०२ सोमोपस्थानमन्त्राः अध्वर्युकर्तव्यविधयश्च

विश्वेदेवा ऋषयः।

मूलम् (संयुक्तम्)

ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दो॒मानाँ॒ साम्रा॑ज्यङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतात्

विश्वास-प्रस्तुतिः

ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात् ।
ए॒ष ते॒ त्रैष्टु॑भो॒ +++(भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात् । )+++।

+++(ए॒ष ते)+++ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात् ।

मूलम्

ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात् ।
ए॒ष ते॒ त्रैष्टु॑भो॒ +++(भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात् । )+++।

+++(ए॒ष ते)+++ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतात् ।

भट्टभास्कर-टीका

1-4पुरस्तात्सेोमस्य क्रयाद्राजानमभिमन्त्रयते । एष वल्लीसोमस्तव गायत्रो भागः अंशः । ‘कर्षात्त्वतः’ इत्यन्तोदात्तत्वम् । एतदुक्तं भवति - गायत्रीविषयं यत्तव साम्राज्यं तस्येदं स्थानं इममधिष्ठाय तत्साम्राज्यं कुरुष्वेति । इत्थं मे मदर्थं मदीयं वा सोमं सोमाय राज्ञे ब्रूतात् ब्रूत । हे छन्दांसि । यद्वा - हे देवाः ‘तस्य तात्’ इति तादादेशः । एवं ‘एष ते त्रैष्टुभः एष ते जागतः’ इत्येतयोरपि वेदितव्यम् । भाग इत्युभयत्राप्यनुषज्यते । त्रिष्टुप्जगतीशब्दाभ्यामुत्सादित्वात्प्राग्दीव्यतीयोऽण् । छन्दांसि प्रधानानि वा । गायत्रीत्रिष्टुप्जगत्येतद्विषयं तत्संबन्धि यत्तव साम्राज्यादिकं तदेतेन वल्लीसोमेन गच्छ कुर्वित्यर्थः । एवं त्वां साम्राज्यं गमयामः अनेनाभिमन्त्रणेनेति भावः । शिष्टं स्पष्टम् ।

विश्वास-प्रस्तुतिः

छ॒न्दो॒मानाँ॒ साम्रा॑ज्यङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतात् ।

मूलम्

छ॒न्दो॒मानाँ॒ साम्रा॑ज्यङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतात् ।

भट्टभास्कर-टीका

सम्यग्राजत इति सम्राट्, क्विप् ‘मो राजिसमः क्वौ’ इति मः । तस्य भावः साम्राज्यं गुणवचनत्वात् ष्यञ् । छन्दोविषयं तवैश्वर्यमित्यर्थः ॥

मूलम् (संयुक्तम्)

यो वै सोमँ॒ राजा॑नँ॒ साम्रा॑ज्यल्ँ लो॒कङ्ग॑मयि॒त्वा क्री॒णाति॒ गच्छ॑ति॒ स्वानाँ॒ साम्रा॑ज्य॒ञ्छन्दाँ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञ॒स्साम्रा॑ज्यो लो॒कᳶ पु॒रस्ता॒त्सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत॒ साम्रा॑ज्यमे॒व [5] ए॒नल्ँ॒ लो॒कङ्ग॑मयि॒त्वा क्री॑णति॒ गच्छ॑ति॒ स्वानाँ॒ साम्रा॑ज्यँ

विश्वास-प्रस्तुतिः

यो वै सोमँ॒ राजा॑नँ॒ साम्रा॑ज्ल्लो॒कङ्ग॑मयि॒त्वा क्री॒णाति ।

मूलम्

यो वै सोमँ॒ राजा॑नँ॒ साम्रा॑ज्ल्लो॒कङ्ग॑मयि॒त्वा क्री॒णाति ।

भट्टभास्कर-टीका

5अथैतेषां मन्त्राणां ब्राह्मणम् - यो वै सोममिति ॥ लोकः प्रकाशः ।

विश्वास-प्रस्तुतिः

गच्छ॑ति॒ स्वानाँ॒ साम्रा॑ज्यम् ।

मूलम्

गच्छ॑ति॒ स्वानाँ॒ साम्रा॑ज्यम् ।

भट्टभास्कर-टीका

साम्राज्यलक्षणं लोकं गमयित्वा यस्सोमं क्रीणाति स स्वानामात्मीयानां साम्राज्यं गच्छति । तिङः परत्वान्न निहन्यते । समानवाक्ये वा पदात्परत्वाभावात् ।

