विश्वेदेवा ऋषयः।
विश्वास-प्रस्तुतिः
इ॒ष्टर्गो॒ वा अ॑ध्व॒र्युर्यज॑मानस्य ।
मूलम्
इ॒ष्टर्गो॒ वा अ॑ध्व॒र्युर्यज॑मानस्य ।
भट्टभास्कर-टीका
1इष्टर्ग इत्यादि ॥ यागेन निमित्तेनार्तेः प्रयोजयिता इष्टर्गः अध्वर्युः यजमानस्य । पृषोदरादिः । यजेरिष्टिः, ऋच्छतेरर्गः । प्रमादालस्यादिना अध्वर्योरपचारेण तन्निमित्तेन वा परापचारादिना यजमानस्यार्तिमार्छति इष्टर्गः इत्येतदुक्तं भवतीत्याचार्याः । दर्वीस्थानीय इत्येके ।
विश्वास-प्रस्तुतिः
इ॒ष्टर्ग॒ᳵ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यते ।
मूलम्
इ॒ष्टर्ग॒ᳵ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यते ।
भट्टभास्कर-टीका
भवतु इष्टर्गस्य का क्षतिरिति चेदाह – इष्टर्गो हि अर्ष्टुः आर्तिं गच्छतः पूर्वः क्षीयते प्रथममेव आर्तिं गच्छति; तन्निबन्धनत्वादार्तेः । ऋच्छतेस्तुः, षकारोपजनः छान्दसः ।
विश्वास-प्रस्तुतिः
आ॒स॒न्या॑न्मा मन्त्रा॑त्पाहि ।
कस्या॑श्चिद॒भिश॑स्त्या॒ इति॑ ।
मूलम्
आ॒स॒न्या॑न्मा मन्त्रा॑त्पाहि ।
कस्या॑श्चिद॒भिश॑स्त्या॒ इति॑ ।
भट्टभास्कर-टीका
तस्मादध्वर्युणा आत्मनश्शर्मणे यत्कर्तव्यम् । तद्विदधाति - आसन्यादिति ।
विश्वास-प्रस्तुतिः
पु॒रा प्रा॑तरनुवा॒काज्जु॑हुयात् ।
मूलम्
पु॒रा प्रा॑तरनुवा॒काज्जु॑हुयात् ।
भट्टभास्कर-टीका
महारात्र उत्थाय पुरा पुरस्तात्प्रातरनुवाकात् आग्नीध्रीये अनेन मन्त्रेण जुहुयात् ।
विश्वास-प्रस्तुतिः
आ॒त्मन॑ एव॒ तद॑ध्व॒र्युᳶ पु॒रस्ता॒च्छर्म॑ नह्य॒तेऽना॑र्त्यै ।
मूलम्
आ॒त्मन॑ एव॒ तद॑ध्व॒र्युᳶ पु॒रस्ता॒च्छर्म॑ नह्य॒तेऽना॑र्त्यै ।
भट्टभास्कर-टीका
ततोध्वर्युरात्मन एवार्थं पुरस्तात् शर्म सुखं आर्त्यभावं नह्यते बध्नाति करोतीत्यर्थः, तद्यजमानस्याप्यनार्त्यै भवतीति । मन्त्नार्थस्तु - आसन्यात् आस्ये भवान्मन्त्रात् अभिचारमन्त्रात् । यद्वा - शापादिस्वरूपात् । आनुपूर्व्या व्याहरणेन वा आसन्यो मन्त्रः इत्याचार्याः ।
कस्याश्चित् कुतश्चित् अभिशस्त्या अभिशंसनात् पापात् मा पाहि । ‘तादौ च’ इति गतेः प्रकृतिस्वरत्वम् । आस्यशब्दस्य छान्दस आसन्भावः । अथ वै भवति यो वै छन्दोभिरभिभवति संसुन्वतोरभिभवतीति परस्परस्पर्धया कृतः संवादो विद्विषाणयोरेव एककाले यष्ट्रोः ; न पितापुत्रादीनाम् । अतः परमान्तादनुवाकस्य तद्विषया मन्त्रा ब्राह्मणानि च ॥
मूलम् (संयुक्तम्)
सव्ँवे॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒यास्त्रि॒ष्टुभो॒ जग॑त्या अ॒भिभू॑त्यै॒ स्वाहा
विश्वास-प्रस्तुतिः
सव्ँ॒वे॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒याः +++(अ॒भिभू॑त्यै॒ स्वाहा॑ )+++
+++(सव्ँ॒वे॒शाय॑ त्वोपवे॒शाय॑ त्वा )+++ त्रि॒ष्टुभो॒ +++(अ॒भिभू॑त्यै॒ स्वाहा॑ )+++
