०१ दीक्षितेन वक्तव्यमन्त्रेषु अमेध्यदर्शने वर्षणे च वक्तव्यौ

विश्वेदेवा ऋषयः।

एष निष्पावके शाके कुशिकान्वयजन्मना ।
भट्टभास्करमिश्रेण ज्ञानयज्ञः प्रकीर्तितः ॥

मूलम् (संयुक्तम्)

प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॒ स तपो॑ऽतप्यत॒ स स॒र्पान॑सृजत॒ सो॑ऽकामयत प्र॒जास्सृ॑जे॒येति॒ स द्वि॒तीय॑मतप्यत॒ स वयाँ॑स्यसृजत॒ सो॑ऽकामयत प्र॒जास्सृ॑जे॒येति॒ स तृ॒तीय॑मतप्यत॒ स ए॒तन्दी॑क्षितवा॒दम॑पश्य॒त्तम॑वद॒त्ततो॒ वै स प्र॒जा अ॑सृजत॒ यत्तप॑स्त॒प्त्वा दी॑क्षितवा॒दव्ँवद॑ति प्र॒जा ए॒व तद्यज॑मानः [1] सृ॒ज॒ते॒

विश्वास-प्रस्तुतिः

प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॑ ।

मूलम्

प्र॒जाप॑तिरकामयत प्र॒जास्सृ॑जे॒येति॑ ।

भट्टभास्कर-टीका

1औपानुवाक्यं काण्डं वैश्वदेवमारभ्यते । मन्त्रानाम्नाय तदानीमेव ब्राह्मणैर्विनियुज्यते । अनारभ्याधीतत्वाच्च प्रकृत्यर्थमेतत् । अत्र लिङ्गवचनाभ्यां विनियोगः । प्रायश्चात्र व्यामिश्रलिङ्गा मन्त्राः, ते च यथालिङ्गं नियम्यन्ते ।
तत्र दीक्षितवादं विधास्यंस्तदर्थं पुराकल्पं विदधाति - प्रजापतिरकामयतेत्यादि ॥ पूर्वं प्रजानां पतिरकामयत, प्रजास्सर्वास्सृजेयेति । सृज विसर्गे, दैवादिकोऽनुदात्तेत् । तौदादिक उदात्तेत् । तत्राद्यस्य विकरणव्यत्ययः । द्वितीयस्य त्वात्मनेपदव्यत्ययः ।

विश्वास-प्रस्तुतिः

स तपो॑ऽतप्यत ।

मूलम्

स तपो॑ऽतप्यत ।

भट्टभास्कर-टीका

स तथा कामयमानः तपोऽतप्यत ‘अग्निष्टोमेन वै प्रजापतिः प्रजा असृजत’ इति प्रजासृष्ट्यर्थमग्निष्टोमेन यजमानः केवलं तप एवातप्यत । न दीक्षितवादमवदत् । ‘तपस्तपः कर्मकस्यैव’ इति कर्मवद्भावः । किन्नाम पुनस्तत्तपः यत्सोतप्यत? उच्यते - ‘अङ्गिरसस्सुवर्गं लोकं यन्तोप्सु दीक्षातपसी प्रावेशयन्नप्सु स्नाति साक्षादेव दीक्षातपसी अव रुन्धे’ इत्यादि ब्राह्मणं वेदितव्यम् । किं पुनस्तर्हि तपोऽङ्गिरसोप्सु प्रावेशयन्? उपवासादिनियममित्येके । उपसदात्मकमित्यन्ये । दीक्षित्वा दीक्षितवादमवदन्नेवोपसद उपासीददिति ।

विश्वास-प्रस्तुतिः

स स॒र्पान॑सृजत ।

मूलम्

स स॒र्पान॑सृजत ।

भट्टभास्कर-टीका

स तथा कुर्वन् प्रजापतिः सर्पानेवासृजत न मनुष्यादीन् । मासा एवैत उक्ता भवन्तीत्याचार्याः ।

