सोमक्रयणीपदाञ्जनम् । २-३ पशुश्रपणार्थस्याग्नेः प्रणयनम् । ४ पशोरवदाननाशे प्रायश्चित्तम् ५ पश्वपहर्तृनाशार्थं होमश्च
विश्वेदेवा ऋषयः।
मूलम् (संयुक्तम्)
य॒ज्ञव्ँ वा ए॒तत्सम्भ॑रन्ति॒ यत्सो॑म॒क्रय॑ण्यै प॒दय्ँय॑ज्ञमु॒खँ ह॑वि॒र्धाने॒ यर्हि॑ हवि॒र्धाने॒ प्राची॑ प्रव॒र्तये॑यु॒स्तर्हि॒ तेनाक्ष॒मुपा॑ञ्ज्याद्यज्ञमु॒ख ए॒व य॒ज्ञमनु॒ सन्त॑नोति
विश्वास-प्रस्तुतिः
य॒ज्ञव्ँ वा ए॒तत्सम्भ॑रन्ति।
मूलम्
य॒ज्ञव्ँ वा ए॒तत्सम्भ॑रन्ति।
भट्टभास्कर-टीका
1अथ हविर्धानयोरक्षोपाञ्जनं विधास्यन्नाह - यज्ञं वा इत्यादि ॥ यज्ञमेवैतत्सम्भरन्ति यत्सोमक्रयण्याः पदं संभरन्ति । यज्ञस्य प्रधानोपकरणत्वात् ।
विश्वास-प्रस्तुतिः
यत्सो॑म॒क्रय॑ण्यै प॒दय्ँय॑ज्ञमु॒खँ ह॑वि॒र्धाने॒,
यर्हि॑ हवि॒र्धाने॒ प्राची॑ प्रव॒र्तये॑यु॒स्तर्हि॒ तेनाक्ष॒मुपा॑ञ्ज्यात् ।
मूलम्
यत्सो॑म॒क्रय॑ण्यै प॒दय्ँय॑ज्ञमु॒खँ ह॑वि॒र्धाने॒,
यर्हि॑ हवि॒र्धाने॒ प्राची॑ प्रव॒र्तये॑यु॒स्तर्हि॒ तेनाक्ष॒मुपा॑ञ्ज्यात् ।
भट्टभास्कर-टीका
यज्ञमुखं हविर्धाने यज्ञस्य मुखमिव उपक्रमणमेवैते हविर्धाने भवतः । हवींषि निधीयन्ते अनयोरिति हविर्धाने शकटे । यस्मादेवं तस्मात् यर्हि यस्मिन् काले हविर्धाने प्राची प्रवर्तयेयुः तर्हि तस्मिन्काले तेन पदतृतीयेन अक्षं अक्षस्य धुरं उपाञ्ज्यात् पत्नी ।
विश्वास-प्रस्तुतिः
यज्ञमु॒ख ए॒व य॒ज्ञमनु॒ सन्त॑नोति ।
मूलम्
यज्ञमु॒ख ए॒व य॒ज्ञमनु॒ सन्त॑नोति ।
भट्टभास्कर-टीका
यज्ञमुख एव उपक्रम एव यज्ञं समस्तं अनुसन्तनोति अनुसन्ततं करोति ॥
मूलम् (संयुक्तम्)
प्राञ्च॑म॒ग्निम्प्र ह॑र॒न्त्युत्पत्नी॒मा न॑य॒न्त्यन्वनाँ॑सि॒ प्र व॑र्तय॒न्त्यथ॒ वा अ॑स्यै॒ष धिष्णि॑यो हीयते॒ सोऽनु॑ ध्यायति॒ स ई॑श्व॒रो रु॒द्रो भू॒त्वा [9] प्र॒जाम्प॒शून्यज॑मानस्य॒ शम॑यितोः
विश्वास-प्रस्तुतिः
प्राञ्च॑म॒ग्निम्प्र ह॑र॒न्ति ।
उत्पत्नी॒मा न॑यन्ति ।
मूलम्
प्राञ्च॑म॒ग्निम्प्र ह॑र॒न्ति ।
उत्पत्नी॒मा न॑यन्ति ।
भट्टभास्कर-टीका
2प्राञ्चमग्निं प्रहरन्तीत्यादयो विधयः ॥ प्राञ्चं प्रहरन्ति । पत्नीमुदानयन्ति ।
विश्वास-प्रस्तुतिः
अन्वनाँ॑सि॒ प्र व॑र्तयन्ति ।
मूलम्
अन्वनाँ॑सि॒ प्र व॑र्तयन्ति ।
भट्टभास्कर-टीका
अनांसि अनुप्रवर्तयन्ति ।
विश्वास-प्रस्तुतिः
