शंयुवाकमन्त्रसङ्ख्या ४-७ पत्नीसंयाजाश्च
प्रजापतिर्ऋषिः
मूलम् (संयुक्तम्)
दे॒वा वै य॒ज्ञस्य॑ स्वगाक॒र्तार॒न्नावि॑न्द॒न्ते शय्ँ॒युम्बा॑र्हस्प॒त्यम॑ब्रुवन्नि॒मन्नो॑ य॒ज्ञँ स्व॒गा कु॒र्विति॒ सो॑ऽब्रवी॒द्वरव्ँ॑वृणै॒ यदे॒वाब्रा॑ह्मणो॒क्तोऽश्र॑द्दधानो॒ यजा॑तै॒ सा मे॑ य॒ज्ञस्या॒शीर॑स॒दिति॒ तस्मा॒द्यदब्रा॑ह्मणो॒क्तोऽश्र॑द्दधानो॒ यज॑ते शय्ँ॒युमे॒व तस्य॑ बार्हस्प॒त्यय्ँ य॒ज्ञस्या॒शीर्ग॑च्छत्ये॒तन्ममेत्य॑ब्रवी॒त्किम्मे॑ प्र॒जायाः॑ [57] इति
विश्वास-प्रस्तुतिः
दे॒वा वै य॒ज्ञस्य॑ स्वगाक॒र्तार॒न्नावि॑न्दन् ।
ते शय्ँ॒युम्बा॑र्हस्प॒त्यम॑ब्रुवन् ।
इ॒मन्नो॑ य॒ज्ञँ स्व॒गा कु॒र्विति॑ ।
मूलम्
दे॒वा वै य॒ज्ञस्य॑ स्वगाक॒र्तार॒न्नावि॑न्दन् ।
ते शय्ँ॒युम्बा॑र्हस्प॒त्यम॑ब्रुवन् ।
इ॒मन्नो॑ य॒ज्ञँ स्व॒गा कु॒र्विति॑ ।
पद-पाठः
दे॒वाः । वै । य॒ज्ञस्य॑ । स्व॒गा॒क॒र्तार॒मिति॑ स्वगा-क॒र्तार॑म् । न । अ॒वि॒न्द॒न् ।
ते । शय्ँ॒युमिति॑ शम्-युम् । बा॒र्ह॒स्प॒त्यम् । अ॒ब्रु॒व॒न् ।
इ॒मम् । नः॒ । य॒ज्ञम् । स्व॒गेति॑ स्व-गा । कु॒रु॒ । इति॑ ।
भट्टभास्कर-टीका
1देवा वै यज्ञस्येत्यादि ॥ असङ्करेण हवींषि स्वस्वदेवतायै यो गमयिता स स्वगाकर्ता शंयुनामा बृहस्पतिपुत्रोभवत् ।
सायण-टीका
अथ दशमे शंयु-वाक-मन्त्र-व्याख्या पत्नी-संयाजाश् च वक्ष्यन्ते। तत्र शंयु-वाक-मन्त्रान् व्याख्यातुं प्रस्तौति - “देवा वा इति”। यस्मै देवाय यद् धविर् विहितं तस्य हविषः सांकर्यम् अन्तरेण तस्य तस्य देवस्य स्व-गतं कुर्व् इति बृहस्पति-पुत्रं शंयु-नामानं प्रति देवा अब्रुवन् तदासौ शंयुर् अप्य् एवं चिन्तितवान् - “एतत्-काम एतेन यज्ञेन यजेतेत्य् एतादृशेन ब्राह्मणेनानुक्तो यः कश्चिद् यजेत स्वेच्छयैव, यश् च अन्यः श्रद्धा-रहितो यजते, तयोर् उभयोर् यज्ञ-फलं ममास्त्व् इति” वरः। तत आरभ्य तत्-फल-द्वयं शंयुम् एव प्राप्नोति।
विश्वास-प्रस्तुतिः
सो॑ऽब्रवीत् ।
वरव्ँ॑वृणै ।
मूलम्
सो॑ऽब्रवीत् ।
वरव्ँ॑वृणै ।
पद-पाठः
सः । अ॒ब्र॒वी॒त् । वर॑म् । वृ॒णै॒ ।
भट्टभास्कर-टीका
सः देवानाम् ।
सायण-टीका
पुनर् अपि शंयुर् एवम् उवाच “तद् एतद् उभयं मम संपन्नं, मदीयायाः पुत्र-पौत्रादि-रूपायाः प्रजायाः किं दास्यतेति”। ततो देवा अपगोरणादि-कर्तुर् यातना त्वत्-पुत्राधीना भवत्व् इति वरं दत्तवन्तः।
प्रदीपसिंहः
सः = शंयुनामा, दवानां = देवान् प्रति, भवत्सकाशात्, वरं वृणै इत्यब्रवीत् इत्यर्थः।
विश्वास-प्रस्तुतिः
यदे॒वाब्रा॑ह्मणो॒क्तोऽश्र॑द्दधानो॒ यजा॑तै ।
सा मे॑ य॒ज्ञस्या॒शीर॑स॒दिति॑ ।
तस्मा॒द्यदब्रा॑ह्मणो॒क्तोऽश्र॑द्दधानो॒ यज॑ते ।