विश्वास-प्रस्तुतिः

छन्दाँ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञ॒स्साम्रा॑ज्यो लो॒कः

मूलम्

छन्दाँ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञ॒स्साम्रा॑ज्यो लो॒कः

भट्टभास्कर-टीका

कः पुनः साम्राज्यलक्षणो लोकः इत्याह - छन्दांसीत्यादि । साम्राज्यस्य छन्दोवीषयत्वात् ताच्छब्द्यमुपचर्यते, व्यत्ययेन पुल्लिङ्गता ।

विश्वास-प्रस्तुतिः

पु॒रस्ता॒त्सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत ।

मूलम्

पु॒रस्ता॒त्सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत ।

भट्टभास्कर-टीका

कथंपुनस्तत्सोमो गमयितव्य इत्यत आह - पुरस्तादित्यादि । पुरस्तात् पूर्वस्मिन् काले । ‘दिक्शब्देभ्यः ’ इत्यादिना अस्तातिः, ‘अस्ताति च’ इति पुरादेशः । एवमिति ‘एष ते गायत्रः’ इत्यादिभिर्मन्त्रैरित्यर्थः ।

विश्वास-प्रस्तुतिः

साम्रा॑ज्यमे॒व [5] ए॒नल्ँ॒ लो॒कङ्ग॑मयि॒त्वा क्री॑णाति ।
गच्छ॑ति॒ स्वानाँ॒ साम्रा॑ज्यम् ।

मूलम्

साम्रा॑ज्यमे॒व [5] ए॒नल्ँ॒ लो॒कङ्ग॑मयि॒त्वा क्री॑णाति ।
गच्छ॑ति॒ स्वानाँ॒ साम्रा॑ज्यम् ।

भट्टभास्कर-टीका

इष्टसिद्धिसमर्थनेन निगमयति - साम्राज्यमेवेत्यादि । एवं कुर्वन् साम्राज्यं लोकं गमयित्वैव एनं सो क्रीणाति, स्वयं च स्वानां साम्राज्यं गच्छति ॥

विश्वास-प्रस्तुतिः

यो वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति ।

मूलम्

यो वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति ।

भट्टभास्कर-टीका

6अथ तानूनप्त्रस्यावघ्राणं विधास्यन्नाह - यो वै तानूनप्त्रस्येत्यादि ॥ तनूनामपां नप्ता चतुर्थस्तनूनपात् शरीरस्थोग्निः, तस्मै यद्गृह्यते आज्यं तत्तानूनप्त्रम् । यद्यपि ‘आपतये त्वा गृह्णामि’ इत्याद्यापत्यादिभ्यः प्राणादिभ्यो ह्येतद्गृह्यते । तथाऽपि प्राधान्यात्तानूनप्त्रा व्यपदिश्यते । तस्य यः प्रतिष्ठां वेद स प्रतितिष्ठत्येव ॥

मूलम् (संयुक्तम्)

ब्रह्मवा॒दिनो॑ वदन्ति॒ न प्रा॒श्ञन्ति॒ न जु॑ह्व॒त्यथ॒ क्व॑ तानून॒प्त्रम्प्रति॑ तिष्ठ॒तीति॑

विश्वास-प्रस्तुतिः

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
न प्रा॒श्ञन्ति॑ ।
न जु॑ह्वति ।
अथ॒ क्व॑ तानून॒प्त्रम्प्रति॑ तिष्ठ॒तीति॑ ।

मूलम्

ब्र॒ह्म॒वा॒दिनो॑ वदन्ति ।
न प्रा॒श्ञन्ति॑ ।
न जु॑ह्वति ।
अथ॒ क्व॑ तानून॒प्त्रम्प्रति॑ तिष्ठ॒तीति॑ ।

भट्टभास्कर-टीका

7अधुना ब्रह्मवादिभिः पर्यनुयोजयति - ब्रह्मवादिन इत्यादि ॥ ब्रह्म वेदः तदर्थं वदितुं शीलमेषां ते ब्रह्मवादिनः । ‘ब्रह्मणि वदः’ इति णिनिः । वदन्ति प्रश्नं कुर्वन्ति - नेदं तानूनप्त्रं प्राश्नन्ति, न चेदं जुह्वति प्राशनेन वा होमेन वा नास्य प्रतिष्ठेति ॥

विश्वास-प्रस्तुतिः

प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूयात् ।

मूलम्

प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूयात् ।

भट्टभास्कर-टीका

8अथेदानीं तानूनप्त्रं क्व प्रति तिष्ठति, काऽस्य प्रतिपत्तिरिति इदानीं तेभ्य उत्तरं अन्येनैव दापयति - प्रजापताविति ॥ प्राजापत्यात्मनि प्रजानां वा पालके मनसि अस्य प्रतिष्ठेति ब्रूयात् ॥