विश्वास-प्रस्तुतिः

सो॑ऽकामयत प्र॒जास्सृ॑जे॒येति॑ ।

स द्वि॒तीय॑मतप्यत ।

मूलम्

सो॑ऽकामयत प्र॒जास्सृ॑जे॒येति॑ ।

स द्वि॒तीय॑मतप्यत ।

भट्टभास्कर-टीका

स पुनरप्यकामयत, सर्वाः प्रजास्सृजेयेति । स द्वितीयमतप्यत । द्वितीयं तृतीयमिति क्रियाविशेषणम् ।

विश्वास-प्रस्तुतिः

स वयाँ॑स्यसृजत ।

मूलम्

स वयाँ॑स्यसृजत ।

भट्टभास्कर-टीका

स पुनरपि तथा चरन् वयांसि पक्षिण एवासृजत । छन्दांस्येवैतान्युक्तानि भवन्तीत्याचार्याः ।

विश्वास-प्रस्तुतिः

सो॑ऽकामयत प्र॒जास्सृ॑जे॒येति॑ ।

मूलम्

सो॑ऽकामयत प्र॒जास्सृ॑जे॒येति॑ ।

भट्टभास्कर-टीका

स भूयोऽप्यकामयत सर्वाः प्रजास्सृजेयेति ।

विश्वास-प्रस्तुतिः

स तृ॒तीय॑मतप्यत ।
स ए॒तन्दी॑क्षितवा॒दम॑पश्यत् ।

मूलम्

स तृ॒तीय॑मतप्यत ।
स ए॒तन्दी॑क्षितवा॒दम॑पश्यत् ।

भट्टभास्कर-टीका

स तृतीयमतप्यत, अथ स तृतीयं तप्यमान एतं दीक्षितवादमपश्यत् । दीक्षितेन वेदितव्यं दीक्षितवादम् । संस्कृतवाणीत्येके । अन्य आहुः - एतमिति वचनादनन्तरवक्ष्यमाणविषयत्वात्, यद्दीक्षितेन वदितव्यममेध्यदर्शनादौ ‘अबद्धं मनः’ इत्यादि तद्दीक्षितवाद इति । ‘थाथघञ्क्त’ इत्युत्तरपदान्तोदात्तत्वम् ।

विश्वास-प्रस्तुतिः

तम॑वदत् ।
ततो॒ वै स प्र॒जा अ॑सृजत ।

मूलम्

तम॑वदत् ।
ततो॒ वै स प्र॒जा अ॑सृजत ।

भट्टभास्कर-टीका

अथ तं दीक्षितवादमवदत्प्रजापतिः । ततस्सर्वाः प्रजा असृजत ।

विश्वास-प्रस्तुतिः

यत्तप॑स्त॒प्त्वा दी॑क्षितवा॒दव्ँवद॑ति ।
प्र॒जा ए॒व तद्यज॑मानस्सृजते ।

मूलम्

यत्तप॑स्त॒प्त्वा दी॑क्षितवा॒दव्ँवद॑ति ।
प्र॒जा ए॒व तद्यज॑मानस्सृजते ।

भट्टभास्कर-टीका

यस्मादेवं तस्माद्यजमानोऽपि यत् यदि तपस्तप्त्वा दीक्षितवादं वदति तत्तेन हेतुना प्रजाः पुत्रपौत्रादीन् सृजते । तस्माद्दीक्षितेन वादः कर्तव्यः इति विधिरनुमीयते । ‘व्यादाय स्वपिति’ इतिवत्पूर्वकालता तत्राविवक्षिता । तपश्च तप्तव्यं दीक्षितवादश्च वदितव्य इत्युभयं विधीयते ॥

मूलम् (संयुक्तम्)

यद्वै दी॑क्षि॒तो॑ऽमे॒ध्यम्पश्य॒त्यपा॑स्माद्दी॒क्षा क्रा॑मति॒ नील॑मस्य॒ हरो॒ व्ये॑ति

