११ संवर्गेष्टिहौत्रमन्त्रः

गायत्री १८-१९ अनुष्टुप् विश्वेदेवा ऋषयः

विश्वास-प्रस्तुतिः

यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व ।
नि होता॑ पू॒र्व्यस्स॑दः ।

मूलम्

यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒ अश्वाँ॑ अग्ने र॒थीरि॑व ।
नि होता॑ पू॒र्व्यस्स॑दः ॥

पद-पाठः

यु॒क्ष्व । हि । दे॒व॒हूत॑मा॒निति॑ देव-हूत॑मान् । अश्वा॑न् । अ॒ग्ने॒ । र॒थीः । इ॒व॒ ॥
नीति॑ । होता॑ । पू॒र्व्यः । स॒दः॒ ॥

भट्टभास्कर-टीका

1अथ संवर्गेष्टेः सप्तदशसामिधेन्योऽनभ्यस्ताः । युक्ष्वा हीत्याद्याः सर्वाः गायत्र्यः ॥ तत्र प्रथमा - हे अग्ने युक्ष्व योजय । छांन्दसो लुक् शपः, ‘द्व्यचोतेस्तिङः’ इति संहितायां दीर्घत्वम् ।
देवहूतमान् देवानामाह्वातृतमान् अश्वान् व्यापनान् ज्वालासमूहान् । उभयत्रापि ‘दीर्घादटि समानपादे’ इति रुत्वम् ।
रथीरिव यथा रथी रथवान् रथे अश्वान् युङ्क्ते । ‘छन्दसीवनिपौ’ इति मत्वर्थीय ईकारः ।
ततस्तथायुक्तजालस्त्वं पूर्व्यः पुराणो, होता देवानां यष्टा,
निषदः निषीद । लेटि व्यत्ययेन शपो लुकि अडागमः ॥

सायण-टीका

दशमे शंयु-वाकश् च पत्नी-संयाजकाः स्थिताः।
या दर्श-पूर्णमासाख्या सेष्टिर् अत्र समापिता॥

अथैकादशे संवर्गेष्टि-हौत्र-मन्त्रा अभिधीयन्ते। ननु “सत्यं प्रपद्ये” इत्यादिक एको हौत्र-काण्डः। “उभा वाम् इन्द्राग्नी” इत्यादिर् अन्त्यानुवाकात्मको ऽपरः। तयोर् मध्ये “युक्ष्वा हि” इत्य् अनुवाको न समाम्नातः। तत् कथम् अस्य हौत्रत्वम्? समाख्ययेति वदामः। यथा तयोः काण्डयोर् याज्ञिकानां समाख्यया हौत्रत्वं तथास्याप्य् अनुवाकस्येति द्रष्टव्यम्। अत एवापस्तम्ब आह— “अग्नये संवर्गाय पुरोडाशम् अष्टा-कपालम्” इत्य् उक्त्वा “युक्ष्वा हि देव-हूतमान् इति पञ्चदश सामिधेनीर् अन्वाह, नित्यया परिदधाति, ‘कुवित्सु नो गविष्टय’ इति याज्यानुवाक्ये, ‘यस्याजुषद् विद्माहि ते’ इति संयाज्ये” इति। नित्यया “आ जुहोत दुवस्यत” इत्य् अनयेत्य् अर्थः।

तत्र प्रथमायाः सामिधेन्याः पाठस् तु “युक्ष्वेति”। हे अग्ने त्वं देव-हूतमान् देवानाम् आह्वातृतमान् देवान् योजय। हि-शब्दः प्रसिद्ध-वाची। प्रसिद्धे ऽस्मिन् कर्मणीत्य् अर्थः। योजने दृष्टान्तः—“रथीर् अश्वान् इवेति”। रथ-स्वामी यथाश्वान् योजयति तद्वत्। किं च त्वं पूर्व्यः पुरातनो होता होमोत्पादको भूत्वा निषदो ऽस्मिन् याग-स्थाने निषीद।

विश्वास-प्रस्तुतिः

उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः ।
श्रद्विश्वा॒ वार्या॑ कृधि ।

मूलम्

उ॒त नो॑ देव दे॒वाँ अच्छा॑ वोचो वि॒दुष्ट॑रः ।
श्रद्विश्वा॒ वार्या॑ कृधि ।

पद-पाठः

उ॒त । नः॒ । दे॒व॒ । दे॒वान् । अच्छ॑ । वो॒चः॒ । वि॒दुष्ट॑र॒ इति॑ वि॒दुः-त॒रः॒ ॥ श्रत् । विश्वा॑ । वार्या॑ । कृ॒धि॒ ॥

भट्टभास्कर-टीका

2अथ द्वितीया - उत न इति ॥ हे देव दीप्तिमन् अग्ने अस्माकं कर्मणि देवान् अच्छ वोचः आभिमुख्येन ब्रूहि भ्रातृव्यानभिभवितुम् । एते सम्यग्यजन्त इति । छान्दसो लिट्, ‘निपातस्य च’ इत्यच्छेत्यस्य संहितायां दीर्घत्वम् ।
विदुष्टरः विद्वत्तरः । अयस्मयादित्वेन भत्वात्सम्प्रसारणम् ।
किञ्च - विश्वानि वार्याणि वरणीयानि अभिप्रेतानि भ्रातृव्यमरणादीनि श्रत् कृधि सत्यानि कुरत ।
यथाभिमतसंपत्तिस्सत्यम् । करोतेर्लेटि निपातस्य छान्दसश्शपो लुक् ‘श्रुशृणुपूकृवृभ्यः’ इति धिभावः ॥

सायण-टीका

अथ द्वितीया -
“उत न इति”। अपि च हे देवाग्ने त्वं विदुष्टरो ऽतिशयेनास्मद्-अभिप्रायं विद्वान् देवान् प्रत्य् अच्छाभिमुख्येन गत्वा ‘यजमानो हविर् दास्यतीति’ वोचो ब्रूहि। विश्वा वार्या सर्वाणि वरणीयान्य् अस्मद्-अभिप्रेतानि श्रत्-कृधि श्रद्धेयानि विश्वसनीयानि यथा भवन्ति तथा कुरु।

विश्वास-प्रस्तुतिः

त्वँ ह॒ यद्य॑विष्ठ्य॒ सह॑सस्सूनवाहुत ।
ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ।

मूलम्

त्वँ ह॒ यद्य॑विष्ठ्य॒ सह॑सस्सूनवाहुत ।
ऋ॒तावा॑ य॒ज्ञियो॒ भुवः॑ ।

पद-पाठः

त्वम् । ह॒ । यत् । य॒वि॒ष्ठ्य॒ । सह॑सः । सू॒नो॒ । आ॒हु॒तेत्या॑-हु॒त॒ ॥ ऋ॒तावेत्यृ॒त-वा॒ । य॒ज्ञियः॑ । भुवः॑ ॥

