०४ पशूपाकरणमन्त्राः

त्रिष्टुप्, १ ९-१० अनुष्टुप् , ११-१२ द्विपदा । विश्वेदेवा ऋषयः।

विश्वास-प्रस्तुतिः

प्र॒जाप॑ते॒र्जाय॑मानाᳶ प्र॒जा जा॒ताश्च॒ या इ॒माः ।
तस्मै॒ प्रति॒ प्र वे॑दय चिकि॒त्वाँ अनु॑ मन्यताम् ।

मूलम्

प्र॒जाप॑ते॒र्जाय॑मानाᳶ प्र॒जा जा॒ताश्च॒ या इ॒माः ।
तस्मै॒ प्रति॒ प्र वे॑दय चिकि॒त्वाँ अनु॑ मन्यताम् ।

भट्टभास्कर-टीका

1अथ पशोरुपाकरणमन्त्रौ - प्रजापतेर्जायमाना इति द्वौ ॥ तत्र प्रथमोनुष्टुप्, द्वितीयस्त्रिष्टुप् । तत्र ‘प्राजापत्या वै पशवस्तेषां रुद्रोधिपतिः’ इति सर्वाः प्रजाः प्राजापत्याः प्रजापतेरपत्यानि । रुद्रस्तु तासामधिपतिः । तत एव ताभ्यां मन्त्राभ्यां पशुं प्रति प्रवेदयति आत्मनोनपराधाय ।
मन्त्रार्थस्तु - जायमानाः जाताश्च या इमास्तास्सर्वाः प्रजापतेः प्रजाः अपत्यानि । तस्मात्तस्मै प्रजापतये प्रजानामुत्पादयित्रे प्रतिप्रवेदय प्रतिबोधय । हे पशो स चिकित्वान् एतज्ज्ञातवान् अनुमन्यतां त्वदालम्भनमनुजानातु । यद्वा - चिकित्वान् सर्वार्थज्ञः । कित ज्ञाने, छान्दसस्य लिटः क्वसुरादेशः, ‘दीर्घादटि समानपादे’ इति रुत्वम् ॥

विश्वास-प्रस्तुतिः

इ॒मम्प॒शुम्प॑शुपते ते अ॒द्य ब॒ध्नाम्य॑ग्ने सुकृ॒तस्य॒ मध्ये॑ ।
अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्ट॑न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् ।

मूलम्

इ॒मम्प॒शुम्प॑शुपते ते अ॒द्य ब॒ध्नाम्य॑ग्ने सुकृ॒तस्य॒ मध्ये॑ ।
अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्ट॑न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् ।

भट्टभास्कर-टीका

2अथ द्वितीयः - अत्र प्रत्यक्षवदुच्यते - हे पशुपते पशूनां स्वामिन् ते तव स्वभूतमिमं पशुं अद्येदानीं सुकृतस्यास्य कर्मणो मध्ये स्थाने बध्नामि । सूपमानात्कृदुत्तरपदान्तोदात्तत्वम् । हे अग्ने अग्निरूपेण स्थित भगवन् तदनुमन्यस्य अनुजानीहि । सुयजा सुष्ठु यष्ट्रा शोभनयागहेतुना । यजेर्विच् । अनेन पशुना देवान् यजाम । जुष्टं प्रियं देवानामिदं हव्यं हविरस्तु । ‘नित्यं मन्त्रे’ इति जुष्टशब्दः आद्युदात्तः । हवमर्हतीति दण्डादित्वात् यः । त्वया ह्ययमनुमतः सुयट् स्यात् । तथा च सति [इदं हव्यं देवानां प्रियं भवेदिति भावः] ॥

विश्वास-प्रस्तुतिः

प्र॒जा॒नन्त॒ᳶ प्रति॑ गृह्णन्ति॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्य॒ᳶ पर्या॒चर॑न्तम् ।
सु॒व॒र्गय्ँया॑हि प॒थिभि॑र्देव॒यानै॒रोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ।

मूलम्

प्र॒जा॒नन्त॒ᳶ प्रति॑ गृह्णन्ति॒ पूर्वे॑ प्रा॒णमङ्गे॑भ्य॒ᳶ पर्या॒चर॑न्तम् ।
सु॒व॒र्गय्ँया॑हि प॒थिभि॑र्देव॒यानै॒रोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः ।