विश्वास-प्रस्तुतिः

यद्वै दी॑क्षि॒तो॑ऽमे॒ध्यम्पश्य॒ति ..
अपा॑स्माद्दी॒क्षा क्रा॑मति ।

मूलम्

यद्वै दी॑क्षि॒तो॑ऽमे॒ध्यम्पश्य॒ति ..
अपा॑स्माद्दी॒क्षा क्रा॑मति ।

भट्टभास्कर-टीका

2अथ दीक्षितस्यामेध्यदर्शने दोषमाह - यद्वा इति ॥ यद्यमधेयं दीक्षितः पश्यति अस्माद्दीक्षाफलमपक्रामति । किञ्च – नीलं पापं अमेध्यदर्शनाच्च अस्य भवति ; दीक्षापक्रमणमात्रमेव मा ।

विश्वास-प्रस्तुतिः

नील॑मस्य॒ हरो॒ व्ये॑ति ।

मूलम्

नील॑मस्य॒ हरो॒ व्ये॑ति ।

भट्टभास्कर-टीका

किञ्च - हरस्तेजस्तदप्यस्माद्व्येति विगच्छति । केचिदाहुः - नील मितिरूपमात्रं गृह्यते; अस्य रूपं तेजश्च नश्यति ॥

मूलम् (संयुक्तम्)

अब॑द्ध॒म्मनो॑ द॒रिद्र॒ञ्चक्षु॒स्सूर्यो॒ ज्योति॑षाँ॒ श्रेष्ठो॒ दीक्षे॒ मा मा॑ हासी॒रित्या॑ह॒ नास्मा॑द्दी॒क्षाऽप॑ क्रामति॒ नास्य॒ नील॒न्न हरो॒ व्ये॑ति

विश्वास-प्रस्तुतिः

अब॑द्ध॒म्मनो॑ द॒रिद्र॒ञ्चक्षु॒स्सूर्यो॒ ज्योति॑षाँ॒ श्रेष्ठो॒ दीक्षे॒ मा मा॑ हासी॒रित्या॑ह ।
नास्मा॑द्दी॒क्षाऽप॑ क्रामति ।
नास्य॒ नील॒न्न हरो॒ व्ये॑ति ।

मूलम्

अब॑द्ध॒म्मनो॑ द॒रिद्र॒ञ्चक्षु॒स्सूर्यो॒ ज्योति॑षाँ॒ श्रेष्ठो॒ दीक्षे॒ मा मा॑ हासी॒रित्या॑ह ।
नास्मा॑द्दी॒क्षाऽप॑ क्रामति ।
नास्य॒ नील॒न्न हरो॒ व्ये॑ति ।

भट्टभास्कर-टीका

3अथ प्रमादकृते जपं विदधाति - अबद्धं मन इत्यादि ॥ मा मा हासीः; इत्यन्तं इमं मन्त्रमाह जपेदित्यर्थः । अथोक्तदोषाभावमाह - नास्मादिति । दीक्षा चास्मान्नापक्रामति, नीलं चास्य न भवति, हरश्चास्मान्न व्येति ॥

मन्त्रार्थस्तु- अबद्धमनियतं मनः अन्तःकरणं शुभानशुभांश्च विषयाननुधावति न नियन्तुं शक्यते । किञ्च - दरिद्रं कृपणं चक्षुः बाह्यं करणं न प्रभु । इष्टमेव विषयं गृह्णाति नानिष्टमिति एतस्य नस्तीत्यर्थः । दरिद्रातेः पचाद्यचि छान्दसमन्त्यात्पूर्वस्योदात्तत्वम् । किं च - सूर्यो ज्योतिषां प्रकाशकानां श्रेष्ठः गहनान्यपि प्रकाशयति । न किं चिदप्यावरणं च प्रतीतमस्ति । तस्मादेभिरेव त्रिभिरेतत्कृतं न मयेति भावः । यस्मादेवं तस्माद्धे दीक्षे मा मा हसीः मा त्याक्षीः मतो मा क्रमीः । समानवाक्ये निघातादिविधानादपदात्परत्वादामन्त्रितानुदात्तत्वाभावे षाष्ठिकमामन्त्रिताद्युदात्तत्वमेव ॥

मूलम् (संयुक्तम्)