भट्टभास्कर-टीका

3तृतीया - त्वं इति ॥ हे यविष्ठ्य युवतम । छान्दसः स्वार्थिको यत् । सहसो बलस्य सूनो मथनप्रभवत्वात् हे आहुत नित्यमाभिमुख्येनाहुत । ‘सुबामन्त्रिते’ इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितसमुदायस्य पदादित्वात् षाष्ठिकमामन्त्रिताद्युदात्तत्वं, परस्य त्वाष्टमिकमामन्त्रिताद्युदात्तत्वम् ।
यत् यस्मात् ऋतावा सत्यवान् यज्ञवान् वा । तस्मादस्माकमपि यज्ञियो यज्ञसम्पादनार्हो भुवः भव । त्वमेव तथाभवितुमर्हसीति । भवतेर्लेटि शपो लुकि अडागमे ‘भूसुवोस्तिङि’ इति गुणाभावः । ‘हि च’ इति निघाताभावः ।
ऋतशब्दान्मत्वर्थीयो वनिप्रत्ययः ।
यज्ञशब्दात् ‘यज्ञर्त्विग्भाम्’ इति घः ॥

सायण-टीका

अथ तृतीया-
“त्वं ह इति”। हे यविष्ठ्य युवतम हे सहसः सूनो बलस्य पुत्र, मथन-शक्त्योत्पन्नत्वाद् बल-पुत्रत्वम्। हे आहुत देवानाम् आह्वातः, त्वं ह त्वम् एव यद् यस्माद् ऋतावा सत्यवांस् तस्माद् यज्ञियो भुवो यज्ञ-साधनो भव।

विश्वास-प्रस्तुतिः

अ॒यम॒ग्निस्स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ ।
मू॒र्धा क॒वी र॑यी॒णाम् ।

मूलम्

अ॒यम॒ग्निस्स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ ।
मू॒र्धा क॒वी र॑यी॒णाम् ।

पद-पाठः

अ॒यम् । अ॒ग्निः । स॒ह॒स्रिणः॑ । वाज॑स्य । श॒तिनः॑ । पतिः॑ ॥ मू॒र्धा । क॒विः । र॒यी॒णाम् ॥।

भट्टभास्कर-टीका

4चतुर्थी - अयमिति ॥ अयं खल्वग्निः पतिः स्वामी रयीणां सर्वधनानां तस्मादिहैव समिन्धयाम इति । अग्निरिदानीं विशेष्यते - सहस्रिणः शतिनश्च शतप्रमाणवतस्सहस्रप्रमाणवतश्च वाजस्य अन्नस्य पतिः स्वामी । अत एव मूर्धा प्रधानभूतः कविः क्रान्तदर्शनः । तस्मादयं रयीणां दाताऽस्त्विति भावः । रयीणामित्यत्र ‘नामन्यतरस्याम्’ इति विभक्त्युदात्तत्वम् ॥

सायण-टीका

अथ चतुर्थी -
“अयम् अग्निर् इति”। अयम् इध्यमानो ऽग्निः सहस्र-संख्याकस्य शत-संख्याकस्य च वाजस्यान्नस्य पतिर् अत एव मूर्धा शिरोवद् उन्नतः कविर् विद्वान् रयीणां धनानां दाता भवतु।

विश्वास-प्रस्तुतिः

तन्ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः ।
नेदी॑यो य॒ज्ञम॒ङ्गि॒रः॒ ।

मूलम्

तन्ने॒मिमृ॒भवो॑ य॒था न॑मस्व॒ सहू॑तिभिः ।
नेदी॑यो य॒ज्ञम॒ङ्गि॒रः॒ ।

पद-पाठः

तम् । ने॒मिम् । ऋ॒भवः॑ । य॒था॒ । एति॑ । न॒म॒स्व॒ । सहू॑तिभि॒रिति॒ सहू॑ति-भिः॒ ॥ नेदी॑यः । य॒ज्ञम् । अ॒ङ्गि॒रः॒ ॥

भट्टभास्कर-टीका

5पञ्चमी - तमिति ॥ हे अग्ने नेदीयः अन्तिकतमः सदा अस्माकं प्रत्यासन्नः अङ्गिरः अङ्गनादिगुणयुक्त तमिमं यज्ञम् आ नमस्व अस्मान् प्रति प्रह्वीभूतं कुरु । अस्मदभिमतसम्पादनोन्मुखं कुरु । सहूतिभिस्समानाह्वानैस्सहायैः सह ।
यद्वा - नेदीयः अन्तिकतममानमस्व । यथा ऋभवो देवतक्षाणो नेमिं नीयमानं आवर्तयन्ति । तद्वद्यज्ञमानमयेति । अन्तर्भावितस्य व्यत्ययेनात्मनेपदम् । ‘यथेति पदान्ते’ इति यथेत्यस्य निघातः ॥

सायण-टीका

अथ पञ्चमी - “तं नेमिम् इति”। हे अङ्गिरो ऽङ्ग-सौष्ठव-युक्ताग्ने समाना हूतिर् देवानाम् आह्वानं येषाम् ऋत्विजां ते सहूतयस् तैः सहूतिभिर् युक्तस् त्वं तं यज्ञम् अस्माकं नेदीयः समीपं प्रत्य् आनमस्व आनीय वशं कुरु। तत्र दृष्टान्तः “ऋभवो यथा इति”। यथा देव-तक्षाणो रथ-चक्रस्य नेमिम् आनीय स्व-वशत्वेन परिभ्राम्यमाणां कुर्वन्ति तद्वत्।

विश्वास-प्रस्तुतिः

तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या ।
वृष्णे॑ चोदस्व सुष्टु॒तिम् ।

मूलम्

तस्मै॑ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या ।
वृष्णे॑ चोदस्व सुष्टु॒तिम् ।

पद-पाठः

तस्मै॑ । नू॒नम् । अ॒भिद्य॑व॒ इत्य॒भि-द्य॒वे॒ । वा॒चा । वि॒रू॒पेति॑ वि-रू॒प॒ । नित्य॑या ॥ वृष्णे॑ । चो॒द॒स्व॒ । सु॒ष्टु॒तिमिति॑ सु-स्तु॒तिम् ॥ 3G ।

भट्टभास्कर-टीका

6षष्ठी - तस्मा इति ॥ नूनमिति पादपूरणे । हे अग्ने विरूप नानारूप तस्मै यज्ञैराराधनीयाय अभिद्यवे अभिगतदीप्तये वृष्णे वर्षित्रे इन्द्राय इन्द्रार्थं वाचा नित्यया वैदिक्या ऋगादिरूपया सुष्टुतिं शोभनां स्तुतिं शोभनस्तुतिकं वा यज्ञं चोदस्व प्रेरय पुनःपुनः प्रवर्तय । यद्वा - आभीक्ष्ण्यं नित्यत्वं यथा नित्यप्रहसित इति पुनःपुनः प्रवर्तमानया वाचा सुष्टुतिं प्रवर्तयेति । यथा पुनःपुनः स्तुवीत यजमानः तथा धनादिना समृद्धं कुर्विति ।
सुष्टुतिशब्देन गतिसमासे ‘मन्क्तिन्व्याख्यान’ इत्यादिना उत्तरपदान्तोदात्तत्वम् । बहुव्रीहौ छान्दसं षत्वम् ।
कश्चिदाह – तस्मै यजमानाय हविषां वर्षित्रे पुनःपुनः यज्ञं प्रवर्तयेति ॥