मूलम्
यदे॒वाब्रा॑ह्मणो॒क्तोऽश्र॑द्दधानो॒ यजा॑तै ।
सा मे॑ य॒ज्ञस्या॒शीर॑स॒दिति॑ ।
तस्मा॒द्यदब्रा॑ह्मणो॒क्तोऽश्र॑द्दधानो॒ यज॑ते ।
पद-पाठः
यत् । ए॒व । अब्रा॑ह्मणोक्त॒ इत्यब्रा॑ह्मण-उ॒क्तः॒ । अश्र॑द्दधान॒ इत्यश्र॑त्-द॒धा॒नः॒ । यजा॑तै ।
सा । मे॒ । य॒ज्ञस्य॑ । आ॒शीरित्या॑-शीः । अ॒स॒त् । इति॑ ।
तस्मा॑त् । यत् । अब्रा॑ह्मणोक्त॒ इत्यब्रा॑ह्मण-उ॒क्तः॒ । अश्र॑द्दधान॒ इत्यश्र॑त्-द॒धा॒नः॒ । यज॑ते ।
भट्टभास्कर-टीका
यदेवेत्यादि । ‘यजस्व’ इति ब्राह्मणेन नोक्तो यो भवति यश्च श्रद्दधानो न भवति तदीयस्य यज्ञस्य याऽऽशीः फलं सा ममास्त्विति शंयुना वृतम् ।
सायण-टीका
अपगोरणं ताडनोद्योगः। तम् उद्योगं ब्राह्मण-विषये यः करोति तं पुरुषं शत-निष्कदण्डेन यातयात् क्लेशयेत्। यो निहनत्ताडयेत्तं सहस्र-निष्कदण्डेन क्लेशयेत्। यस् तु ब्राह्मण-शरीरे लोहितं ताडनेन ग्राहयति, लोहितं भूमौ पतित्वा यावतः परमाणून् व्याप्नोति तावतः संवत्सरान् अयं पितृ-लोकं न प्राप्नोति, किंतु यम-यातनाम् अनुभवति तत् सर्वं त्वत्-प्रजाधीनम् इति वरः। यस्माद् उक्त-रीत्या ब्राह्मणाधिक्षेपादौ प्रत्यवायो ऽस्ति तस्मात् तत् न कुर्यात्। करणे चैतावता पूर्वोक्त-पापेन युक्तो भवति।
विश्वास-प्रस्तुतिः
शय्ँ॒युमे॒व तस्य॑ बार्हस्प॒त्यय्ँ य॒ज्ञस्या॒शीर्ग॑च्छति ।
ए॒तन्ममेत्य॑ब्रवीत् ।
किम्मे॑ प्र॒जाया॒ इति॑ ।
मूलम्
शय्ँ॒युमे॒व तस्य॑ बार्हस्प॒त्यय्ँ य॒ज्ञस्या॒शीर्ग॑च्छति ।
ए॒तन्ममेत्य॑ब्रवीत् ।
किम्मे॑ प्र॒जाया॒ इति॑ ।
पद-पाठः
शय्ँ॒युमिति॑ शम्-युम् । ए॒व । तस्य॑ । बा॒र्ह॒स्प॒त्यम् । य॒ज्ञस्य॑ । आ॒शीरित्या॑-शीः । ग॒च्छ॒ति॒ ।
ए॒तत् । मम॑ । इति॑ । अ॒ब्र॒वी॒त् ।
किम् । मे॒ । प्र॒जाया॒ इति॑ प्र-जायाः॑ । इति॑ ।
भट्टभास्कर-टीका
अथ देवैस्तथाऽस्त्वित्यनुज्ञाते पुनश्च शंयुरब्रवीत्
एतत् मे मम युष्मत्मत्प्रसादात् संपत्स्यते,
अथ किं मे प्रजाया युष्मत्प्रसादेन संपत्स्यते इति ॥
सायण-टीका
यस्य शंयु-वाकस्य व्याख्यानायायं प्रस्तावः कृतस् तस्य शंयु-वाक-मन्त्रस्य विनियोगं बौधायन आह-
“यदानुजानाति शंयोर् अनुब्रूहि’ इति तच् छंयु-वाकम् अन्वाह ‘तच् छंयोर् आवृणीमहे’ इत्य् एतद् अनुवादकस्य”
इति। स चानुवाको मन्त्र-काण्डे समाम्नातः—
तच् छंयोर् आवृणीमहे।
गातुं यज्ञाय। गातुं यज्ञ-पतये।
दैवी स्वस्तिर् अस्तु नः। स्वस्तिर् मानुषेभ्यः।
ऊर्ध्वं जिगातु भेषजम्। शं नो अस्तु द्वि-पदे। शं चतुष्-पदे॥ (ब्रा. का. ३ प्र. ५ अ. ११)