अथ॒ वा अ॑स्यै॒ष धिष्णि॑यो हीयते ।
मूलम्
अथ॒ वा अ॑स्यै॒ष धिष्णि॑यो हीयते ।
भट्टभास्कर-टीका
अथ वै इदानीं अस्याग्नेः धिष्णियो हीयते प्रहीयते ।
विश्वास-प्रस्तुतिः
२सोऽनु॑ ध्यायति ।
मूलम्
२सोऽनु॑ ध्यायति ।
भट्टभास्कर-टीका
ततश्च स हीनधिष्ण्योग्निरनुध्यायति अनुचिन्तयति धिष्ण्यविरहितोहम् ।
विश्वास-प्रस्तुतिः
स ई॑श्व॒रो रु॒द्रो भू॒त्वा प्र॒जाम्प॒शून्यज॑मानस्य॒ शम॑यितोः ।
मूलम्
स ई॑श्व॒रो रु॒द्रो भू॒त्वा प्र॒जाम्प॒शून्यज॑मानस्य॒ शम॑यितोः ।
भट्टभास्कर-टीका
स तादृशो रुद्रः क्रूरो भूत्वा यजमानस्य प्रजां पशूंश्च शमयितोः शमयितुं नाशयितुमीश्वरश्शक्त एव स्यात् ॥
मूलम् (संयुक्तम्)
यर्हि॑ प॒शुमाप्री॑त॒मुद॑ञ्च॒न्नय॑न्ति॒ तर्हि॒ तस्य॑ पशु॒श्रप॑णँ हरे॒त्तेनै॒वैन॑म्भा॒गिन॑ङ्करोति
विश्वास-प्रस्तुतिः
यर्हि॑ प॒शुमाप्री॑त॒मुद॑ञ्च॒न्नय॑न्ति ।
तर्हि॒ तस्य॑ पशु॒श्रप॑णँ हरे॒त् ।
तेनै॒वैन॑म्भा॒गिन॑ङ्करोति ।
मूलम्
यर्हि॑ प॒शुमाप्री॑त॒मुद॑ञ्च॒न्नय॑न्ति ।
तर्हि॒ तस्य॑ पशु॒श्रप॑णँ हरे॒त् ।
तेनै॒वैन॑म्भा॒गिन॑ङ्करोति ।
भट्टभास्कर-टीका
3तत्रायं समाधिरित्याह - यर्हीत्यादि ॥ यर्हि यस्मिन् काले पशुमाप्रीतं इष्टकामत्वादीषत्प्रियमिति केचित् यदा - उदञ्चं नयन्ति तर्हि तदानीमेव पशुश्रपणं अग्निं तस्याहवनीयस्यैकदेशं हरेत् ।
तेनैवैनं भागिनं करोति ततश्च भागलाभेन तृप्तः प्रजां पशूंश्च न शमयति ॥
मूलम् (संयुक्तम्)
यज॑मानो॒ वा आ॑हव॒नीयो॒ यज॑मानव्ँ॒वा ए॒तद्वि क॑र्षन्ते॒ यदा॑हव॒नीया॑त्पशु॒श्रप॑णँ॒ हर॑न्ति॒ स वै॒व स्यान्नि॑र्म॒न्थ्यव्ँ॑वा कुर्या॒द्यज॑मानस्य सात्म॒त्वाय
विश्वास-प्रस्तुतिः
यज॑मानो॒ वा आ॑हव॒नीयो॒ यज॑मानव्ँ॒वा ए॒तद्वि क॑र्षन्ते ।
यदा॑हव॒नीया॑त्पशु॒श्रप॑णँ॒ हर॑न्ति ।
मूलम्
यज॑मानो॒ वा आ॑हव॒नीयो॒ यज॑मानव्ँ॒वा ए॒तद्वि क॑र्षन्ते ।
यदा॑हव॒नीया॑त्पशु॒श्रप॑णँ॒ हर॑न्ति ।
भट्टभास्कर-टीका
4अथाहवनीयात्पशुश्रपणहरणे दोषमाह - यजमानो वा इत्यादि ॥ ततश्च यजमानो निरात्मकस्स्यादिति । समाधत्ते - स वैव स्यात् स एव आहवनीयैकदेशः पशुश्रपणस्स्यात् ।
ननु चोक्तम् यजमानो निरात्मकस्स्यादिति; ननु चेदमप्युक्तम् ‘स ईश्वरो रुद्रोभूत्वा प्रजां पशून्यजमानस्य शमयितोः’ इति ।
विश्वास-प्रस्तुतिः
स वै॒व स्यान् ..