सायण-टीका

अथ षष्ठी -
“तस्मै इति”। हे विरूप विविध-रूप-युक्ताग्ने ऽभिद्यवे सर्वतो द्योतमानाय वृष्णे काम्यानां वर्षयित्रे तस्मै यष्टव्याय देवाय नित्यया वैदिक-मन्त्र-रूपया वाचास्माभिः क्रियमाणां सु-ष्टुतिं शोभनां स्तुतिं नूनं चोदस्व सर्वथा प्रेरय तद्-अग्रे कथयेत्य् अर्थः।

विश्वास-प्रस्तुतिः

कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः ।
प॒णिङ्गोषु॑ स्तरामहे ।

मूलम्

कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा॑कचक्षसः ।
प॒णिङ्गोषु॑ स्तरामहे ।

पद-पाठः

कम् । उ॒ । स्वि॒त् । अ॒स्य॒ । सेन॑या । अ॒ग्नेः । अपा॑कचक्षस॒ इत्यपा॑क-च॒क्ष॒सः॒ ॥ प॒णिम् । गोषु॑ । स्त॒रा॒म॒हे॒ ॥

भट्टभास्कर-टीका

7सप्तमी - कमुष्विदिति ॥ कमिति प्रश्ने, उ इत्यवधारणे, स्विदिति वितर्के, अस्याग्नेरपाकचक्षसः अनल्पदर्शनस्य प्रवृद्धज्ञानस्य सेनया बलसंपत्त्या कमेव उ खलु पणिं सांव्यवहारिकं क्रयविक्रयादानभोमादिलक्षणं गोषु गवादिधनविषयेषु स्तरामहे छादयामः । न किञ्चिदपि सर्वमपि व्यवहारं कुर्मः एवम् । पण व्यवहारे, औणादिकः इप्रत्ययः, तृणातेर्विकरणव्यत्ययेन शप्, स्विदित्यस्य छान्दस षत्वम् ॥

सायण-टीका

अथ सप्तमी-
“कमु ष्विद् इति”। पाको ऽल्पः। चक्षो ज्ञानम्। अपाकं चक्षो यस्यासाव् अपाक-चक्षाः सर्वज्ञ इत्य् अर्थः। सर्वं जानतो ऽस्याग्नेः सेनया परिचारक-जनेन सह गोषु गवादि-द्रव्य-विषये कम् उ पणिं स्तरामहे स्वित्कं नाम व्यवहारम् आच्छादयाम। एतदीयं परिचारक-जनं वञ्चयित्वा न को ऽपि व्यवहारो ऽस्माभिः कर्तुं शक्यते। तस्मात् सर्वम् अपि व्यवहारम् अस्यानुग्रहेणैव कुर्म इत्य् अर्थः।

विश्वास-प्रस्तुतिः

मा नो॑ दे॒वानाव्ँ॒विशᳶ॑ प्रस्ना॒तीरि॑वो॒स्राः ।
कृ॒शन्न हा॑सु॒रघ्नि॑याः ।

मूलम्

मा नो॑ दे॒वानाव्ँ॒विशᳶ॑ प्रस्ना॒तीरि॑वो॒स्राः ।
कृ॒शन्न हा॑सु॒रघ्नि॑याः ।

पद-पाठः

मा॒ । नः॒ । दे॒वाना॑म् । विशः॑ । प्र॒स्ना॒तीरिति॑ प्र-स्ना॒तीः । इ॒व॒ । उ॒स्राः ॥ कृ॒शम् । न । हा॒सुः॒ । अघ्नि॑याः ॥

भट्टभास्कर-टीका

8अष्टमी - मा न इति ॥ देवानां हविर्व्यवहारिणां यजमानानां सम्बन्धिन्यो विशः प्रजा ऋत्विजो वा नः अस्मान् मा हासुः मा त्याक्षुः प्रस्नातीः प्रस्नात्यः प्रस्नुताः उस्राः गाः इव अहन्तव्याः अघ्नियाः । यद्वा - अघ्निया इति गवां नाम । उस्राः क्षीरादिदानेन जगतां वासयित्र्यः, किमिव कृशं न वत्समिव । प्रस्नुतस्तन्याः हि गावो वत्सकं विशेषेण न जहति । एवं मां मा हासुरिति । उभयोपमार्थीयाऽपि वाक्यार्थोपमा भवतीत्युपमैतत् ॥

सायण-टीका

अथाष्टमी - “मा नो देवानाम् इति”। देवानां संबन्धिनो विशो वाणिज्य-कारिण्यः प्रजा नो ऽस्मान् मा हासुर् नैव परित्यक्तवत्यः। का इव, प्रस्नातीः प्रस्नुता उस्राः क्षीरादि-प्रदानेन वास-हेतवो ऽघ्निया इव। किम् इव, कृशं नाल्प-वयस्कं वत्सम् इव। यथा क्षीर-पूर्ण-स्तन-युक्ता गावो शिशुं वत्सं न त्यजन्ति तद्वद् इत्य् अर्थः।

विश्वास-प्रस्तुतिः

मा न॑स्समस्य दू॒ढ्यᳶ॑ परि॑द्वेषसो अँह॒तिः ।
ऊ॒र्मिर्न नाव॒मा व॑धीत् ।

मूलम्

मा न॑स्समस्य दू॒ढ्यᳶ॑ परि॑द्वेषसो अँह॒तिः ।
ऊ॒र्मिर्न नाव॒मा व॑धीत् ।

पद-पाठः

मा॒ । नः॒ । स॒म॒स्य॒ । दू॒ढ्यः॑ । परि॑द्वेषस॒ इति॒ परि॑-द्वे॒ष॒सः॒ । अँ॒ह॒तिः ॥ ऊ॒र्मिः । न । नाव॑म् । एति॑ । व॒धी॒त् ॥

भट्टभास्कर-टीका

9नवमी - मा न इति ॥ समस्य सर्वस्यापि दूढ्यः द्रढीयः । पृषोदरादिः ।
परिद्वेषसः सर्वतो द्वेषणशीलस्य भ्रातृव्यस्य अंहतिः अभिभवः अस्मान् मा वधीत् माऽस्मान् अवधिषुः । नावं दुर्बला ऊर्मिरिव ।
कश्चिदाह – समस्य समानस्य **दूढ्यः **मत्सरिणः । समानमन्यत् ॥

सायण-टीका

अथ नवमी - “मा न इति”। समस्य अस्माभिः समानस्य दूढ्यो दुर्धियः परिद्वेषसः सर्वतो द्वेषं कुर्वतः शत्रोर् अंहतिर् अस्मासु कृतो द्रोहो नो ऽस्मान् आ समन्तान् मा वधीत्। नावम् ऊर्मिर् न। यथा नद्यां गच्छन्तीं नावम् ऊर्मिर् न नाशयति तद्वद् वैरि-कृतो द्रोहो ऽस्मान् मा विनाशयतु। सर्व-शब्द-पर्यायो वायं सम-शब्दः सर्वस्य वैरिणो द्रोहो मा विनाशयत्।

विश्वास-प्रस्तुतिः

नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ ।
अमैः॑ [62] अ॒मित्र॑मर्दय । ((अमै॑र॒मित्र॑??))