तत् तादृशं प्रशस्तं फलं शंयोर् बार्हस्पत्याद् आवृणीमहे प्रार्थयामहे। किं तत् फलम् इति क्रमेणोच्यते—यज्ञाय गातुं यज्ञस्य देवान् प्रति गमनम् आवृणीमहे, यज्ञ-पतये यजमानस्य गातुं देवान् प्रति गमनम् आवृणीमहे। नो ऽस्माकं दैवी स्वस्तिर् देव-निमित्तं विघ्नोपशमनं मानुषेभ्यः स्वस्तिर् विघ्नोपशमनम् अस्तु। भेषजं सर्व-पापानाम् औषधम् इदं कर्म ऊर्ध्वं जिगातु अविघ्नेन समाप्तिं प्राप्नोतु। अस्मदीयाय द्वि-पदे मनुष्याय चतुष्-पदे पशवे च शं सुखम् अस्तु।
तस्यैतस्य मन्त्रस्य पाठं प्रशंसति -
“तच् छंयोर् इति”। तत्रानेन मन्त्र-पाठेनैनं यज्ञं तत्तद्-देवानाम् असांकर्येण स्व-गतं करोति। प्रकारान्तरेण पुनः प्रशंसति-
“तच् छंयोर् इति”। मन्त्र-वाक्य-पाठ एवास्य दातव्यो भागस् तत्-तुष्टि-हेतुत्वात्। आशीः-परत्वं मन्त्र-भागस्य दर्शयति-
“गातुं यज्ञायेति”। अथ चतुरः पत्नी-संयाजान् विधत्ते- “सोमं यजती"ति।
एतेषां चतुर्णां पत्नी-संयाजानां प्रत्येकं याज्यानुवाक्ये विधत्ते- “जामि वा इति”। प्रयाजानां पत्नी-संयाजानां च तावद् द्रव्य-कृतं वैषम्यं नास्ति, मन्त्र-कृतम् अपि यदि न स्यात् तदानीम् आलस्यं भवति, तत्-परिहाराय प्रयाजेषु यजुर्भिर् इष्टेषु पत्नी-संयाजा ऋग्भ्यां याज्यानुवाक्याभ्यां यष्टव्याः। ते च याज्यानुवाक्ये क्रमेण मन्त्र-काण्डे समाम्नाते। तद्-विनियोगं बौधायनो दर्शयति-
“अथ पत्नी-संयाजानाम् ‘आ प्यायस्व’, ‘सं त इति सौम्यस्येह त्वष्टारम् अग्रियं’, ‘तत् नस् तुरीपम्’ इति त्वष्टुर्; ‘देवानां पत्नीर् उत ग्ना वियन्तु’, देव-पत्नीर् इति देव-पत्नीनाम्; ‘अग्निर् होता गृहपतिः स राजा’, ‘वयम् उ त्वा गृहपते जनानाम्’ इति गृहपतेः”
इति। तत्र सोमस्य त्वष्टुश् च अन्यत्राम्नातानां मन्त्राणां प्रतीकान्य् आम्नायन्ते -
“आ प्यायस्व सं ते। इह त्वष्टारम् अग्रियं तत् नस् तुरीपम्” (ब्रा. का. ३ प्र. ५ अ. १२)
इति। ‘आ प्यायस्व समेतु ते’ इत्य् एषा सोमस्य पुरोनुवाक्या। ‘सं ते पयांसि’ इति सोमस्य याज्या। एतद् उभयं चतुर्थ-काण्डस्य द्वितीय-प्रपाठके व्याख्यास्यते। ‘इह त्वष्टारम्’ इति त्वष्टुः पुरोनुवाक्या। ‘तत् नस् तुरीपम्’ इति याज्या। एतच् चोभयं तृतीय-काण्डस्य प्रथम-प्रपाठके व्याख्यास्यते। देव-पत्नी-पुरोनुवाक्यां दर्शयति-
देवानां पत्नीर् उशतीर् अवन्तु नः।
प्रावन्तु नस् तुजये वाज-सातये।
याः पार्थिवासो या अपाम् अति व्रते।
ता नो देव्यः सु-हवाः शर्म यच्छत॥ (ब्रा. का. ३ प्र. ५ अ. १२)