भट्टभास्कर-टीका

3जुहोति - प्रजानन्त इति पञ्चभिः ॥ तत्र प्रथमा त्रिष्टुप् । प्रजानन्तः देवाः पर्याचरन्तं परितः सर्वतो निष्क्रम्य आचरन्तं आभिमुख्येन गच्छन्तं तव प्राणं आत्मानं प्रतिगृह्णन्तु । ततः स्वर्गं

लोकं याहि गच्छ पथिभिर्देवयानैः देवा यैर्यान्ति तैः पथिभिः ओषधीषु शरीरैः शरीरावयवैः यज्ञार्थमोषध्यात्मना प्रतितिष्ठ प्रतिष्ठितो वर्तस्व । ‘द्व्यचोतस्तिङः’ इति दीर्घत्वम् ॥

विश्वास-प्रस्तुतिः

येषा॒मीशे॑ [11] प॒शु॒पतिᳶ॑ पशू॒नाञ्चतु॑ष्पदामु॒त च॑ द्वि॒पदा॑म् ।
निष्क्री॑तो॒ऽयय्ँ य॒ज्ञिय॑म्भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ।

मूलम्

येषा॒मीशे॑ [11] प॒शु॒पतिᳶ॑ पशू॒नाञ्चतु॑ष्पदामु॒त च॑ द्वि॒पदा॑म् ।
निष्क्री॑तो॒ऽयय्ँ य॒ज्ञिय॑म्भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ।

भट्टभास्कर-टीका

4अथ द्वितीया - येषामिति त्रिष्टुप् ॥ येषां पशूनामीशे ईष्टे पशुपतिः । ‘लोपस्त आत्मनेपदेषु’ इति तलोपः । चतुष्पदां गवादीनां उत च अपि च द्विपदां मनुष्यादीनां च येषामीष्टे । ‘संख्यासुपूर्वस्य’ इति पादशब्दस्य लोपः, ‘पादः पत्’ इति पद्भावः, ‘द्वित्रिभ्यां पद्दन्’ इति द्विपदामित्यस्योत्तरपदान्तोदात्तत्वम् । तेभ्यो निष्क्रीतः निष्कृष्य परिगृहीतः अयं पशुः यज्ञियं यज्ञार्हं भागं एतु गच्छतु यज्ञभागतां प्रतिपद्यताम् । यद्वा - पशुपतेस्स्वभूतेभ्यः पशुभ्यो निष्क्रीतोयं निष्कृष्य क्रीतः यज्ञभुजां स्वभूतो भवतु । ‘यज्ञर्त्विग्भ्याम्’ इति घः । किं च - रायो धनस्य पशुलक्षणस्य पोषाः पुष्टयः यजमानस्य सन्तु, माऽपक्रमिषुः अस्मात्पशवः । ‘ऊडिदम्’ इति रायष्षष्ठ्या उदात्तत्वम्, ‘षष्ठ्याः पति पुत्र’ इति सत्वम् ॥

विश्वास-प्रस्तुतिः

ये ब॒ध्यमा॑न॒मनु॑ ब॒ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च ।
अ॒ग्निस्ताँ अग्रे॒ प्र मु॑मोक्तु दे॒वᳶ प्र॒जाप॑तिᳶ प्र॒जया॑ सव्ँविदा॒नः ।

मूलम्

ये ब॒ध्यमा॑न॒मनु॑ ब॒ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च ।
अ॒ग्निस्ताँ अग्रे॒ प्र मु॑मोक्तु दे॒वᳶ प्र॒जाप॑तिᳶ प्र॒जया॑ सव्ँविदा॒नः ।

भट्टभास्कर-टीका

5अथ तृतीया - ये बद्ध्यमानमनु बद्ध्यमाना इति त्रिष्टुप् ॥ ये बध्यमानमिमं पशुं अनुबध्यमानाः हृदयेनानुरज्यमानाः अभ्यैक्षन्त आभिमुख्येन पश्यन्ति मनसा चक्षुषा च न जहति स्नेहानुषङ्गात् कारुण्याद्वा । छान्दसो लङ् । तान् सर्वान् अग्निर्देवः अग्रे प्रथमं प्रमुमोक्तु प्रमुञ्चतु ततो मानसाद्दुःखात् । मुचेः छान्दसश्शपश्श्लुः । प्रजापतिः प्रजानां पतिश्च ततस्तान् मुञ्चतु प्रजया ऐकमत्यं गत इत्यर्थः । ‘समो गमृच्छि’ इत्यात्मनेपदम् ॥