+++(सव्ँ॒वे॒शाय॑ त्वोपवे॒शाय॑ त्वा )+++ जग॑त्या अ॒भिभू॑त्यै॒ स्वाहा॑
मूलम्
सव्ँ॒वे॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒याः +++(अ॒भिभू॑त्यै॒ स्वाहा॑ )+++
+++(सव्ँ॒वे॒शाय॑ त्वोपवे॒शाय॑ त्वा )+++ त्रि॒ष्टुभो॒ +++(अ॒भिभू॑त्यै॒ स्वाहा॑ )+++
+++(सव्ँ॒वे॒शाय॑ त्वोपवे॒शाय॑ त्वा )+++ जग॑त्या अ॒भिभू॑त्यै॒ स्वाहा॑
भट्टभास्कर-टीका
2-4तत्र संसुन्वतोर्यथा य इतरमभिभूषति स महारात्र उत्थायाग्नीध्रे तिस्रोभिभूतीर्जुहोति - संवेशाय त्वेत्यादिभिः ॥ संवेशः शयनं उपवेशः आसनम् । तदर्थं गायत्र्या अभिभूत्यै । यया गायत्र्या विश्वमभिभवति तस्यै तदर्थम् । तद्वदहमपि प्रतिपक्षमभिभूयासम् । त्वां स्वाहुतं करोमीति । एवं त्रिष्टुब्जगत्योरपि । उभयत्रापि ‘संवेशाय त्वा’ इत्यादिकमनुषज्यते । संवेशाय त्वोपवेशाय त्वा त्रिष्टुभोभिभूत्यै स्वाहा संवेशाय त्वोपवेशाय त्वा जगत्या अभिभूत्यै स्वाहा इति ॥
विश्वास-प्रस्तुतिः
प्राणा॑पानौ मृ॒त्योर्मा॑ पातम् ।
मूलम्
प्राणा॑पानौ मृ॒त्योर्मा॑ पातम् ।
भट्टभास्कर-टीका
5-6अथ द्वे प्राणाहुती जुहोति - प्राणापानावित्यादि ॥ हे प्राणापानौ मा मृत्योः मरणात् पातं रक्षतम् ।
विश्वास-प्रस्तुतिः
प्राणा॑पानौ॒ मा मा॑ हासिष्टम् ।
मूलम्
प्राणा॑पानौ॒ मा मा॑ हासिष्टम् ।
भट्टभास्कर-टीका
हे प्राणापानौ मा मा हासिष्टं त्यक्त्वा मां मा गच्छतम् । ‘यमरमनमाताम्’ इति सगिटौ ॥
मूलम् (संयुक्तम्)
दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयोः॑ [20] व्याय॑च्छन्ते॒ येषाँ॒ सोम॑स्समृ॒च्छते॑
विश्वास-प्रस्तुतिः
दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयो॒र्व्याय॑च्छन्ते ।
मूलम्
दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयो॒र्व्याय॑च्छन्ते ।
भट्टभास्कर-टीका
7अनयोर्मन्त्रयोर्ब्राह्मणम् - देवतास्वित्यादि ॥ एते खलु देवतासु प्राणापानयोः प्राणापाननिमितं व्यायच्छन्ते विप्रतिपद्यन्ते ममैतौ स्यातामिति । अकर्मसंयोगेऽपि हि सप्तमी दृश्यते यथा - ‘तस्यै पयसि व्यायच्छन्त’ इति ।
विश्वास-प्रस्तुतिः
येषाँ॒ सोम॑स्समृ॒च्छते॑ ।
मूलम्
येषाँ॒ सोम॑स्समृ॒च्छते॑ ।
भट्टभास्कर-टीका
येषां सोमः समृच्छते संगच्छते स्पर्धया सोमान्तरेण सह सूयते । यद्वा - समृच्छते विनश्यति सोमान्तरेण संसर्गात् । ‘समो गमृच्छि’ इत्यात्मनेपदम् । यमेस्तु ‘आङो यमहनः’ इति तस्मादनेन मन्त्रेण प्राणापानयोरात्मनो लाभं प्रार्थयतः इति भावः ॥
मूलम् (संयुक्तम्)
सव्ँवे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह॒ छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शश्छन्दो॑भिरे॒वास्य॒ छन्दाँ॑सि वृङ्क्ते
