द्रोणकलशाद्यासादनमन्त्राश्च ।
विश्वेदेवा ऋषयः।
मूलम् (संयुक्तम्)
यो वा अय॑थादेवतय्ँ य॒ज्ञमु॑प॒चर॒त्या दे॒वता॑भ्यो वृश्च्यते॒ पापी॑यान्भवति॒ यो य॑थादेव॒तन्न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवत्याग्ने॒य्यर्चाग्नी॑ध्रम॒भि मृ॑शेद्वैष्ण॒व्या ह॑वि॒र्धान॑माग्ने॒य्या स्रुचो॑ वाय॒व्य॑या वाय॒व्या॑न्यैन्द्रि॒या सदो॑ यथादेव॒तमे॒व य॒ज्ञमुप॑ चरति॒ न दे॒वता॑भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान्भवति
विश्वास-प्रस्तुतिः
यो वा अय॑थादेवतय्ँ य॒ज्ञमु॑प॒चर॑ति ।
आ दे॒वता॑भ्यो वृश्च्यते ।
पापी॑यान्भवति ।
मूलम्
यो वा अय॑थादेवतय्ँ य॒ज्ञमु॑प॒चर॑ति ।
आ दे॒वता॑भ्यो वृश्च्यते ।
पापी॑यान्भवति ।
भट्टभास्कर-टीका
1-5यो वा इत्यादि ॥ या यस्य देवता तद्यथादेवतं ततोन्यदयथादेवतम् । तृतीयाया आमादेशः । यथायथमनवगते देवतासम्बन्धे यज्ञसाधनैर्यो यज्ञमुपचरति अनुतिष्ठति स देवताभ्यः अज्ञाताभ्य आवृश्च्यते परिहीयते ततः पापीयान् भवति पापतरो भवति ।
विश्वास-प्रस्तुतिः
यो य॑थादेव॒तन्न दे॒वता॑भ्य॒ आ वृ॑श्च्यते ।
मूलम्
यो य॑थादेव॒तन्न दे॒वता॑भ्य॒ आ वृ॑श्च्यते ।
भट्टभास्कर-टीका
यो यथादेवतमित्यादि । गतम् ।
विश्वास-प्रस्तुतिः
वसी॑यान्भवति ।
मूलम्
वसी॑यान्भवति ।
भट्टभास्कर-टीका
वसीयान् वसुमत्तरः ।
विश्वास-प्रस्तुतिः
अग्ने॒य्यर्चाग्नी॑ध्रम॒भि मृ॑शेद् ..
वैष्ण॒व्या ह॑वि॒र्धान॑म् ,
आ॒ग्ने॒य्या स्रुचः॑ ,
वा॒य॒व्य॑या वाय॒व्या॑नि ।
ऐ॒न्द्रि॒या सदः॑ ।
य॒था॒दे॒व॒तमे॒व य॒ज्ञमुप॑ चरति ।
मूलम्
अग्ने॒य्यर्चाग्नी॑ध्रम॒भि मृ॑शेद् ..
वैष्ण॒व्या ह॑वि॒र्धान॑म् ,
आ॒ग्ने॒य्या स्रुचः॑ ,
वा॒य॒व्य॑या वाय॒व्या॑नि ।
ऐ॒न्द्रि॒या सदः॑ ।
य॒था॒दे॒व॒तमे॒व य॒ज्ञमुप॑ चरति ।
भट्टभास्कर-टीका
आग्नेय्यर्चेत्यादि । ‘अग्ने नय’ इत्याग्नेयी ऋक् । ‘इदं विष्णुः’ इति वैष्णवी । ‘अग्न आयूंषि’ इति ऋगाग्नेयी । ‘आ वायो भूष’ इति वायव्या । ‘आघा ये अग्निमिन्धते’ इत्यैन्द्री ।
विश्वास-प्रस्तुतिः
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते ।
वसी॑यान्भवति ।
मूलम्
न दे॒वता॑भ्य॒ आ वृ॑श्च्यते ।
वसी॑यान्भवति ।
भट्टभास्कर-टीका
एवं कुर्वन् यथायथमवगताभिर्देवताभिः यज्ञमुपचरति ततो देवताभ्यो न वृश्च्यते वसीयान् भवति । आग्नेयादिषूदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वे ‘उदात्तयणः’ इति तृतीयाया उदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
यु॒नज्मि॑ ते पृथि॒वीञ्ज्योति॑षा स॒ह यु॒नज्मि॑