इन्द्राण्यादयो देव-पत्न्यो याः सन्ति ता उशतीर् अस्मद्-हितं कामयमाना अस्मान् अवन्तु रक्षन्तु। परैर् आपादितम् अरिष्टं वारयन्त्व् इत्य् अर्थः। किं च तुजये ऽपत्याय वाज-सातये द्रव्य-लाभाय नो ऽस्मान् प्रकर्षेण रक्षन्तु। न केवलं दिवि स्थिता इन्द्राण्याद्याः किंतु याः पार्थिवासः पृथिव्यां स्थिता देव-पत्न्यो या अप्य् अन्या अपां व्रते वृष्ट्य्-उदक-स्थानत्वेन उपलक्षिते ऽन्तरिक्षे वर्तन्ते ता देव्यः सर्वाः सु-हवाः सुखेनाह्वातुं शक्या यूयं नो ऽस्माकं शर्म सुखं प्रयच्छत।
तत्रैव याज्याम् आह—
उत ग्ना वियन्तु देव-पत्नीः।
इन्द्राण्य् अग्नाय्य् अश्विनी राट्॥
आ रोदसी वरुणानी शृणोतु।
वियन्तु देवीर् य ऋतुर् जनीनाम्॥ (ब्रा. का. ३ प्र. ५ अ. १२)
अपि च ग्नाश् छन्दो-देवता गायत्र्यादयो देव-पत्न्यो वियन्त्व् इदं हविर् अश्नन्तु। ग्ना-शब्दस्य छन्दो-वाचित्वं पञ्चम-काण्डे समाम्नातम्—“‘ग्नास् त्वेत्याह’ छन्दांसि वै ग्नाः” इति। इन्द्रस्य पत्नीन्द्राणी। अग्नेः पत्न्य् अग्नायी। अश्विनोः पत्न्य् अश्विनी। राज्ञः सोमस्य पत्नी राट्। रुद्रस्य पत्नी रोदसी। वरुणस्य पत्नी वरुणानी। एतासाम् एकैका विज्ञापनाम् अस्मदीयाम् आशृणोतु। जनीनाम् इन्द्राण्यादीनां य ऋतुः काल-विशेषो भोजनायोचितस् तस्मिन् काले वियन्त्व् अश्नन्तु। सोम-त्वष्ट्रोः पुरुषयोर् भुक्तवतोः सतोः पश्चाद् भुञ्जताम् इत्य् अर्थः। “अग्नेर् गृहपतेः पुरोनुवाक्याम् आह—
अग्निर् होता गृहपतिः स राजा।
विश्वा वेद जनिमा जातवेदाः।
देवानाम् उत यो मर्त्यानाम्।
यजिष्ठः स प्र यजताम् ऋतावा ॥ (ब्रा. का. ३प्र. ५अ. १२)
अयम् अग्निर् देवानाम् आह्वाता गृहाणां पालकः। स च राजा दीप्यमानस् तादृशो जातवेदा देवानां विश्वा जनिमा सर्वाणि जन्मानि वेद। अपि च, यो जातवेदा मर्त्यानां जन्मानि वेद स जातवेदाः प्र यजतां प्रकर्षेण यागं कुर्वतां मध्ये यजिष्ठो ऽतिशयेन यष्टृतमः। ऋतावा सत्य-याक्।
तत्रैव याज्याम् आह—
वयम् उ त्वा गृहपते जनानाम्।
अग्ने अकर्म समिधा बृहन्तम्।
अस्थूरि नो गार्हपत्यानि सन्तु।
तिग्मेन नस् तेजसा सं शिशाधि॥ (ब्रा. का. ३प्र. ५अ. १२)
हे गृहपते ऽग्ने जनानां मध्ये वयम् एव त्वां समिधा संदीपननेन बृहन्तम् अकर्म प्रौढं कृतवन्तः। तस्माद् गार्हपत्यानि गृहपतिना संयुक्तानि कर्माणि नो ऽस्माकम् अस्थूरि सन्त्व् आश्लिष्टानि भवन्तु। तिग्मेन तीक्ष्णेन वैरिभिर् अप्रधृष्येण तेजसा त्वम् अस्मान् सं शिशाधि तीक्ष्णी-कुरु। निर्भयान् कुर्व् इत्य् अर्थः।
मन्त्र-काण्डे पत्नी-संयाज-याज्यानुवाक्याभ्याम् उपरिष्टाद् इडोपाह्वानम् आज्य-प्राशनं च आम्नातम्। तस्य विनियोगं बौधायनो दर्शयति—
“अत्रोत्तराम् इडाम् उपह्वयते यथासमाम्नातम्”।
इति। पाठस् तु—