विश्वास-प्रस्तुतिः

य आ॑र॒ण्याᳶ प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः ।
वा॒युस्ताँ अग्रे॒ प्र मु॑मोक्तु दे॒वᳶ प्र॒जाप॑तिᳶ प्र॒जया॑ सव्ँविदा॒नः ।

मूलम्

य आ॑र॒ण्याᳶ प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः ।
वा॒युस्ताँ अग्रे॒ प्र मु॑मोक्तु दे॒वᳶ प्र॒जाप॑तिᳶ प्र॒जया॑ सव्ँविदा॒नः ।

भट्टभास्कर-टीका

6अथ चतुर्थी - य आरण्या इति त्रिष्टुप् ॥ ये आरण्याः अरण्ये भवाः पशवः विश्वरूपाः सर्वरूपान्विताः विरूपाः विविधरूपाः । एवं बहुधा सन्तोपि एकरूपाः एकस्वभावाः नियतैकस्वभावाः अत एवेमं पशुं बध्यमानं अनुबध्यमाना मनसा चक्षुषा चाभ्यैक्षन्त । तान् सर्वान्वायुर्देवः प्रमुमोक्तु वायुरारण्यानां पशूनामधिपतिरिति भावः । शेषं समानम् । एतेन होमेन सर्वे पशवः तृप्ता भवन्त्विति ॥

विश्वास-प्रस्तुतिः

प्र॒मु॒ञ्चमा॑नाः [12] भुव॑नस्य॒ रेतो॑ गा॒तुन्ध॑त्त॒ यज॑मानाय देवाः ।
उ॒पाकृ॑तँ शशमा॒नय्ँयदस्था॑ज्जी॒वन्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ।

मूलम्

प्र॒मु॒ञ्चमा॑नाः [12] भुव॑नस्य॒ रेतो॑ गा॒तुन्ध॑त्त॒ यज॑मानाय देवाः ।
उ॒पाकृ॑तँ शशमा॒नय्ँयदस्था॑ज्जी॒वन्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ।

भट्टभास्कर-टीका

7अथ पञ्चमी - प्रमुञ्चमाना इति त्रिष्टुप् ॥ प्रमुञ्चमानाः इमं पशुं त्यक्त्वा गच्छन्तः यूयं भुवनस्य भूतजातस्य रेतः कारणं यागद्वारेणोत्पत्तिहेतुं हे देवाः प्राणाः एतस्य हन्यमानस्य पशोः यूयं यजमानाय गातुं गतिं धत्त दत्त पुण्यान् लोकान् गन्तुं मार्गं कुरुत । यद्वा - यजमानाय गातुं गमनं यजमानेन संगतिं धत्त कुरुत वधादवध्यमानं मा कार्ष्ट । किं च – उपाकृतमिमं पशुं शशमानं संगच्छत् सर्वानवयवान् व्याप्नुवत् । शशप्लुतगतौ उदात्तेत्, ताच्छीलिकश्चानश् । अत एव लसार्वधातुकानुदात्तत्वाभावः । यदत्र पशौ अस्थात् तिष्ठति तत्सर्वं पाथः अन्नं मांसलक्षणं देवानां जीवं प्राणं अप्येतु अनु प्रविशतु । एतदुक्तं भवति - पशोरस्य हन्यमानस्य प्राणाः यजमानस्येष्टावाप्तिहेतवः सन्तु, मांसं तु देवतानां स्थितये भवत्विति । तिष्ठतेश्छान्दसो लुङ्, गातिस्थ’ इति सिचो लुक् ॥

विश्वास-प्रस्तुतिः

नाना॑ प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभि॑स्स॒ह दे॑व॒यानः॑ ।
जी॒वन्दे॒वाना॒मप्ये॑तु॒ पाथ॑स्स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ।