यद्वै दी॑क्षि॒तम॑भि॒वर्ष॑ति दि॒व्या आपोऽशा॑न्ता॒ ओजो॒ बल॑न्दी॒क्षाम् [2] तपो॑ऽस्य॒ निर्घ्न॑न्ति

विश्वास-प्रस्तुतिः

यद्वै दी॑क्षि॒तम॑भि॒वर्ष॑ति ।
दि॒व्या आपोऽशा॑न्ता॒ ओजो॒ बल॑न्दी॒क्षाम् [2] तपो॑ऽस्य॒ निर्घ्न॑न्ति ।

मूलम्

यद्वै दी॑क्षि॒तम॑भि॒वर्ष॑ति ।
दि॒व्या आपोऽशा॑न्ता॒ ओजो॒ बल॑न्दी॒क्षाम् [2] तपो॑ऽस्य॒ निर्घ्न॑न्ति ।

भट्टभास्कर-टीका

4अथ दीक्षितस्याभिवर्षणे दोषमाह - यद्वा - इति ॥ यद्दीक्षितमभिवर्षति दिव्या अन्तरिक्ष्या अभूमिगता अशान्ताः असुखहेतवः आपः अस्य दीक्षितस्य ओजः बलं ओजिष्ठं बलं दीक्षां च तपश्च पुरोक्तं निर्घ्नान्ती निश्चयेन नाशयन्ति ॥

मूलम् (संयुक्तम्)

उन्द॒तीर्बल॑न्ध॒त्तौजो॑ धत्त॒ बल॑न्धत्त॒ मा मे॑ दी॒क्षाम्मा तपो॒ निर्व॑धि॒ष्टेत्या॑हैतदे॒व सर्व॑मा॒त्मन्ध॑त्ते॒ नास्यौजो॒ बल॒न्न दी॒क्षान्न तपो॒ निर्घ्न॑न्त्य॒ग्निर्वै दी॑क्षि॒तस्य॑ दे॒वता॒ सो॑ऽस्मादे॒तर्हि॑ ति॒र इ॑व॒ यर्हि॒ याति॒ तमी॑श्व॒रँ रक्षाँ॑सि॒ हन्तोः॑ [3]

विश्वास-प्रस्तुतिः

उ॒न्द॒तीर्बल॑न्ध॒त्तौजो॑ धत्त।
बल॑न्धत्त ।
मा मे॑ दी॒क्षाम्मा तपो॒ निर्व॑धि॒ष्टेत्या॑ह ।
ए॒तदे॒व सर्व॑मा॒त्मन्ध॑त्ते ।

मूलम्

उ॒न्द॒तीर्बल॑न्ध॒त्तौजो॑ धत्त।
बल॑न्धत्त ।
मा मे॑ दी॒क्षाम्मा तपो॒ निर्व॑धि॒ष्टेत्या॑ह ।
ए॒तदे॒व सर्व॑मा॒त्मन्ध॑त्ते ।

भट्टभास्कर-टीका

5अथ प्रमादकृते परिहारार्थं जपमाह - उन्दतीरिति मा तपो निर्वधिष्टेत्यन्तम् ॥ अस्य जपेन एतत्पूर्वोक्तं सर्वमात्मन् आत्मनि धत्ते स्थापयति ।

विश्वास-प्रस्तुतिः

नास्यौजो॒ बल॒न्न दी॒क्षान्न तपो॒ निर्घ्न॑न्ति ।
अ॒ग्निर्वै दी॑क्षि॒तस्य॑ दे॒वता ।
सो॑ऽस्मादे॒तर्हि॑ ति॒र इ॑व॒ यर्हि॒ याति ।
तमी॑श्व॒रँ रक्षाँ॑सि॒ हन्तोः॑ ।

मूलम्

नास्यौजो॒ बल॒न्न दी॒क्षान्न तपो॒ निर्घ्न॑न्ति ।
अ॒ग्निर्वै दी॑क्षि॒तस्य॑ दे॒वता ।
सो॑ऽस्मादे॒तर्हि॑ ति॒र इ॑व॒ यर्हि॒ याति ।
तमी॑श्व॒रँ रक्षाँ॑सि॒ हन्तोः॑ ।