उपहूतं रथंतरं सह पृथिव्या। उप मा रथंतरं सह पृथिव्या ह्वयताम्। उपहूतं वामदेव्यं सहान्तरिक्षेण। उप मा वामदेव्यं सहान्तरिक्षेण ह्वयताम्। उपहूतं बृहत् सह दिवा। उप मा बृहत् सह दिवा ह्वयताम्। उपहूताः सप्त होत्राः। उप मा सप्त होत्रा ह्वयन्ताम्। उपहूता धेनुः सहर्षभा। उप मा धेनुः सहर्षभा ह्वयताम्। उपहूतो भक्षः सखा। उप मा भक्षः सखा ह्वयताम्। उपहूता ३ हो। इडोपहूता। आहूतेडा। उपो ऽस्मा अस्मा इडा ह्वयताम्। इडोपहूता। उपहूतेडा। मानवी घृत-पदी मैत्रावरुणी। ब्रह्म देव-कृतम् उपहूतम्। दैव्या अध्वर्यव उपहूताः। उपहूता मनुष्याः। य इमं यज्ञम् अवान्। ये यज्ञ-पत्नीं वर्धान्। उपहूते द्यावा-पृथिवी। पूर्वजे ऋतावरी। देवी देव-पुत्रे। उपहूतेयं यजमाना। इन्द्राणीवाविधवा। अदितिर् इव सु-पुत्रा। उत्तरस्यां देव-यज्यायाम् उपहूता। भूयसि हविष्-करण उपहूता। दिव्ये धामन्न् उपहूता। इदं मे देवा हविर् जुषन्ताम् इति तस्मिन्न् उपहूता। विश्वम् अस्याः प्रियम् उपहूतम्। विश्वस्य प्रियस्योपहूतस्योपहूता॥ (ब्रा. का.३ प्र.५ अ.३)
पूर्वोक्तम् इडोपाह्वानं यजमानार्थम्। इदं तु पत्न्यर्थम्। अत एव तत्र तत्र स्त्री-लिङ्ग-प्रयोगः। ब्राह्मणे पत्नी-संयाज-याज्यानुवाक्ये विधायेडोपाह्वान-मन्त्रस्य पूर्ववद् व्याख्येयत्वाद् असाव् अत्रोपेक्षितः।
विश्वास-प्रस्तुतिः
यो॑ऽपगु॒रातै॑ श॒तेन॑ यातया॒द्यो नि॒हन॑त्स॒हस्रे॑ण यातया॒द्यो लोहि॑तङ्क॒रव॒द्याव॑तᳶ प्र॒स्कद्य॑ पाँ॒सून्त्स॑ङ्गृ॒ह्णात्ताव॑तस्सव्ँवत्स॒रान्पि॑तृलो॒कन्न प्र जा॑ना॒दिति
मूलम्
यो॑ऽपगु॒रातै॑ श॒तेन॑ यातया॒द्यो नि॒हन॑त्स॒हस्रे॑ण यातया॒द्यो लोहि॑तङ्क॒रव॒द्याव॑तᳶ प्र॒स्कद्य॑ पाँ॒सून्त्स॑ङ्गृ॒ह्णात्ताव॑तस्सव्ँवत्स॒रान्पि॑तृलो॒कन्न प्र जा॑ना॒दिति
विश्वास-प्रस्तुतिः
यो॑ऽपगु॒रातै॑ श॒तेन॑ यातयात् ।
मूलम्
यो॑ऽपगु॒रातै॑ श॒तेन॑ यातयात् ।
पद-पाठः
यः । अ॒प॒गु॒राता॒ इत्य॑प-गु॒रातै॑ । श॒तेन॑ । या॒त॒या॒त् ।
भट्टभास्कर-टीका
2योऽपगुराता इत्यादि ॥ अपगीरणं ताडनोद्योगः । वाक्पारुष्यमित्येके । ब्राह्मणाय तदपत्याय तत्कर्तारं शतनिष्कदण्डेन दुःखयेत् ।
गुरी उद्यमने तौदादिकः, लेटि अडागमः, ‘वैतोन्यत्र’ इत्यैकारः ।
विश्वास-प्रस्तुतिः
यो नि॒हन॑त्स॒हस्रे॑ण यातयात् ।
यो लोहि॑तङ्क॒रव॒द्याव॑तᳶ प्र॒स्कद्य॑ पाँ॒सून्त्स॑ङ्गृ॒ह्णात् ताव॑तस्सव्ँवत्स॒रान्पि॑तृलो॒कन्न प्र जा॑ना॒दिति॑ ।
मूलम्
यो नि॒हन॑त्स॒हस्रे॑ण यातयात् ।
यो लोहि॑तङ्क॒रव॒द्याव॑तᳶ प्र॒स्कद्य॑ पाँ॒सून्त्स॑ङ्गृ॒ह्णात् ताव॑तस्सव्ँवत्स॒रान्पि॑तृलो॒कन्न प्र जा॑ना॒दिति॑ ।
पद-पाठः
यः । नि॒हन॒दिति॑ नि-हन॑त् । स॒हस्रे॑ण । या॒त॒या॒त् ।