मूलम्

नाना॑ प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभि॑स्स॒ह दे॑व॒यानः॑ ।
जी॒वन्दे॒वाना॒मप्ये॑तु॒ पाथ॑स्स॒त्यास्स॑न्तु॒ यज॑मानस्य॒ कामाः॑ ।

भट्टभास्कर-टीका

8पशुं नीयमानमभिमन्त्रयते - नानेति त्रिष्टुभा ॥ नाना पृथ ग्भूतः पशुना पशुप्राणेन यजमानस्य प्राणः तेन तदन्वारम्भदोषाभावः । ‘मृत्यवे वा एष नीयते’ इत्यादि ब्राह्मणम् । यज्ञश्च देवेभिः देवैः पशुप्राणैस्सह देवयानः देवान् गन्ता देवानां जीवमप्येतु । पाथः पशुशरीरलक्षणमन्नं च देवानां जीवमप्येतु । ततश्च सत्या अवितथा यजमानस्य कामास्सन्तु ॥

विश्वास-प्रस्तुतिः

यत्प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वँह॑सः ।

मूलम्

यत्प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते ।
अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा॑न्मुञ्च॒त्वँह॑सः ।

भट्टभास्कर-टीका

9संज्ञप्ते संज्ञप्तहोमं जुहोति - यत्पशुरित्यनुष्टुभा ॥ अकृतेति प्रथमपादान्तः । मायुः दुःखहेतुकश्शब्दः । पद्भिश्च उरआहननं दुःखेन शब्दादिचिकीर्षा सर्वस्य पशोर्जायते, अशक्त्या तु शब्दादिकं तत्र न करोति । अत्र शब्दादिकरणेन तन्निमित्तं चिकीर्षा लक्ष्यते, तेन नित्यो विधिः सत्यसति वा शब्दकरणादौ भवति । अयमर्थः - यद्यस्मादुःखात् पशुर्मायुं शब्दं अकृत करोति । छान्दसो लुङ् । यस्माद्वा दुःखादुरः आत्मीयं पद्भिराहते आहन्ति अभिपीडयति एतदुभयं चिकीर्षति, तस्मात्तादृशदुःखोपादानप्रभवात् एनसः पापात् विश्वात् विश्वस्मात् । छान्दसः स्मादादेशाभावः । अंहसः पापतमात् । पुनश्श्रुत्या अतिशयो गम्यते । ईदृशात्पापादग्निर्मा मुञ्चतु ॥

विश्वास-प्रस्तुतिः

शमि॑तार उ॒पेत॑न य॒ज्ञम् [13] दे॒वेभि॑रिन्वि॒तम् ।
पाशा॑त्प॒शुम्प्र मु॑ञ्चत ब॒न्धाद्य॒ज्ञप॑ति॒म्परि॑ ।

मूलम्

शमि॑तार उ॒पेत॑न य॒ज्ञम् [13] दे॒वेभि॑रिन्वि॒तम् ।
पाशा॑त्प॒शुम्प्र मु॑ञ्चत ब॒न्धाद्य॒ज्ञप॑ति॒म्परि॑ ।

भट्टभास्कर-टीका

10वपाश्रपणीभ्यां पशुमुपेतोऽध्वर्युर्यजमानश्च - शमितार इत्यनुष्टुभा । ‘उपेतन’ इति प्रथमपादान्तः ॥ हे शमितारः शमयितारः संस्कर्तारः । ण्यन्तात्तृचि ‘शमिता यज्ञे’ इति णिलोपो निपात्यते, आमन्त्रिताद्युदात्तत्वम् । उपेतन उपगच्छत यज्ञं प्रवर्तयतेति यावत् । एतेर्लोटि ‘तप्तनप्तनधनाश्च’ इति तस्य तनबादेशः, पित्त्वेन कित्त्वाभावाद्गुणः, एङि पररूपत्वम्, ‘एत्ये धत्यूट्सु’ इति वृद्धिर्व्यत्ययेन न प्रवर्तते, ‘चादिलोपे विभाषा’ इति निघाताभावः । अमन्त्रितस्याविद्यमानत्वात् आख्यातं न निहन्यते इति केचित् । उपसर्गस्य तिङन्तेऽनुप्रवेशात् धातोरुदात्तत्वे ‘तिङि चोदात्तवति’ इति गतेरनुदात्तत्वं, ‘उदात्तवता तिङा’ इति समासः । यज्ञो विशेष्यते - देवेभिः देवैः इन्वितं व्याप्तम् । इवि व्याप्तौ, इदित्त्वान्नुम् । किं च - इमं पशुं पाशात् प्रमुञ्चत, यज्ञपतिं यजमानं च बन्धात् सर्वस्मादृणबन्धात् परिमुञ्चत सर्वतो मुञ्चत ॥

