२-४ त्रिष्टुप् विश्वेदेवा ऋषयः ।
मूलम् (संयुक्तम्)
नि॒ग्रा॒भ्याः॑ स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत प्रा॒णम्मे॑ तर्पयतापा॒नम्मे॑ तर्पयत व्या॒नम्मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्र॑म्मे तर्पयत॒ मनो॑ मे तर्पयत॒ वाच॑म्मे तर्पयता॒त्मान॑म्मे तर्पय॒ताङ्गा॑नि मे तर्पयत प्र॒जाम्मे॑ तर्पयत प॒शून्मे॑ तर्पयत गृ॒हान्मे॑ तर्पयत ग॒णान्मे॑ तर्पयत स॒र्वग॑णम्मा तर्पयत त॒र्पय॑त मा [23] ग॒णा मे॒ मा वि तृ॑ष॒न्नोष॑धयो॒ वै सोम॑स्य॒ विशो॒ विश॒ᳵ खलु॒ वै राज्ञ॒ᳶ प्रदा॑तोरीश्व॒रा ऐ॒न्द्रस्सोमः
विश्वास-प्रस्तुतिः
नि॒ग्रा॒भ्याः॑ स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत ।
प्रा॒णम्मे॑ तर्पयत।
अ॒पा॒नम्मे॑ तर्पयत ।
मूलम्
नि॒ग्रा॒भ्याः॑ स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत ।
प्रा॒णम्मे॑ तर्पयत।
अ॒पा॒नम्मे॑ तर्पयत ।
भट्टभास्कर-टीका
1निग्राभ्यासु यजमानं वाचयति - निग्राभ्यास्स्थेति ॥ निगृह्यते नियमेन गृह्यते सोम आभिरिति निग्राह्याः । ‘कृत्यल्युटो बहुलम्’ इति करणे कृत्यः, ‘हृग्रहोर्भः’ इति भत्वम् । हे आपः निग्रग्भ्याः स्थ । देवश्रुतः देवैश्श्रूयते इति कर्मणि क्विप् । देवानामपि सदसि प्रख्याता इत्यर्थः । ता यूयं मे मम आयुस्तर्पयत वर्धयत । सर्वं निगदसिद्धम् । ण्यन्तात्पचाद्यच्, ‘पुंसि संज्ञायाम्’ इति वा घः । ते प्राणादयः । णेश्च लुक् ।
विश्वास-प्रस्तुतिः
व्या॒नम्मे॑ तर्पयत ।
चक्षु॑र्मे तर्पयत ।
श्रोत्र॑म्मे तर्पयत ।
मनो॑ मे तर्पयत ।
वाच॑म्मे तर्पयत ।
मूलम्
व्या॒नम्मे॑ तर्पयत ।
चक्षु॑र्मे तर्पयत ।
श्रोत्र॑म्मे तर्पयत ।
मनो॑ मे तर्पयत ।
वाच॑म्मे तर्पयत ।
भट्टभास्कर-टीका
व्यानमिति । छान्दसं दीर्घत्वम् ।
विश्वास-प्रस्तुतिः
आ॒त्मान॑म्मे तर्पयत ।
अङ्गा॑नि मे तर्पयत ।
प्र॒जाम्मे॑ तर्पयत ।
प॒शून्मे॑ तर्पयत ।
गृ॒हान्मे॑ तर्पयत ।
ग॒णान्मे॑ तर्पयत ।
मूलम्
आ॒त्मान॑म्मे तर्पयत ।
अङ्गा॑नि मे तर्पयत ।
प्र॒जाम्मे॑ तर्पयत ।
प॒शून्मे॑ तर्पयत ।
गृ॒हान्मे॑ तर्पयत ।
ग॒णान्मे॑ तर्पयत ।
भट्टभास्कर-टीका
आत्मानं शरीरम् । गणास्सम्बन्धिनो मित्रादयः ।
विश्वास-प्रस्तुतिः
स॒र्वग॑णम्मा तर्पयत ।
मूलम्
स॒र्वग॑णम्मा तर्पयत ।
भट्टभास्कर-टीका
सर्वगणं सवैर्गणैस्संवृतम् ।
विश्वास-प्रस्तुतिः
त॒र्पय॑त मा ग॒णाः।
मूलम्
त॒र्पय॑त मा ग॒णाः।
भट्टभास्कर-टीका
कि बहुना - मां सर्वदा तर्पयत । तिङः परत्वान्न निहन्यते ।
विश्वास-प्रस्तुतिः
मे॒ मा वि तृ॑ष॒न् ।
मूलम्
मे॒ मा वि तृ॑ष॒न् ।
भट्टभास्कर-टीका