भट्टभास्कर-टीका

दोषाभावमाह - नास्यौजिष्ठं बलं न दीक्षां निर्घ्नन्ति दिव्या आपः ॥

मन्त्रार्थस्तु - हे आपः उन्दतीः मां क्लेदयन्त्यो यूयं बलं मयि धत्त स्थापयत । ओजो दीप्तिं च बलं प्राणं जीवितं वा मयि धत्त । कर्मभ्रेषादाध्वरिकं कर्म मा छेदि । किं च - मम दीक्षां तपश्च मा निर्वधिष्ट निष्कृष्य मा नीनशत ॥

प्रयाणादिमन्त्राणां ब्राह्मणम्

मूलम् (संयुक्तम्)

भ॒द्राद॒भि श्रेय॒ᳶ प्रेहि॒ बृह॒स्पतिᳶ॑ पुरए॒ता ते॑ अ॒स्त्वित्या॑ह॒ ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒स्तमे॒वान्वार॑भते॒ स ए॑नँ॒ सम्पा॑रय॒त्येदम॑गन्म देव॒यज॑नम्पृथि॒व्या इत्या॑ह देव॒यज॑नँ॒ ह्ये॑ष पृ॑थि॒व्या आ॒गच्छ॑ति॒ यो यज॑ते॒ विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॒ इत्या॑ह

विश्वास-प्रस्तुतिः

भ॒द्राद॒भि श्रेय॒ᳶ प्रेहि॑ ।
बृह॒स्पतिᳶ॑ पुरए॒ता ते॑ अ॒स्त्वित्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒स्तमे॒वान्वार॑भते ।

मूलम्

भ॒द्राद॒भि श्रेय॒ᳶ प्रेहि॑ ।
बृह॒स्पतिᳶ॑ पुरए॒ता ते॑ अ॒स्त्वित्या॑ह ।
ब्रह्म॒ वै दे॒वाना॒म्बृह॒स्पति॒स्तमे॒वान्वार॑भते ।

भट्टभास्कर-टीका

6अथ भद्रादभि श्रेय इत्यादिना ‘दैवीं धियं मनामहे’ इत्याम्नातानां आध्वरिकाणां प्रयाणादिमन्त्राणां ब्राह्मणम् । तत्र ‘अच्छिन्नं तन्तुं पृथिव्या अनु गेषमित्याह सेतुमेव कृत्वाऽत्येति’ इति समाप्य शिष्टानां तेषां प्रकरणमुल्लङ्घ्यास्मिन्प्रदेशे ब्राह्मणमाम्नातं किमर्थमिति चिन्त्यम् । केचिदाहुः - उपानुवाक्यत्वेन काण्डविशेषप्रापणार्थमिति । अपरे तु ब्रुवते - एषां दीक्षितवादप्रसिद्द्यर्थमस्मिन्ननुवाके एषां ब्राह्मणमाम्नायत इति ।

तत्र प्रयाणमन्त्रः - भद्रादभि श्रेय इति ॥ व्याख्यातश्चायम् ।

अत्र किंचिद्विशेषं ब्राह्मणं दर्शयति - अग्निर्वै दीक्षितस्येति ॥ दीक्षितस्याग्निर्देवता । स चाग्निरस्माद्दीक्षितादेतर्हि अस्मिन् काले तिर इव तिरोहित इव ‘इदमो र्हिल्’ ‘एतेतौ रथोः’ । कस्मिन् काले इत्याह - यर्हि यातीति । यस्मिन् काले अरण्योरग्नीन् समारोप्यायं याति तदास्मादग्निस्तिरोहित इव । सर्वात्मना तिरोधानं नास्तीति दर्शयितुमिवेत्युक्तम् । ‘अनद्यतनेर्हिलन्यतरस्याम्’ इति यच्छब्दाद्धिल् प्रत्ययः । ततश्च तं दीक्षितं तादृशमात्मनो देवतया अग्निना विहीनं रक्षांसि हन्तोः हन्तुमीश्वरमीश्वराणि । वचनव्यत्ययेनैकवचनम् । ‘इर्श्वरे तोसुन्कसुनौ’ इति तोसुन् प्रत्ययः । यागविघ्नाचरणं हननम् । तत्र भद्रादभि श्रेय इत्यनया बृहस्पतिवत्यर्चा प्रयाणेन एतद्दोषप्रसङ्गाभावः । तथाहि - ब्रह्म वै देवानां बृहस्पतिः तमेवान्वारभते अनुसंपृक्तो भवति ।