यः । लोहि॑तम् । क॒रव॑त् । याव॑तः । प्र॒स्कद्येति॑ प्र-स्कद्य॑ । पाँ॒सून् । स॒ङ्गृ॒ह्णादिति॑ सम्-गृ॒ह्णात् । ताव॑तः । सव्ँ॒व॒त्स॒रानिति॑ सम्-व॒त्स॒रान् । पि॒तृ॒लो॒कमिति॑ पितृ-लो॒कम् । न । प्रेति॑ । जा॒ना॒त् । इति॑ ।
भट्टभास्कर-टीका
यो निहनत् निहन्यात् ताडयेत् । लेट्यडागमः । गतमन्यत् ।
करवत् कुर्यात् । पूर्ववदडागमः ।
लोहितं शरीरात् प्रस्कद्य निपत्य यावतः पांसून् सङ्गृह्णीयात् तावत्संवत्सर्न्, पितृलोकं न प्रजानीयात् मदपत्ये लोहितस्योत्पादयिता । उभयत्र लेटि `इतश्च लोपः’ इति लोपः ॥
मूलम् (संयुक्तम्)
तस्मा॑द्ब्राह्म॒णाय॒ नाप॑ गुरेत॒ न नि ह॑न्या॒न्न लोहि॑तङ्कुर्यादे॒ताव॑ता॒ हैन॑सा भवति
विश्वास-प्रस्तुतिः
तस्मा॑द्ब्राह्म॒णाय॒ नाप॑ गुरेत ।
न नि ह॑न्यात् ।
न लोहि॑तङ्कुर्यात् ।
ए॒ताव॑ता॒ हैन॑सा भवति ।
मूलम्
तस्मा॑द्ब्राह्म॒णाय॒ नाप॑ गुरेत ।
न नि ह॑न्यात् ।
न लोहि॑तङ्कुर्यात् ।
ए॒ताव॑ता॒ हैन॑सा भवति ।
पद-पाठः
तस्मा॑त् । ब्रा॒ह्म॒णाय॑ । न । अपेति॑ । गु॒रे॒त॒ ।
न । नीति॑ । ह॒न्या॒त् ।
न । लोहि॑तम् । कु॒र्या॒त् ।
ए॒ताव॑ता । ह॒ । एन॑सा । भ॒व॒ति॒ ।
भट्टभास्कर-टीका
3तस्मादित्यादि ॥ गतम् । एतावतेति । एतावताऽनर्थस्य हेतुना पापेन इत्त्थंभूतो भवति ॥
मूलम् (संयुक्तम्)
तच्छय्ँ॒योरा वृ॑णीमह॒ इत्या॑ह य॒ज्ञमे॒व तत्स्व॒गा क॑रोति॒ तत् [58]
शय्ँ॒योरा वृ॑णीमह॒ इत्या॑ह शय्ँ॒युमे॒व बा॑र्हस्प॒त्यम्भा॑ग॒धेये॑न॒ सम॑र्धयति गा॒तुय्ँ य॒ज्ञाय॑ गा॒तुय्ँ य॒ज्ञप॑तय॒ इत्या॑हा॒शिष॑मे॒वैतामा शा॑स्ते
विश्वास-प्रस्तुतिः
तच्छय्ँ॒योरा वृ॑णीमह॒ इत्या॑ह ।
य॒ज्ञमे॒व तत्स्व॒गा क॑रोति ।
तच्छय्ँ॒योरा वृ॑णीमह॒ इत्या॑ह।
शय्ँ॒युमे॒व बा॑र्हस्प॒त्यम्भा॑ग॒धेये॑न॒ सम॑र्धयति ।
गा॒तुय्ँ य॒ज्ञाय॑ , गा॒तुय्ँ य॒ज्ञप॑तय॒ इत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।
मूलम्
तच्छय्ँ॒योरा वृ॑णीमह॒ इत्या॑ह ।
य॒ज्ञमे॒व तत्स्व॒गा क॑रोति ।
तच्छय्ँ॒योरा वृ॑णीमह॒ इत्या॑ह।
शय्ँ॒युमे॒व बा॑र्हस्प॒त्यम्भा॑ग॒धेये॑न॒ सम॑र्धयति ।
गा॒तुय्ँ य॒ज्ञाय॑ , गा॒तुय्ँ य॒ज्ञप॑तय॒ इत्या॑ह ।
आ॒शिष॑मे॒वैतामा शा॑स्ते ।
पद-पाठः
तत् । शय्ँ॒योरिति॑ शम्-योः । एति॑ । वृ॒णी॒म॒हे॒ । इति॑ । आ॒ह॒ ।
य॒ज्ञम् । ए॒व । तत् । स्व॒गेति॑ स्व-गा । क॒रो॒ति॒ ।
तत् । शय्ँ॒योरिति॑ शम्-योः । एति॑ । वृ॒णी॒म॒हे॒ । इति॑ । आ॒ह॒ ।
शय्ँ॒युमिति॑ शम्-युम् । ए॒व । बा॒र्ह॒स्प॒त्यम् । भा॒ग॒धेये॒नेति॑ भाग-धेये॑न । समिति॑ । अ॒र्ध॒य॒ति॒ ।
गा॒तुम् । य॒ज्ञाय॑ । गा॒तुम् । य॒ज्ञप॑तय॒ इति॑ य॒ज्ञ-प॒त॒ये॒ । इति॑ । आ॒ह॒ ।