किं च - मे गणाः मा वितृषन् वितृष्णा मा भूवन् सस्नेहा एव नित्यं भूयासुः । पुषादित्वादङ् ॥
मूलम् (संयुक्तम्)
ओष॑धयो॒ वै सोम॑स्य॒ विशो॒ , विश॒ᳵ खलु॒ वै राज्ञ॒ᳶ प्रदा॑तोरीश्व॒रा ऐ॒न्द्रस्सोमः।
अवी॑वृधव्ँवो॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद्व॑स्स्याम । इन्द्रे॑ण दे॒वीर्वी॒रुध॑स्सव्ँविदा॒ना अनु॑ मन्यन्ताँ॒ सव॑नाय॒ सोम॒मित्या॒हौष॑धीभ्य ए॒वैनँ॒ स्वायै॑ वि॒शस्स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति
विश्वास-प्रस्तुतिः
ओष॑धयो॒ वै सोम॑स्य॒ विशो॒ ,
विश॒ᳵ खलु॒ वै राज्ञ॒ᳶ प्रदा॑तोरीश्व॒राः
मूलम्
ओष॑धयो॒ वै सोम॑स्य॒ विशो॒ ,
विश॒ᳵ खलु॒ वै राज्ञ॒ᳶ प्रदा॑तोरीश्व॒राः
भट्टभास्कर-टीका
2अभिप्रोष्यन् ओषधीभ्यो राजानं निर्याचते - अवीवृधं व इति त्रिष्टुभा । तस्येदं प्रथममेव ब्राह्मणम् - ओषधयो वा इत्यादि ॥ सोमस्य राज्ञः ओषधयो विशः प्रकृतयः । राज्ञश्च प्रदातोः राजानं प्रदातुं विशः खलु ईश्वरास्समर्थाः । तस्य तदधीनयोगक्षेमत्वात् । ‘इर्श्वरे तोसुन्कसुनौ’ इति तोसुन् । ‘क्रियाग्रहणं कर्तव्यम्’ इति कर्मणस्सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी । यथा - ‘समुद्रस्य न पिबन्ति’ इति । ‘न लोकाव्यय’ इति कर्मणि षष्ठ्या न प्रस्तीषेधः । ‘तोसुन्कसुनोरप्रतिषेधः’ इति वचनात् ।
विश्वास-प्रस्तुतिः
ऐ॒न्द्रस्सोमः॑ ।
मूलम्
ऐ॒न्द्रस्सोमः॑ ।
भट्टभास्कर-टीका
किं च - सोमोयमैन्द्रः इन्द्रदेवत्यः । तस्मात् ‘अवीवृधम्’ इत्यादिकामृचं यदाह सोमं याचमानं तेनौषधीभ्य एनं निर्याच्य निष्कृष्य याचित्वा अभिषुणोति । कीदृशीभ्यः? स्वायै विशः आत्मीयाभ्यः प्रकृतिभ्यः । व्यत्ययेनैकवचनं चतुर्थी च ।
किं च - स्वायै देवतायै आत्मीयायाश्च देवतायाः इन्द्रात् एनं निर्याच्याभिषुणोतीति ।
विश्वास-प्रस्तुतिः
अवी॑वृधव्ँवो॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद्व॑स्स्याम ।
इन्द्रे॑ण दे॒वीर्वी॒रुध॑स्सव्ँविदा॒ना अनु॑ मन्यन्ताँ॒ सव॑नाय॒ सोम॑म् ॥
इत्या॒ह ।
औष॑धीभ्य ए॒वैनँ॒ स्वायै॑ वि॒शस्स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति ।
मूलम्
अवी॑वृधव्ँवो॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद्व॑स्स्याम ।
इन्द्रे॑ण दे॒वीर्वी॒रुध॑स्सव्ँविदा॒ना अनु॑ मन्यन्ताँ॒ सव॑नाय॒ सोम॑म् ॥
इत्या॒ह ।
औष॑धीभ्य ए॒वैनँ॒ स्वायै॑ वि॒शस्स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति ।
भट्टभास्कर-टीका
