विश्वेदेवा ऋषयः।
मूलम् (संयुक्तम्)
प्रा॒जा॒प॒त्या वै प॒शव॒स्तेषाँ॑ रु॒द्रोऽधि॑पति॒र्यदे॒ताभ्या॑मुपाक॒रोति॒ ताभ्या॑मे॒वैन॑म्प्रति॒प्रोच्या ल॑भत आ॒त्मनोऽना॑व्रस्काय॒ द्वाभ्या॑मु॒पाक॑रोति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै
विश्वास-प्रस्तुतिः
प्रा॒जा॒प॒त्या वै प॒शवः॑ ।
तेषाँ॑ रु॒द्रोऽधि॑पतिः ।
मूलम्
प्रा॒जा॒प॒त्या वै प॒शवः॑ ।
तेषाँ॑ रु॒द्रोऽधि॑पतिः ।
भट्टभास्कर-टीका
1अथ ‘प्रजापतेर्जायमानाः’ इत्यादीनां मन्त्राणां ब्राह्मणम् - प्राजापत्या इत्यादि ॥ प्राजापत्याः प्रजापतेरपत्यभूताः सर्वेऽपि पशवः । तेषां सर्वेषामपि रुद्रोधिपतिः स्वामी ।
विश्वास-प्रस्तुतिः
यदे॒ताभ्या॑मुपाक॒रोति॑ ,
ताभ्या॑मे॒वैन॑म्प्रति॒प्रोच्या ल॑भते ।
मूलम्
यदे॒ताभ्या॑मुपाक॒रोति॑ ,
ताभ्या॑मे॒वैन॑म्प्रति॒प्रोच्या ल॑भते ।
भट्टभास्कर-टीका
यद्यस्मादेताभ्यां ‘प्रजापतेर्जायमानाः’ ‘इमं पशुम्’ इत्यनुवाकस्य प्रथमाभ्यां प्रजापतेः रुद्रस्य च प्रतिपादकाभ्यां पशुमुपाकरोति तस्मात्ताभ्यां देवाभ्यां पशूनां पितृस्वामिभ्यामेवैनं पशुं प्रतिप्रोच्य प्रत्यावेद्य आलभते ।
विश्वास-प्रस्तुतिः
आ॒त्मनोऽना॑व्रस्काय +++(भवति)+++ ।
मूलम्
आ॒त्मनोऽना॑व्रस्काय +++(भवति)+++ ।
भट्टभास्कर-टीका
तदात्मनेनाव्रस्काय अनपराधाय भवति । अत्र व्रश्चतिं सकारोपधं पठन्ति । तस्माद्घञि कुत्वं, निमित्ताभावात् श्चुत्त्वं निवर्तते ।
विश्वास-प्रस्तुतिः
द्वाभ्या॑मु॒पाक॑रोति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
मूलम्
द्वाभ्या॑मु॒पाक॑रोति द्वि॒पाद्यज॑मान॒ᳶ प्रति॑ष्ठित्यै ।
भट्टभास्कर-टीका
अथ सङ्ख्यां विशिष्टफलहेतुत्वेन स्तौति - द्वाभ्यामिति । द्वित्वान्वयाद्द्विपदो यजमानस्य प्रतिष्ठित्यै भवति । ‘तादौ च’ इति गते प्रकृतिस्वरत्वम् । पाद प्रतिष्ठेति पर्यायौ । ‘संख्यासुपूर्वस्य’ इति पादस्य लोपः, ‘द्वित्रिभ्यां पद्वन्’ इत्युत्तरपदान्तोदात्तत्वम् ॥
मूलम् (संयुक्तम्)
उपा॒कृत्य॒ पञ्च॑ जुहोति॒ पाङ्क्ताः॑ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे
विश्वास-प्रस्तुतिः
उ॒पा॒कृत्य॒ पञ्च॑ जुहोति ।
मूलम्
उ॒पा॒कृत्य॒ पञ्च॑ जुहोति ।
भट्टभास्कर-टीका
2उपाकृत्येत्यादि ॥ पशूपाकरणानन्तरं प्रजानन्त इत्यादि पञ्च हव्यानि जुहोति ।
विश्वास-प्रस्तुतिः
पाङ्क्ताः॑ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे ।
मूलम्
पाङ्क्ताः॑ प॒शवᳶ॑ प॒शूने॒वाव॑ रुन्द्धे ।
भट्टभास्कर-टीका
पङ्क्तिः पञ्चपदा तत्प्रभवाः पशवः । ततः पञ्चत्वान्वयेन तेऽवरुद्धा भवन्ति । पङ्क्तिशब्दादुत्सादित्वादञ् ॥
मूलम् (संयुक्तम्)
मृ॒त्यवे॒ वा ए॒ष नी॑यते यत्प॒शुस्तय्ँयद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानस्स्या॒न्नाना॑ प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै [15]
विश्वास-प्रस्तुतिः
मृ॒त्यवे॒ वा ए॒ष नी॑यते ।
मूलम्
मृ॒त्यवे॒ वा ए॒ष नी॑यते ।
भट्टभास्कर-टीका
3मृत्यव इत्यादिना मारणार्थं नीयमानस्य पशोः अन्वारम्भः यजमानस्य पशुसमानधर्मतामावहेत्, अमङ्गल्यश्च भवति ।
विश्वास-प्रस्तुतिः
यत्प॒शुस्तय्ँयद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानस्स्या॒न् ,
नाना॑ प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै ।
मूलम्
यत्प॒शुस्तय्ँयद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मानस्स्या॒न् ,
