति चेत्तदपि ब्रूमः - अङ्गिरस इमे सत्त्रमासते सत्रमुपसंप्राप्यासते सत्रयागं कुर्वन्ति, ते सुवर्गं लोकं न प्रजानन्ती तज्ज्ञानसाधनानामज्ञानात् ।
विश्वास-प्रस्तुतिः
तेभ्य॑ इ॒दम्ब्राह्म॑णम्ब्रूहि ।
मूलम्
तेभ्य॑ इ॒दम्ब्राह्म॑णम्ब्रूहि ।
भट्टभास्कर-टीका
तेभ्य इदं ब्राह्मणं ब्रूहि
विश्वास-प्रस्तुतिः
ते सु॑व॒र्गल्ँ लो॒कय्ँयन्तो॒ य ए॑षाम्प॒शव॒स्ताँस्ते॑ दास्य॒न्तीति॑ ।
मूलम्
ते सु॑व॒र्गल्ँ लो॒कय्ँयन्तो॒ य ए॑षाम्प॒शव॒स्ताँस्ते॑ दास्य॒न्तीति॑ ।
भट्टभास्कर-टीका
ततस्ते ब्राह्मणोक्तार्थानुष्ठानेन सुवर्गं लोकं यन्तः ये एषां तदात्वे पशव आसन् सहस्रसङ्खयाः तांस्ते सत्रान्ते दास्यन्ति स ते भाग इति पिता पुत्रमब्रवीत् ।
विश्वास-प्रस्तुतिः
तदे॑भ्योऽब्रवीत् ।
मूलम्
तदे॑भ्योऽब्रवीत् ।
भट्टभास्कर-टीका
स च पुत्रः तेभ्यः ब्राह्मणमब्रवीत् ।
विश्वास-प्रस्तुतिः
ते सु॑व॒र्गल्ँ लो॒कय्ँयन्तो॒ य ए॑षाम्प॒शव॒ आस॒न् तान॑स्मा अददुः ।
मूलम्
ते सु॑व॒र्गल्ँ लो॒कय्ँयन्तो॒ य ए॑षाम्प॒शव॒ आस॒न् तान॑स्मा अददुः ।
भट्टभास्कर-टीका
ते सुवर्गमित्यादि । गतम् । किं पुनस्तद्ब्राह्मणं । उच्यते - अवाप्यानि सन्तीति द्रप्सा अनुमन्त्रणीया अच्छावाक्यास्स्तोत्रियाश्शस्त्रियास्सत्यवदनश्रद्धाहोमादिनादिति[?] ॥
मूलम् (संयुक्तम्)
तम्प॒शुभि॒श्चर॑न्तय्ँ यज्ञवा॒स्तौ रु॒द्र आग॑च्छ॒त्सो॑ऽब्रवी॒न्मम॒ वा इ॒मे प॒शव॒ इत्यदु॒र्वै [30] मह्य॑मि॒मानित्य॑ब्रवी॒न्न वै तस्य॒ त ई॑शत॒ इत्य॑ब्रवी॒द्यद्य॑ज्ञवा॒स्तौ हीय॑ते॒ मम॒ वै तदिति॒ तस्मा॑द्यज्ञवा॒स्तु नाभ्य॒वेत्यँ॒ सो॑ऽब्रवीद्य॒ज्ञे मा भ॒जाथ॑ ते प॒शून्नाभि मँ॑स्य॒ इति॒ तस्मा॑ ए॒तम्म॒न्थिन॑स्सँस्रा॒वम॑जुहो॒त्ततो॒ वै तस्य॑ रु॒द्रᳶ प॒शून्नाभ्य॑मन्यत
विश्वास-प्रस्तुतिः
तम्प॒शुभि॒श्चर॑न्तय्ँ यज्ञवा॒स्तौ रु॒द्र आऽग॑च्छत् ।
सो॑ऽब्रवीत् ।
मम॒ वा इ॒मे प॒शव॒ इति॑ ।
मूलम्
तम्प॒शुभि॒श्चर॑न्तय्ँ यज्ञवा॒स्तौ रु॒द्र आऽग॑च्छत् ।
सो॑ऽब्रवीत् ।
मम॒ वा इ॒मे प॒शव॒ इति॑ ।
भट्टभास्कर-टीका
9तमित्यादि ॥ यज्ञवास्तौ यज्ञगृहे पशुभिस्सह चरन्तं रुद्र आगच्छत्, आगत्य चाब्रवीत् - मम स्वभूता इमे एते पशव इति ।
विश्वास-प्रस्तुतिः
अदु॒र्वै [30] मह्य॑मि॒मानित्य॑ब्रवीत् ।
मूलम्
अदु॒र्वै [30] मह्य॑मि॒मानित्य॑ब्रवीत् ।
भट्टभास्कर-टीका
अथादुर्वै मह्यमिमान् पशूनङ्गिरसः इति देवमब्रवीत् । मानवः अदुरिति वा । पदादित्वान्न निहन्यते ।
विश्वास-प्रस्तुतिः
न वै तस्य॒ त ई॑शत॒ इत्य॑ब्रवीत् ।