मूलम्
स वै॒व स्यान् ..
भट्टभास्कर-टीका
तस्मादग्नेर्भागवत्त्वाय स वैव स्यात् स एव भागतृप्तो यजमानं सात्मानं करिष्यतीति ।
विश्वास-प्रस्तुतिः
नि॑र्म॒न्थ्यव्ँ॑वा कुर्या॒द्यज॑मानस्य सात्म॒त्वाय॑ ।
मूलम्
नि॑र्म॒न्थ्यव्ँ॑वा कुर्या॒द्यज॑मानस्य सात्म॒त्वाय॑ ।
भट्टभास्कर-टीका
पक्षान्तरमप्याह - निर्मन्थ्यं वा कुर्यात् पशुश्रपणं यजमानस्य सात्मत्वाय । ननु निर्भागोग्निः प्रजां पशून्यजमानस्य नाशयेत्, अत्र स्वयमाचार्येणैव समाधानमुक्तम् - आहवनीयादुल्मुकमादाय अरणी उपसंगृह्य पूर्वं पशोः प्रतिपद्यते निर्मन्थ्येन वा पशुं श्रपयन्ति वपया तत्सहोल्मुकमाहरन्तीति । एवमुल्मुकस्याग्रतः पशोर्नयनेन अग्निर्भागवान् भवति । तस्य पुनराहरणेन यजमानश्च सात्मा संपद्यते इति । पुराणगार्हपत्यस्स इत्युच्यत इति केचित् । अस्मिन् पक्षे गार्हपत्यादुल्मुकमादाय दक्षिणया द्वारोपनिर्हत्य दक्षिणेन सदः परीत्य दक्षिणेन मार्जालीयं धिष्ण्यं पर्याहृत्य दक्षिणेन यूपं चाहवनीयं च अतिहृत्य अन्तरेण चात्वालोत्करावुदङुपनिर्हृत्य तेन पशुं श्रपयेयुः ॥
मूलम् (संयुक्तम्)
यदि॑ प॒शोर॑व॒दान॒न्नश्ये॒दाज्य॑स्य प्रत्या॒ख्याय॒मव॑ द्ये॒त्सैव तत॒ᳶ प्राय॑श्चित्तिः
विश्वास-प्रस्तुतिः
यदि॑ प॒शोर॑व॒दान॒न्नश्ये॑त् । आज्य॑स्य प्रत्या॒ख्याय॒मव॑ द्येत् ।
मूलम्
यदि॑ प॒शोर॑व॒दान॒न्नश्ये॑त् । आज्य॑स्य प्रत्या॒ख्याय॒मव॑ द्येत् ।
भट्टभास्कर-टीका
5यदि पशोरित्यादि ॥ यावन्ति पशोरवदानानि नश्यन्ति तावत्कृत्व आज्यस्यावद्येत् । छान्दसो णमुल् । यद्वा - तत्प्रत्याख्यायं आज्यस्यावद्येत् प्रत्याम्नायतयेति यावत् ।
विश्वास-प्रस्तुतिः
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
मूलम्
सैव तत॒ᳶ प्राय॑श्चित्तिः ।
भट्टभास्कर-टीका
सैव ततोवदान-विनाशदोषान्मोचनाय प्रायश्चित्तिः, दोषनिर्घातार्थं कर्म प्रायश्चित्तिः । प्रायः प्रायेण कर्मणोपगमः तदर्था चित्तिः ज्ञानं प्रायश्चित्तिः, तद्दोषनिर्घातार्थत्वात् । पारस्करादित्वात्सुट् । असुन्नन्तो वा प्रायश्शब्दः, छान्दसमाद्युदात्तत्वम् ॥
