सायणो ऽत्र।
विधिश्रद्धे
दे॒वा वै य॒ज्ञस्य॑ +++(हविषां तत्तद्देवाय)+++ स्वगा+++(=स्वगत)+++क॒र्तार॒न् नावि॑न्द॒न्।
ते शय्ँ॒युम् बा॑र्हस्प॒त्यम् अ॑ब्रुवन्न् “इ॒मन् नो॑ य॒ज्ञँ स्व॒गा कु॒र्वि"ति॑।
सो॑ऽब्रवी॒द् वरव्ँ॑ वृणै। “यद् ए॒वाब्रा॑ह्मणो॒क्तो ऽश्र॑द्दधानो॒ यजा॑तै॒, सा मे॑ य॒ज्ञस्या॒शीर्+++(=फलम्)+++ अ॑स॒दि"ति॑।
तस्मा॒द् यदब्रा॑ह्मणो॒क्तो ऽश्र॑द्दधानो॒ यज॑ते - शय्ँ॒युमे॒व तस्य॑ बार्हस्प॒त्यय्ँ य॒ज्ञस्या॒शीर् ग॑च्छति ।
ब्राह्मणेषु नयः
“ए॒तन् ममे"त्य॑ब्रवी॒त्, “किम्मे॑ प्र॒जायाः॑?” इति॒ +++(शंयुः)+++।
+++(देवाः-)+++ " +++(ब्राह्मणं)+++ यो॑ ऽपगु॒रातै॑ +++(=ताडनाभिनयः)+++ श॒तेन॑ +++(निष्कानां त्वत्प्रजा)+++ यातया॒द्,
यो नि॒हन॑त् +++(=ताडयेत्)+++ स॒हस्रे॑ण यातया॒द्,
यो +++(ताडनेन)+++ लोहि॑तङ् क॒रव॒द् - याव॑तᳶ प्र॒स्कद्य॑ पाँ॒सून्त् स॑ङ्गृ॒ह्णात्, ताव॑तस् सव्ँवत्स॒रान् पि॑तृलो॒कन् न प्र जा॑ना॒दि"ति॑।
तस्मा॑द् ब्राह्म॒णाय॒ नाप॑ गुरेत॒, न नि ह॑न्या॒न्, न लोहि॑तङ् कुर्याद् - ए॒ताव॑ता॒ हैन॑सा भवति।
शंयुमन्त्रफलम्
“तच्छय्ँ॒योरा वृ॑णीमह॒” इत्या॑ह। य॒ज्ञमे॒व तत्स्व॒गा क॑रोति।
“तत् शय्ँ॒योरा वृ॑णीमह॒” इत्या॑ह - शय्ँ॒युमे॒व बा॑र्हस्प॒त्यम् भा॑ग॒धेये॑न॒ सम॑र्धयति।
“गा॒तुय्ँ य॒ज्ञाय॑ गा॒तुय्ँ य॒ज्ञप॑तय॒” इत्या॑ह - आ॒शिष॑मे॒वैतामा शा॑स्ते।
विश्वरपाठः
देवा वै यज्ञस्य स्वगाकर्तारन्नाविन्दन्ते शय्ँयुम्बार्हस्पत्यमब्रुवन्निमन्नो यज्ञँ स्वगा कुर्विति सोऽब्रवीद्वरव्ँवृणै यदेवाब्राह्मणोक्तोऽश्रद्दधानो यजातै सा मे यज्ञस्याशीरसदिति तस्माद्यदब्राह्मणोक्तोऽश्रद्दधानो यजते शय्ँयुमेव तस्य बार्हस्पत्यय्ँ यज्ञस्याशीर्गच्छति। एतन्ममेत्यब्रवीत्किम्मे प्रजायाः इति योऽपगुरातै शतेन यातयाद्यो निहनत्सहस्रेण यातयाद्यो लोहितङ्करवद्यावतᳶ प्रस्कद्य पाँसून्त्सङ्गृह्णात्तावतस्सव्ँवत्सरान्पितृलोकन्न प्र जानादिति तस्माद्ब्राह्मणाय नाप गुरेत न नि हन्यान्न लोहितङ्कुर्यादेतावता हैनसा भवति तच्छय्ँयोरा वृणीमह इत्याह यज्ञमेव तत्स्वगा करोति तत् [58]