नाना॑ प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै ।
भट्टभास्कर-टीका
ततश्च यजमानः प्रमायुको मरणशीलस्स्यात् । छान्दस उकञ् । तस्मादभिमन्त्रणं मन्त्रेण । नाना पृथग्भूतः प्राणो यजमानस्य पशुप्राणादिति यदाह तद्व्यावृत्त्यै यजमानस्य भवति । व्यावृत्तिः पृथग्धर्मता । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ॥
विश्वास-प्रस्तुतिः
यत्प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒ शान्त्यै ।
मूलम्
यत्प॒शुर्मा॒युमकृ॒तेति॑ जुहोति॒ शान्त्यै ।
भट्टभास्कर-टीका
4यत्पशुर्मायुमिति संज्ञप्ते जुहोति ॥ तदेनसः शान्त्यै भवति ॥
विश्वास-प्रस्तुतिः
शमि॑तार उ॒पेत॒नेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
मूलम्
शमि॑तार उ॒पेत॒नेत्या॑ह ।
य॒था॒य॒जुरे॒वैतत् ।
भट्टभास्कर-टीका
5शमितार उपेतन इति वपाश्रपणीभ्यां पशुमुपेतः यजमानोध्वर्युश्च ॥ तत्र यथा यजुर्वदति बन्धाद्यज्ञपतिं परिमुञ्चतेति तथैवैतत्फलं भवति । यजमानस्य यजुर्वेदप्रभवत्वात् ऋगेव यजुरुच्यते ॥
मूलम् (संयुक्तम्)
व॒पायाव्ँ॒वा आ॑ह्रि॒यमा॑णायाम॒ग्नेर्मेधोऽप॑ क्रामति॒ त्वामु॒ ते द॑धिरे हव्य॒वाह॒मिति॑ व॒पाम॒भि जु॑होत्य॒ग्नेरे॒व मेध॒मव॑ रु॒न्द्धेऽथो॑ शृत॒त्वाय॑
विश्वास-प्रस्तुतिः
व॒पायाव्ँ॒वा आ॑ह्रि॒यमा॑णायाम॒ग्नेर्मेधोऽप॑ क्रामति ।
त्वामु॒ ते द॑धिरे हव्य॒वाह॒मिति॑ ।
मूलम्
व॒पायाव्ँ॒वा आ॑ह्रि॒यमा॑णायाम॒ग्नेर्मेधोऽप॑ क्रामति ।
त्वामु॒ ते द॑धिरे हव्य॒वाह॒मिति॑ ।
भट्टभास्कर-टीका
6वपायामित्यादि ॥ वपाया आहरणकाले अग्निसकाशात् मेधः यज्ञः अपक्रामति तस्मात् ‘त्वामु ते’ इति वपाहोमः तस्मिन् काले क्रियमाणस्य मेधस्यानपक्रमणाय भवति तेनाग्नेरपक्रामन्तं मेधमवरुन्धे अनपक्रमणं करोति ‘दधिरे’ इति मन्त्रपदात् ।
विश्वास-प्रस्तुतिः
व॒पाम॒भि जु॑होति ।
अ॒ग्नेरे॒व मेध॒मव॑ रु॒न्द्धेऽथो॑ शृत॒त्वाय॑ ।
मूलम्
व॒पाम॒भि जु॑होति ।
अ॒ग्नेरे॒व मेध॒मव॑ रु॒न्द्धेऽथो॑ शृत॒त्वाय॑ ।
भट्टभास्कर-टीका
अथो अपि च शृतत्वाय पक्वत्वाय वपाया अभिहोमो भवति । ‘शृतंकर्तारम्’ इति दर्शनात् ॥
मूलम् (संयुक्तम्)
पु॒रस्ता॑त्स्वाहाकृतयो॒ वा अ॒न्ये दे॒वा उ॒परि॑ष्टात्स्वाहाकृतयो॒ऽन्ये स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्य॒स्स्वाहेत्य॒भितो॑ व॒पाञ्जु॑होति॒ ताने॒वोभया॑न्प्रीणाति ॥ [16]
विश्वास-प्रस्तुतिः
पु॒रस्ता॑त्स्वाहाकृतयो॒ वा ,
अ॒न्ये दे॒वा उ॒परि॑ष्टात्स्वाहाकृतयो॒ऽन्ये ,
स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्य॒स्स्वाहेत्य॒भितो॑ व॒पाञ्जु॑होति
मूलम्
पु॒रस्ता॑त्स्वाहाकृतयो॒ वा ,
अ॒न्ये दे॒वा उ॒परि॑ष्टात्स्वाहाकृतयो॒ऽन्ये ,
स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्य॒स्स्वाहेत्य॒भितो॑ व॒पाञ्जु॑होति
भट्टभास्कर-टीका
7अथ परिवप्यहोममन्त्रयोस्स्वाहाकारस्य स्थानव्यत्यासकारणं प्रदर्शयितुमाह - पुरस्तात्स्वाहाकृतयो वा इत्यादि ॥ ‘जातवेदो वपया गच्छ देवान्’ इति ये वपाभाजो देवाः तैरात्मनोऽव्यवधानार्थं अन्ये ये देवाः वपाहोमात्पूर्वं भाविनः पुरस्तात्स्वाहाकृतयोभवम् पुरस्तात्स्वाहाकृतेन मन्त्रेण होमः ।
विश्वास-प्रस्तुतिः
ताने॒वोभया॑न्प्रीणाति ॥ [16]
मूलम्
ताने॒वोभया॑न्प्रीणाति ॥ [16]
भट्टभास्कर-टीका
एवं कुर्वन् तानुभयान् देवान् प्रीणाति ॥
इति तृतीये प्रथमे पञ्चमोनुवाकः ॥