मूलम्

नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ ।
अमै॑र॒मित्र॑मर्दय ।

पद-पाठः

नमः॑ । ते॒ । अ॒ग्ने॒ । ओज॑से । गृ॒णन्ति॑ । दे॒व॒ । कृ॒ष्टयः॑ ॥ अमैः॑ । अ॒मित्र॑म् । अ॒र्द॒य॒ ॥

भट्टभास्कर-टीका

10दशमी- नमस्त इति ॥ हे अग्ने नमस्ते तद खलु ओजसे बलाय कृष्टयो मनुष्या गृणन्ति शब्दयन्ति । तवैव बलं स्तुवन्ति यजमानादयः । अतः त्वम् अमित्रम् अस्माकम् अपकारिणं शत्रुं अमैः अमनैः रोगादिभिः अर्दय मारय ।
अमेरित्रप्रत्ययः । अन्यत्र पचाद्यचि वृषादिः द्रष्टव्यः ॥

सायण-टीका

अथ दशमी - “नमस् ते इति”। हे देवाग्ने कृष्टयो मनुष्यास् ते तव ओजसे बलाय नमो गृणन्ति नमस्कार-वाचिनं शब्दं प्रयुञ्जते यजमानादयस् त्वदीयं बलं नमस्कुर्वन्तीत्य् अर्थः। अतस् त्वम् अमित्रम् अस्माकम् अपकारिणम् अर्दय मारय, अमै रोगादिभिः।

विश्वास-प्रस्तुतिः

कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सव्ँ॒वेषि॑षो र॒यिम् ।
उरु॑कृदु॒रु ण॑स्कृधि ।

मूलम्

कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने॑ सव्ँ॒वेषि॑षो र॒यिम् ।
उरु॑कृदु॒रु ण॑स्कृधि ।

पद-पाठः

कु॒वित् । स्विति॑ । नः॒ । गवि॑ष्टय॒ इति॒ गो-इ॒ष्ट॒ये॒ । अग्ने॑ । सव्ँ॒वेषि॑ष॒ इति॑ सम्-वेषि॑षः । र॒यिम् ॥ उरु॑कृ॒दित्युरु॑-कृ॒त् । उ॒रु । नः॒ । कृ॒धि॒ ॥

भट्टभास्कर-टीका

11एकादशी - कुवित्स्विति ॥ अग्ने नः अस्माकं रयिं धनं सुसंवेषिषः सुष्ठु समन्तात्प्रापय ।
कुवित्, इति निपातो भूयिष्ठमित्यस्यार्थे वर्तते । विष व्याप्तौ लेटि ‘सिब्बहुळं लेटि’ इति ‘लेटोडाटौ’ इत्यडागमः ।
गविष्टये गावश्च इष्टयश्च गविष्टः तदर्थं तत्साधनानि कर्माणि मे स्युरिति । लिङ्गव्यत्ययश्छान्दसः, नुमभावश्छान्दस्तः । उत्तमबहुलधनं प्रापयेति ।
इदानीं तत्प्राप्तिं बहुतरं कुर्वित्याशास्ते -** उरुकृत्** उरुणो बहुनो धनस्य कर्तुः न हि त्वमल्पं कर्तुं जानासि । पादादित्वात्क्षाष्ठिकमामन्त्रिताद्युदात्तत्वम् ।
नः अस्माकं धनं उरु कृधि बहुतरं कुरु । सामर्थ्यातिशयो गम्यते ।
‘नश्च धातुस्थोरुषुभ्यः’ इति नसो णत्वम्, ‘कः करत्करति’ इति सत्वम् । करोतेर्लेट्, पूर्ववच्छपो लुक् धिभावश्च ॥

सायण-टीका

एवं दश सामिधेनीर् उक्त्वा पुरोनुवाक्याम् आह -
“कुवित् सु न इति”। हे अग्ने त्वं नो ऽस्माकं रयिं धनं कुविद्-बाहुल्यं यथा भवति तथा सुष्ठु संवेविषः सम्यग्-व्याप्तिम् अकरोः। किम् अर्थं, गविष्टये गोभिः सहितेष्टिर् गविष्टिस् तद्-अर्थम् उरु-कृत् प्रभूत-कारी त्वं नो ऽस्माकं कर्म-फलम् उरु कृधि प्रभूतं कुरु।

विश्वास-प्रस्तुतिः

मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था ।
सव्ँ॒वर्गँ॒ सँ र॒यिञ्ज॑य ।

मूलम्

मा नो॑ अ॒स्मिन्म॑हाध॒ने परा॑ वर्ग्भार॒भृद्य॑था ।
सव्ँ॒वर्गँ॒ सँ र॒यिञ्ज॑य ।

पद-पाठः

मा॒ । नः॒ । अ॒स्मिन् । म॒हा॒ध॒न इति॑ महा-ध॒ने । परेति॑ । वर्क् । भा॒र॒भृदिति॑ भार-भृत् । य॒था॒ ॥ सव्ँ॒वर्ग॒मिति॑ सम्-वर्ग॑म् । समिति॑ । र॒यिम् । ज॒य॒ ॥

भट्टभास्कर-टीका

12द्वादशी - मा न इति ॥ उत्तमं महत्तमं धनं देहीति तत्र महाधने त्वयाऽस्मिन् दीयमाने इत्थं कर्तव्यम् ।
भारभृदिति । मा परावर्क् मा परानैषीः । यथा महान्तं भारं वोढुं समर्थो भारं न इति न किञ्चित् परावर्जयति महान्तमपि भारमानयति । एवं त्वयाऽपि कर्तव्यम् । व्रजेर्लेटि ‘मन्त्रे घस’ इति च्लेर्लुक् ॥
किञ्च - संवर्गं संवृज्य देये धनराशौ पुनःपुनः समानीय महान्तं धनराशिं सञ्जय सम्यक् जित्वा आनय । वर्जेराभीक्ष्ण्ये णमुल् । छान्दसो वा घमुञ् ॥

सायण-टीका

अथ याज्या— “मा न इति”। नो ऽस्मभ्यं त्वया दत्ते ऽस्मिन् महा-धने मा परावर्क् पराभव-कारणं वर्जनं विनाशनं मा कुरु। तत्र दृष्टान्तः—“भारभृद् यथा इति”। लोके यथा भार-वाही बलीवर्दादिर् द्रव्यादिकं न नाशयति तद्वत्। किं च, संवर्गं संवृज्य1*संदृश्य देये धन-राशौ पुनः पुनः समानीय रयिं [सं]जय प्रभूतं धनं सम्यक् प्रापय।

विश्वास-प्रस्तुतिः

अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ ।
वर्धा॑ नो॒ अम॑व॒च्छवः॑ ।

मूलम्

अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना॑ ।
वर्धा॑ नो॒ अम॑व॒च्छवः॑ ।

पद-पाठः

अ॒न्यम् । अ॒स्मत् । भि॒यै । इ॒यम् । अग्ने॑ । सिष॑क्तु । दु॒च्छुना॑ ॥ वर्ध॑ । नः॒ । अम॑व॒दित्यम॑-व॒त् । शवः॑ ॥