मूलम् (संयुक्तम्)

त्रिरव॑ जिघ्रेत्प्र॒जाप॑तौ त्वा॒ मन॑सि जुहो॒मीत्ये॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति

विश्वास-प्रस्तुतिः

त्रिरव॑ जिघ्रेत् ।

मूलम्

त्रिरव॑ जिघ्रेत् ।

भट्टभास्कर-टीका

9कः पुनस्तस्य प्रकार इत्यत्राह - त्रिरव जिघ्रेदिति ॥

विश्वास-प्रस्तुतिः

प्र॒जाप॑तौ त्वा॒ मन॑सि जुहो॒मीति॑ ।
ए॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा ।
य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति ।

मूलम्

प्र॒जाप॑तौ त्वा॒ मन॑सि जुहो॒मीति॑ ।
ए॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा ।
य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति ।

भट्टभास्कर-टीका

मन्त्रमाह - प्रजापतावित्यादि ॥ गतम् ॥

विश्वास-प्रस्तुतिः

ए॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति ।

मूलम्

ए॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति ।

भट्टभास्कर-टीका

10एषा वा इत्यादि प्राजापत्यात्मब्राह्मणम् ॥ गतमेव ॥

मूलम् (संयुक्तम्)

यः [6] वा अ॑ध्व॒र्योᳶ प्र॑ति॒ष्ठाव्ँवेद॒ प्रत्ये॒व ति॑ष्ठति॒ यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॒ तत्तिष्ठ॒न्ना श्रा॑वयेदे॒षा वा अ॑ध्व॒र्योᳶ प्र॑ति॒ष्ठा

विश्वास-प्रस्तुतिः

यो वा अ॑ध्व॒र्योᳶ प्र॑ति॒ष्ठाव्ँवेद॑ ।
प्रत्ये॒व ति॑ष्ठति ।
यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॑ ।
तत्तिष्ठ॒न्ना श्रा॑वयेत् ।
ए॒षा वा अ॑ध्व॒र्योᳶ प्र॑ति॒ष्ठा ।

मूलम्

यो वा अ॑ध्व॒र्योᳶ प्र॑ति॒ष्ठाव्ँवेद॑ ।
प्रत्ये॒व ति॑ष्ठति ।
यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॑ ।
तत्तिष्ठ॒न्ना श्रा॑वयेत् ।
ए॒षा वा अ॑ध्व॒र्योᳶ प्र॑ति॒ष्ठा ।

भट्टभास्कर-टीका

11यो वा अध्वर्योः प्रतिष्ठामित्यादि ॥ अतीत्यावस्थानमभिक्रमणम् । यतोनभिक्रम्य होष्यामीति तत्तत्र तिष्ठन्नाश्रावयेत् ततो होष्यन्नाक्रामेदिति । एवमनुष्ठानं अध्वर्योः प्रतिष्ठाहेतुत्वात्प्रतिष्ठा ॥

विश्वास-प्रस्तुतिः

य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति ।

मूलम्

य ए॒वव्ँ वेद॒ प्रत्ये॒व ति॑ष्ठति ।

भट्टभास्कर-टीका

12य एवमित्यादि ॥ गतम् ॥

मूलम् (संयुक्तम्)

यद॑भि॒क्रम्य॑ जुहु॒यात्प्र॑ति॒ष्ठाया॑ इया॒त्तस्मा॑त्समा॒नत्र॒ तिष्ठ॑ता होत॒व्य॑म्प्रति॑ष्ठित्यै

विश्वास-प्रस्तुतिः

यद॑भि॒क्रम्य॑ जुहु॒यात् ।
प्र॒ति॒ष्ठाया॑ इयात् ।

मूलम्

यद॑भि॒क्रम्य॑ जुहु॒यात् ।
प्र॒ति॒ष्ठाया॑ इयात् ।

भट्टभास्कर-टीका

13विपर्यये दोषमाह - यदभिक्रम्येत्यादि ॥ यद्याश्रावणस्थानादभिक्रम्य जुहुयात् प्रतिष्ठाया इयात् च्यवेत ।

विश्वास-प्रस्तुतिः

तस्मा॑त्समा॒नत्र॒ तिष्ठ॑ता होत॒व्य॑म्प्रति॑ष्ठित्यै ।

मूलम्

तस्मा॑त्समा॒नत्र॒ तिष्ठ॑ता होत॒व्य॑म्प्रति॑ष्ठित्यै ।

भट्टभास्कर-टीका

तस्मात्समानत्र समानदेशे तिष्ठता होतव्यं आश्रावणदेश एवेत्यर्थः । प्रतिष्ठित्यै भवति । तदेतदन्यत्र हविर्यज्ञेभ्योऽभिक्रामं जुहोति हविर्यज्ञेषु भवतीति ॥