आ॒शिष॒मित्या॑-शिष॑म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ ।
भट्टभास्कर-टीका
4’तच्छंयोरा वृणीमहे’ इत्यादिसूक्तवाकमन्त्रव्याख्यानं सुबोधनम् । आशिषमिति । प्रतीकग्रहणत्वादस्त्वित्यादि सर्वाऽप्याशीर्गृह्यते ॥
पत्नीसंयाजविधिः
मूलम् (संयुक्तम्)
सोमय्ँ॑यजति॒ रेत॑ ए॒व तद्द॑धाति॒ त्वष्टा॑रय्ँयजति॒ रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ वि क॑रोति दे॒वाना॒म्पत्नी॑र्यजति मिथुन॒त्वाया॒ग्निङ्गृ॒हप॑तिय्ँयजति॒ प्रति॑ष्ठित्यै
विश्वास-प्रस्तुतिः
सोमय्ँ॑यजति ।
रेत॑ ए॒व तद्द॑धाति ।
त्वष्टा॑रय्ँयजति ।
रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ वि क॑रोति ।
दे॒वाना॒म्पत्नी॑र्यजति ।
मिथुन॒त्वाया॒ग्निङ्गृ॒हप॑तिय्ँयजति॒ प्रति॑ष्ठित्यै ।
मूलम्
सोमय्ँ॑यजति ।
रेत॑ ए॒व तद्द॑धाति ।
त्वष्टा॑रय्ँयजति ।
रेत॑ ए॒व हि॒तन्त्वष्टा॑ रू॒पाणि॒ वि क॑रोति ।
दे॒वाना॒म्पत्नी॑र्यजति ।
मिथुन॒त्वाया॒ग्निङ्गृ॒हप॑तिय्ँयजति॒ प्रति॑ष्ठित्यै ।
पद-पाठः
सोम॑म् । य॒ज॒ति॒ ।
रेतः॑ । ए॒व । तत् । द॒धा॒ति॒ ।
त्वष्टा॑रम् । य॒ज॒ति॒ ।
रेतः॑ । ए॒व । हि॒तम् । त्वष्टा॑ । रू॒पाणि॑ । वीति॑ । क॒रो॒ति॒ ।
दे॒वाना॑म् । पत्नीः॑ । य॒ज॒ति॒ ।
मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ । अ॒ग्निम् । गृ॒हप॑ति॒मिति॑ गृ॒ह-प॒ति॒म् । य॒ज॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ।
भट्टभास्कर-टीका
5सोमं यजतीत्यादि ॥ पत्नीसंयाजविधिः ॥
मूलम् (संयुक्तम्)
जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते [59] यदाज्ये॑न प्रया॒जा इ॒ज्यन्त॒ आज्ये॑न पत्नीसय्ँया॒जा ऋच॑म॒नूच्य॑ पत्नीसय्ँया॒जाना॑मृ॒चा य॑ज॒त्यजा॑मित्वा॒याथो॑ मिथुन॒त्वाय॑
विश्वास-प्रस्तुतिः
जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते ।
यदाज्ये॑न प्रया॒जा इ॒ज्यन्ते ।
आज्ये॑न पत्नीसय्ँया॒जा ऋच॑म॒नूच्य॑ पत्नीसय्ँया॒जाना॑मृ॒चा य॑ज॒त्यजा॑मित्वाय ।
अथो॑ मिथुन॒त्वाय॑।
मूलम्
जा॒मि वा ए॒तद्य॒ज्ञस्य॑ क्रियते ।
यदाज्ये॑न प्रया॒जा इ॒ज्यन्ते ।
आज्ये॑न पत्नीसय्ँया॒जा ऋच॑म॒नूच्य॑ पत्नीसय्ँया॒जाना॑मृ॒चा य॑ज॒त्यजा॑मित्वाय ।
अथो॑ मिथुन॒त्वाय॑।
पद-पाठः
जा॒मि । वै । ए॒तत् । य॒ज्ञस्य॑ । क्रि॒य॒ते॒ ।
। यत् । आज्ये॑न । प्र॒या॒जा इति॑ प्र-या॒जाः । इ॒ज्यन्ते॑ ।
आज्ये॑न । प॒त्नी॒सय्ँ॒या॒जा इति॑ पत्नी-सय्ँ॒या॒जाः । ऋच॑म् । अ॒नूच्येत्य॑नु-उच्य॑ । प॒त्नी॒सय्ँ॒या॒जाना॒मिति॑ पत्नी-सय्ँ॒या॒जाना॑म् । ऋ॒चा । य॒ज॒ति॒ ।अजा॑मित्वा॒येत्यजा॑मि-त्वा॒य॒ ।
अथो॒ इति॑ । मि॒थु॒न॒त्वायेति॑ मिथुन-त्वाय॑ ।