मूलम् (संयुक्तम्)
ये प॒शुव्ँवि॑मथ्नी॒रन्यस्तान्का॒मये॒तार्ति॒मार्च्छे॑यु॒रिति॑ कु॒विद॒ङ्गेति॒ नमो॑वृक्तिवत्य॒र्चाग्नी॑ध्रे जुहुया॒न्नमो॑वृक्तिमे॒वैषाव्ँ॑वृङ्क्ते ता॒जगार्ति॒मार्च्छ॑न्ति ॥ [10]
विश्वास-प्रस्तुतिः
ये प॒शुव्ँवि॑मथ्नी॒रन् ।
यस्तान्का॒मये॒तार्ति॒मार्च्छे॑यु॒रिति॑ ।
कु॒विद॒ङ्गेति॒ नमो॑वृक्तिवत्य॒र्चा ।
आग्नी॑ध्रे जुहुयात् ।
मूलम्
ये प॒शुव्ँवि॑मथ्नी॒रन् ।
यस्तान्का॒मये॒तार्ति॒मार्च्छे॑यु॒रिति॑ ।
कु॒विद॒ङ्गेति॒ नमो॑वृक्तिवत्य॒र्चा ।
आग्नी॑ध्रे जुहुयात् ।
भट्टभास्कर-टीका
6ये पशुमिति ॥ पश्वर्थं ये विमथ्नीरन् विमाथं कलहं कुर्वन्ति यस्तान् कामयेत एते आर्तिमार्छेयुरिति स आग्नीध्रे जुहुयात् नमोवृक्तिशब्दवत्या ‘कुविदङ्ग यवमन्तः’ इत्येतया ऋचा ।
विश्वास-प्रस्तुतिः
नमो॑वृक्तिमे॒वैषाव्ँ॑वृङ्क्ते ।
ता॒जगार्ति॒मार्च्छ॑न्ति ॥
मूलम्
नमो॑वृक्तिमे॒वैषाव्ँ॑वृङ्क्ते ।
ता॒जगार्ति॒मार्च्छ॑न्ति ॥
भट्टभास्कर-टीका
सोनेन होमेन एषां विमाथकारिणां नमोवृक्तिं वृङ्क्ते नमोन्नं तस्य वर्जनं वृङ्क्ते वर्जयति करोति । रायस्पोषं पुष्णातीति वद्द्रष्टव्यम् । यद्वा - तदेव वर्जनीयवृक्तिः तदेषां वर्जयति । ऊर्यादित्वेन गतित्वात् ‘तादौ च’ इति नमश्शब्दस्य प्रकृतिस्वरत्वम्, अव्ययपूर्वपदप्रकृतिस्वरत्वं वा । ततस्ते ताजक् तदानीमेव आर्तिमार्छन्ति नश्यन्ति ।
इयमृक् ‘स्वाद्वीं त्वा’ इत्यत्र व्याख्याता । यथा तु खलु यवमुद्गव्रीह्यादिबहुधान्यवन्तः पुरुषाः यवादीन् सहोत्पद्यमानान् अनुपूर्वं परिपाट्या वियूय पृथक्कृत्य परस्परतः काण्डफलादिभ्यो वा तुषकणादिभ्यो वा पृथक्कृत्य दधति तथा यूयमपि हे देवाः इहेह सर्वत्र एषां भोजनानि कृणुत । केषाम्? ये अस्माकमुपकारिणः बर्हिषः यज्ञस्य नमोवृक्तिं अन्नस्य पशुलक्षणस्य दोषं विनाशं न जग्मुः न गताः न कुर्वन्ति । ये पुनर्नमोवृक्तिं कुर्वन्ति हविर्विनाशयन्ति तेषां भोजनानि मा कार्ष्ट ते तु तदभावेनानेन होमेन नश्यन्त्विति ॥
इति तृतीये प्रथमे तृतीयोनुवाकः ॥