मूलम् (संयुक्तम्)

यो वा अ॑ध्व॒र्योस्स्वव्ँवेद॒ स्ववा॑ने॒व भ॑वति॒ स्रुग्वा अ॑स्य॒ स्वव्ँवा॑य॒व्य॑मस्य [7] स्वञ्च॑म॒सो॑ऽस्य॒ स्वय्ँयद्वा॑य॒व्यव्ँ॑वा चम॒सव्ँवाऽन॑न्वारभ्याश्रा॒वये॒त्स्वादि॑या॒त्तस्मा॑दन्वा॒रभ्या॒श्राव्यँ॒ स्वादे॒व नैति

विश्वास-प्रस्तुतिः

यो वा अ॑ध्व॒र्योस्स्वव्ँवेद ।
स्ववा॑ने॒व भ॑वति ।
स्रुग्वा अ॑स्य॒ स्वव्ँ, वा॑य॒व्य॑मस्य [7] स्वञ्, च॑म॒सो॑ऽस्य॒ स्वय्ँ,
यद्वा॑य॒व्यव्ँ॑वा चम॒सव्ँवाऽन॑न्वारभ्याश्रा॒वये॒त् स्वादि॑यात् ।

मूलम्

यो वा अ॑ध्व॒र्योस्स्वव्ँवेद ।
स्ववा॑ने॒व भ॑वति ।
स्रुग्वा अ॑स्य॒ स्वव्ँ, वा॑य॒व्य॑मस्य [7] स्वञ्, च॑म॒सो॑ऽस्य॒ स्वय्ँ,
यद्वा॑य॒व्यव्ँ॑वा चम॒सव्ँवाऽन॑न्वारभ्याश्रा॒वये॒त् स्वादि॑यात् ।

भट्टभास्कर-टीका

14यो वा अध्वर्योस्स्वं वेदेत्यादि ॥ स्रुगादयः अध्वर्योस्स्वानि धनानि । तत्र सोमविषयत्वादनुवाकस्य वायव्यचमसयोरेव ग्रहणम् । यद्वायव्यं वा चमसं वेति ।

विश्वास-प्रस्तुतिः

तस्मा॑दन्वा॒रभ्या॒श्राव्यँ॒ स्वादे॒व नैति॑ ।

मूलम्

तस्मा॑दन्वा॒रभ्या॒श्राव्यँ॒ स्वादे॒व नैति॑ ।

भट्टभास्कर-टीका

तस्मादित्यादि । वायव्यं वा चमसं वा हस्तेऽन्वारभ्य हस्ते गृहीत्वा आश्राव्यमेवं कुर्वन् स्वादेव नैति ॥

मूलम् (संयुक्तम्)

यो वै सोम॒मप्र॑तिष्ठाप्य स्तो॒त्रमु॑पाक॒रोत्यप्र॑तिष्ठित॒स्सोमो॒ भव॒त्यप्र॑तिष्ठित॒स्स्तोमोऽप्र॑तिष्ठितान्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नोऽप्र॑तिष्ठितोऽध्व॒र्युः

विश्वास-प्रस्तुतिः

यो वै सोम॒मप्र॑तिष्ठाप्य स्तो॒त्रमु॑पाक॒रोति ।
अप्र॑तिष्ठित॒स्सोमो॒ भव॒ति + अप्र॑तिष्ठित॒स्स्तोमः॑ ।

मूलम्

यो वै सोम॒मप्र॑तिष्ठाप्य स्तो॒त्रमु॑पाक॒रोति ।
अप्र॑तिष्ठित॒स्सोमो॒ भव॒ति + अप्र॑तिष्ठित॒स्स्तोमः॑ ।

भट्टभास्कर-टीका

15यो वै सोममप्रतिष्ठाप्येत्यादि ॥ सोममप्रतिष्ठाय अप्रतिष्ठां गमयित्वा यः स्तोत्रमुपाकरोति तस्य सोमादयोप्रतिष्ठिताः स्वकार्यकरणे असमर्थाः भवेयुः ।

विश्वास-प्रस्तुतिः

अप्र॑तिष्ठितान्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नोऽप्र॑तिष्ठितोऽध्व॒र्युः ।

मूलम्

अप्र॑तिष्ठितान्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नोऽप्र॑तिष्ठितोऽध्व॒र्युः ।

भट्टभास्कर-टीका

उक्थानि शस्त्राणि ॥

मूलम् (संयुक्तम्)