विश्वास-प्रस्तुतिः

अदि॑ति॒ᳶ पाश॒म्प्र मु॑मोक्त्वे॒तन्नमᳶ॑ प॒शुभ्यᳶ॑ पशु॒पत॑ये करोमि ।
अ॒रा॒ती॒यन्त॒मध॑रङ्कृणोमि॒ यन्द्वि॒ष्मस्तस्मि॒न्प्रति॑ मुञ्चामि॒ पाश॑म् ।

मूलम्

अदि॑ति॒ᳶ पाश॒म्प्र मु॑मोक्त्वे॒तन्नमᳶ॑ प॒शुभ्यᳶ॑ पशु॒पत॑ये करोमि ।
अ॒रा॒ती॒यन्त॒मध॑रङ्कृणोमि॒ यन्द्वि॒ष्मस्तस्मि॒न्प्रति॑ मुञ्चामि॒ पाश॑म् ।

भट्टभास्कर-टीका

11-12पाशान्मुच्यमानं तमनुमन्त्रयते - अदितिरिति द्वाभ्यां जगतीत्रिष्टुभ्भ्यां द्विपदाभ्याम् ॥ अदितिः अदीना पृथिवी देवमाता वा एतं पाशं प्रमुमोक्तु । पूर्ववच्छपश्श्लुः । पशुभ्यः पशुपतये च नमः करोमि नमस्करोमि अपराधनिवृत्त्यर्थम् । किंच – अरातीयन्तं अस्माकमरातित्वं कर्तुमिच्छन्तं, अरातिमिवाचरन्तं वा । व्यत्ययेन परस्मैपदम् । अधरं मत्तो न्यूनं करोमि अस्माभिरविदितं गूढषत्रुं अनेन बद्ध्वा निपातयामीति । अथ यं च वयं द्विष्मः यः प्रकाशोस्माभिर्विदितः अस्माकं शत्रुः तस्मिन्नेतं पाशं प्रतिमुञ्चामीति सोनेन बद्धो म्रियतामिति ॥

विश्वास-प्रस्तुतिः

त्वामु॒ ते द॑धिरे हव्य॒वाहँ॑ शृतङ्क॒र्तार॑मु॒त य॒ज्ञिय॑ञ्च ।
अग्ने॒ सद॑क्ष॒स्सत॑नु॒र्हि भू॒त्वाऽथ॑ ह॒व्या जा॑तवेदो जुषस्व ।

मूलम्

त्वामु॒ ते द॑धिरे हव्य॒वाहँ॑ शृतङ्क॒र्तार॑मु॒त य॒ज्ञिय॑ञ्च ।
अग्ने॒ सद॑क्ष॒स्सत॑नु॒र्हि भू॒त्वाऽथ॑ ह॒व्या जा॑तवेदो जुषस्व ।

भट्टभास्कर-टीका

13वपामभिजुहोति - त्वामु त इति त्रिष्टुभा ॥ उ इत्यवधारणे । ते देवाः, देवेभिरिन्वितमित्यत्र प्रकृतत्वात् । त्वामेव हव्यवाहं हविषां वोढारं दधिरे धारयामासुः कृतवन्त इत्यर्थः । वहतेर्ण्विः । शृतंकर्तारं शृतं पक्वं हविः कुर्वन्तम् । ‘नित्यं पक्वहविषोः’ इति शृभावः, पूर्वपदस्य मुमागमश्छान्दसः । उत अपि च यज्ञियं यज्ञसंपादनार्हं । ‘यज्ञर्त्विग्भ्याम्’ इति घः । हि यस्मादेवं तस्मात् अथेदानीमेव हे अग्ने सदक्षः सोत्साहः । दक्ष शैघ्र्ये । सतनुः सशरीरः दृढशरीरश्च भूत्वा हे जातवेदः जातप्रज्ञ जातानां वा वेदितः त्वमेवेदं कर्तुमर्हसि । तस्माद्धव्या हव्यानि जुषस्व ध्रियस्व तानि वोढुम् । ‘शेश्छन्दसि’ इति शिलोपः । जातानि वेत्तीति ‘गतिकारकयोरपि’ इत्यसुन् ॥