वा॒युम॒न्तरि॑क्षेण [17] ते॒ स॒ह यु॒नज्मि॑
वाचँ॑ स॒ह सूर्ये॑ण ते +++(यु॒नज्मि॑ )+++
मूलम्
यु॒नज्मि॑ ते पृथि॒वीञ्ज्योति॑षा स॒ह यु॒नज्मि॑
वा॒युम॒न्तरि॑क्षेण [17] ते॒ स॒ह यु॒नज्मि॑
वाचँ॑ स॒ह सूर्ये॑ण ते +++(यु॒नज्मि॑ )+++
भट्टभास्कर-टीका
6-8महापरिधीन् परिदधाति - युनज्मि त इति तिसृभिरेकपदाभिः जगतीभिः । तत्र मध्यमं - युनज्मीति ॥ हे अग्ने ते तव पृथिवीं पृथिवीस्थानीयं मध्यमं परिधिं ज्योतिषा दीप्त्या सह तव समीपे युनज्मि? । यद्वा - हे मध्यमपरिधे अनेन यागेन पृथिवीं ज्योतीषा अग्निना सह युनज्मि दक्षिणं वायुमन्तरिक्षेण सह तव युनज्मि । समानमन्यत् । उत्तरं सूर्येण सह वाचं तव युनज्मि । शिष्टं समानम् ॥
विश्वास-प्रस्तुतिः
यु॒नज्मि॑ ति॒स्रो वि॒पृच॒स्सूर्य॑स्य ते ।
मूलम्
यु॒नज्मि॑ ति॒स्रो वि॒पृच॒स्सूर्य॑स्य ते ।
भट्टभास्कर-टीका
9स्रुचोऽभिमृशति - युनज्मि तिस्र इति जगत्यैकपदया ॥ युनज्मि तिस्रः स्रुचः जुहूपभृद्ध्रुवाः विपृचः विपृक्ताः पृथग्भूताः सूर्यस्य सोमस्य सूर्यस्य सम्बन्धिनो वा तव संबन्धिनीः युनज्मि । त्वदर्थं वा ॥
विश्वास-प्रस्तुतिः
अ॒ग्निर्दे॒वता॑ गाय॒त्री छन्द॑ उपाँ॒शोᳶ पात्र॑मसि ।
मूलम्
अ॒ग्निर्दे॒वता॑ गाय॒त्री छन्द॑ उपाँ॒शोᳶ पात्र॑मसि ।
भट्टभास्कर-टीका
10पात्राणि सादितान्यभिमृशति - अग्निर्देवतेत्यादिभिः ॥ दशैते मन्त्रा निगदव्याख्याताः । अग्निस्तव देवता, गायत्री छदः उपांशोः ग्रहस्य पात्रमसि त्वमिति । एवं सर्वत्र । ‘उपाद्व्यजजिनम्’ इत्युपांशुशब्दस्योत्तरपदान्तोदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
सोमो॑ दे॒वता॑ त्रि॒ष्टुप्छन्दो॑ऽन्तर्या॒मस्य॒ पात्र॑म॒सि ।
मूलम्
सोमो॑ दे॒वता॑ त्रि॒ष्टुप्छन्दो॑ऽन्तर्या॒मस्य॒ पात्र॑म॒सि ।
भट्टभास्कर-टीका
11अन्तर्यामग्रहस्य पात्रमसि । ‘अन्तरपरिग्रहे’ इति गतित्वात्ताथादिनोत्तरपदान्तोदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
इन्द्रो॑ दे॒वता॒ जग॑ती॒ छन्द॑ इन्द्रवायु॒वोᳶ पात्र॑मसि ।
मूलम्
इन्द्रो॑ दे॒वता॒ जग॑ती॒ छन्द॑ इन्द्रवायु॒वोᳶ पात्र॑मसि ।
भट्टभास्कर-टीका
12इन्द्रवाय्वोस्सम्बन्धी ऐन्द्रवायवो ग्रहः ; तस्य पात्रमसि । ‘उभयत्र वायोः प्रतिषेधः’ इत्यनङ् न क्रियते । ‘देवताद्वन्द्वे च’ इति प्राप्तस्य पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरस्य ‘नोत्तरपदेऽनुदात्तादौ’ इति प्रतिषेधे समासान्तोदात्तत्वे च कृते ‘उदात्तयणः’ इति विभक्तेरुदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