मन्त्रार्थस्तु - अवीवृधं वर्धयामि वः युष्मान् मनसा हे ओषधयः । छान्दसो लुङ्, ‘उर्ऋत्’ इत्युपधाया ऋकारः । हे सुजाताः शोभनजन्मानः सर्वलोकहितार्थं जातत्वात् । हे ऋतप्रजाताः ऋतार्थं यज्ञार्थं प्रकृष्टं जन्म यासां तादृश्यः । आनुषङ्गिको हि लोकोपकारो भवतीनामिति भावः । पदादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वम् । वः युष्माकं भग इत् भजने एव सदा स्याम । यद्वा - युष्मत्सम्बन्धिनि यद्धने भगे कर्मणि फललक्षणे ऐश्वर्ये स्याम सर्वे वयमृत्विग्यजमानाः प्रवर्तेमहि । तदर्थं किं कुर्म इति चेत् उच्यते - देव्यः देवनवत्यो भगवत्यः । पूर्ववत्पूर्वसवर्णदीर्घत्वम् । वीरुधः विविधं रोहन्त्यः । यद्वा - भगवत्यश्च वीरुधो लतादयश्च सर्वा इन्द्रेण संविदानाः प्रत्येकमिन्द्रेणैकमत्यं गताः । ‘समो गमृच्छि’ इत्यात्मनेपदम् । सवनाय यज्ञाय सोममनुमन्यन्तां यथा वयं भवतीभिः स्वयूध्याभिः इन्द्रेण च स्वामिना सहिताभिः अनुज्ञाताः कर्मणि स्याम तथाऽनुमन्यन्तां सोममिति ॥
मूलम् (संयुक्तम्)
यो वै सोम॑स्याभिषू॒यमा॑णस्य [24] प्र॒थ॒मोऽँ॑शुस्स्कन्द॑ति॒ स ई॑श्व॒र इ॑न्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्यज॑मानस्य॒ निर्ह॑न्तो॒स्तम॒भि म॑न्त्रये॒ता मा॑स्कान्त्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑णेन्द्रि॒यम्मे॑ वी॒र्य॑म्मा निर्व॑धी॒रित्या॒शिष॑मे॒वैतामा शा॑स्त इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नामनि॑र्घाताय
विश्वास-प्रस्तुतिः
यो वै सोम॑स्याभिषू॒यमा॑णस्य [24] प्र॒थ॒मोऽँ॑शुस्स्कन्द॑ति ।
स ई॑श्व॒रः ।
इ॑न्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्यज॑मानस्य॒ निर्ह॑न्तोः ।
मूलम्
यो वै सोम॑स्याभिषू॒यमा॑णस्य [24] प्र॒थ॒मोऽँ॑शुस्स्कन्द॑ति ।
स ई॑श्व॒रः ।
इ॑न्द्रि॒यव्ँवी॒र्य॑म्प्र॒जाम्प॒शून्यज॑मानस्य॒ निर्ह॑न्तोः ।
भट्टभास्कर-टीका
3यो वा इत्यादि ॥ अभिषूयमाणस्य अभिषवे क्रियमाणे सोमस्य यः प्रथमोंशुः स्कन्दति निपतति स यजमानस्य इन्द्रियं चक्षुरादिकं वीर्यं बलं प्रजां पुत्रादिकां पशूंश्च गवादींश्च निर्हन्तोः निष्कृष्य हन्तुमीश्वरस्समर्थस्स्यात् । पूर्ववत्तोसुन् ।
विश्वास-प्रस्तुतिः
तम॒भि म॑न्त्रये॒त
आमा॑स्कान्त्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑णेन्द्रि॒यम्मे॑ वी॒र्य॑म्मा निर्व॑धीः
इत्या॒शिष॑मे॒वैतामा शा॑स्ते ।
मूलम्
तम॒भि म॑न्त्रये॒त
आमा॑स्कान्त्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑णेन्द्रि॒यम्मे॑ वी॒र्य॑म्मा निर्व॑धीः
इत्या॒शिष॑मे॒वैतामा शा॑स्ते ।
भट्टभास्कर-टीका