विश्वास-प्रस्तुतिः

स ए॑नँ॒ सम्पा॑रयति ।
एदम॑गन्म देव॒यज॑नम्पृथि॒व्या इत्या॑ह ।
दे॒व॒यज॑नँ॒ ह्ये॑ष पृ॑थि॒व्या आ॒गच्छ॑ति ।
यो यज॑ते॒ विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॒ इत्या॑ह ।

मूलम्

स ए॑नँ॒ सम्पा॑रयति ।
एदम॑गन्म देव॒यज॑नम्पृथि॒व्या इत्या॑ह ।
दे॒व॒यज॑नँ॒ ह्ये॑ष पृ॑थि॒व्या आ॒गच्छ॑ति ।
यो यज॑ते॒ विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॒ इत्या॑ह ।

भट्टभास्कर-टीका

स एनं संपारयति अविघ्नेन निर्वर्तितयागं करोति । पार तीर कर्मसमाप्तौ । अथ देवयजनमेदमगन्मेत्युच्यते ॥

मूलम् (संयुक्तम्)

विश्वे॒ ह्ये॑तद्दे॒वा जो॒षय॑न्ते॒ यद्ब्रा॑ह्म॒णा ऋ॑क्सा॒माभ्याय्ँ॒यजु॑षा स॒न्तर॑न्त॒ इत्या॑हर्क्सा॒माभ्याँ॒ ह्ये॑ष यजु॑षा स॒न्तर॑ति॒ यो यज॑ते

विश्वास-प्रस्तुतिः

विश्वे॒ ह्ये॑तद्दे॒वा जो॒षय॑न्ते ।
यद्ब्रा॑ह्म॒णा ऋ॑क्सा॒माभ्याय्ँ॒यजु॑षा स॒न्तर॑न्त॒ इत्या॑ह ।
ऋ॒क्सा॒माभ्याँ॒ ह्ये॑ष यजु॑षा स॒न्तर॑ति॒ यो यज॑ते ।

मूलम्

विश्वे॒ ह्ये॑तद्दे॒वा जो॒षय॑न्ते ।
यद्ब्रा॑ह्म॒णा ऋ॑क्सा॒माभ्याय्ँ॒यजु॑षा स॒न्तर॑न्त॒ इत्या॑ह ।
ऋ॒क्सा॒माभ्याँ॒ ह्ये॑ष यजु॑षा स॒न्तर॑ति॒ यो यज॑ते ।

भट्टभास्कर-टीका

7विश्वे देवा इत्यादि ॥ एतद्धि विश्वे देवा जोषयन्ते सेवन्ते यद्ब्राह्मणास्सेवन्ते । तस्माद्विश्वे देवा यदजुषन्त इति ब्राह्मणैः पूर्वैस्सेवितमुच्यते । अचतुरादिसूत्रे ऋक्सामशब्दोऽच्प्रत्ययान्तो निपात्यते ॥

मूलम् (संयुक्तम्)

रा॒यस्पोषे॑ण॒ समि॒षा म॑दे॒मेत्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते ॥ [4]

विश्वास-प्रस्तुतिः

रा॒यस्पोषे॑ण॒ समि॒षा म॑दे॒मेत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ॥ [4]

मूलम्

रा॒यस्पोषे॑ण॒ समि॒षा म॑दे॒मेत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ॥ [4]

भट्टभास्कर-टीका

8रायस्पोषेणेत्यादि ॥ मदेमेत्येतामाशिषमनेनाशास्ते ॥

भट्टभास्कर-टीका

इति भट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये तृतीयकाण्डे प्रथमप्रपाठके प्रथमोनुवाकः ॥