भट्टभास्कर-टीका

13त्रयोदशी - अन्यमिति ॥ हे अग्ने अस्मत् अस्मत्तः अन्यं शत्रुं इयं दुच्छुना दौर्गत्यं दुर्भिक्षं नरकादिरूपा वा पीडा सिषक्तु सेवतां । सचेर्लेटि ‘बहुलं छन्दसि’ इति शपः श्लुः, इत्वं चाभ्यासस्य ।
भियै भयार्थं यथाऽसौ भीतः पलायेत, नः अस्माकं तु शवः बलं वर्धय ।
अमवत् आमसाधनं भ्रातृव्यक्षयो यैस्तद्वत् बलं वर्धय । ‘अणावकर्मकात्’ इति परस्मैपदम्, ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वाण्णलोपः, ‘द्व्यचोतस्तिङः’ इति संहितायां दीर्घत्वम् ॥

सायण-टीका

तत्रैव विकल्पितां याज्याम् आह -
“अन्यम् अस्मद् इति”। हे अग्ने इयं दुच्छुना रोग-रूपा दारिद्र्य-रूपा अनेकरूपा वा पीडाऽस्मद् अन्यम् अस्मत्तो व्यतिरिक्तं वैरिणं संबध्नातु। किम् अर्थं, भियै भीत्य्-अर्थम्। यथा पीडया वैरी भीतः पलायते तथा पीडां प्राप्नोतु। नो ऽस्माकं शवो वर्ध बलं वर्धय। किं[व]त्, अमवत्। यश्च(था) वैरिणाम् अयो रोगो वर्धि[र्धे]त तद्वत्।

विश्वास-प्रस्तुतिः

यस्याजु॑षन्नम॒स्विन॒श्शमी॒मदु॑र्मखस्य वा ।
तङ्घेद॒ग्निर्वृ॒धाव॑ति ।

मूलम्

यस्याजु॑षन्नम॒स्विन॒श्शमी॒मदु॑र्मखस्य वा ।
तङ्घेद॒ग्निर्वृ॒धाव॑ति ।

पद-पाठः

यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदु॑र्मख॒स्येत्यदुः॑-म॒ख॒स्य॒ । वा॒ ॥ तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥

भट्टभास्कर-टीका

14चतुर्दशी - यस्येति ॥ यस्य नमस्विनः अन्नवतः पुरोडाशादिहविस्संपादिनो यजमानस्य शमीं कर्म अजुषत् सेवते । प्रीतो भजते, कीदृशस्य अदुर्मखस्य अविगुणयज्ञस्य तमेवाग्निः वृधा वर्धनेनापि तर्पयति । प्रवृद्धं वा रक्षति । धेदिति पादपूरणे ।
केचिदाहुः - नमस्विनो नमस्कारशीलस्य वा अविगुणयज्ञस्य वा कर्मेति विकल्पार्थो वाशब्द इति । घेति पादपूरणे इदित्यवधारणे ॥

सायण-टीका

अथ स्विष्टकृत्-पुरोनुवाक्या -
“यस्याजुषन्न् इति”। दुष्टो ऽङ्ग-विकलो मखो यज्ञो दुर्-मखः। न विद्यते दुर्-मखो यस्य यजमानस्य सो ऽयम् अदुर्मखः, सम्यग्-अनुष्ठित-यज्ञ इत्य् अर्थः। तस्य नमस्विनो भक्त्या नमस्कुर्वतो यस्य यजमानस्य शमीं सुख-करीम् आहुतिम् अजुषद् अग्निर् असेवत। अदुर्मखस्य सम्यग्-अनुष्ठायिनो वा यस्य यजमानस्य शमीम् अजुषत् तं ह इत् तद् एव उभयं नमस्कुर्वन्तं सम्यग्-अनुतिष्ठन्तं वा अयम् अग्निर् वृधा धनादिवर्धनेनावति रक्षति।

विश्वास-प्रस्तुतिः

पर॑स्या॒ अधि॑ [63] सव्ँ॒वतोऽव॑राँ अ॒भ्या त॑र ।
यत्रा॒हमस्मि॒ ताँ अ॑व ।

मूलम्

पर॑स्या॒ अधि॑ सव्ँ॒वतोऽव॑राँ अ॒भ्या त॑र ।
यत्रा॒हमस्मि॒ ताँ अ॑व ।

पद-पाठः

पर॑स्याः । अधीति॑ । सव्ँ॒वत॒ इति॑ सम्-वतः॑ । अव॑रान् । अ॒भि । एति॑ । त॒र॒ ॥ यत्र॑ । अ॒हम् । अस्मि॑ । तान् । अ॒व॒ ॥

भट्टभास्कर-टीका

15पञ्चदशी - परस्या इति ॥ संवतः सङ्गतेरधि उपरि परमे संश्लेषे तिष्ठन् । ‘उपसर्गाच्छन्दसि’ इति वतिः । अवरान् अपकृष्टान् अप्यस्मान् अभ्यातर आभिमुख्येन, मर्यादयां च तर तारय दुःखात् । वनोतेः संपदादित्वात्क्विप् ।
परस्मात्संवननीयात् लोकादुपरिवर्तमानः त्वं अवरान् अस्मान् अभ्यातर अभिमुख्येनागच्छ । तथा कृत्वा यत्राहम् अस्मि कुले ग्रामे जनपदे वा काले वा तान् तत्स्थानपि सर्वान् अव रक्ष तर्पय वा । रुत्वानुनासिकावुक्तौ ॥

सायण-टीका

तत्रैव विकल्पितां पुरोनुवाक्याम् आह-
“परस्या इति”। सम्यग् वनुते भजते यस्यां सा क्रिया संवत्, परस्याः संवतो ऽधि उत्कृष्टाया अस्या इष्टेर् अधिष्ठानम् अवराद् निकृष्टान् अप्य् अस्मान् अभ्य् आतराऽऽभिमुख्येनागत्य दुःखानि नाशय। येषु बन्धुष्व् अहम् अस्मि तान् बन्धून् अप्य् अव रक्ष।

विश्वास-प्रस्तुतिः

वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः ।
अधा॑ ते सु॒म्नमी॑महे ।

मूलम्

वि॒द्मा हि ते॑ पु॒रा व॒यमग्ने॑ पि॒तुर्यथाव॑सः ।
अधा॑ ते सु॒म्नमी॑महे । </det

पद-पाठः

ails> वि॒द्म । हि । ते॒ । पु॒रा । व॒यम् । अग्ने॑ । पि॒तुः । यथा॑ । अव॑सः ॥ अध॑ । ते । सु॒म्नम् । ई॒म॒हे॒ ॥

भट्टभास्कर-टीका

16षोडशी - विद्मेति ॥ हे अग्ने तस्मात्ते तव पुरा पूर्वमेव वयं जानीमः कथमिव अवसः अभिगन्तव्यः पितरमिव त्वा वयं जानीमः अवगतो रक्षकः त्वम् अस्माकं पितुरेवं ते वयं जानीमः । पुत्रद्वेषितव्यावृत्त्यर्थमिदम् । अध अत एव कारणात् ते त्वामेव सुम्नं सुखम् ईमहे याचामहे ।
‘द्व्यचोतस्तिङः’ इति ‘निपातस्य च’ इति उभयत्रापि दीर्घत्वम् ॥

सायण-टीका

“अथ स्विष्टकृतो याज्याम् आह - ‘विद्मा हि त इति’। हे अग्ने यस्मात् पुरा वयं ते तव अवसो रक्षणं विद्म ज्ञातवन्तः। कस्येव, पितुर् यथा। लोके पुरा यथा पितुः पालनं जानन्ति तद्वत्। अध तस्मात् कारणात् ते सुम्नम् ईमहे त्वया संपादितं सुखं प्राप्नुमः।”