बृह॒स्पति॑र्दे॒वता॑ऽनु॒ष्टुप्छन्दो॑ मि॒त्रावरु॑णयो॒ᳶ पात्र॑मसि ।
मूलम्
बृह॒स्पति॑र्दे॒वता॑ऽनु॒ष्टुप्छन्दो॑ मि॒त्रावरु॑णयो॒ᳶ पात्र॑मसि ।
भट्टभास्कर-टीका
13बृहस्पतिर्देवता । ‘तद्बृहतोः’ इति सुट्, वनस्पत्यादित्वात्पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् । समासे बृहच्छब्दः प्रायेणाद्युदात्तः । मित्रावरुणयोस्सम्बन्धिनः मैत्रावरुणस्य वा ग्रहस्य पात्रमसि । ‘देवताद्वन्द्वे च’ इति पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
अ॒श्विनौ॑ दे॒वता॑ प॒ङ्क्तिश्छन्दो॒ऽश्विनो॒ᳶ पात्र॑मसि ।
मूलम्
अ॒श्विनौ॑ दे॒वता॑ प॒ङ्क्तिश्छन्दो॒ऽश्विनो॒ᳶ पात्र॑मसि ।
भट्टभास्कर-टीका
14पङ्क्तिः पच्चपदा । अश्विनोस्सम्बन्धिनः आश्विनस्य ग्रहस्य पात्रमसि ॥
विश्वास-प्रस्तुतिः
सूर्यो॑ दे॒वता॑ बृह॒ती [18] छन्द॑श्शु॒क्रस्य॒ पात्र॑मसि ।
मूलम्
सूर्यो॑ दे॒वता॑ बृह॒ती [18] छन्द॑श्शु॒क्रस्य॒ पात्र॑मसि ।
भट्टभास्कर-टीका
15बृहतीशब्द् ‘बृहन्महतोरुपसङ्ख्यानम्’ इति नद्या उदात्तत्वम् । शुक्रस्य ग्रहस्य पात्रमसि ॥
विश्वास-प्रस्तुतिः
च॒न्द्रमा॑ दे॒वता॑ स॒तोबृ॑हती॒ छन्दो॑ म॒न्थिन॒ᳶ पात्र॑मसि ।
मूलम्
च॒न्द्रमा॑ दे॒वता॑ स॒तोबृ॑हती॒ छन्दो॑ म॒न्थिन॒ᳶ पात्र॑मसि ।
भट्टभास्कर-टीका
16सतोबृहती नाम बृहतीविशेषः । ‘त्रिभिर्द्वादशकैर्महाबृहती । सतोबृहती ताण्डिनः’ । छान्दसष्षष्ठ्या अलुक्, दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम्, ‘शतुरनुमः’ इति षष्ठ्या उदात्तत्वम् ॥
विश्वास-प्रस्तुतिः
विश्वे॑ दे॒वा दे॒वतो॒ष्णिहा॒ छन्द॑ आग्रय॒णस्य॒ पात्र॑म॒सि ।
मूलम्
विश्वे॑ दे॒वा दे॒वतो॒ष्णिहा॒ छन्द॑ आग्रय॒णस्य॒ पात्र॑म॒सि ।
भट्टभास्कर-टीका
17उष्णिक्, उष्णिहा इति पदद्वयमपि भवति । आग्रयणस्य ग्रहस्य पात्रं स्थाल्यसि ॥
विश्वास-प्रस्तुतिः
इन्द्रो॑ दे॒वता॑ क॒कुच्छन्द॑ उ॒क्थाना॒म्पात्र॑मसि ।
मूलम्
इन्द्रो॑ दे॒वता॑ क॒कुच्छन्द॑ उ॒क्थाना॒म्पात्र॑मसि ।
भट्टभास्कर-टीका
18ककुप् उष्णिग्विशेषः । ‘मध्ये चेद्द्वादशाक्षरः ककुप्’ । उक्थानां सम्बन्धिनः उक्थस्य ग्रहस्य पात्रं स्थली वा ॥
विश्वास-प्रस्तुतिः
पृ॒थि॒वी दे॒वता॑ वि॒राट्छन्दो॑ ध्रु॒वस्य॒ पात्र॑मसि ॥ [19]
मूलम्
पृ॒थि॒वी दे॒वता॑ वि॒राट्छन्दो॑ ध्रु॒वस्य॒ पात्र॑मसि ॥ [19]
भट्टभास्कर-टीका
19विराट् दशाक्षरा । ध्रुवस्य ग्रहस्य पात्रं स्थाल्यसि ॥
भट्टभास्कर-टीका
इति तृतीये प्रथमे षष्ठोनुवाकः ॥