वा॑य॒व्यव्ँ॑ वै सोम॑स्य प्रति॒ष्ठा च॑म॒सो॑ऽस्य प्रति॒ष्ठा सोम॒स्स्तोम॑स्य॒ स्तोम॑ उ॒क्थाना॒ङ्ग्रहव्ँ॑वा गृही॒त्वा च॑म॒सव्ँवो॒न्नीय॑ स्तो॒त्रमु॒पाकु॑र्या॒त्प्रत्ये॒व सोमँ॑ स्था॒पय॑ति॒ प्रति॒ स्तोम॒म्प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑ध्व॒र्युः ॥ [8]

विश्वास-प्रस्तुतिः

वा॒य॒व्यव्ँ॑ वै सोम॑स्य प्रति॒ष्ठा ।
च॒म॒सो॑ऽस्य प्रति॒ष्ठा।
सोम॒स्स्तोम॑स्य॒ +++(प्रतिष्ठा)+++स्तोम॑ उ॒क्थानाम् +++(प्रतिष्ठा )+++।

मूलम्

वा॒य॒व्यव्ँ॑ वै सोम॑स्य प्रति॒ष्ठा ।
च॒म॒सो॑ऽस्य प्रति॒ष्ठा।
सोम॒स्स्तोम॑स्य॒ +++(प्रतिष्ठा)+++स्तोम॑ उ॒क्थानाम् +++(प्रतिष्ठा )+++।

भट्टभास्कर-टीका

16कदा पुनः प्रतितिष्ठतीत्याह - वायव्यं वा इत्यादि ॥ वायव्यं पात्रविशेषः । यत्र ग्रहा गृह्यन्ते तत्र सोमस्य प्रतिष्ठा तत्र सोमः प्रतितिष्ठतीति । चमसो वायव्यस्य प्रतिष्ठा तत्र वायव्यं प्रतितिष्ठतीति मुख्ये चमसे संपातमवनयतीति ।
अस्य सोमस्य प्रतिष्ठाभूतस्यापि वायव्यस्य चमसः प्रतिष्ठेति प्राधान्येन निर्दिष्टस्य वायव्यस्यापि अन्वादेशत्वादस्येत्यनुदात्तत्वम् ।

प्रत्येव सोममित्यादि । +++(प्रत्येव सोममिति मन्त्रभाग उत्तरत्रोच्यते)+++ तेषामेव प्रस्तुतत्वात् चमसोस्य सोमस्य प्रतिष्ठेति ॥

विश्वास-प्रस्तुतिः

ग्रहव्ँ॑वा गृही॒त्वा च॑म॒सव्ँवो॒न्नीय॑ स्तो॒त्रमु॒पाकु॑र्यात् ।

मूलम्

ग्रहव्ँ॑वा गृही॒त्वा च॑म॒सव्ँवो॒न्नीय॑ स्तो॒त्रमु॒पाकु॑र्यात् ।

भट्टभास्कर-टीका

17कथं पुनः सोमः प्रतिष्ठां गमयितव्य इत्याह - ग्रहं वेत्यादि ॥ ग्रहचमसशब्दाभ्यां विशिष्टाधारवर्तिसोम उच्यते । तत्र ग्रहणं ग्रहस्योन्नयनम् । उन्नयनमेव चमसस्य ग्रहणम् । तस्मादुच्यते ग्रहं वा गृहीत्वा चमसं वोन्नीयेति ॥

मूलम् (संयुक्तम्)

प्रत्ये॒व सोमँ॑ स्था॒पय॑ति॒ प्रति॒ स्तोम॒म्प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑ध्व॒र्युः ॥ [8]

विश्वास-प्रस्तुतिः

प्रत्ये॒व सोमँ॑ स्था॒पय॑ति ।
प्रति॒ स्तोम॒म्प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑ध्व॒र्युः ॥ [8]

मूलम्

प्रत्ये॒व सोमँ॑ स्था॒पय॑ति ।
प्रति॒ स्तोम॒म्प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑ध्व॒र्युः ॥ [8]

भट्टभास्कर-टीका

18एवं हि सोमः प्रतिष्ठां गमित एवेत्याह - प्रत्येव सोममित्यादि ॥ ग्रहचमसशब्दाभ्यां स्तोत्रोपाकरणं कृतं भवति । ग्रहप्रतिष्ठात्वात् सोमस्य, तस्य चमसप्रतिष्ठात्वात् । ततश्च सोमादीन् प्रतिष्ठापयैति, यजमानश्च प्रतितिष्ठति, अध्वर्युश्च प्रति तिष्ठतीत्येव ॥

इति तृतीये प्रथमे द्वितीयोनुवाकः ॥