विश्वास-प्रस्तुतिः

जात॑वेदो व॒पया॑ गच्छ दे॒वान्त्वँ हि होता॑ प्रथ॒मो ब॒भूथ॑ ।
घृ॒तेन॒ त्वन्त॒नुवो॑ वर्धयस्व॒ स्वाहा॑कृतँ ह॒विर॑दन्तु दे॒वाः ।

मूलम्

जात॑वेदो व॒पया॑ गच्छ दे॒वान्त्वँ हि होता॑ प्रथ॒मो ब॒भूथ॑ ।
घृ॒तेन॒ त्वन्त॒नुवो॑ वर्धयस्व॒ स्वाहा॑कृतँ ह॒विर॑दन्तु दे॒वाः ।

भट्टभास्कर-टीका

14वपां जुहोति - जातवेद इति त्रिष्टुभा ॥ हे जातवेदः वपया देवान् गच्छ वपासारं गृहीत्वा देवसकाशं गच्छ । कस्मादेवमुच्यते? इति चेत् - त्वं हि होता प्रथमः अस्मान्मनुष्यहोतुः पूर्वो बभूथ तस्मादेवं ब्रूमः । तस्मात्तादृशस्त्वं घृतेन तनुवः तनूः देवानां वर्धयस्व । ते च देवाः वर्धिततनवः स्वाहाकृतं स्वाहाकारेण हुतमिदं हविरदन्तु । यद्वा - स त्वं घृतेन तनुवः आत्मीयाः वर्धयस्व । किमर्थम्? स्वाहाकृतं हविर्देवा अदन्तु तदर्थं त्वयि हि वर्धमानतनौ देवा हविरत्तुं प्रभवन्तीति । ‘तन्वादीनां छन्दसि बहुलम्’ इति तनोरुवङादेशः । वृरण्यन्तस्य अचित्तवत्कर्तृकत्वात् ण्यन्तात् ‘अणावकर्मकात्’ इति परस्मैपदाभावः । स्वाहाशब्दस्योर्यादित्वेन गतित्वात् ‘गतिरनन्तरः’ इति प्रकृतिस्वरत्वम्, निपाता आद्युदात्ताः ॥

विश्वास-प्रस्तुतिः

स्वाहा॑ दे॒वेभ्यः॑ ।

मूलम्

स्वाहा॑ दे॒वेभ्यः॑ ।

भट्टभास्कर-टीका

15पूर्वं परिवप्यं जुहोति - स्वाहा देवेभ्य इति यजुषा ॥ स्वाहा हुतमिदमस्तु देवेभ्यः पुरस्तात्स्वाहाकृतिभ्य इति ॥

विश्वास-प्रस्तुतिः

दे॒वेभ्य॒स्स्वाहा॑ ॥ [14]

मूलम्

दे॒वेभ्य॒स्स्वाहा॑ ॥ [14]

भट्टभास्कर-टीका

16उत्तरं जुहोति - देवेभ्यस्स्वाहेति यजुषैव ॥ देवेम्यः उपरिष्टात्स्वाहाकृतिभ्यः स्वाहुतमस्त्विति । ‘पुरस्तात्स्वाहाकृतयो वा अन्ये देवाः’ इत्यादि ब्राह्मणम् । तत्राभितो वपाया होमः स परितो वपां भवः परिवप्यः । द्वावप्येतौ एकार्थावेव मन्त्रौ । तत्र वपा भागिभिः अव्यवहितान् देवान् प्रतिपादयितुं प्रथमस्वाहाकारादिरभूत्, द्वितीयास्वाहाकारान्ता स्वाहाकारेण व्यवधानं मा भूदिति ॥

भट्टभास्कर-टीका

इति तृतीये प्रथमे चतुर्थोनुवाकः ॥