यद्य॑ज्ञवा॒स्तौ हीय॑ते ।
मूलम्
न वै तस्य॒ त ई॑शत॒ इत्य॑ब्रवीत् ।
यद्य॑ज्ञवा॒स्तौ हीय॑ते ।
भट्टभास्कर-टीका
अथ समाप्ते यागे तेषां पशूनां स्वामित्वं अङ्गिरसां नास्ति । ततोस्वामिदत्तैः कोर्थस्तवेति दर्शयितुं देव आह - न वा इति । यज्ञवास्तौ यद्धीयते कृतकार्यत्वात् यज्ञसाधनभावं हित्वा तिष्ठति तस्य ते नेशते स्वामिनो न भवन्ति । न केवलं पशूनामेव, अन्यस्यापि यस्य कस्यचित् यागोपयुक्तस्य नेश्वरा इति प्रतिपादयितुं यदित्युक्तम् ।
विश्वास-प्रस्तुतिः
मम॒ वै तदिति॑ ।
मूलम्
मम॒ वै तदिति॑ ।
भट्टभास्कर-टीका
कस्य तर्हि स्वं तदिति जिज्ञासायामाह - ममेति । कृतकार्यं तत्पूर्वभाविनो ममैव स्वमिति सिद्धमेवैतत् इति । यागार्थं प्रथमं पशवः पशुमध्यान्निष्क्रीयन्ते । यागोत्तरं तु पश्वन्तरसमानधर्मतां भजन्ते । उक्तं च - ‘अनु मन्यस्व सुयजा यजाम’ इति । त्वदनुमत्या हि पशोर्यागसाधनभावोपि भवतीति ।
विश्वास-प्रस्तुतिः
तस्मा॑द्यज्ञवा॒स्तु नाभ्य॒वेत्यम् ।
मूलम्
तस्मा॑द्यज्ञवा॒स्तु नाभ्य॒वेत्यम् ।
भट्टभास्कर-टीका
तस्मादित्यादि । यस्मादेवं तस्मात्स्वामिनोनुज्ञामन्तरेण यज्ञवास्तु नाभ्यवेत्यं न प्रवेष्टव्यं अहोरात्रावित्येवं यावदग्नयश्शीतास्स्युरित्येके । यावदेनमभिवर्षेदित्यपरे । यज्ञाङ्गभागो निषिद्ध्यते इत्येके । व्यतिरिक्तविषयमित्यन्ये । आहुश्च - ‘न यज्ञमतिव्रजेत्’ इति ।
विश्वास-प्रस्तुतिः
सो॑ऽब्रवीत् ।
य॒ज्ञे मा भ॒ज ।
मूलम्
सो॑ऽब्रवीत् ।
य॒ज्ञे मा भ॒ज ।
भट्टभास्कर-टीका
अथ सोब्रवीत् देवः यज्ञे मा भज येन केनचिद्धविषा मामाराधयन्नाश्रय ।
विश्वास-प्रस्तुतिः
अथ॑ ते प॒शून्नाभि मँ॑स्य॒ इति॑ ।
मूलम्
अथ॑ ते प॒शून्नाभि मँ॑स्य॒ इति॑ ।
भट्टभास्कर-टीका
अथ यदि तथा क्रियते ततस्ते पशून् त्वया लब्धान् पशून् नाभिमंस्ये न विनाशयिष्यामि मदीयानामेतल्लाभं सोढाऽस्मीति
विश्वास-प्रस्तुतिः
तस्मा॑ ए॒तम्म॒न्थिन॑स्सँस्रा॒वम॑जुहोत् ।
ततो॒ वै तस्य॑ रु॒द्रᳶ प॒शून्नाभ्य॑मन्यत ।
मूलम्
तस्मा॑ ए॒तम्म॒न्थिन॑स्सँस्रा॒वम॑जुहोत् ।
ततो॒ वै तस्य॑ रु॒द्रᳶ प॒शून्नाभ्य॑मन्यत ।
भट्टभास्कर-टीका
तस्मा इति । अजुहोत् अहावयत् ॥
विश्वास-प्रस्तुतिः
यत्रै॒तमे॒वव्ँवि॒द्वान्म॒न्थिन॑स्सँस्रा॒वञ्जु॒होति ।
न तत्र॑ रु॒द्रᳶ प॒शून॒भि म॑न्यते ॥ [31]
मूलम्
यत्रै॒तमे॒वव्ँवि॒द्वान्म॒न्थिन॑स्सँस्रा॒वञ्जु॒होति ।
न तत्र॑ रु॒द्रᳶ प॒शून॒भि म॑न्यते ॥ [31]
भट्टभास्कर-टीका
10यत्रैतमित्यादि ॥ गतम् ॥
इति तृतीये प्रथमे नवमोनुवाकः ॥