विश्वास-प्रस्तुतिः

य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वँस॑गः ।
अग्ने॒ पुरो॑ रु॒रोजि॑थ ।

मूलम्

य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ॑ङ्गो॒ न वँस॑गः ।
अग्ने॒ पुरो॑ रु॒रोजि॑थ ।

पद-पाठः

यः । उ॒ग्रः । इ॒व॒ । श॒र्य॒हेति॑ शर्य-हा । ति॒ग्मशृ॑ङ्ग॒ इति॑ ति॒ग्म-शृ॒ङ्गः॒ । न । वँस॑गः ॥ अग्ने॑ । पुरः॑ । रु॒रोजि॑थ ॥

भट्टभास्कर-टीका

17सप्तदशी - य इति ॥ हे अग्ने यस्त्वमुग्रः उद्गूर्णबलतया उग्र इव भवति । शर्यहा। छान्दसः कर्तरि कृत्यः ‘तत्र साधुः’ इति यत् । शर्याणां हिंसकानां हन्ता शर्यहा । तिग्मशृङ्गः तीक्ष्णशृङ्गः तीक्ष्णज्वालः तिग्मश्ङ्ग इव । वंसगः वननीयानि वनानि गच्छति वनसङ्गः । वननोयेषु वनेषु सक्त इति वा वनसङ्गः । पृषोदरादित्वादिष्टस्वरूपलाभः । एवं मृगवत्सौम्यस्वभावः उग्रस्वभावश्च त्वं पुरः असुराणां पुरीः मेघान्वा रुरोजिथ अधक्षीः । छान्दसो हः ।
भ्रातृव्याणां हन्ता वृष्टेरुत्पादनेन वा सर्वाभिमतकारी ॥

सायण-टीका

“अथात्र तिस्र ऋच उपहोमार्थाः। तत्रेयं प्रथमा - ‘य उग्र इति’। हे अग्ने यस् त्वम् उग्र एव क्रूरो राजा इव शर्यहा शर्याणां हिंसकानां हन्ता, तिग्म-शृङ्गो न तीक्ष्ण-शृङ्गो मृग इव, वंसगो वंसानि वनानि गच्छतीति वंसगः, दावाग्नि-रूपो भूत्वा वनेषु तिष्ठती(सी)त्य् अर्थः। तादृशस् त्वं पुरो रुरोजिथ शत्रूणां पुराणि तर्जितवान् असि।

विश्वास-प्रस्तुतिः

सखा॑य॒स्सव्ँव॑स्स॒म्यञ्च॒मिषँ॒ स्तोम॑ञ्चा॒ग्नये॑ ।
वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ।

मूलम्

सखा॑य॒स्सव्ँव॑स्स॒म्यञ्च॒मिषँ॒ स्तोम॑ञ्चा॒ग्नये॑ ।
वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ।

पद-पाठः

सखा॑यः । समिति॑ । वः॒ । स॒म्यञ्च॑म् । इष॑म् । स्तोम॑म् । च॒ । अ॒ग्नये॑ ॥ वर्षि॑ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे॑ । सह॑स्वते

भट्टभास्कर-टीका

18अथास्यामेवेष्ट्यां पुरोनुवाक्या - सखाय इत्यनुष्टुप् ॥ हे सखायः समानख्यानाः ऋत्विग्यजमानाः वः युष्मदर्थं युष्माकं श्रेयोर्थं अस्मासु अग्नये वर्षिष्ठाय प्रवृद्धतमाय क्षितीनां निवासहेतूनां मध्ये ऊर्जो नप्त्रे चतुर्थाय यथान्नादाहुतिः आहुतेरादित्यः आदित्यादग्निरिति । सहस्वते अतिशयेन बलवते ईदृशायास्मै सम्यञ्चं समीचीनं अतिगुणं स्तोमं स्तोत्रम् इषम् अन्नं पुरोडाशादिकं हविश्च समारभध्वं कुरुत । एतत्क्रियाया अश्रुतत्वात् साका त्वादुपसर्गसामर्थ्यादुत्तस्मिंश्च मन्त्रे विशेषस्य श्रुतत्वात् । तत्रायं विवेकः अग्नये इषं स्तोमं च संहराम इत्यत्रोच्यते । सोग्निरस्मभ्यं विश्वानि वसूनि समाहरत्विति उत्तरत्र वक्ष्यत इति । प्रियस्थिरादिना वृद्धशब्दस्य वर्षादेशः ॥

सायण-टीका

अथ द्वितीया -
‘सखाय इति’। हे सखायः परस्पर-सख्य-युक्ता ऋत्विग्-यजमाना वो युष्माकं सम्यञ्चम् इषं समीचीनम् अप्य् अभीष्टार्थम् (र्थमग्निः) संपादयन्तु(तु)। सम् इत्य् उपसर्गस्यापेक्षितः शेषो ऽध्याहृतः। यूयं च अग्नये स्तोमं स्तोत्रं संपादयत। कीदृशायाग्नये, क्षितीनां निवास-हेतूनां मध्ये वर्षिष्ठाय वृद्ध-तमाय, ऊर्जो नप्त्रे बलस्य न पातयित्रे विनाशनम् अकुर्वते, सहस्वते स्वयम् अतिशयेन बलवते।

विश्वास-प्रस्तुतिः

सँस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ ।
इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ।

मूलम्

सँस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ ।
इ॒डस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ।

पद-पाठः

सँस॒मिति॒ सम्-स॒म् । इत् । यु॒व॒से॒ । वृ॒ष॒न् । अग्ने॑ । विश्वा॑नि । अ॒र्यः । आ ॥ इ॒डः । प॒दे । समिति॑ । इ॒ध्य॒से॒ । सः । नः॒ । वसू॑नि । एति॑ । भ॒र॒ ॥

भट्टभास्कर-टीका

19अथात्रैव याज्या - संसमिदित्यनुष्टुप् ॥ ‘प्रसमुपोदः’ इति द्विर्वचनम् । हे वृषन् कामानां वर्षितः अग्ने विश्वानि वशूनि धनानि भक्तैः संयुवसे संमिश्रयसि भक्तेभ्यो दातुं राशीकरोषि । व्यत्ययेन शः, आत्मनेपदं च । यस्मादर्थः ईश्वरस्त्वम् । आकारो मर्यादायाम् । मयार्दाऽसङ्करणेन यथाधिकारं धनानां प्रापयिता त्वमिति ।
किञ्च – इडस्पदे पृथिव्याः पदे स्थाने वेद्याः समिध्यसे सम्यक् ज्वाल्यसे । सः महानुभावस्त्वं अस्मभ्यं वसूनि समाभर समाहरेति । ‘हृग्रहोर्भश्छन्दसि’ ।
इट् अन्नं, तद्वती पृथिवी । मत्वर्थीयो लुप्यते, अयस्मयादित्वेन पदत्वाज्जश्त्वं, ‘सावेकाचः’ इति विभक्तेरुदात्तत्वम्, ‘षष्ठ्याः पतिपुत्र’ इत्यादिना सत्वम् ॥

सायण-टीका

अथ तृतीया- ‘सं सम् इद् इति’। हे वृषन् कामानां वर्षकाग्ने विश्वानि सर्वाणि सं-समित्संपाद्यैव युवसे यजमानेन मिश्रयसि। अर्य आ ईश्वरस् त्वम् आगत्येडस्-पदे पृथिवी-रूपाया वेद्याः स्थाने समिध्यसे सम्यग् ज्वाल्यसे तादृशो महानुभावो नो ऽस्मभ्यं वसूनि धनानि संभर सम्यग् आहृत्य प्रयच्छ।

विश्वास-प्रस्तुतिः

प्रजा॑पते॒ ..