भट्टभास्कर-टीका
6जामि वा इत्यादि ॥ याज्यानुवाक्ययोः ऋक्त्वेन वैलक्षण्येन जामित्वाभावः । ‘आ प्यायस्व सं ते’ इत्यादयो याज्यानुवाक्या वेदितव्याः ॥
मूलम् (संयुक्तम्)
प॒ङ्क्तिप्रा॑यणो॒ वै य॒ज्ञᳶ प॒ङ्क्त्यु॑दयन॒ᳶ पञ्च॑ प्रया॒जा इ॑ज्यन्ते च॒त्वारᳶ॑ पत्नीसय्ँया॒जास्स॑मिष्टय॒जुᳶ प॑ञ्च॒मम्प॒ङ्क्तिमे॒वानु॑ प्र॒ यन्ति॑ प॒ङ्क्तिमनूद्य॑न्ति ॥ [60]
विश्वास-प्रस्तुतिः
प॒ङ्क्तिप्रा॑यणो॒ वै य॒ज्ञᳶ प॒ङ्क्त्यु॑दयन॒ᳶ पञ्च॑ प्रया॒जा इ॑ज्यन्ते ।
च॒त्वारᳶ॑ पत्नीसय्ँया॒जास्स॑मिष्टय॒जुᳶ प॑ञ्च॒मम्प॒ङ्क्तिमे॒वानु॑ प्र॒ यन्ति॑, प॒ङ्क्तिमनूद्य॑न्ति ॥
मूलम्
प॒ङ्क्तिप्रा॑यणो॒ वै य॒ज्ञᳶ प॒ङ्क्त्यु॑दयन॒ᳶ पञ्च॑ प्रया॒जा इ॑ज्यन्ते ।
च॒त्वारᳶ॑ पत्नीसय्ँया॒जास् ,स॑मिष्टय॒जुᳶ प॑ञ्च॒मम् प॒ङ्क्तिमे॒वानु॑ प्र॒ यन्ति॑, प॒ङ्क्तिमनूद्य॑न्ति ॥
पद-पाठः
प॒ङ्क्तिप्रा॑यण॒ इति॑ प॒ङ्क्ति-प्रा॒य॒णः॒ । वै । य॒ज्ञः ।
प॒ङ्क्त्यु॑दयन॒ इति॑ प॒ङ्क्ति-उ॒द॒य॒नः॒ ।
पञ्च॑ । प्र॒या॒जा इति॑ प्र-या॒जाः । इ॒ज्य॒न्ते॒ ।
च॒त्वारः॑ । प॒त्नी॒सय्ँ॒या॒जा इति॑ पत्नी-सय्ँ॒या॒जाः ।
स॒मि॒ष्ट॒य॒जुरिति॑ समिष्ट-य॒जुः । प॒ञ्च॒मम् ।
प॒ङ्क्तिम् । ए॒व । अन्विति॑ । प्र॒यन्तीति॑ प्र-यन्ति॑ । प॒ङ्क्तिम् । अनु॑ । उदिति॑ । य॒न्ति॒ ॥
भट्टभास्कर-टीका
7पङ्क्तिप्रायण इत्यादि ॥ समिष्टयजुषो विधिः । प्रायणं प्रारम्भः । उदयनं समाप्तिः । पङ्क्तिपञ्चकं प्रायणीयः उदयनीयश्च द्वयं यस्येति बहुव्रीहिः । प्रायणोदयनहेतुत्वं पङ्क्तेरनुशब्देन द्योत्यते । पङ्क्त्या हेतुना सर्वे ऋत्विग्यजमानाः समीचीनं यज्ञं प्रारभन्ते । समीचीनं समापयन्ति ।
उभय भाजो भवन्तीति । ‘चादिलोपे विभाषा’ इति प्रथमा तिङ्विभक्तिः न निहन्यते । समासगतिनिघातावुक्तौ ॥
इति द्वितीये षष्ठे दशमोनुवाकः ॥
सायण-टीका
अथ समिष्ट-यजुर्-विधिम् अर्थवादेनोन्नयति - “पङ्क्ति-प्रायण इति”। पञ्चाक्षरा पङ्क्तिर् इत्य् अन्यत्र श्रुतत्वाद् अत्र पङ्क्ति-शब्देन पञ्च-संख्या लक्ष्यते। सेयं पङ्क्तिः प्रायणे प्रारम्भे यस्य सो ऽयं पङ्क्ति-प्रायणो यागः। पङ्क्तिर् उदयने समाप्तौ यस्य सो ऽयं पङ्क्त्य्-उदयनः। अत्र दर्श-पूर्णमासेष्टौ प्रारम्भे पञ्च प्रयाजा इज्यन्ते। समाप्तौ पत्नी-संयाजाश् चत्वारः, समिष्ट-यजुः पञ्चमम्। तथा सति पङ्क्तिम् एव प्रारभन्ते पङ्क्तिम् एव संपादयन्ति। तस्मात् समिष्ट-यजुर् जुहुयाद् इति तात्पर्यार्थः। ‘देवा गातु-विदो’ इत्य् अयं मन्त्र इष्टि-संपूर्ति-कारित्वात् समिष्ट-यजुर् इत्य् उच्यते। स च मन्त्र आध्वर्यव-काण्डे समाम्नातो व्याख्यातश् च।