तस्मात्तत्परिहारार्थं तत्प्रथमं स्कन्नं अंशुमभिमन्त्रयते - आ माऽस्कानिति । मां अस्कान् आगतोसि सह प्रजया सह च रायो धनस्य पशुलक्षणस्य पोषेण पुष्ट्या । इत्थमभ्युदयायैव मदाभिमुख्येन अस्कान् हे अंशो । ‘ऊडिदम्’ इति रायष्षष्ठ्या उदात्तत्वं, ‘षष्ठ्याः पतिपुत्र’ इत्यादिना विसर्जनीयस्य सकारः । स त्वं मयीन्द्रियं वीर्यं च मा निर्वधीः । यद्वा - ‘अस्कान्’ इति लोडर्थे छान्दसो लुत् ।
विश्वास-प्रस्तुतिः
इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नामनि॑र्घाताय ।
मूलम्
इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ पशू॒नामनि॑र्घाताय ।
भट्टभास्कर-टीका
सह प्रजया सह रायस्पोषेण मामास्कन्द आगच्छेति । ‘वदव्रज’ इति वृद्धिः, ‘बहुलं छन्दसि’ इतीडभावः संयागोन्तलोपः । अनेन मन्त्रेण, ‘आ माऽस्कान्’ ‘मा निर्वधीः’ इत्येतामाशिषमाशास्ते इन्द्रियादीनामनिर्घाताय तद्भवति ॥
विश्वास-प्रस्तुतिः
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
तृ॒तीयय्ँ॒योनि॒मनु॑ स॒ञ्चर॑न्तन्द्र॒प्सञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥ [25]
मूलम्
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
तृ॒तीयय्ँ॒योनि॒मनु॑ स॒ञ्चर॑न्तन्द्र॒प्सञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः॑ ॥ [25]
भट्टभास्कर-टीका
4द्रप्साननुमन्त्रयते - द्रप्सश्चस्कन्देति त्रिष्टुभा ॥ द्राणेन प्सानीयो भक्षणीयस्सर्वैरत्यल्पत्वाद्द्रप्सः । इदृशो रसः पृथिवीमनु चस्कन्द, द्यामन्तरिक्षं वाऽनु चस्कन्द स्कन्नः रसभावेन प्रविष्टः । अधुना तस्य स्कन्नस्य इत्थं परिणामं करोमीति दर्शयितुमाह - तद्द्रप्समिमं पृथिव्याख्ययोनिस्थानीयं अनु अनन्तरं यः पूर्वः पूर्वस्यामृच्यव्यवहितः द्यामिति च पुनरन्तरिक्षाख्या योनिः तं च तृतीयं चादित्यात्मकं योनिं एवं त्रीनपि लोकाननु सञ्चरन्तं अनुक्रमेणाहुतिभावेन सञ्चरन्तम् । ‘अग्नै प्रास्ताहुतिस्सम्यगादित्यमुपतिष्ठते’ इति प्रथममादित्ये सञ्चरन्तं, ‘आदित्याज्जायते वृष्टिः’ इत्यनन्तरमन्तरिक्षे सञ्चरन्तं, ‘वृष्टेरन्नम्’ इति पृथिव्यां सञ्चरन्तं, ‘ततः प्रजाः’ इत्यनेन क्रमेण अनुसंचरन्तं द्रप्सं जुहोमि हुतमिव प्रतिष्ठापयामि नासौ विनष्ट इत्यग्नौ हुतमिवैतत्करोमीति । ननु पृथिव्यामन्तरिक्षे वा वृधा निपतितः इति मन्तव्य इति क्वावस्थाप्यते - सप्त होत्राः अनुवषट्कर्तारो होत्रादयस्सप्त होत्राः तासु स्थापयामि यथाहुत इवायमनष्टो भवति । यद्वा - सप्त होत्राः सप्तदिशः स्कन्नव्यतिरिक्ताः तासु सर्वास्विमं जुहोमि हुतमिव लोकानां स्थितये स्थापयामि । लक्षणेऽर्थे अनोः कर्मप्रवचनीयत्वम् ॥
इति तृतीये प्रथमे अष्टमोनुवाकः ॥