विश्वास-प्रस्तुतिः
सव्ँवे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह ।
छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शः । ,
मूलम्
सव्ँवे॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह ।
छन्दाँ॑सि॒ वै सव्ँ॑वे॒श उ॑पवे॒शः । ,
भट्टभास्कर-टीका
8अथ संवेशायेत्यादीनामभिभूतिमन्त्राणां ब्राह्मणम् - संवेशाय त्वेत्यादि ॥ तद्धेतुत्वात्ताच्छब्द्यम् । छन्दांसि वै संवेश उपवेश इति । संवेशोपवेशहेतवः छन्दांसीत्यर्थः ।
विश्वास-प्रस्तुतिः
छन्दो॑भिरे॒वास्य॒ छन्दाँ॑सि वृङ्क्ते ।
मूलम्
छन्दो॑भिरे॒वास्य॒ छन्दाँ॑सि वृङ्क्ते ।
भट्टभास्कर-टीका
तस्मादीदृशैश्छन्दोभिः प्रथममेवाभिभूतिहोमेन आत्मसात्कृतैः कृतकृत्यः केन चिदनभिभवनीयः सुखी सम्पन्नोयं अस्य प्रतियष्टुस्सम्बन्धीनि छन्दांसि वृङ्क्ते वर्जयति तत्सकाशादपनयति ततः सोभिभूतो भवतीति । एवमेकयाजिनः ।
सत्रिणां तु पञ्चाभिभूतीर्विधास्यति - संवेशाय त्वोपवेशाय त्वा गायत्रियास्त्रिष्टुभो जगत्या अनुष्टुभः पङ्क्त्या अभिभूत्यै स्वाहा इति ॥
मूलम् (संयुक्तम्)
प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै म॒रुत्व॑तीᳶ प्रति॒पदो॒ विजि॑त्या उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः
विश्वास-प्रस्तुतिः
प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै ।
मूलम्
प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै ।
भट्टभास्कर-टीका
9संसुन्वतोरध्वर्यूणामुक्तम् । अथ छन्दोगानां विषय एवेदमुच्यते - प्रेतिवन्तीति ॥ प्रेतिवन्ति चैतिवन्ति चेत्याचार्याः, ब्राह्मणान्तरे दर्शनात् ‘एतिवन्ति’ इति । आज्यानि स्तोत्राणि प्रेतिवन्ति प्रगमनवन्ति, एतिवन्ति आगमनवन्ति च भवन्ति ‘प्र वोवाजाः’ , ‘अग्न आ याहि’ इति यथा । प्रकृष्टगत्यन्वयादभिजित्यै आभिमुख्येन जयाय भवति । यद्वा - प्रथममेव योभिजयस्तत्सिद्ध्यै भवति ।
विश्वास-प्रस्तुतिः
म॒रुत्व॑तीᳶ प्रति॒पदो॒ विजि॑त्यै ।
मूलम्
म॒रुत्व॑तीᳶ प्रति॒पदो॒ विजि॑त्यै ।
भट्टभास्कर-टीका
मरुत्वतीरिति । आज्यानां प्रतिपादः प्रथमा ऋचः मरुत्त्वतीः मरुत्त्वत्यः मरुच्छब्दवत्यो भवन्ति यथा ‘इन्द्रायेन्द्रो मरुत्त्वते’ इत्याद्याः । ‘तसौ मत्वर्थे’ इति भत्वम् । ‘वा छन्दसि’ इति पूर्वसवर्णदीर्घत्वम् । ‘मरुतो वै देवानामपराजितमायतनम्’ इति प्रतिपत्सु मरुदन्वयः विजित्यै विशेषेण जयाय भवति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ।
विश्वास-प्रस्तुतिः
उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः ।
मूलम्
उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः ।
भट्टभास्कर-टीका
उभे इति । उभे अपि बृहद्रथन्तरे सामनी भवतः ॥