मूलम्

प्रजा॑पते॒ ..

पद-पाठः

प्रजा॑पत॒ इति॒ प्रजा॑-प॒ते॒ ।

भट्टभास्कर-टीका

20’यः प्रजाकामस्स्यात्तस्मा एतं प्राजापत्यं गार्मुतं चरुं निर्वपेत्’ इत्यस्याः पुरोऽनुवाक्या - प्रजापते न त्वदिति त्रिष्टुप् ॥ व्याख्यातेयं ‘सोमस्य त्विषिरसि’ इत्यत्र इह त्वस्याः प्रतीकं गृह्यते । हे प्रजापते त्वदन्य एतानि विश्वानि जातानि भुवनानि परिबभूव सर्वतो व्याप्नोति । तस्माद्यद्यत्कामयमानास्ते जुहुमो वयं तत्तथैवास्माकमस्तु वयं रयीणां पतयस्स्यामेति ॥

  • प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।
    यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यँ स्या॑म॒ पत॑यो रयी॒णाम् ॥ [28]

  • युवराजस्य प्रतिहितस्य गृहे जुहोति - प्रजापत इति त्रिष्टुभा ॥ हे प्रजापते त्वत्तोन्यः कश्चिदपि तान्येतानि विश्वा विश्वानि जातानि जन्मवन्ति वस्तूनि परिबभूव परिभवति वाप्नोति परिगृह्णाति वा । यद्वा - त्वदेतानि त्वत्तो जातानि विश्वानि वस्तूनि कश्चिदन्यः पीरबभूव न त्वमेव परिभवसि, तस्मादेवं तावन्महानुभावस्त्वम् । न च मया किञ्चिदज्ञातमस्ति ; अतो यत्कामा यत्फलं कामयमानाः ते जुहुमस्तन्नोस्माकमस्तु त्वत्प्रसादात् स कामोस्माकं सम्पद्यताम् । ‘शीलिकामिभिक्षाचरिभ्यः’ इति णः, पूर्वपदप्रकृतिस्वरत्वं च । इदं तु विशेषेणेत्याह - वयं रयीणां धनानां पतयः सर्वदा स्यामेत्याशास्ते ॥

  • अथ तत्रैव याज्या - प्रजापत इति त्रिष्टुप् ॥ इदं च प्रतीकग्रहणं ‘प्रजापते न त्वदेतान्यन्यः’ इत्यस्याः । इयं च ‘सोमस्य त्विषिरसि’ इत्यत्र व्याख्याता । (यजमानायतने शार्दूलचर्मोपस्तृणाति - सोमस्य त्विषिरसीति ॥ सोमस्य या त्विषिर्दीप्तिः सैव त्वमसि दीप्तत्वात् व्यापित्वाच्छान्तत्वाच्च । तवेव मे ममापि त्वीषिर्भूयात् दीप्ता व्यापिनी शान्ता चेत्याशास्ते ॥)

  • हे प्रजापते न खलु कश्चित् त्वत्तोन्यः तान्येतानि विश्वानि जातानि भूतानि परिबभूव परिभवति । तस्माद्यत्कामा वयं जुहुमस्तन्नोस्माकमस्तु । किञ्च - वयं रयीणां पतयस्स्वामिनश्च स्यामेति ॥

  • 19प्राजापत्यया त्रैष्टुभा गार्हपत्यमुपतिष्ठते - प्रजापत इति ॥ व्याख्याता चेयं ‘सोमस्य त्विषिरसि’ इत्यत्र । हे प्रजापते तान्येतानि विश्वानि जातानि भूतानि त्वत्तोन्यः कश्चिदपि परिभवति निजेन महिम्ना व्याप्नोति । यत्कामास्ते जुहुमो वयं तदस्माकमस्तु । किं च - वयं रयीणां पतयः स्याम भूयास्मेति ॥

सायण-टीका

‘यः प्रजा-कामः स्यात् तस्मा एतं प्राजापत्यं गार्मुतं चरुं निर्वपेत्’, ‘यः पशु-कामः स्यात् तस्मा एतं सौमापौष्णं गार्मुतं चरुं निर्वपेत्’ इत्य् अनयोर् याज्यानुवाक्या-प्रतीकानि दर्शयति-

‘प्रजापते इति’। ‘प्रजापते न त्वद् एतान्य् अन्यः’ इति प्रजार्थस्य हविषः पुरोनुवाक्या। सा च ‘सोमस्य त्विषिर् असि’ इत्य् अनुवाके व्याख्याता।

विश्वास-प्रस्तुतिः

स वे॑द॒

मूलम्

स वे॑द॒

पद-पाठः

सः । वे॒द॒ । सोमा॑पूष॒णेति॒ सोमा॑-पू॒ष॒णा॒ । 9X । इ॒मौ । दे॒वौ ॥

भट्टभास्कर-टीका

21तत्रैव याज्या - स वेद पुत्र इति जगती ॥ इयमपि ‘हिरण्यगर्भः’ इत्यत्र व्याख्याता । प्रतीकग्रहणमिदमस्याः । स एव प्रजापतिः पुत्रो भूत्वा पितरं मातरं च वेद पुत्रभावेन वर्तते । स एव सूनुः सोता यजमानश्च भवति । स एव पुनर्मघः पुनःपुनः क्रियमाणो यागश्च भवति । स एव द्यां स्वर्गं च और्णोत् स्वतेजसाऽऽच्छादयति स एव विश्वानि भूतजातानि अभवत् आभवत् व्याप्नोति स एवेति ॥

  • स वे॑द पु॒त्रᳶ पि॒तरँ॒ स मा॒तरँ॒ स सू॒नुर्भु॑व॒त्स भु॑व॒त्पुन॑र्मघः ।
    स द्यामौर्णो॑द॒न्तरि॑क्षँ॒ स सुव॒स्स विश्वा॒ भुवो॑ अभव॒त्स आऽभ॑वत् ।