मूलम् (संयुक्तम्)
इ॒यव्ँ वाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒वैन॑म॒न्तरे॑त्य॒द्य वाव र॑थन्त॒रँ श्वो बृ॒हद॑द्या॒श्वादे॒वैन॑म॒न्तरे॑ति भू॒तम् [21] वाव र॑थन्त॒रम्भ॑वि॒ष्यद्बृ॒हद्भू॒ताच्चै॒वैन॑म्भविष्य॒तश्चा॒न्तरे॑ति॒ परि॑मितव्ँ॒ वाव र॑थन्त॒रमप॑रिमितम्बृ॒हत्परि॑मिताच्चै॒वैन॒मप॑रिमिताच्चा॒न्तरे॑ति
विश्वास-प्रस्तुतिः
इ॒यव्ँ वाव र॑थन्त॒रम् , अ॒सौ बृ॒हद् ,
आ॒भ्यामे॒वैन॑म॒न्तरे॑ति ।
मूलम्
इ॒यव्ँ वाव र॑थन्त॒रम् , अ॒सौ बृ॒हद् ,
आ॒भ्यामे॒वैन॑म॒न्तरे॑ति ।
भट्टभास्कर-टीका
10अथ ते प्रशंसति - इयमित्यादि ॥ इयं पृथिवी रथन्तरं, असौ द्यौः बृहत्, तस्मादीदृशे उभे अपि सामनी गायेत् । आभ्यां द्यावापृथिवीभ्यां एनं शत्रुमन्तरेति अन्तरितं करोति आभ्यां प्रच्यावयति । यागनिर्वृत्तिद्वारेण द्यावापृथिव्यादीनां प्रवृत्तिहेतुत्वात् तादात्म्येन स्तुतिः । अद्याश्वादस्मादह्नः उत्तरस्मादह्नश्चेत्यर्थः ।
विश्वास-प्रस्तुतिः
अ॒द्य वाव र॑थन्त॒रँ श्वो बृ॒हद॑द्या॒श्वादे॒वैन॑म॒न्तरे॑ति
भू॒तम् वाव र॑थन्त॒रम् ,
भ॑वि॒ष्यद्बृ॒हद् ,
भू॒ताच्चै॒वैन॑म्भविष्य॒तश्चा॒न्तरे॑ति ।
मूलम्
अ॒द्य वाव र॑थन्त॒रँ श्वो बृ॒हद॑द्या॒श्वादे॒वैन॑म॒न्तरे॑ति
भू॒तम् वाव र॑थन्त॒रम् ,
भ॑वि॒ष्यद्बृ॒हद् ,
भू॒ताच्चै॒वैन॑म्भविष्य॒तश्चा॒न्तरे॑ति ।
भट्टभास्कर-टीका
अद्य च श्वश्च अद्याश्वम् । ‘अच्’ इति योगविभागादच्समासान्तः, अव्ययानां भमात्रे टिलोपः, ‘अन्येषामपि दृश्यते’ इति पूर्वपदस्य दीर्घत्वम् ।
विश्वास-प्रस्तुतिः
परि॑मितव्ँ॒ वाव र॑थन्त॒रम्, अप॑रिमितम्बृ॒हत् ,
परि॑मिताच्चै॒वैन॒मप॑रिमिताच्चा॒न्तरे॑ति ।
मूलम्
परि॑मितव्ँ॒ वाव र॑थन्त॒रम्, अप॑रिमितम्बृ॒हत् ,
परि॑मिताच्चै॒वैन॒मप॑रिमिताच्चा॒न्तरे॑ति ।
भट्टभास्कर-टीका
परिमितात् देशादेः । इति छन्दोगानाम् ॥
मूलम् (संयुक्तम्)
विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेताँ॒ स ए॒तज्ज॒मद॑ग्निर्विह॒व्य॑मपश्य॒त्तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यव्ँवी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्यँ॑ श॒स्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒
विश्वास-प्रस्तुतिः
वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी वसि॑ष्ठेनास्पर्धेताम् ।
स ए॒तज्ज॒मद॑ग्निर्विह॒व्य॑मपश्यत् ।
तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यव्ँवी॒र्य॑मवृङ्क्त ।
यद्वि॑ह॒व्यँ॑ श॒स्यते॑ ।
इ॒न्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
मूलम्
वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी वसि॑ष्ठेनास्पर्धेताम् ।
स ए॒तज्ज॒मद॑ग्निर्विह॒व्य॑मपश्यत् ।
तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यव्ँवी॒र्य॑मवृङ्क्त ।
यद्वि॑ह॒व्यँ॑ श॒स्यते॑ ।
इ॒न्द्रि॒यमे॒व तद्वी॒र्यय्ँ॑यज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते ।
भट्टभास्कर-टीका
11अथ होतॄणाम् - विश्वामित्रजमदग्नी इति ॥ वीर्यनिमित्तं स्पर्धां कृतवन्तौ । तत्र जमदग्निवसिष्ठयोः स्पर्धया संसुन्वतोः जमदग्निः एतद्विहव्यं अपश्यत् अस्त्रविशेषो विहव्यम् । ‘अगस्त्यस्य कयाशुभीयं शस्यम्’ इत्याचार्याः, ब्राह्मणान्तरे दर्शनात् । तत्र ‘सजनीयं’ सजनशब्दवन्मन्त्रो भवति । विहवे साधु विहव्यम् इति । निष्केवल्ये ‘इन्द्रस्य नु वीर्याणि’ इत्यस्य स्थाने ‘यो जात एव’ इति भवति । ‘कयाशुभीयं’ कयाशुभाशब्दवत् मरुत्वतीये ‘कया शुभा सवयसस्सनीळाः’ इति । इति होतॄणाम् ॥
मूलम् (संयुक्तम्)
यस्य॒ भूयाँ॑सो यज्ञक्र॒तव॒ इत्या॑हु॒स्स दे॒वता॑ वृङ्क्त॒ इति॒ यद्य॑ग्निष्टो॒मस्सोमᳶ॑ प॒रस्ता॒त्स्यादु॒क्थ्य॑ङ्कुर्वीत॒ यद्यु॒क्थ्य॑स्स्याद॑तिरा॒त्रङ्कु॑र्वीत यज्ञक्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते॒ वसी॑यान्भवति ॥ [22]
विश्वास-प्रस्तुतिः
यस्य॒ भूयाँ॑सो यज्ञक्र॒तव॒ इत्या॑हुः , स दे॒वता॑ वृङ्क्त॒ इति॑ ।
मूलम्
यस्य॒ भूयाँ॑सो यज्ञक्र॒तव॒ इत्या॑हुः , स दे॒वता॑ वृङ्क्त॒ इति॑ ।
भट्टभास्कर-टीका
12यस्येत्यादि ॥ यज्ञक्रतवः सोमयागाः भूयांसो बहुतराः महत्तराः । एतदुक्तं भवति - यस्य आत्मियः क्रतुः परकीयात्क्रतोर्भूयान्भवति स भूयःक्रतुः अल्पीयःक्रतोः देवता वृङ्क्ते इत्याहुः यज्ञविदः ॥
विश्वास-प्रस्तुतिः
यद्य॑ग्निष्टो॒मस्सोमᳶ॑ प॒रस्ता॒त्स्यादु॒क्थ्य॑ङ्कुर्वीत ।
मूलम्
यद्य॑ग्निष्टो॒मस्सोमᳶ॑ प॒रस्ता॒त्स्यादु॒क्थ्य॑ङ्कुर्वीत ।
भट्टभास्कर-टीका
13तस्माद्यदि अग्निष्टोमः सोमः परस्तात्स्यात् परत्र प्रतियष्टरि स्यात् यद्यसावग्निष्टोमं कुर्यात् स्वयमुक्थ्यं ततो भूयांसं कुर्वीत ।
विश्वास-प्रस्तुतिः
यद्यु॒क्थ्य॑स्स्याद॑तिरा॒त्रङ्कु॑र्वीत ।
मूलम्
यद्यु॒क्थ्य॑स्स्याद॑तिरा॒त्रङ्कु॑र्वीत ।
भट्टभास्कर-टीका
अथ यद्युक्थ्यस्सोमः परस्तात्स्यात् स्वयं ततो भूयांसं अतिरार्त्रं कुर्वीत ।
विश्वास-प्रस्तुतिः
य॒ज्ञ॒क्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते ।
मूलम्
य॒ज्ञ॒क्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते ।
भट्टभास्कर-टीका
एवं यज्ञक्रतुभिरपि कृतैरेवास्य प्रतियष्टुः देवता वृङ्क्ते ततस्स देवताभिहीनो भवति ।
विश्वास-प्रस्तुतिः
वसी॑यान्भवति ॥
मूलम्
वसी॑यान्भवति ॥
भट्टभास्कर-टीका
स्वयन्तु देवतावत्तया वसीयान् भवति वसुमत्तरो भवति । ‘विन्मतोर्लुक्’, ‘टेः’ इति टिलोपः ॥ इति तृतीये प्रथमे सप्तमोनुवाकः ॥