  • अथ तत्रैव याज्याविकल्पः - स वेद पुत्र इतीयं जगती ॥ स एव प्रजापतिः पुत्रो भूत्वा पितरं मातरं च वेद जानाति, ममायं पिता इयं मातेति जानन् पुत्रात्मना स एव वर्तते । स एव सूनुर्भुवत् यो यस्सोतव्य उत्पाद्यः पदार्थः सोपि भूधरादिस्स एव भवेत् । पुनश्च स एव मघः हिरण्यादि धनं भुवत् भवेत् स एव तथा भवति । भवतेर्लेटि शपो लुक्, ‘भूसुवोस्तिङि’ इति गुणाभावः । यद्वा - सू नुस्सोमयजमानः, तद्भावेन च भवति । मघस्सोतव्यस्सोमः तादात्म्येन च वर्तते ।
    किञ्च - स एव द्यां द्युलोकं और्णोछादयति स्वेन महिम्ना तेजसा वा स एवान्तरिक्षमौर्णोदित्येव । स एव सुवः पृथिवीं च और्णोत् । सुष्ठु वरणात् सुवस्सर्वविकाराणां सुष्ठु गन्त्री । तन्वादित्वादुवङ्, छान्दसमाद्युदात्तत्वम् । यद्वा - सूतेरसुनि गुणाभावश्छान्दसः सवित्री सर्वविकाराणाम् । किं बहुनेत्याह - स एव विश्वा भुवः भूतजातानि विश्वा भुवः भावयित्रीः स्योनीः [योनीः] कारणानि अभवत् प्राप्तवान् उत्पादितवान् । स एव चाभवत् आवृत्यावृत्य प्राप्नोति उत्पादयति । यद्वा - स एव विश्वा भुवो अभवत् भवति विश्वभूतजातात्मना कारणात्मना वा स एवावतिष्ठते । स एव चावृत्य तद्रूपेण भवति वर्तते सोस्माकं प्रत्यूह मपनयत्विति ॥

सायण-टीका

‘स वेद पुत्रः पितरम्’ इत्य् एषा याज्या। सा च ‘हिरण्य-गर्भ आपो ह यत्’ इत्य् अस्मिन्न् अनुवाके व्याख्याता।

विश्वास-प्रस्तुतिः

सोमा॑पूषणा

मूलम्

सोमा॑पूषणा

पद-पाठः

सोमा॑पूष॒णेति॒ सोमा॑-पू॒ष॒णा॒ । इ॒मौ । दे॒वौ ॥

भट्टभास्कर-टीका

21’यः पशुकामस्स्यात्तस्मा एतं सोमापौष्णं गार्मुतं चरुं निर्वपेत्’ इत्यस्य पुरोनुवाक्या - सोमापूषणा जनाना रयीणामिति त्रिष्टुप् ॥ इयं च व्याख्याता ‘अग्नाविष्णू महि’ इत्यत्र प्रतीकग्रहणमस्या अप्यत्र । सोमापूषणौ रयीणां धनानां जनना जनयितारौ द्यावापृथिव्योश्च जनयितारौ । विश्वस्य भूतजातस्य जातमात्रावेव गोपौ एवं महानुभावाविमौ देवाः कृतवन्तः अमृतत्वस्य नाभिं नहनभूतौ देवाः कृतवन्तः ॥

  • सोमा॑पूषणा॒ जन॑ना रयी॒णाञ्जन॑ना दि॒वो जन॑ना पृथि॒व्याः ।
    जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि॑म् ॥
  • यदि बिभीयद्दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर्वपेत्’ इत्यस्य पुरोनुवाक्या - सोमापूषणेति त्रिष्टुप् ॥ हे सोमापूषणौ । पूर्ववदाकारः । रयीणां धनानां जनना जननौ जनयितारौ युवाम् । ‘नामन्यतरस्यां’ इति नाम उदात्तत्वम् । दिवश्च पृथिव्याश्च जनयितारौ । ‘ऊडिदम्’ इति दिवो विभक्तिरुदात्ता । ‘उदात्तयणः’ इति पृथिव्याः । जातौ जातमात्रावेव युवां विश्वस्य भुवनस्य भूतजातस्य गोपा गोपयितारौ । इर्दृशौ युवां देवा अकृण्वन् अकुर्वन् । अमृतस्य नाभिं नहनौ बन्धनौ ॥
विश्वास-प्रस्तुतिः

इमौ दे॒वौ ॥ [64]

मूलम्

इमौ दे॒वौ ॥ [64]

पद-पाठः

इ॒मौ । दे॒वौ ॥

भट्टभास्कर-टीका

23अथ तत्रैव याज्या - इमौ देवौ जायमानौ इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । प्रतीकमेव गृह्यते । इमौ देवौ सोमापूषणौ जायमानावेव जुषन्त सर्वे देवाः इमौ देवौ तमांसि अजुष्टानि अप्रियाणि गूहतां जातमात्रावेव छादितवन्तौ । आभ्यां पक्वमुदकं संवत्सरव्रतं आमासु उस्रियासु रश्मिषु इन्द्रो वृष्ट्यर्थं जनत् जनयति पक्वं करोति ॥

  • इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमाँ॑सि गूहता॒मजु॑ष्टा ।
    आ॒भ्यामिन्द्रᳶ॑ प॒क्वमा॒मास्व॒न्तस्सो॑मापू॒षभ्या॑ञ्जनदु॒स्रिया॑सु ॥

  • तत्रैव याज्या - इमौ देवाविति त्रिष्टुप् ॥ इमौ देवौ सोमापूषणौ जायमानावेवावस्थितौ जुषन्त अजुषन्त सेवितवन्तः सर्वे देवाः । ‘बहुलं छन्दस्यमाङ्योगेपि’ इत्यडभावः ।
    किञ्च - इमौ देवौ तमांसि अजुष्टा अजुष्टानि अप्रियाणि । ‘शेश्छन्दसि’ इति लोपः । अजुष्टा अजुष्टौ तमोभिरसेवितारौ । पूर्ववदाकारः । गूहतामनाशयताम् । छान्दसो लिङ्, ‘ऊदुपधाया गोहः’ । यद्वा - इमौ खलु सर्वस्य तमांसि गूहतां गूहयतः । लडर्थे लिङ् । किञ्च – आभ्यां सोमापूषभ्यां सह । अन्वादेशत्वेपि व्यत्ययेन निघाताभावः, ‘ऊडिदम्’ इति विभक्त्युदात्तत्वमेव प्रवर्तते । आभ्यां महेन्द्रः, आमासु तरुणीषु उस्रियासु गोषु अन्तः परिपक्वं पयो जनत् जनयति उत्पादयति । जनेर्ण्यन्तात्पूर्ववल्लङ्, पूर्ववदडभावः, ‘छन्दस्युभयथा’ इति शप आर्धधातुकत्वाण्णिलोपः । ताविमावेवम्महानुभावौ अस्माकं दुश्चर्मतां नाशयतां शोभनानि दत्तामित्यर्थः ॥

इति द्वितीये षष्ठे एकादशोऽनुवाकः ॥

सायण-टीका

पश्व्-अर्थस्य हविषः ‘सोमा पूषणा जनना’ इति पुरोनुवाक्या। ‘इमौ देवौ जायमानौ’ इति याज्या। एतद् उभयम् ‘अग्नाविष्णू महि’ इत्य् अस्मिन्न् अनुवाके व्याख्यातम्।”

अत्र विनियोग-संग्रहः—

संवर्गेष्टौ सामिधेन्यो दश तिस्रस् तु याज्यकाः।
संयाज्यास् तिस्र उदिता उपहोमास् त्रयो मताः॥
प्रजा-सवे द्वयं योज्यं गार्मुते प्रथमे भवेत्।
सोमाव् इमौ तद्-द्वितीये स्तस्त्र, त्रयोविंशतिर् ईरिताः॥

इति।


  1. *संदृश्येत्यत्र संवृज्येति एकस्मिन् पुस्तके पाठ इति ख-पुस्तके टिप्पण्याम्। ↩︎